SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ पत्तनं प्राप्ताः । सर्व शारदोक्तं राज्ञे विज्ञपयामासुः । तदाकर्ण्य चमत्कार, धारयन् वसुधाधिपः । उवाच धन्यो सद्देशो-ऽहं च यत्रेदृशः कृती ॥१॥ व्याकरणप्रतयश्च श्रीसूरिभ्यः समर्पिताः । तथा बहुदेशेभ्योऽष्टादशव्याकरणानि समानीयार्पितानि गुरुभ्यः । तैरपि सर्वव्याकरणान्यवगाह्य सारं च समादाय वर्षेण पञ्चाङ्गं नवीनं सपादलक्षमितं श्रीसिद्धहेमचन्द्राभिधानं निर्माय श्रीराजवाह्यकुम्भिकुम्भे पुस्तकमधिरोप्य सितातपवारणे ध्रियमाणे चामरैवींज्यमानं नृपसभायां समानीय समग्रविद्वत्समक्षं वाचयित्वा राज्ञा कृतपूजोपचारं स्वसरस्वतीकोशे स्थापितम् । अत्रान्तरे श्रीहेमसूरेमहिमानमसहिष्णुभिाह्मणैर्नृपो विज्ञप्तः, हे सिद्धराज!व्याकरणमिदं शुद्धाशुद्धत्वपरीक्षां विना कृतं न राज्ञः सरस्वतीकोशे स्थापितुं युक्तम् । शुद्धादिपरीक्षा तदा स्याद्यदा काश्मीरदेशे चन्द्रकान्तश्रीब्राह्मीमूर्तेः पुरः स्थितजलकुण्डे क्षिप्यते। कुण्डाच्च यद्यक्लिन्नो निर्गच्छति पुस्तकस्तदा ज्ञायते शुद्धोऽयम् । इति विप्रैर्विप्रतारितःसंशयाकुलः प्रधानान् विदुषश्च व्याकरणपुस्तकं दत्वा काश्मीरदेशे प्रहितवान् । तेच तत्र गत्वा तत्रत्यनृपविद्वत्समक्षं सरस्वतीकुण्डमध्ये मुक्तः घटिकाद्वयम् । श्रीशारदानुभावात् कलिकालसर्वज्ञहेमसूरिप्रणीतत्वेन च परमशुद्धिमत्वाद् यथास्थितोऽक्लिन्न एव निर्गतः लोके महाविस्मयश्च । ततस्तत्रत्यनृपसत्कृताः प्रधानाः पश्चादाययुः । राज्ञोऽग्रे जलमध्यपुस्तकप्रक्षेपादिवृत्तान्तः सर्वोऽप्यकथि । ततो राज्ञा विस्मितहृष्टहृदयेन लेखकशतत्रयं मेलयित्वा वर्षत्रयं यावत् श्रीहेमचन्द्रव्याकरणप्रतयो लेखिताः, अष्टादशदेशेषु च सर्वाध्येतृणां भणनभाणनाय प्रहिताश्च । ततो राजाज्ञया सर्वः ६ कोऽपि पठति पाठयति च । Join Education International For Private Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy