SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Jain Educ श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवाऽवधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ २ ॥ सर्वे वेदान तत्कुर्युः सर्वे यज्ञाश्च भारत ! । सर्वे तीर्थाभिषेकाश्च यत्कुर्यात्प्राणिनां दया ॥ ३ ॥ ध्रुवं प्राणिवधो यज्ञे, नास्ति यज्ञस्त्वहिंसकः । सर्वसत्त्वेष्वहिंसैव, दयायज्ञो युधिष्ठिर ! ॥ ४ ॥" अथ वेदेषु दया नास्ति तर्हि न प्रमाणं वेदाः, नास्तिकधर्मशास्त्रवत् । "जीवो यत्र शिवस्तत्र न भेदः शिवजीवयोः ।" “न हिंस्यात्सर्वभूतानि” इति ॥ न वेदैर्नैव दानैश्च न तपोभिर्न चाध्वरैः । कथंचित्सद्गतिं यान्ति, पुरुषाः प्राणिहिंसकाः ॥ १ ॥ इत्यादिधर्मशास्त्राणि जानद्भिः पठद्भिश्च वेदाः सर्वजीव हिंसामातृपितृगोमेधादियागप्ररूपकाः यैः प्रमाणीक्रियन्ते, तैर्नास्तिकशा* स्त्राणि कस्मान्निराक्रियन्ते ? ॥ अन्धे तमसि मज्जामः, पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति ॥ १ ॥ तथा भोजराजाग्रे सरस्वतीदत्तश्लोकः सर्वदर्शनसंवादेन प्रोक्तः । यथा " श्रोतव्यः सौगतो धर्मः, कर्तव्यः पुनरार्हतः । वैदिको व्यवहर्तव्यो, ध्यातव्यः परमः शिवः ॥ १ ॥” इत्यादि सूरिवचांसि श्रुत्वा द्विजास्तूष्णीं स्थिताः । चमत्कृतश्चित्ते श्रीचौलुक्यः । प्रवर्तितं मनो दयायाम् । अथ भगवन् !यज्ञार्थं पशवः सृष्टाः, स्वयमेव स्वयं भुवा । यज्ञोऽस्य भूत्यै सर्वस्य, तस्माद्यज्ञे वधोऽवधः ॥ १ ॥ औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितं पुनः ॥ २ ॥ इत्यादिवदन्तो द्विजा वेदोक्तहिंसाया धर्मसाधनत्वं प्राहुः, तत्कथम् ? सूरिः, राजन् ! नैतत्सत्यम् । यतः स्कन्दपुरा-णेऽष्टपञ्चाशदध्याये - For Private & Personal Use Only inelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy