SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ योग्या च कारिता तलहट्टिका । वापीकूपसरोमुख्यं शेष देवेन निर्मितम् ॥ १२॥ ... ईश्वरोऽप्युवाच- "चित्रकूटमिदं भद्रे !, पृथिव्यामकलोचनम् । द्वितीयलोचनस्यार्थे, तपस्तपति मेदिनी ॥१॥" | एकदा कन्यकुब्जेशः शम्भलीशनृपो जनपरम्परया स्वर्णपूरुषकथां श्रुत्वा सैन्यैरमितैश्चित्रकूटं वेष्टितवान् । अतिविषमत्वेन ग्रहीतुं न शक्नोति । तत्र स्थितस्य षोडशवर्षाणि चित्रकूटोपरिस्था लोका देवा इव बाधाभयरहिताः सुखेन कालं गमयन्ति स्म । शम्भलीशेन दुर्गस्वरूपजिज्ञासया चरा मध्ये प्रहिताः । ते च भ्रामं भ्रामं लोकसुखितां विलोक्य सुमतिमन्त्रिगृहगवाक्षाऽधोव्यवस्थिताः शृण्वन्ति स्म गवाक्षोपरिस्थमन्त्रितत्सुतासंवादम् । पुत्री पितरमाह, हे तात ! एते वाणिज्यकाराः कस्मादत्र स्थिताः सन्ति ? । मन्त्र्याह, नैते वाणिजाः, किंतु शम्भलीशनृपस्त्वजन्मन्यत्रायातो दुर्ग गृहीतुम् । त्वं षोडशवर्षा जाता परिणीता पुत्रवती च, नृपोऽयमत्रैव स्थितोऽस्तीति श्रुत्वा चरै राज्ञे निवेदितम् । अन्येद्यश्चित्राङ्गदनृपमान्यपात्रवर्बरिकावेश्यया काव्यं प्रहितम् । यथा "आरोहत्यचलेश्वरं किमु शिशुः? पोतोज्झितः किं तरत्यम्भोधि? किमु कातरः सरभसं संग्राममाकामति । शक्येष्वेव तनोति वस्तुषु जनः प्रायः स्वकीयश्रम, तदुर्गग्रहणाग्रहपहिलतां त्वं शम्भलीश! त्यज ॥१॥" राजा श्रुत्वा खेदमेदुरोऽभवत् । क्रमेण धनैर्वेश्या भेदिता । तया ग्रहणोपायोऽर्पितः। अयं चित्राङ्गदनृपो भोजनावसरे सर्वाणि प्रतोलीद्वाराण्युद्धाव्य भुते । तत्र क्षणे चेन्नगरं गृह्यते तदा गृहीतुं पार्यते, नो चेत्कल्पान्तेऽपि शक्रेणापि नेति यया पुत्रवती च, ना, नेते वाणिजातत्सुतासंवाद Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy