SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ वदनः कृष्णवसनः कृष्णछत्रालङ्कृतमौलिः कृष्णगुड्डुरेषु निवसन् श्रीपत्तनबहिष्णदेशे स्थितः। अथ विजयदशमीदिनेराजपाटिकागतेन श्रीचौलुक्यभूभुजा विलोक्य कस्यासौ सेनानिवेशः? इति पृष्टे कश्चिदुवाच, देव ! कौऋणात्प्रत्यावृत्तस्य पराभूतस्याम्बडसेनापतेः संनिवेशोऽयमिति । तदीयलज्जया चमत्कृतो भूपश्चिन्तयति स्म । अहो ! अस्य लज्जाशीलत्वम् । अत्रान्तरेऽवसरपाठकः पपाठ लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः। तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥ ततोऽस्य सपादलक्षमौचित्येऽदापयत् । पुनः प्रसादललितया दृशाऽऽम्बडं संभाव्य तदपरैर्बलवद्भिः सामन्तैः समं मल्लि-10 18कार्जुनं जेतुं प्राहिणोत् । ततः कतिभिः प्रयाणैः पुनस्तां नदीमासाद्य प्रवाहबन्धे विरचिते तेनैव पथा सैन्यमुत्तार्य साव-18 धानवृत्त्या सम्मुखमायातमल्लिकार्जुनसैन्येन सहासमसमरारम्भे जायमाने हस्तिस्कन्धाधिरूढं वीरवृत्त्या मल्लिकार्जुनमेव है। रुरोध । द्वयोश्चिरं खड्गाखगि दृष्ट्वा मागधः पपाठ| अभिमुखागतमार्गणधोरणिध्वनितपल्लविताम्बरगहरे । वितरणे च रणे च समुद्यते, भवति कोऽपि परं विरलः पुरः॥१॥ इति श्रुत्वा वर्द्धितोत्साह आम्बडः सुभटो दन्तिदन्तमुसलसोपानेन कुम्भस्थलमधिरुह्य माद्यदुद्दामरणरसः प्रथमं त्वं | प्रहर इष्टं वा देवतं स्मर इत्युच्चरन् धारालकरवालप्रहारात् मल्लिकार्जुनं भूपीठे लोठयित्वा सामन्तेषु तन्नगरलुण्टनव्यापृतेषु केशरिकिशोर इव करिणं तं लीलयैव जघान । तन्मस्तकं सुवर्णेन वेष्टयित्वा तस्मिन् देशे श्रीचौलुक्यचक्रव-131 Jan Education Intematon For Private Personal Use Only
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy