SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ क्रमेण पूर्णे दोहदे सुतो जातः । कुमार इव तेजस्वी क्षितिं पालयिष्यतीति पितृभ्यां कुमारपाल इति नाम कृतम् । क्रमेण शस्त्रशास्त्रपारीणः । क्रमेण च महीपालकीर्तिपालौ सुतावपरौ जातौ । सुता प्रेमलदेवी श्रीजयसिंहदेवतुरङ्गमाध्यक्षेण कृष्णदेवेन परिणीता । द्वितीया देवलदेवी शाकम्भरीपुरीशाणोराजेन परिणीता । श्रीकुमारपालोऽपि पितृभ्यां भोप-15 लदेवीं राजकन्यां विवाहितः। ____ एवं कुमारपालादिपुत्रैर्धाजिष्णुवैभवः । त्रिभिस्त्रिभुवनपालभूपस्त्रिभुवनेऽभवत् ॥ १॥ एकदा श्रीजयसिंहनृपसेवायै श्रीकुमारपालः पत्तने गतः। तत्र भूपसदसि सिंहासनोपविष्टा राज्ञोऽग्रे श्रीहेमाचार्या दृष्टाः। एते कलाब्धयो राज्ञो मान्या जैना मुनीश्वराः। एषां दर्शनतो नूनं पुण्यराशिः समुल्लसेत् ॥ १॥ चेतसीति विचित्यागात् पौषधागारमेकदा । गुणगोष्ठ्या प्रवृत्तायां तत्राचार्यान् स पृष्टवान् ॥ २॥ गुणेषु को गुणः पुंसामग्रणीः सक-18 लेष्विह । वाचं वाचंयमाधीशस्तत एवं तमूचिवान् ॥ ३॥ सत्त्वमेकमहं मन्ये गुणेषु निखिलेष्वपि । परदारसहोदर्यावर्जितं सार्वभौमति ॥ ४॥ यतः "सत्त्वं सर्वगुणौघमस्तकमणिः सत्त्वं जयश्रीप्रदं, सत्त्वं सर्वपदार्थसिद्धिविधये लोकोत्तरा कामधुक् । द्वात्रिंशद्वरलक्षणाधिकमिदं ख्यातं च सल्लक्षणं, सत्त्वं सत्त्ववति प्रतिष्ठिततमा सर्वा पुमर्थस्थितिः॥१॥" यद्वा"प्रयातु लक्ष्मीश्चपलस्वभावा, गुणा विवेकप्रमुखाः प्रयान्तु ।प्राणाश्च गच्छन्तु कृतप्रयाणा,मायातु सत्त्वं तु नृणां कदाचित्॥१॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy