________________
प्रबन्धः।
कमारपालाम् । पराभूय निर्वासितः श्रीधर्मनृपतिः सपरिकरः। राजा-किमग्रतः ? । सूरिः-भ्रामं भ्रामं सर्वत्र श्रान्तः क्वापि स्थिति-
मलभमानः सांप्रतं श्रीगूर्जरत्राधरित्रीशिरोमणीयिते श्रीमति पत्तनमहास्थानेऽस्मदाश्रममाश्रित्य मनाक् स्वस्थीभवन् । 18 समयाकरोति श्रीधर्मभूभुम् । श्रीचौलुक्य ! तव सौराज्याभ्युदयेन तु संजातवलोत्सर्पणः स्वं प्रौढिमानमासादयिष्यत्येवेति |मन्यामहे त्वामेव शरणागतवज्रपञ्जरं राजानम् , इति सूरीन्दुवचोऽमृतैः पुनर्नवीभवन् कृपासुन्दरीप्रौढिं श्रुत्वा संजातसहस्रगुणदृढानुरागः कदा मयेयं परिणेतव्या इतिचिन्तावशितात्मा गुरून्नत्वा स्वभवनमलङ्कृतवान् । तदनु
“सा वाचि सा च हृदि सा पथि सा च धाम्नि, सा व्योम्नि सा पयसि सा भुवि सा च दिक्षु।
स्वप्नेऽपि सा शशिमुखी परिवर्तते मे, किं वाऽपरैरजनि तन्मयमेव विश्वम् ॥१॥" इति पठन् कृपासुन्दरीविरहपरवशोऽयं भूप इति ज्ञातः श्रीउदयनादिमन्त्रिमण्डलेन ज्ञापितश्चायं वृत्तान्तः श्रीगुरुभ्यः। आकारितः शालायां भूपालः परिवारश्च मं० उदयनादिः । कथितं गुरुणा, राजन् ! प्रेष्यते कश्चिदाप्तः प्रधानपूरुषः श्रीधर्मनरेन्द्रपार्श्वे । मार्यते धर्मनन्दिनी । सत्कार्य महादरेण क्वाऽपि सुस्थाने निवास्यते महोत्सवपूर्वमानीय श्रीधर्मः। महान्तो हि स्वपदभ्रष्टा निमजन्ति लज्जामहाम्बुधौ। नापि कुर्वन्ति महद्भिः सह संबन्धादि, यदेतैः किमपि गृहीतं भावीति ६/चकिता दुर्जनवचोनिचयेषु । तत एवंकृते प्रीतो दास्यति कृपासुन्दरीं भवते श्रीधर्मनृपः । इत्यादि स्वपरिवारेण सह पर्यालोच्य प्रहितो मतिप्रकर्षः प्रधानाप्तपूरुषः । गतोऽसौ श्रीहेमाचार्याश्रमनिवासिनः श्रीधर्मभूपस्य पार्थे । निवेदितश्च कृपासुन्दरीदर्शनादिवृत्तान्तः। तदनु मागिता धर्मसुता । ज्ञापिताः श्रीचौलुक्यगुणा एवम् । यथा
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org