SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ कुमारपाल न्यस्य वा हेतवे यः कोऽपि जीवान् मृगच्छागादीन् हन्ता स राजद्रोहीति पत्तने पटहं दापयित्वा जीवदयां कारितवान् । प्रबन्धः। व्याधशौनिककैवर्तकल्पपालादिपट्टकाः पाटिताः। मुक्तानि तद्रव्याणि पापमूलानीति कृत्वा । शौनिकादीनामपि निष्पाप वृत्त्या निर्वाहं कारयन् दयामयत्वं व्यधात् । शक्त्या बहुमानादिना च सर्वत्र मनुष्यास्तिर्यश्चोऽपि गलितमेव पयः पाय-18 टोनीयाः, इत्याज्ञया जलाश्रये जलाश्रये मुक्ताः स्वपुरुषाः ॥ ___ "त्रैलोक्यमखिलं दत्वा, यत्पुण्यं वेदपारगे । ततः कोटिगुणं पुण्यं, वस्त्रपूतेन वारिणा ॥ १॥ ग्रामाणां सप्तके दग्धे, यत्पापं जायते किल । तत्पापं जायते राजन् !, नीरस्यागलिते घटे ॥२॥ संवत्सरेण यत्पापं, कैवतस्येह जायते । एकाहेन तदाप्नोति, अपूतजलसंग्रही ॥ ३ ॥ यः कुर्यात्सर्वकार्याणि, वस्त्रपूतेन वारिणा । स मुनिः स महासाधुः, स योगी | स महाव्रती ॥ ४॥ नियन्ते मिष्टतोयेन, पूतराः क्षारसंभवाः । क्षारतोयेन तु परे, न कुर्यात्संकरं ततः ॥५॥" इति श्लोकपत्रिका हस्ताः स्वाप्तजनाः स्वदेशे स्वबशापरमहीशदेशेषु च प्रहिता जीवदयादिनिमित्तम् ॥ तथा"पत्रिंशदङ्गलायाम, विंशत्यङ्गुलविस्तृतम् । दृढं गलनकं कार्य, भूयो जीवान् विशोधयेत् ॥१॥” सांख्यशास्त्रे "त्रिंशदङ्गुलमानं तु, विंशत्यङ्गुलमायतम् । तद्वस्त्रं द्विगुणीकृत्य, गालयित्वोदकं पिबेत् ॥१॥ तस्मिन् वस्त्रे स्थितान् जन्तून, स्थापयेजलमध्यतः । एवं कृत्वा पिवेत्तोयं, स याति परमां गतिम् ॥२॥" इति लिङ्गपुराणोक्तविधिना राज्ञो गृहे एकादशशतहस्त्येकादशलक्षतुरङ्गाऽशीतिसहस्रगवादयो गलितजलं पाय्यन्ते स्म । राजाज्ञया च सर्वत्र स्थाने स्थाने देशे देशे पुरे पुरे ग्रामे ग्रामे चामारिपटहा न्यायघण्टाः श्रीचौलुक्येन राजसिंह-14 Jan Education Intema For Private Personel Use Only
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy