SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ CALCUCCESCARSAGARLS पुष्पदन्तो १६ महापद्मः १७, पृथ्वीपीठं १८ प्रभापदम् १९। पातालमूलः २० कैलाशः२१, क्षितिमण्डलमण्डनम्॥३॥ शतमष्टोत्तरं नाम्नामित्याद्युक्तममुष्य हि । महाकल्पे विजानीयात् , सुधर्मोक्तेऽतिशर्मदम् ॥४॥" अशीति योजनान्याये, विस्तृतोऽयमरे ! पुनः। द्वितीये सप्तति तानि, तृतीये षष्टिमद्रिराट् ॥१॥ तुर्ये पञ्चाशतं तानि, | पञ्चमे द्वादशाऽपि च । सप्तरत्नी तथा षष्ठे, प्रभावोऽस्य पुनर्महान् ॥२॥ हानिर्यथाऽवसर्पिण्यामुत्सर्पिण्यां तथोदयः। मानस्यैतस्य तीर्थस्य, महिम्नो न कदापि हि ॥३॥ पञ्चाशतं योजनानि, मूलेऽस्य दश चोपरि । विस्तार उच्छ्रयस्त्वष्टी, युगादीशे तपत्यभूत् ॥ ४॥ अन्यतीर्थेषु यद्यात्रासहस्रैः पुण्यमाप्यते । तदेकयात्रया पुण्य, शत्रुञ्जयगिरौ भवेत् ॥५॥ सद्रव्यं सत्कुले जन्म, सिद्धिक्षेत्रं समाधयः । सङ्घश्चतुर्विधो लोके, सकाराः पञ्च दुर्लभाः॥६॥ जिना अनन्ता अत्रैयुः, सिद्धाश्चात्रैच वासव!। अनन्ता मुनयश्चापि, तेन तीर्थमिदं महत् ॥७॥ अज्ञानाद्यत्कृतं पापं, यौवने वार्द्धकेऽपि वा। तत्सर्वं विलयं याति, सिद्धाद्रेः स्पर्शनादपि ॥८॥ अन्यत्रापि कृतं पुण्यं, नृणां बहुफलं भवेत् । अत्रानन्तगुणं तच्च, भवेत्क्षेत्रानुभावतः॥९॥ नन्दीश्वरे तु यत्पुण्यं, द्विगुणं कुण्डले नगे। त्रिगुणं रुचके हस्तिदन्तेषु च चतुर्गुणम् ॥१०॥ | एतद्विगुणितं जम्बूचैत्ये यात्रां वितन्वताम् । पोढा तु धातकीखण्डे, तच्छाखिजिनपूजनात् ॥ ११॥ पुष्करोदरबिम्बानां, द्वाविंशद्गुणसंमितम् । मेरुचूलार्हदायाः, पुण्यं शतगुणं भवेत् ॥ १२॥ सहस्रं तु समेताद्री, लक्षसंख्याञ्जनाद्रितः। दशलक्षमितं श्रीमदैवतेऽष्टापदे च तत् ॥ १३ ॥ शत्रुञ्जये कोटिगुणं, स्वभावात्स्पर्शतो मतम् । मनोवचनकायानां, शुद्ध्याऽनन्तगुणं नृणाम् ॥ १४ ॥ एकैकस्मिन् पदे दत्ते, शत्रुञ्जयगिरि प्रति । भवकोटिसहस्रेभ्यः, पातकेभ्यः प्रमुच्यते ॥ १५॥ Jan Education International For Private Personal use only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy