SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ॥ २५ ॥ तत उम्बराग्रामवास्तव्यदेवसिंहसुतां देवश्रीनाम्नीं तां स्वोपकारिणीं ज्ञात्वा मम राज्योत्सवे त्वया भग्नि ! तिलकः कार्य इत्युदीर्य दधिस्थलीं गतः । तत्र पूर्वागतराड्भटसंकेतेन सैन्यैर्वेष्टितायां दधिस्थल्यां कुमारो नंष्ट्वा सज्जनकुलालकृते|ष्टिकापाकमध्ये स्थितः । सज्जनोऽपि तदन्तिके स्थितः सर्वत इष्टिकाव्रातैर्वेष्टयति । कुमारो निरुच्छ्रासो जीवन् मृत इव स्थितः । सैन्यं सर्वत्र विलोक्य पश्चाद्गतम् । रात्रौ वोसिरिविप्रः पूर्वमित्रं मिलितः, सज्जनगृहे वोसिरिं सज्जनं च प्राह कुमारः केचिन्नाम्ना गुणैः केचिद्भूयांसः सन्ति सज्जनाः । द्विधा पुनस्त्वमेवैकः, सज्जनोऽस्यधुना ननु ॥ १ ॥ अद्यापि जयसिंहदेवः प्रतिकूलदैववन्नानुकूलः, तद् भोः सज्जन ! मत्कुटुम्बमितोऽवन्तीं नय । अहं तु वोसिरिणा | देशान्तरं श्रये इति मन्त्रयतां तेषां सज्जनपितरौ रात्रिजागरोद्विग्नौ प्रोचतुः, रे सज्जन ! किमयं तव चित्रकूटपट्टिकां, रे वोसिरे ! तुभ्यं लाटदेशं च दास्यति ? यदुत मुधा जागर्यया रात्रिं नयत इति श्रुत्वा कुमारः शकुनग्रन्थिं वा चिन्तितवान्दारिद्र्यमेव दौर्भाग्यं देहिनां यदधिष्ठितः । जल्पन्नपि जनोऽन्येषां भवत्यरिरिवाप्रियः ॥ १ ॥ गुणज्ञोऽपि कृतज्ञोऽपि, कुलीनोऽपि महानपि । प्रियंवदोऽपि दक्षोऽपि, लोकंप्रीणो न निर्धनः ॥ २ ॥ ततः सज्जनेन सह कुटुम्बमवन्तीं प्रेष्य स्वयं वेषान्तरेण देशान्तरेऽगमत् । क्वापि ग्रामे प्रथमदिनजातलङ्घनो द्वितीयदिने क्षुधितो वोसिरिं प्राह, अद्य भोजनोपायश्चिन्त्यताम् । द्विजोऽप्याह, अद्य जननी भोजनदात्री । कुमारः, का जननी ? । वोसिरिः प्रतिदिन मयललभ्ये ! भिक्षुकजनजननि ! साधुकल्पलते ! । नृपनमनि ! नरकतारणि!, भगवति ! भिक्षे ! नमस्तुभ्यम् ॥१॥ Jain Education International For Private & Personal Use Only प्रबन्धः । ॥ २५ ॥ www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy