SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ शृण्वन्ति रक्षणविधौ च समाद्रियन्ते, ते मर्त्यदेवशिवशर्म नरा लभन्ते ॥१॥ न ते नरा दुर्गतिमामुवन्ति, न मूकतां नैव जडस्वभावम् । नैवान्धतां बुद्धिविहीनतां च, ये लेखयन्त्यागमपुस्तकानि ॥२॥ लेखयन्ति नरा धन्याः, ये जिनागमपुस्तकम् । ते सर्व वाङ्मयं ज्ञात्वा, सिद्धिं यान्ति न संशयः॥३॥" जिनागमपाठकानां भक्तिपूर्वकं सम्माननं च । यतः“पठति पाठयते पठतामसौ, वसनभोजनपुस्तकवस्तुभिः। प्रतिदिनं कुरुते य उपग्रह, स इह सर्वविदेव भवेन्नरः॥१॥" लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानार्थं दानम् , व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणं चेति जिनागमक्षेत्रे धनवपनम् । तथा “यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते, यं तीर्थ कथयन्ति पावनतया येनास्ति नान्यः समः। यस्मै तीर्थपतिनमस्यति सतां यस्माच्छुभं जायते, स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्मिन् स सोऽय॑ताम् ॥१॥" इति चतुर्विधश्रीसङ्घ साधुसाध्वीश्रावकश्राविकारूपे सर्वशक्त्या स्वर्णरत्नाभरणपट्टकुलान्नपानादिप्रदानैः स्वधनवपनमिति । तथा "व्रतादिधर्मः सर्वोऽपि, पालितः शुद्धभावतः। स्वस्यैव भवपाथोधेस्तारकः खलु कीर्तितः॥१॥ सप्तक्षेत्रीधनारोपसंभवस्तुविशेषतः। स्वान्ययोमुक्तिदः शश्वन्महाश्राद्धत्वदायकः ॥२॥" इत्यादिश्रीगुरूपदेशामृतरसोजीवितप्रभावनाधर्ममनोरथसुरभूरुहः स्वलक्ष्मी कृतार्थीचिकीर्षुर्महाश्रावकपदमधिरोदं चै CONOCORROROSALMANORA Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy