SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ - हुतीइ हुँति अणहुँतयावि जंतीइ जति हुँतावि । जीइ समं नीसेसगुणगणा जयउ सा लच्छी ॥१॥ मन्त्रिसमक्षं सूरयःप्रोचुः भोः कुमार ! गुणाधार !, नवाङ्केश्वरवत्सरे ११९९ । चतुझं मार्गशीर्षस्य, श्यामायां रविवासरे ॥१॥ पुष्यऋक्षेऽपराहे चेत्तव राज्यं न जायते । निमित्तालोकसंन्यासस्तीतः परमस्तु नः॥२॥ . प्रतिज्ञायेति सूरीन्द्रस्तदा तद्दिनपत्रकम् । लिखित्वा प्रददौ तस्मै, सचिवोदयनाय च ॥३॥ कुमारः प्रोचे, कथमेतज्ज्ञायते ? । सूरिभिरुक्तं, यत्त्वमत्रायातः सहसैवास्मत्पट्टे निषद्यावृते उपविष्टः, तेन राजाहसिंहासनोपवेशानूनमयं राज्याहे इति ज्ञातम् । तेन ज्ञानेन चमत्कृतः कुमारः प्राह यद्येतत्त्वद्वचः सत्यं, त्वमेव क्षितिपस्तदा । अहं तु त्वत्पदाम्भोज, सेविष्ये राजहंसवत् ॥१॥ सूरिणोचे, अस्माकं राज्येन किं कार्य, परं राजन् ! त्वं राज्यं प्राप्य पारमेश्वरशासनप्रभावको भूयाः श्रीआमराजवत् । राज्ञाप्यङ्गीकृते सूरिभिरुदयनमन्त्रिणः सर्व स्वरूपं ज्ञापितम् । मन्त्रिणा च सबहुमानं गृहे नीत्वा स्नानभोजनाच्छादनादिभिः सत्कृतः, कियन्ति दिनानि स्थितश्च मन्त्रिगृहे । तदा च जयसिंहदेवेन ज्ञात्वा सैन्यं मारणाय प्रहितम् । यावता भटाः सर्वत्र गवेषयन्ति तावज्ज्ञात्वा मन्त्रिगृहात्सूरिशालायामागात् रक्ष रक्षेति ब्रुवाणः । सूरयोऽपि कारुण्याब्धयोऽयं, श्रीजिनशासनप्रभावको भावी रक्षितः इति ध्यात्वा । वसतिभूमिगृहे कुमारं स्थापयित्वा पुस्तकग्रन्थिभिरि स्थगितं तथा यथा कोऽपि न वेत्ति । भटा अपि सर्वत्र भ्रमन्तः शालायामायाताः कस्यचित्पिशुनस्य वचसा भवन्मठे कुमारोऽस्ति | AAAAAAACANC+ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy