SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ RECENC __ मन्त्रिणा लक्षमौचित्ये दत्तम् । राज्ञः समधिकः कोपः। ततो मन्त्रिणा प्रोचे, राजन् ! त्वं द्वादशग्रामस्वामिनस्त्रिभुवनपालस्य पुत्रः, अहं त्वष्टादशदेशाधिपत्यभुजस्तव पुत्रः, ततः स्तोकमिदं मम दानम् , इति श्रुत्वा राजा प्रमुदितः पुत्रपदमदात्, द्विगुणं च प्रसादमकरोत् । अत्रान्तरे राज्ञो मागधः पपाठ ते गच्छन्ति महापदं भुवि पराभूतिः समुत्पद्यते, तेषां तैः समलङ्कृतं निजकुलं तैरेव लब्धा क्षितिः। तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिता नित्यशो, ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा ॥१॥ राजा सपादलक्षं पारितोषिकमदात् । ततः यः कौबेरीमातुरुष्कमैन्द्रीमात्रिदिवापगाम् । याम्यामावन्ध्यमासिन्धुं पश्चिमा यो ह्यसाधयत् ॥१॥ अष्टादशदेशेषु राज्ञ आज्ञा प्रवर्तिता श्रीआम्बडेन ॥ अथ शाकम्भरीपुर्वी राजाऽर्णोराजः श्रीचौलुक्यभगिनीदेवल्लदेवीपल्या सह सारिक्रीडां वितन्वानोऽशिरोवेष्टशीर्षत्वाद्गमाजरा नरा मुण्डिता इति कृत्वा हास्यरसेन मुण्डितान् मारयेति जायां प्राह । ततः सा कुमारभगिनी स्वदेशपक्षपातवशंवदा हे देव ! एतद्धास्यं मुक्त्वाऽन्यद्धास्यं मया समं कार्य इति स्वकान्तं प्राह । सोऽप्येवं निषिद्धोऽपि वारितवाम इव पुनः पुनस्तदेवं वचोऽवोचत् । ततो रुष्टा देवल्लदेवी । रे जङ्गड ! जाल्म ! जिह्वां संभाल्य न वदसि ? । यतः "क्काऽमी जना भवद्देश्याः, पीना कोपीनचीवराः । विवेकविकलाः क्रूरगिरो रौद्राः पिशाचवत् ॥ १॥ क्व च ते गूर्जराः स्फूर्जदङ्गाः शृङ्गारसङ्गताः । विविक्ता मधुरालापाः, भूमिष्ठास्त्रिदशा इव ॥२॥" CRACANCERNEDEOS C ESS Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy