________________
जिनभवननिर्मापणविधिरेवम्-शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठादिदलस्य ग्रहणेन सूत्रकारादिभृतकानति४ संधानेन भृत्यानामधिकमूल्यवितरणेन षड्जीवनिकायरक्षायतनापूर्व जिनभवनविधापनम् । विशेषतः सति विभवे भर
तादिवद्रत्नशिलादिभिर्वद्धचामीकरकुट्टिमस्य मणिमयस्तम्भसोपानस्य रत्नमयतोरणशतालङ्कृतस्य विशालशालावलानकस्य शालिभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमानकर्पूरकस्तूरिकाऽगुरुप्रभृतिधूपसमुच्छलद्भूमपटलजातजलदशङ्कानृत्यत्कलकण्ठकुलकोलाहलस्य चतुर्विधातोद्यनान्दीनिनादनादितरोदसीकस्य देवाङ्गप्रभृतिविचित्रवस्त्रोल्लोचखचितमुक्तावचूलालङ्कृतस्य विचित्रचित्रीयितसकललोकस्य चामरध्वजच्छत्राद्यलङ्कारविभूषितस्य मूर्द्धारोपितविजयवैजयन्तीनिवद्धकिङ्किणीरणकारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुरकिन्नरीनिवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बरमहिनो निरन्तरतालारसहल्लीसकप्रमुखप्रबन्धनानाभिनयनव्यग्रकुलाङ्गनाचमत्कारितभव्यलोकस्याभिनीयमाननाटककोटिरसाक्षिप्तरसिकजनस्य जिनभवनस्योत्तुङ्गगिरिशृङ्गेषु जिनानां जन्मदीक्षाज्ञाननिर्वाणस्थानेषु सम्प्रतिराजवच्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनम् । अथ प्रचुरतरविभवविनियोगाऽयोगे स्ववित्तानुसारेणापि जिनभवनं कारयितव्यमेव । यतः
"पढम चिय जिणभवणं, नियदबनिओयणेण काय । जम्हा तं मूलाओ, सुहकिरियाओ पवत्तंति ॥१॥ जिणबिम्बपइटाओ, सुसाहुजिणधम्मदेसणाओ य । कल्लाणगाइअट्टाहियाओ निच्चं च पूयाओ ॥२॥ एयं संसारोदहिमज्झनिबुडाण तारणतरई । जं दसणस्स सुद्धी, एएण विणा न संभवइ ॥३॥ तेसिं अन्नेसि चिय, जीवाणं विरमणं च पावाओ। पाणवहाईयाओ, संजायइ तत्थ परिसुद्धं ॥४॥"
Jain Education International
For Private
Personel Use Only
www.jainelibrary.org