________________
कुमारपाल
प्रवन्धः ।
॥४१॥
मास । पद्यमेकं दत्त्वा दूतः प्रहितः । स तत्र गत्वा काव्यमर्पयत् । वाचितं तच्च, यथा
रे रे भेक ! गलद्विवेक ! कटुकं किं रारटीप्युत्कटो, गत्वा क्वापि गभीरकूपकुहरे त्वं तिष्ठ निर्जीववत् । सोऽयं स्वमुखप्रसृत्वरविषज्वालाकरालो महान् , जिह्वालस्तव कालवत्कवलनाकाङ्क्षी यदाजग्मिवान् ॥१॥
दूतवाक्यं तदाकर्ण्य काव्यभावं विभाव्य च । अवज्ञया हसन्नर्णोराजो व्याहरति स्म तम् ॥१॥ रे दूत ! संग्रामेऽहिं प्रति भेकत्वं तार्क्ष्यत्वं वा ज्ञास्यते त्वत्स्वामिन इत्युक्त्वा प्रतिकाव्यं दत्त्वा दूतं विसृष्टवान् । स्वयं वाजिलक्षत्रयेण, पञ्चाशद्गजैः, लक्षदशपदातिभिः परिवृतः संमुखमायातः। दूतेन काव्यं राज्ञेऽर्पितम् ॥
रे रे सर्प ! विमुञ्च दर्पमसमं किं स्फारफुत्कारतो, विश्वं भीषयसे क्वचित्कुरु बिले स्थानं चिरं नन्दितुम् ।
नो चेत्प्रौढगरुत्स्फुरत्तरमरुद्भ्याधूतपृथ्वीधरस्ताक्ष्यों भक्षयितुं समेति झटिति त्वामेष विद्वेषवान् ॥१॥ __ अर्थ परिभाव्य चमत्कृतः। अथार्णोराजः, कथमेष दुर्जयो जेतव्यः ? इति विचिन्त्य पूर्वमेव तत्रागतं चारभटं जयोपायं पृष्टवान् । तेनापि विज्ञप्तम्, राजन् ! केल्हणाद्याः सामन्ताः कुमारे विरक्ताः सन्ति कृपणत्वाकृतज्ञत्वादिभिः । ततो| द्रव्यं दत्त्वा परावर्त्यन्ते ते ततो हास्यन्ति । ततः प्रातरहं देवगजमारुह्य सिंहनादेन कुमारगजं त्रासयिष्यामीति विचार्य रात्रौ सामन्तपरावर्त द्रव्यादिभिः कृत्वा प्रातः संग्रामे जायमाने सामन्तानुदासीनान् दृष्ट्वा हे श्यामल ! किममी उदा
C सीनाः? इति राजा पृष्टवान् । श्यामलोऽपि श्रीचौलुक्यराज ! वैरिणा सुवर्णप्रदानादिना परिवर्तिता एते । अर्थो हि |त्रिभुवनपरावर्तनसमर्थ इत्याह । तर्हि तव का चेष्टा ? । श्यामलः, देव ! अहं कलहपश्चाननगजो देवश्चैते त्रयोऽपिन परा-1
॥४१॥
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org