SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ गवाक्षाधः समायातेन । निवेदितं राज्ञः। प्रभाते वारत्रयं पृथक् पृथग् आकारितः। 'धर्मध्यानान्तरायो राजसेवा'इति विज्ञापितं राज्ञे । राजाऽपि ज्ञातबहुमानदानादिवृत्तान्तो मन्त्रिणमाकारणार्थ प्रहितवान् । मन्त्री सुखासनाधिरूढो गतो हरिपालगृहम् । सबहुमानमाकारितो वक्ति, देवपूजावसरे सांप्रतं साधर्मिकस्त्वमतिथीभूतो बान्धव एव । यतः___“ अतिथिश्चापवादी च, द्वावेतौ मम बान्धवौ । अतिथिः स्वर्गसोपान-मपवादी च पापहृत् ॥ १॥" इत्युक्त्वा देवपूजां कारितो भोजितश्च, सत्कृत्य सार्द्ध गतो राज्ञः समीपे साकरिकहरिपालः । राज्ञोक्तम् , काकाऽद्य कल्ये सर्वावसरे नागम्यते । हरिपालः"सुखी न जानाति परस्य दुःखं, न यौवनस्था गणयन्ति धर्मम् । आपद्गता यौवननिर्गताश्च, आर्ता नरा धर्मपरा भवन्ति॥१॥" ___ 'वृद्धा नारी पतिव्रता' इति न्यायादद्य काका कथयसि, अन्यदा नामापि न गृह्णासि । राजा पूर्ण हासेन, तथा कुरु यथा न याति मे नामेति । विज्ञप्तं हरिपालेन, देव ! दाप्यतामर्जुनचन्द्रहासलोहछुरिकामुष्टिः । दापिता राज्ञा । दिनान्यष्टावधिः । हरिपालेन स्वबुद्ध्या शर्कराफलकं चन्द्रहासलोहतुल्यं कृतम् । गजवल्लयाद्याकाराः प्रकटाः । प्रतिकोशः स्वर्णरत्नमयः सान्तूमन्त्रिणा कारितः। एवंप्रपञ्चेन शर्करामयीं छुरिकां कृत्वा राज्ञे निवेद्य प्रभाते सर्वराजन्यसमक्षमाकारिते योगिन्यौ । अद्य वादो योगिनीभिः सह भावीति मिलिताः सर्वेऽपि नागराः । अत्र प्रस्तावे सान्तूहरिपालाभ्यां समीपस्थिताभ्यां विज्ञप्तम् । देव ! सिद्धचक्रवर्तिन् ! योगिन्योबहुतरः कालो गतः, अद्य काऽप्यपूर्वा कला दर्यताम् , प्रतिकला च विलोक्यताम् , अद्य कौतुकं सभ्यानां पूर्यताम् , इति विज्ञप्तो राजा । भो योगिन्यौ ! कथ्यतां का का कला Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy