SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ कु० १२ “सम्यक्त्वधारी करुणैकसिन्धुर्वन्धुर्जनानां परमार्हतश्च । चातुर्यगाम्भीर्यमुखैर्गुणौघैरगाधदेहो भुवनाधिवीरः ॥ १ ॥” इति मतिप्रकर्षेणोक्ते श्रीधर्मभूपः प्राह, सत्यमेतद् भो मतिप्रकर्ष ! किमुच्यते श्रीचौलुक्यचन्द्रस्य लोकोत्तरगुणसंपदभिरामस्य योग्यता । परमेषा पुरुषद्वेषिणी स्वभावतो दुष्पूरपणबन्धप्रतिज्ञातपाणिग्रहा, तेन मनाग् मनो दोलायते । | मतिप्रकर्षः, कः पणवन्धः ? इति श्रोतुमिच्छामि । धर्मः Jain Education International इह भरहनिवाओ जं न केणावि चत्तं, मुयइ मयधणं जो तंपि पाविकमूलं । नियजणवयसीमं मोयए जो य जूयप्पमुहवसणचक्कं सो वरो मज्झ होउ ॥ १ ॥ मतिप्रकर्षः, प्रतिज्ञातमेव श्रीहेमचन्द्रपादाम्बुजसमक्षं निर्वीराधनमोक्षणं सप्तव्यसननिर्वासनं च देवेन इति संपूर्ण एव पणबन्धः ॥ किञ्चाऽभक्ष्यमयं त्यक्त्वा, परनारीपराङ्मुखः । स्वदेशे परदेशे च, हिंसादिकमवारयत् ॥ १ ॥ इति श्रुत्वा मुदितो धर्मभूपः । निवेदितं विरतिपत्न्याः । पृष्टाः सदागमशमादिमहत्तराः । श्रीधर्मासन्नस्थाभिरेतत् श्रुत्वा मुदिता मैत्री समतासखीभिर्ज्ञापितं कृपासुन्दर्याः । इति सिद्धप्रायं प्रयोजनमिति निश्चित्य धर्मविसृष्टः प्राप्तः श्रीकुमारनृपाभ्यर्ण मतिप्रकर्षः । विज्ञप्तः समग्रोऽपि पुरुषद्वेषपणबन्धादिव्यतिकरः । निष्पन्नप्रायमिदमित्याद्यक्षरैरमृतायमानैः पुनः कथ्यतां पुनः कथ्यतामिति इत्यादि वदन् परममुदम्भोधिमन्नः समजनि भूजानिः । ततो महता महेन प्रवेशितश्च श्रीधर्मभूपालः सपरिकरः स्वराजधानीमण्डपे । अथ संप्राप्ते शुभलग्ने निर्मलभाववारिभिः कृतमङ्गलमज्जनः सत्कीर्त्तिचन्दनावलिप्तदेहो नैकाभिग्रहोल्लसद्भूषणालङ्कृतो दानकङ्कणरोचिष्णुदक्षिणपाणिः संवेगरङ्गगजाधिरूढः सदाचारछत्रोपशोभितः श्रद्धा For Private & Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy