SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ कुमारपालादत्मानं, त्यक्त्वा सर्व स्वतः परम् । स्वात्मावबोधसंभूतज्योतिषेति व्यभावयन् ॥२॥ यथा Gाप्रवन्धः। आत्मन् ! देवस्त्वमेव त्रिभुवनभवनोद्योतिदीपस्त्वमेव, ब्रह्मज्योतिस्त्वमेवाखिलविषयसमुज्जीवनायुस्त्वमेव । ॥११४॥ 18| कर्ता भोक्ता त्वमेव ब्रजसि जगति च स्थाणुरूपस्त्वमेव, स्वस्मिन् ज्ञात्वा स्वरूपं किमु तदिह बहिर्भावमाविष्करोषि॥१॥ इति संचिन्त्य चरमोच्छाससमये दशमद्वारेण प्राणोत्क्रान्तिमकार्षः ॥ संवत् ११४५ कार्तिकपूर्णिमानिशि जन्म श्रीहे. मसूरीणां, संवत् ११५४ दीक्षा, संवत् ११६६ सूरिपदम् , संवत् १२२९ स्वर्गः। तदनन्तरं प्रभोर्वपुषश्चन्दनागरुकर्पूरादिभिः कृते संस्कारे तद्भस्म पवित्रमिति कृत्वा राज्ञा तिलकमिषेण नमश्चक्रे ततः समस्तसामन्तैस्तदनु नगरलोकैश्च तत्रत्यमृत्स्नायां गृह्यमाणायां "हेमखड्ड” इति प्रसिद्धा सा पत्तनेऽस्ति ॥ राजा लुठति पादाग्रे, जिह्वाग्रे च सरस्वती । श्रियेऽस्तु शश्वत् स श्रीमान् , हेमसूरिनवः शिवः ॥१॥ कति न व्रतिनः पुराऽभवन, भवनोद्भावभानुभानवः। अभयामृततर्पिताङ्गभृन्न पुनः कश्चन हेमसूरिवत् ॥ २॥ प्राणित्राणे व्यसनिनां, शान्तिसुव्रतनेमिनाम् । हेमाचार्योऽत्र चातुर्ये, तुर्यः किं तुर्यदुर्युगे॥३॥ अथ राजा श्रीगुरुविरहेणास्तोकशोकाश्रुजलाविललोचनः श्मशाननिभा राजसभां मन्यमानस्तत्र नायाति । दुर्गतिचिह्नान्यतानीति राजचिह्नानि न धारयति । संसारकारीति राजव्यापार न करोति । भोगांश्च रोगानिव मन्यते। लास्यहास्यादि-3॥११४॥ विमुखः सकलकलाकुशलैरनेकधा विनोद्यमानोऽपि न क्वापि रतिमाप । अन्यदा सान्ध्यविधिकृते सन्ध्यासमयमावेदयितुं केनापि विदुषाऽपाठि AASARAKASS Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy