SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ तव मन्दाग्नेर्ददामीति निषिध्य, नृपं प्रति एतद्भाग्यं भवतो नास्ति, येन जगदानृण्यकारिणी सुवर्णसिद्धिविद्या तव सिक्ष्यति, अपि च मारिनिवारणजिनमण्डितपृथ्वीकरणादिभिः पुण्यैः सिद्धे लोकद्वये किमधिकमभिलषसि ? इत्यादिश्य 3 तदैव विहारं कृतवन्तः । एकदा हेमसूरिः मूंकरि किसिउं हरडइ काइ रडेइ । जेण कारणि हूं घल्लिउ सधि हु वंजणच्छेहिं ॥१॥ | अतः परं न रटिष्यति युष्माभिः स्वनामादौ न्यस्तत्वात् मात्रयाऽधिकीकृतत्वाच्च, इत्यादिप्रश्नोत्तरैः पूर्वमेव प्रीणित६ मनसा व्याख्यानमध्ये श्रीहेमाचाहाहेति प्रोक्ते राज्ञा सहायातदेवबोधिना हस्तौ घृष्ट्वा न किमपीति प्रोक्तम् । मुक्ते डू व्याख्याने तु राज्ञा पृष्टम्-भगवन् ! युवाभ्यां किं कृतम् ? । श्रीगुरवः प्राहुः-राजन् ! देवपत्तने श्रीचन्द्रप्रभप्रासादे दीपेनाखुना गृहीतेन चन्द्रोदयो लग्नोऽस्माभिदृष्टः, स तु हस्तघर्षणेन देवबोधिना विध्यापितः। राजा चमत्कृतः स्वपौरुनिर्णयमकारयत् । तथेति जातेऽहो ! निरतिशयकालेऽपि श्रीगुरूणां महान् ज्ञानातिशय इति श्रीगुरुश्लाघापरः प्राहकोऽहं पूर्वभवेऽभूवं ?, भविता कश्च भाविनि ? । सिद्धराजः कुतो मह्यं, प्रसह्य द्रुह्यति स्म च ॥१॥ कस्मादुदयना मात्यो, यूयं च मयि वत्सलाः। कथ्यतां तथ्यमेतन्मे, ज्ञात्वा ज्ञानेन केनचित् ॥२॥ न हि प्राग्जन्मसंबन्धं, विना दकस्यापि कुत्रचित् । वैरं च सौहृदय्यं च, स्यातामात्यन्तिके ध्रुवम् ॥ ३ ॥ उक्तं च "यं दृष्ट्वा वर्धते क्रोधः, स्नेहश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्ववैरजः॥१॥ यं दृष्ट्वा वर्धते स्नेहः, क्रोधश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्वबान्धवः ॥२॥" Jain Education inter n al For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy