SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अथैकदा जयसिंहदेवो विजययात्रां कुर्वन् रैवताचलासन्नां वामनस्थली प्राप । तत्र परशुराममाकार्य दण्डमयाचत । दण्डाधिपेनोक्तम् , रैवताचलेऽभयस्थाने स्थापितोऽस्ति । ततो विप्रैर्लिङ्गाकारोऽयं गिरिरिति निषिद्धोऽपि श्रीकर्णदेवगमनं श्रुत्वा रैवते गतः। गजेन्द्रपदकुण्डे स्नात्वा श्रीनेमि पूजयित्वा धर्मशालायामुपविश्य प्रासादरम्यतामालोक्योचे, धन्यौ मातापितरौ तस्य येनेदं कारितम् । अत्रावसरे परशुराम उवाच, राजन् ! पृथिव्यां श्रीकर्णदेवमयणलदेव्यौ धन्ये, ययोः सूनुर्भवान् । श्रीकर्णविहारोऽयं मत्पित्रा कारितो वर्षत्रयोदाहितव्ययेन। एवं यदि प्रासादेच्छा तदा प्रासादः। अथवा द्रव्येच्छा तदा द्रव्यं व्यवहारिगृहे स्थापितमस्ति । तन्निशम्य प्रमुदितो राजा भव्यं सजनेन कृतं, यदत्र कृत्यं भवति तत्सर्व कारयेत्यादिश्य द्वादशग्रामान देवपूजायै दत्वा शत्रुञ्जयं जगाम । आकृष्टख विनिषिद्धो रात्रौ समारुरोह । श्रीयुगादिदेवं पूजयित्वा स्तुत्वा द्वादशग्रामान् देवदाये दत्वा श्रीअणहिलपत्तने समागात् । क्रमेण मालवकादिदेशेषु निजाज्ञापटहं दापयित्वा श्रीजयसिंहदेवो राज्यं पालयति स्म । सिद्धचक्रवर्तिविरुदं जगत्प्रसिद्धं बभार । अथैकदा श्रीपत्तनपुरीया ब्राह्मणा अष्टषष्टितीर्थेषु यात्रां कुर्वन्तो हिमाचलपर्वते गताः । तत्रौषधीग्रहणार्थं भ्रमद्भिदृष्टोऽचलनाथहै योगी । नत्वोपविष्टाः पृष्टा योगिना, कुतो वः समागमः। तैरुक्तम् , श्रीपत्तननगरात् । तदवसरे योगिपार्श्वस्थाभ्यां सि-3 सद्धिबुद्धिभ्यां योगिक्षुल्लिकाभ्यां पृष्टम् , तत्र को राजा । ब्राह्मणैरूचे, श्रीसिद्धचक्रवती जयसिंहदेवो राजा । सिद्धचक्रव-16 तिविरुदश्रवणमात्रादेव रुष्टे सिद्धिबुद्धी असहमाने राज्ञः परीक्षार्थ गगनाध्वना कदलीपत्रासने सभायामायाते । राज्ञा सपरिकरेणाभ्युत्थाय नमस्कृते, सौवर्णासने उपवेश्य पृष्टे, कुतः केन हेतुना भगवतीभ्यामद्य ममानुग्रहोऽकारि ? योगि JainEducation international For Private Personal use only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy