SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ GO प्रवन्धः । ॥११३॥ कुमारपाल वात्सल्यत्रिर्जिना द्विरावश्यकपर्वदिनपौषधादानशासनप्रभावनादीनोद्धारसत्रागारपरोपकारादिपुण्यान्यनेकधा कृतानि ॥ ___ कुमारपालभूपस्य, किमेकं वर्ण्यते क्षितौ । जिनेन्द्रधर्ममासाद्य, यो जगत्तन्मयं व्यधात् ॥१॥ अत्रान्तरे च नियूंढराजव्यापारी विहितानेकनवीनप्रासादजीर्णोद्धारपरोपकारदीनोद्धारादिपुण्यकृत्यौ श्रीजिनशासनप्रभावको मन्त्रिबाहडदेवाम्बडौ स्वर्जग्मतुः । अत्र चार्थिसार्थप्रार्थनाकल्पवृक्षं मन्त्र्याम्बडदेवं प्रति कविवाक्यम् वरं भट्टैर्भाव्यं वरमपि च खिङ्गैर्धनकृते, वरं वेश्याचार्यैवरमपि महाकूटनिपुणैः। दिवं याते दैवादुदयनसुते दानजलधौ, न विद्वद्भिर्भाव्यं कथमपि बुधैर्भूमिवलये ॥१॥ | अथैवं काले कवलितानेकपुरुषरले श्रीकुमारपालभूपालः श्रीहेमसूरिश्च कृतकृत्यौ महसा तपसा वयसा च वृद्धौ जातो, परं हेमसूरिंगच्छे विरोधः। रामचन्द्रगुणचन्द्रवृन्दमेकतः, एकतो बालचन्द्रः। तस्य च राजभ्रातृव्याजयपालेन सह मैत्री॥ | अथ वार्धक्यमालोक्य चौलुक्यपृथिवीपतिः । स्थित्वानुरहसं रात्रौ, गुरुं प्रत्येवमूचिवान् ॥१॥ सत्यपि त्वादृशे सर्वविद्याम्भोधौ गुरौ मम । फलं गार्हस्थ्यधमस्य, नाभाग्यैस्तनयोऽजनि ॥२॥ दिने दिने जरा चैषा, जनयन्ती कृशा ताम् । ओजायते समं राज्यलक्ष्मीदानाहचिन्तया ॥ ३ ॥ ददाम्यजयपालाय, स्वराज्यं भ्रातृसूनवे । उत प्रतापमल्लाय, *दौहित्राय निवेद्यताम् ॥ ४ ॥ ततो विमृश्य सूरिभिरभाणि, राजन् ! भ्रातृव्यो न योग्यो दुराशयत्वात्सत्सङ्गरहितत्वा-2 दधर्मनिष्ठत्वादिकारणैर्न बहुराजवर्गीयप्रजासंमतः । भ्रातृव्यात्तु त्वत्कारितधर्मस्थानक्षयः कियानस्ति । प्रतापमल्लः प्रजाटू। प्रियन्यायधर्मनिष्ठत्वादिगुणैर्योग्यः । यदुक्तम् OGMOCRACSROCRACK ११३॥ Jain Educationa l For Private & Personal Use Only www.lainbrary
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy