SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रवन्धः । कुमारपाल पिता । ततो नवीनपुरनिवेशाय भूमि विलोकयता वनराजेनाणहिलो नाम गोपः प्राप्तः, तेन यत्र शशकेन श्वा त्रासितस्त स्थानं दर्शितम्। ततस्तन्नाम्नाऽणहिलपुरं पत्तनं सकलवास्तुविद्याविचारपुरःसरप्राकारप्रतोलीपरिखाप्रासादविहारहर्म्यहस्ति॥२॥ शालातुरङ्गमशालाभाण्डागारकोष्ठागारायुधशालाराजसभाऽलंकारसभास्नानगृहभूमिगृहधर्मशालादानशालासत्रागारपानीयशालानाट्यगृहक्रीडनगृहशान्तिगृहशल्यशालाचन्द्रशालादिभिर्विशालं स्थापितम् । ततः पञ्चाशद्वर्षवयसो वनराजस्य राज्याभिषेकः श्रीपत्तने संवत् ८०२ वर्षे श्रीशीलगुणसूरिभिजैनमन्त्रै राज्यस्थापना कृता । तदा पुरा प्रतिपन्नभगिन्या तिलकश्चक्रे, तस्या महाप्रसादः । जाम्बाकः सर्वराजकार्यक्षमो महामात्यः समभूत् । श्रीगुरूपदेशेन राजा वनराजः पुण्यवान् कृतज्ञः पञ्चासरग्रामे श्रीपार्श्वनाथप्रतिमालङ्कृतं निजाराधकमूर्तियुतं प्रासादमचीकरत् । गूर्जराणामिदं राज्यं वनराजात्प्रभृत्यपि । स्थापितं जैनमन्त्रैस्तु तद्वेषी नैव नन्दति ॥१॥ इति लोके प्रसिद्धिरभूत् । ततः षष्टि ६० वर्ष वनराजराज्यम् १, पञ्चत्रिंशद्वर्ष ३५ तत्पुत्रयोगराजराज्यम् २, पञ्चविंशतिवर्ष २५ क्षेमराजराज्यम् ३, एकोनत्रिंशद्वर्ष २९ भूयडराजराज्यम् ४, पञ्चविंशतिवर्ष २५ वैरसिंहराज्यम् ५, पञ्चदश-18 वर्ष १५ रत्नादित्यराज्यम् ६, सप्तवर्षे ७ सामन्तसिंहराज्यम् ७, एवं चापोत्कटकुले सप्त राजानोऽभूवन्।एवं वषाणि १९६।। है ततो दौहित्रसन्ताने चौलुक्यकुले राज्यं गतम् । कथं गतम् ? तथा चाह-कन्यकुब्जीयचौलुक्यश्रीभूयडराजस्य सुतः कर्णादित्यः, तत्पुत्रश्चन्द्रादित्यः, तत्सुतः सोमादित्यः, तत्पुत्रो भुवनादित्यः, तस्य राज-बीज-दण्डक-नामानस्त्रयः पुत्राः। 18 तेषु प्रथमो राजकुमारः Jain Educaton International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy