SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥ १९ ॥ RECRUCRACCROCOCCC तदाऽयमुपलैः सेतुबन्धो व्यरचि वानरः॥ १९ ॥ ससैन्यो राघवोऽनेन समुद्रमुदलवयत् । प्राप्य लङ्कापुरी नीतः पौल-16 प्रवन्धः। स्त्यः प्रेतसद्मनि ॥ २०॥ लङ्काधिपत्ये संस्थाप्य विभीषणमुदारधीः। सीतासमन्वितो रामः स्वां पुरी जग्मिवान् यदा ॥ २१॥ तदाऽहं रक्षको ह्यत्र कृतो रामेण भूभुजा । मा गच्छन्मानवः कोऽपि पथाऽनेनेति हेतुना ॥ २२ ॥ त्वद्रथोऽयं मयाऽस्थापि ततोऽर्जुनयशोऽर्जुन ! । वृथा प्रयास मा कार्कीलङ्कागमनहेतवे ॥ २३ ॥ इत्युक्तिं मारुतेः श्रुत्वा सत्त्वाख्यः प्राह पाण्डवः । सत्यमुक्तं महाभाग ! त्वया कपिकुलोत्तम ! ॥२४॥ परं तथाऽपि गन्तव्यं लङ्कायां स्वर्णहेतवे । ऋषीणां दक्षिणाद्यर्थमध्वरे तद्विलोक्यते ॥ २५ ॥ तवापि सुकृतस्यास्य विभागो भविता कपे!। यतः प्राप्यत पुण्यांशः कृतानुमतिकारितैः ॥ २६ ॥ यतः"कर्तुः स्वयं कारयितुः परेण, तुष्टेन चित्तेन तथाऽनुमन्तुः। साहाय्य कर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति॥१॥" | महासत्त्वैः समारब्धं कार्य केन विहन्यते ? । येन केनाप्युपायेन तत्सिद्धिं नेयमेव तैः ॥ २७ ॥ अनेन वचसा क्रुद्धस्तदाह पवनात्मजः। अहो! पाण्डवकोटीर! गर्वस्ते खर्वसंस्थितिः॥ २८ ॥ श्रीरामोऽनेन मार्गेण गतो नाप्यपरो नरः। गच्छ त्वमन्यमार्गेण शक्नोषि यदि पाण्डव! ॥२९॥ प्राहार्जुनः प्रयास्यामि त्वं मार्गस्यास्य रक्षकः । क्षेत्रपो हि निज क्षेत्रं पाति नो सकलं जगत् ॥ ३०॥ ततोऽर्जुनेन कोदण्डं कुण्डलीकृत्य मार्गणैः । सेतुबन्धो नवश्चके वज्रपद्या विजित्वरः ॥ ३१ ॥ पावनिर्मानिनां मान्यस्तं सेतुं वीक्ष्य विस्मितः। पश्यामि दृढतामस्येत्यवोचत् पाण्डवं प्रति ॥ ३२॥ विलोकयेत्यनुज्ञातः साक्षादिन्द्रभुवा ततः। सप्ततालप्रमं रूपं चक्रे वक्रमनाः कपिः॥ ३३ ॥ सेतोरुपरि वेगेन पपातोड्डीय en Education tema For Private Personal use only
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy