SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ___ अथान्यदा श्रीवीरचरित्रे वाच्यमाने श्रीगुरुमुखेन देवाधिदेवप्रतिमासंबन्धं श्रुत्वा श्रीअभयामात्यपृष्टश्रीवीरस्वमुखोक्तं श्रीकुमारपालभूपेनाणहिल्लपत्तने वीतभयादानीय पूजयिष्यते महोत्सवपुरस्सरम् , इत्यादिकं स्वचरित्रं निशम्य च श्रीचौलुक्यो हृदीत्यचिन्तयत् ॥ अहमेवेह धन्यानामस्मि धन्यतमः पुमान् । अगण्यपुण्यलक्ष्मीनामहमेवैकमास्पदम् ॥१॥ भविष्यतोऽपि मे यस्य, वृत्तमित्यभयाग्रतः । सुरासुरनराध्यक्ष, श्रीवीरः स्वयमूचिवान् ॥२॥ ततस्तत्प्रतिमाप्राप्तिवाक्यैः श्रीगुरुभिर्वद्धिंतोत्साहः स्वसामन्तान् वीतभयपत्तने प्रेष्य तां प्रतिमां पत्तनान्तिकमानयन्नृपः ॥ ततो गुरुं पुरस्कृत्य, प्रमोदमिव देहिनम् । तत्संमुखं ययौ भूपः, सर्वसङ्घसमन्वितः ॥ ३ ॥ प्रीतस्तद्वीक्षणात्साक्षात् , श्रीवीरप्रेक्षणादिव । अभ्यर्च्य कुसुमैमैश्चैत्यवन्दनमादधे ॥४॥ रथात्तां स्वयमुत्तार्य, करीन्द्रमधिरोप्य च । पुण्यलक्ष्मीमिवात्मीयां, मध्ये सौधं समानयत् ॥ ५॥ अन्तःक्रीडालयं चैत्यं, विधाप्य स्फाटिकं नवम् । तत्र तां पूजयामास, त्रिसन्ध्यं भूमिवासवः ॥६॥ तत्प्रभावेण तस्यर्द्धिरवर्धिष्ट दिने दिने । एकाग्रमनसो नित्यं, श्रीमज्जैनेन्द्रशासने ॥ ७ ॥ प्रतिमां तां नमस्कर्तु, पुण्डरी कादितीर्थवत् । समापतन् परोलक्षाः, दवीयांसोऽपि धार्मिकाः ॥ ८॥ एवं सर्वात्मना जैन, शासनं भासयन्नृपः । जैनइधर्ममयो जज्ञे, स विशेश्वरमण्डनम् ॥९॥ सा प्रतिमा सम्प्रति रामसैन्येऽस्तीति लोकोक्तिः ॥ ___ इय हेमसूरिमुणिपुंगवस्स सुणिऊण देसणं राया । जाणियसमत्ततत्तो, जिणधम्मपरायणो जाओ ॥१॥ तो पञ्चनमु कारं, सुमरंतो जग्गए रयणिसेसे । चिंतइ य दोवि हियए, देवगुरुधम्मपडिवत्तिं ॥२॥ काऊण कायसुद्धिं, कुसुमा-1 | मिसथोत्तविहिहपूयाए । पुज्जइ जिणपडिमाओ, पंचहिं दंडेहिं वंदेइ ॥३॥ निच्चं पच्चक्खाणं, कुणइ जहासत्ति सत्तगुणनि Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy