________________
कुमारपाल
MOREGORRECORRECORDC
ज्ञायते भवतीभ्यां को गुरुः? । ताभ्यामुक्तम् , अचलनाथ एव । राज्ञाऽप्युक्तं, ममापि स एव । एवं वार्ताप्रस्तावे प्रती-18 प्रवन्धः । हारः प्रणम्य देव! द्वारे कल्याणकटकाधीशप्रमाडिनृपमन्त्रिणः समायाताः सन्तीति को नियोगो देवस्य इति ? । प्राह राजा, शीघ्रमत्राकारय । प्रतीहारप्रवेशिता राज्ञा दत्तबहुमानाः प्रधानपुरुषाः प्राहुः, देव ! प्रमाडिनृपेण पोडश गजाः,
द्वादश रत्नादिभृतपेटाः, अन्यान्यपि बहुवस्तूनि प्राभृतीकृतानि सन्ति, तानि दिनत्रयेणात्रायास्यन्ति । वयं देवदर्शनो*त्कण्ठिताः पूर्वमागताः । एषा च चन्द्रहासलोहमयी क्षुरिका देवयोग्या वैरिक्षयकरी प्रहिता, इत्यभिधाय पट्टकूलसप्तविंटनकमध्यान्निष्काश्य राज्ञः करेऽर्पिता । कोशान्निष्काश्य विलोकिता, दर्शिता सभ्यानाम् । सान्तूहरिपालाभ्यां हस्ते कृत्वा विलोकिता । योगिनीभ्यां दृष्टा । राजा पुनः पुनः पश्यति । अहो ! कीदृग् लोहमयी, न क्वापि दृष्टैवंविधा क्षुरिका । अत्रान्तरे सान्तूहरिपालाभ्यां प्रोक्तम् , देव ? केयं राजलीला । अलं क्षुरिकाविलोकनेन । योगिनीभ्यां सह क्रियतामालापः । दर्शय सातिशयं कलाविशेषम् । राजा, हे भगवत्यौ, द्विसप्तति ७२ कलाः, गारुडविषापहाराग्निस्तम्भषट्त्रिंशदायुधश्रमजलोपरिचलनादिकलासु कां कलां दर्शयामि ? । मन्त्रिणोक्तम् , देव ! अपराः कलाः सर्वदा दृश्यन्ते, अद्य लोहभक्षणकौतुकं क्रियतामित्युक्ते, आनयतु महल्लोहसंकलम् । मन्त्री किमन्येन लोहेन, इयं क्षुरिकैव भक्ष्यताम् । लोको हाहेति करोति । राज्ञा योगिन्योः पश्यन्त्योभक्षितं फलकम् । यावता मुष्टिरायाता तावता धृतः करे मन्त्रिणा। मुच्यतां मुच्यतां देव ! दृष्टा कला । एतत्सारमयं तीक्ष्णं फलकं भक्षितम् । शेषं योगिनीभ्यां दीयताम् , विलोक्यते एतयोः कला । राजा, आः! उच्छिष्टं मुष्टिकं कथं दीयते ? । मन्त्री, धातुषु न च्छोतिर्लगति । राजा, तथाऽपि वारिणा प्रक्षाल्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org