SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रबन्धः । ॥३०॥ SASSASSISK कृष्णचतुर्दश्यां रात्रौ चित्रनगोपरि मम मन्त्रः सिद्ध्यति, यदि त्वमुत्तरसाधको भवसि । ततो राज्ञा ॐ इत्युक्ते तस्मिन् है दिने राजानमनुमन्त्र्यपि तत्र जगाम । __नृपोऽथ चित्रशैलाग्रमारूढो वीक्ष्य योगिनम् । व्याघ्र च होमसामग्री ततोऽजल्पत् करोमि किम् ॥१॥ | अत्रान्तरे मन्त्री नृपमुवाच, देव ! अयं त्वां हि होमित्वा स्वर्णपौरुष सिसाधिपुर्लक्ष्यते, तेन स्वयत्नपरैर्भाव्यमिति । अथ योगिना वह्निकुण्डे प्रज्वालिते जापे कृते उक्तश्च राजा त्वं देव ! प्रतिपन्नैकवत्सल !। तदस्य वह्निकुण्डस्य देहि प्रदक्षिणात्रयम् ॥१॥राजा सशङ्कस्तं प्राह त्वं योगिन्नग्रतो भव । ततो योगी तथाकुर्वन्न छलं प्राप भूपतेः ॥२॥ अथ व्यावृत्य सहसा नृपं यावज्जुहोति सः। तावनरेन्द्रमन्त्रिभ्यां स एवाग्नौ हुतो हठात् ॥ ३ ॥ व्याघ्रोऽप्यनुप्रविष्टस्तं संजातः स्वर्णपौरुषः । संपूज्य तं गृहीत्वा च राजाऽगानिजमन्दिरम् ॥४॥ यच्छन् यथेच्छं द्रविणं ख्याति स प्राप सर्वतः । ततः स्वऋद्धिरक्षार्थमादिदेशेति मन्त्रिणम् ॥५॥ यथा चित्रगिरेः पार्श्वे कूटशैलोऽस्ति दुर्गमः। तस्योपरि महादुर्ग कारयाभङ्गुरोद्यमः॥६॥ मन्त्रिणा च तथाऽऽरब्धे यावच्चेचीयते दिवा । तावत्पतति रात्रौ च षण्मासा इति जज्ञिरे॥७॥ तथाऽप्यभङ्गुरोत्साहं नृपं कूटाचलाधिपः । उवाच मा कृथा दुर्गमत्र कर्तुं न कोऽप्यलम् ॥ ८॥ प्राणात्ययेऽपि कर्तास्मि नृपेणोक्ते सुरोऽब्रवीत् । यद्येवं निश्चयस्तर्हि कुरु चित्रनगोपरि ॥९॥ दुर्गस्य नाममध्ये तु देयं मन्नाम भूपते ! । तत्र चित्राङ्गदश्चक्रे दुर्ग चित्रनगोपरि ॥१०॥ नगरं चित्रकूटाख्यं देवेन तदधिष्ठितम् । कोटीध्वजानां तन्मध्ये सहस्राणि चतुर्दशः ॥११॥ लक्षेश्वराणां accorg ॥३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy