SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ ॥ कुमारपालप्रबन्धप्रस्तावना ॥ - -- इह खल्वनादिजिनेन्द्रशासने जैनधर्मसमाराधनसमुपार्जितप्रबलपुण्यप्राप्तैहिकसुखसन्ततिसंभारभासुराः सदाचरणोपचीयमानकुन्देन्दुधवलकीर्तिकौमुदीधवलिताखिलदिग्वलयाः प्रचण्डभुजबलाकम्पितनिखिलभुवनाद्भुतसुभटवृन्दाः प्रतिपन्नपारमेश्वरीपञ्चव्रतीप्रतिपालनप्रचण्डपराक्रमपराजितपरीसहचमूचक्राः सुरासुरकृतातिघोरासह्योपसर्गवातैरपि सुपर्वपर्वतवत्स्थिरस्थामानो दृढधर्माणो गुणभूरयो भूरयो महात्मानोऽभूवन् , तेषां जगजनमनोरञ्जकान्यनेकानि चारुचरित्राणि पूर्वमहर्षिभी रचितानि परीवृत्त्यन्ते, परं प्रतिसमयहीयमानबुद्धिबलशरीरसामर्थ्यादिवैभवे करालकलिकालकवलीकृतसंख्यातीतसत्पुरुषेऽस्मिन्नवसर्पिणिकालेऽपि जिनशासनविशालविहायस्तलविभासनभास्कराः धर्मकर्मणि दृढनिश्चयाः सूरिशेखरा जावडभावडाभूविमलमन्त्रीश्वरप्रमुखाः श्रद्धालवश्चानेके संजाताः सन्तीति विदितमस्ति, तथाऽपि पूर्वोत्तमपुरुपानन्दकामदेवाद्याचरितश्राद्धधर्मादप्यतिशायिसम्यक्त्वमूलद्वादशव्रतपरिपालनदृढनिश्चयस्य संप्राप्तसमग्रगूजरावन्यवनिपालप्रभुत्वस्य निरतिचारचारुचारित्राचाराचरणचणश्रीमद्देवचन्द्राचार्यविनेयावतंसकलिकालसर्वज्ञश्रीमद्हेमचन्द्राचार्यसूरिपङ्गवप्रतिबोधितस्य परनारीसहोदरपरमार्हतराजर्षिविचारचतुरमुखसंप्राप्तबिरुदगरीष्ठस्य श्रीकुमारपालदेवस्य तथा श्रीमहेमचन्द्राचार्यस्यापि सद्भूतगुणोत्कीर्तनोत्पन्ननिरुपमभक्तिभरसमुल्लसितमानसैर्महोपाध्यायश्रीजिनमण्डनगणिभिः १ श्रीहे JainEducation For Private Personel Use Only ww.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy