SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । कुमारपाल ॥९९॥ ऋषिहत्यादिभिः पापैर्भवकोटिकृतैरपि । मुच्यते दर्शनादस्य, स्पर्शनातु किमुच्यते ॥ १६ ॥ नमस्कारसमो मन्त्रः, शत्रुअयसमो गिरिः । गजेन्द्रपदजं नीरं, निर्द्वन्द्वं भुवनत्रये ॥ १७ ॥ कृत्वा पापसहस्राणि, हत्वा जन्तुशतानि च । इदं तीर्थं समासाद्य, तिर्यञ्चोऽपि दिवंगताः ॥ १८ ॥ स्पृष्ट्वा शत्रुञ्जयं तीर्थ, नत्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते ॥ १९ ॥ यो दृष्टो दुरितं हन्ति, प्रणतो दुर्गतिद्वयम् । सङ्घशार्हन्त्यपदकृत् , स जीयाद्धिमलाचलः ॥२०॥ पल्योपमसहस्रं तु, ध्यानालक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे, सागरोपमसंमितम् ॥ २१ ॥ शत्रुञ्जये जिने दृष्टे, दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं तु, पूजास्नात्रविधानतः ॥ २२ ॥ एकभुक्तो भूमिशायी, ब्रह्मचारी वशेन्द्रियः। सम्यगदर्शनसंयुक्तः, षडावश्यककारकः ॥२३॥ त्रिकालं देवपूजायां, रक्तः सत्यं प्रियं वदन् । कूटक्रियां कषायांश्च, वर्जयन् शमशीतलः ॥ २४ ॥ एतत्तीर्थस्य यो यात्रां, करोति कृतिपुङ्गवः । त्रैलोक्यगततीर्थानां, स प्राप्नोति न संशयः ॥ २५ ॥ इहास्यामवसर्पिण्यां प्रथमं प्रथमसङ्घपतिना श्रीभरतचक्रिणा सर्वरत्नसुवर्णमयस्त्रैलोक्यविभ्रमनाम्ना चतुरशीतिमण्डपालङ्कृतः प्रासादः कारितः । श्रीयुगादीशस्य प्रतिमाः सुवर्णरत्नमय्यः क्रमेणासंख्याता उद्धाराः प्रतिमाश्चात्र जज्ञिरे । असंख्याताः कोटाकोट्यश्च सिद्धाः। श्रीऋषभसन्ताने भरतेश्वरराज्ये आदित्ययशो महायशोऽतिवलाद्यास्त्रिखण्डभोक्तारः श्रीभरतवत्सद्धपतीभूय संप्राप्तकेवला बहुतरेक्ष्वाकुराजकुमारपरिवृताः श्रीशत्रुञ्जये सिद्धाः, पञ्चाशत्कोटिलक्षसागराणि यावत् सर्वार्थसिद्धयन्तरितचतुर्दशलक्षादिश्रेणिभिरसंख्याताभिरत्र मुक्तिं गताः । किं बहुना-अन्यत्र | वर्षकोट्या यत्तपोदानदयादिभिः । प्राणी बध्नाति सत्कर्म, मुहूर्तादिह तद्रुवम् ॥ २६ ॥ नास्त्यतः परमं तीर्थ, श्रीचौ ||९९॥ Jain Education alone For Private Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy