SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ या निवेश्याधिकारिभिः॥३॥ ईगुच्चैः पदं नीतः, श्रियाऽहमनया यदि । तदा ममाऽपि युक्तेयं, तन्नेतुं तीर्थरोपणाता ॥४॥ इति ॥ तदनु जीर्णोद्धारं चिकीर्षुः श्रीदेवपादानां पुरतो ब्रह्मैकभक्तभूशयनताम्बूलत्यागाद्यभिग्रहान् जग्राह । तत: हा उत्तीर्य कृतप्रयाणः स्वं स्कन्धावारमुपेत्य तेन प्रत्यर्थिना समरे संजायमाने स्वसैन्ये भग्ने स्वयं संग्रामरसिको वैरिबलं दारयन् रिपुमहारजर्जरितोऽपि मन्त्री वाणेन समरं निहत्य तल्लक्ष्मी सहादाय तत्सुतं तत्र तत्पदे निवेश्य पश्चादलितः।मार्गे वैरिप्रहारवेदनानिमीलितेक्षणो मूर्छितः पपात । पवनायुपचारैः प्राप्तसंज्ञः सकरुणं क्रन्दन् सामन्तैः पृष्टः स्वमनसः शल्य-13 चतुष्टयं प्राह-आम्बडस्य दण्डनायकत्वम् १, श्रीशत्रुञ्जये पाषाणमयप्रासादनिर्मापणम् २, श्रीरैवताचलनवीनपद्यानिर्माप-16 पणम् ३, निर्यामकगुरुं विना मृत्युः ४ इति । ततः सामन्ताः-आद्यत्रयं तवाङ्गजो बाहडदेवः कारयिष्यति । अत्रार्थे वयं प्रतिभुवः। आराधनार्थ साधुमानयाम इत्युक्त्वा कमपि वण्ठं साधुवेषधरं कृत्वाऽग्रे चानीय समागता गुरव इति मन्त्रिणे कथयामासुः॥ मन्त्री-तं गौतममिवानम्य, क्षमयित्वाऽखिलाङ्गिनः । निन्दित्वा दुरितं पुण्यमगण्यमनुमोद्य च ॥१॥ सम्यक्त्वं पुनरुज्ज्वाल्य, तद्दोषोन्मार्जनाजलैः। भावनाभावितः स्वर्गममात्योदयनोऽगमत् ॥२॥ यतः "जिने वसति चेतसि त्रिभुवनैकचिन्तामणौ, कृते त्वनशने विधौ सकललोकबद्धाञ्जलिः। समस्तभवभावनाप्रतिकृतिं समभ्यस्य तां, स चान्त्यसमयः सतां क्वचिदुपैति पुण्येऽहनि ॥१॥" वण्ठस्तु अहो ! मुनिवेषमहिमा, यदहं भिक्षाचरोऽपि सर्वलोकपराभवपात्रं जगद्वन्द्येन मन्त्रिणा वन्दितः, तदयं भावतोऽपि मे शरणमिति निश्चित्य श्रीरैवते पष्टिक्षपणैर्देवभूयं जगाम । तेऽपि सामन्ताः पत्तने श्रीचौलुक्याय वैरिलक्ष्म्यादि। Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy