SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रबन्धः । ॥८९॥ ROSCOCALCRACCORMANCCOR तत्राप्यन्नदानं महते फलाय । यतः“अन्नं वै प्राणिनां प्राणाः, अन्नमोजः सुखौषधे । तस्मादन्नसमं दानं, न भूतं न भविष्यति ॥१॥ ददस्वान्नं ददस्वान्नं, ददस्वान्नं नराधिप । सद्यः प्रीतिकरं लोके, किं दत्तेनापरेण ते ॥२॥ सद्गीताद्भुतरूपरम्यरमणीकर्पूरकस्तूरिकाश्रीखण्डागुरुवाजिवारणमणिस्वर्णादिवस्तुव्रजः। योगे यस्य सुखाकरोति विरहे दुःखाकरोत्यङ्गिनां, सद्यः प्रीतिकरं तदन्नमनघं यत्नेन देयं बुधैः॥३॥" यतः "अन्नदातुरधस्तीर्थकरोऽपि कुरुते करम् ॥" तदपि कृपया दीयमानं न पात्रापात्रविभागमपेक्षते । धर्मोपष्टम्भबुद्ध्या तु पात्रायैव, तत्तु त्रिधा । यदाह"उत्तमपत्तं साहू, मज्झिमपत्तं तु सावया भणिया। अविरयसम्मदिडी, जहन्नयं पत्तमक्खायं ॥१॥ मिथ्यादृष्टिसहस्रेषु, वरमेको ह्यणुव्रती । अणुव्रतिसहस्रेषु, वरमेको महाव्रती ॥२॥ महाव्रतिसहस्रेषु, वरमेको हि तात्त्विकः । तात्त्विकेन समं पात्रं, न भूतं न भविष्यति ॥३॥" इति श्रीगुरूपदेशोलासितसाधर्मिकवात्सल्यबह्वादरः श्रीकुमारपालः सत्रागारं कारयामासिवान् । यदुक्तम्"अह कारावइ राया, कणकोठागारघयघरोवेयं । सत्तागारं गुरुयं, विभूसियं भोयणसहाए ॥१॥ तस्सासन्ने रन्ना, कारविया वियडतुंगवरसाला । जिणधम्महत्थिसाला, पोसहसाला अइविसाला ॥२॥" 18|॥८९॥ in Eduentan For Private Personel Use Only Pow.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy