SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रवन्धः । ॥२९॥ वीक्ष्य प्रशस्तिमध्ये तु गाथामेकामवाचयत् ॥४४॥ "पुण्णे वाससहस्से, सयंमि वरिसाणनवनवइकलिए। होही कुमरनरिंदो, तुह विक्कमराय ! सारिच्छो ॥१॥" __आत्मनो नाम साम्यं च वर्षाणां वीक्ष्य पूर्णताम् । कुमारोऽपृच्छद्गाथार्थ कस्यापि वृद्धसंनिधौ ॥ ४५ ॥ सोऽप्याह पूर्वमत्रासीसिद्धसेनो दिवाकरः। विक्रमादित्यभूपस्य तेनाभ्यर्थनया किल ॥ ४६॥ द्वात्रिंशद्वात्रिंशकाभिर्वीतरागः स्तुतस्ततः। कुण्डगेश्वरलिङ्गं तु स्फुटितं तस्य मध्यतः॥४७॥ आविरासीद्धरणेन्द्रः श्रीपार्श्वप्रतिमाधरः। तं दृष्ट्वा विक्रमादित्यः संजातः परमार्हतः॥४८॥ गुरूपदेशतस्तेन कारितं भूमिमण्डलम् । अनृणं निजदानेन ततः संवत्सरोऽस्य तत् ॥४९॥ तेनैकदा सिद्धसेनः पृष्टः किं कोऽपि भारते । अतः परं जिनभक्तः सार्वभौमो भविष्यति ॥ ५० ॥ श्रुतज्ञानेन विज्ञाय गाथेयं गुरुणोदिता । राज्ञा च लेखिताऽत्रैव तच्छ्रुत्वा कुमरोऽवदत् ॥५१॥ आर्हतानामहो ! शक्तिरहो ! ज्ञानमहो ! व्रतम् । अहो ! परोपकारित्वं किममीषां हिताद्भुते ॥५२॥ ततः स्वजनभोपल्लदेवीवोसिरिभिः समम् । धृत्वा निर्झरवेषं तु उज्जयिन्या विनिर्ययौ ॥ ५३॥ ततो दशपुरे नगरे गतः। तत्र बहिरुद्यानेऽध्वनि मिलितं नासाग्रविन्यस्तलोचनं पद्मासनासीनं कमपि योगिनं निरुपमशममयं दृष्ट्वा कुमारोऽचिन्तयत् । यथा धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायतामानन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्केशयाः। अन्येषां तु मनोरथापरिचितप्रासादवापीतटक्रीडाकाननकेलिकौतुकपुषामायुः परिक्षीयते ॥१॥ ARRC-RAM ॥२९॥ Jain Education Intanhindi For Private Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy