SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ गताश्चाचिगश्रेष्ठिगृहे । चाचिगे ग्रामान्तरं गते पाहिन्या श्रीसको गृहागतः स्वागतकरणादिना तोषितः । मार्गितश्चाङ्गदेवः ।। हृष्टा पाहिनी हर्षाश्रूणि मुश्चती स्वां रत्नगी मन्यमानाऽपि चिन्तातुरा जाता । एकत एतत्पिता मिथ्यादृष्टिः, तादृशोऽपि ग्रामे नास्ति । एकतस्तु श्रीसङ्घो गृहागतः पुत्रं याचते । इति किं कर्तव्यं मयेति मूढचित्ता क्षणमभूत् । तदनु"कल्पद्रुमस्तस्य गृहेऽवतीर्ण-श्चिन्तामणिस्तस्य करे लुलोठ। त्रैलोक्यलक्ष्मीरपि तं वृणीते, गेहाङ्गणं यस्य पुनाति सङ्घः॥१॥" तथा"उर्वी गुवीं तदनु जलदः सागरः कुम्भजन्मा, व्योमोद्योती रविहिमकरौ तौ च यस्यांहिपीठे । स प्रौढश्रीजिनपरिवृढः सोऽपि यस्य प्रणन्ता, स श्रीसङ्घस्त्रिभुवनगुरुः कस्य न स्यान्न मान्यः॥१॥" ___ इति प्रत्युत्पन्नमतिर्माता श्रीसकेन समं श्रीगुरून् कल्पतरूनिव गृहागतान् ज्ञात्वाऽवसरज्ञा स्वजनानामनुमति लात्वा निजं पुत्रं श्रीगुरुभ्यो ददौ । ततः श्रीगुरुभिः श्रीसङ्घसमक्षं हे वत्स! तीर्थंकरचक्रवर्तिगणधरैरासेवितां सुरासुरनरनिक रनायकमहनीयां मुक्तिकान्तासंगमदूतीं दीक्षां त्वं लास्यसि ? इति प्रोक्ते स च कुमारः प्राग्भवचारित्रावरणीयकर्मक्षयोप६ शमेन संयमश्रवणमात्रसंजातपरमसंवेगः सहसा ॐ इत्युवाच । ततो मात्रा स्वजनैश्चानुमतं पुत्रं संयमानुरागपवित्रं लात्वा श्रीतीर्थयात्रां विधाय कर्णावती जग्मुः श्रीगुरवः । तत्रोदयनमन्त्रिगृहे तत्सुतैः समं बालधारकैः पाल्यमानः, सकलसङ्घलोकमान्यः, संयमपरिणामधन्यः, वैनयिकादिगुणविज्ञो यावदास्ते । तावता ग्रामान्तरादागतश्चाचिगः पत्नीनिवेदितश्रीगुरुसङ्घागमपुत्रार्पणादिवृत्तान्तः पुत्रदर्शनावधिसंन्यस्तसमस्ताहारः कर्णावत्यां गतः । तत्र वन्दिता गुरवः । श्रुता धर्मदे Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy