SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ हिमौघाश्रीसङ्घाश्च । सज्जीकार्यन्ते स्म श्रीसङ्घसत्काराय रत्नसुवर्णपट्टकूलादीनि कर्पूरपूरपूरित सुगन्धगन्धस्थालानि विशालानि । दाप्यन्ते स्म सर्वत्रामारिपटहाः । सिच्यन्ते स्म गन्धोदकैः सकलनगरमार्गाः । वाद्यन्ते स्म विविधातोद्यनिःस्वानानि सर्वत्र । एवं च संप्राप्ते सहने श्रीचौलुक्यभूवासवः कनकपत्रवासः परिधान मुकुटपापक्षयङ्कर हारचन्द्रादित्याभिधकुण्डलाद्यलङ्कारसमलङ्कृतो द्वासप्ततिसामन्तादिसमग्रनागरादिपरिवृतः स्वपट्टगजेन्द्रादुत्तीर्य शालाद्वारमायातः, श्रीमदुदयनमव्यादिश्रीसंघेन मुक्ताप्रवालादिस्थालवर्द्धापितः । धर्मस्थैर्यापादनाय 'इतः समागम्यतां ' इत्यादिबहुमानवचनैः श्रीगुरुभिर्दत्तबहुमानः पूर्वमण्डितद्वासप्तति जिनरल सुवर्णादिप्रतिमाभिरामनन्दौ दत्तप्रदक्षिणात्रयः श्रीजिनवन्दनपूजनादिसकलशुद्धवि. धिपूर्वकं विश्वैश्वर्यमिव सम्यक्त्वमूलं द्वादशविधं श्राद्धधर्म श्रीहेमाचार्यविश्राणितं जग्राह । तदा - धर्मलक्ष्मीं पुरस्कृत्य, वधूं वर इवारुचत् । भ्राम्यन् समवसरणं, पावकं परितो नृपः ॥ १ ॥ चौलुक्ये साधुनिक्षिप्तैः क्षोदैः श्रीखण्डजैस्ततः । अकालेऽपि तदा लेभे, क्रीडा वासन्तिकी जनैः ॥ २ ॥ श्रीसङ्केनाप्यक्षताः क्षिप्ता नृपं प्रति । सूरयोऽपि प्रतिपन्नधर्मस्थिरीकरणाय शिक्षामेवं ददुः । यथा Jain Education International "कोशाद्विश्वपतेर्विकृष्य गुरुणा प्राणावनादिवतस्फूर्जन्मौक्तिकदामविस्तृतगुणं सम्यक्त्वसन्नायकम् । तुभ्यं दत्तमिदं महीधव ! वहन् हृद्यन्वहं जीववत् त्वं सौभाग्यभरेण मुक्तियुक्तेर्भावी प्रियंभावुकः ॥ १ ॥ " अपि च “यद्देवैरपि दुर्लभं च घटते येनोच्चयः श्रेयसां यन्मूलं जिनशासने सुकृतिनां यज्जीवितं शाश्वत । For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy