Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।।
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
। चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक :१
जैन आराधना
न
कन्द्र
महावीर
कोबा.
॥
अमर्त
तु विद्या
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
-
-
-
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला. १२.
महाकविश्रीजगन्नाथपण्डितरायविरचितो
रसगङ्गाधरः।
नागेशभट्टकृतया टीकया समनः ।
जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाव
पाण्डुरङ्गात्मजकाशिनाथशर्मणा च
सच मुम्बथ्यां निर्णयसागरोख्ययन्त्रालय तदधिपतिम मुकारयित्वा
काश्य नीतः।
.
.
(अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्येवाधिकारः ।)
मूल्यं साधै रूप्यूकत्रयम् ।
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
विषयः
( प्रथममाननम् )
मङ्गलाचरणम् .
ध्वनिभेदाः
रसलक्षणम्
रसभेदाः
...
काव्यलक्षणम्
काव्यभेदाः उत्तमोत्तमकाव्यलक्षणम्
उत्तमकाव्यलक्षणम्
मध्यमकाव्यलक्षणम्.
अधमकाव्यलक्षणम्
...
हासलक्षणम्
भयलक्षणम्
...
स्थायिभावाः
रतिलक्षणम्
शोकलक्षणम्.. निर्वेदलक्षणम्
क्रोधलक्षणम्
...
उत्साहलक्षणम्
विस्मयलक्षणम्...
...
जुगुप्सालक्षणम्
विभावलक्षणम्
...
अनुभावलक्षणम्
व्यभिचारिलक्षणम् रसोदाहरणानि
शृङ्गाररसः...
...
...
...
...
⠀⠀⠀⠀
...
विषयानुक्रमः ।
...
...
...
...
...
⠀⠀⠀⠀⠀⠀⠀⠀⠀
...
...
www. kobatirth.org
...
पृष्ठ
१
४ करुणः
शान्तः
विषय: संयोगशृङ्गारः विप्रलम्भशृङ्गारः..
२४
Acharya Shri Kailassagarsuri Gyanmandir
...
९ रौद्रः १७ | वीरः
१९
१९
२१
२१
२९ | अद्भुतः
३०
हास्य:
३१
३२ | भयानकः
३२ | बीभत्सः
४४
३२ | रसानां परस्परविरोधाविरोधनिर्णयः ४६
३२ | शब्दगुणभेदाः
५५
३२
श्लेषः
५६
३२
प्रसादः
५६
३२
समता
३३
माधुर्यम् ...
३३
३३
दानवीरः...
दयावीरः
युद्धवीर : .
धर्मवीरः
पड्डुिधहास्यलक्षणानि
उदारता
ओजः
कान्तिः
For Private And Personal Use Only
...
...
सुकुमारता
अर्थव्यक्तिः
...
...
...
...
...
...
पुढे
...
३४
૨૪
३५
३५
३६
३७
३७
३९
४०
४०
४२
४३
४३
४४
५६
५६
५७
५७
२७
७८
५८
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
...
विषयः
पृष्ठे समाधिः ... अर्थगुणाः ... श्लेषः ... प्रसादः ... समता ... माधुर्यम् ... सुकुमारता ... ... अर्थव्यक्तिः उदारता ... पञ्चविधमोजः कान्तिः ... ...
समाधिः ... ... माधुर्यव्यञ्जकवर्णादिविचारः ... ६४ वैदर्भीरीतिलक्षणम् ... ... भावध्वनिविचारः ... ... व्यभिचारिभावसामान्यलक्षणम् व्यभिचारिभावभेदाः... ... ७६ हर्षः ... ... स्मृतिः ...
विषयः निद्रा ... ... मतिः व्याधिः त्रासः गुप्तम् ... विवोधः ... अमर्षः ... अवहित्थम् उग्रता उन्मादः ... मरणम् ... वितकः ... विषादः ...
औत्सुक्यम् आवेगः ... जडता ... आलस्यम्... असूया ... अपस्मारः... चपलता ...
: :: :: :: :: :: :: :: :: :: :: :: ::
ब्रीडा ...
मोहः
निर्वेदः
धृतिः
...
... ...
शङ्का
...
ग्लानिः
दैन्यम्
रसभासः ८. भावशान्तिः ... ... ... १०२
भावोदयः ...
भावसंधिः ... ८२ भावशबलत्वम्. ... ... १०३
(द्वितीयमामनम) ८३ सलक्ष्यक्रमध्वनिभेदाः .. ११० ८३ व्यञ्जनालक्षणम् ... ... ११८
चिन्ता • भदः
अमः
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमः ।
विषयः
अनन्वयः...
.. २१३
•. १२२
देशः
विषयः शब्दार्थव्यवस्थापकाः... ... ११८ संयोगः ... ...
... ... ११८ विप्रयागः ...
... ... ११० साहचयम
... ... ११९ विरोधिता अर्थः ... प्रकरणम् ... ... लिङ्गभ ... ...
अन्यशब्दसनिधिः सामर्थ्यम औचिती ... ...
... ... ... १२४ काल: ... व्यक्तिः ...
स्वरः ... ... शब्दशक्तिमूलालंकार ध्वनिः शब्दशक्तिमूलवस्तुनिः अर्थक्तिमूलानुरणनम लक्षणामूलनिः अभिधालक्षणम ... ... १४० अभिधाभेदाः ... ... १४१ लक्षणालक्षणम लक्षणाभेदाः ... ... अलंकारप्रकरणम्
उपमा ... ... उपमाभेदाः उपमादूषणानि ... उपमेयोपमा ... ... ... उपमेयोपमादोषाः २०२
::::::::::::::::::::::::::::
असमम ... ... उदाहरणम् स्मरणम् ... ... ... २१६ रूपकम् ... ...
पकभेदाः ... मावयवरूपकम् ... समस्तवस्तुविषयरूपकम् ... एकदेशविवर्तिरूपकम् ... निरवयवरूपकम् ... ... २३३ निरवयवं केवलं रूपकम् ... २३३ निरवयवं मालारूपकम् ... परम्परितरूपकम् ... ... श्लिष्टपरम्परितरूपकम् ... २३३ परिणामः... ... मसंदेहः ... ... भ्रान्तिमान उलेग्वः ... अपद्भुतिः ... उत्प्रेक्षा ... अतिशयोक्तिः तुल्ययोगिता दीपकम् ... प्रतिवस्तुपमा
३२९ दृष्टान्तः ... निदर्शना... व्यतिरेकः महोक्तिः ... ... ... ३५७ विनोक्तिः ... ...
مامة
:: :: :: :: :: :: :: :: : :
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
... ३६७
३६७
.. ४८२
विषयः समासोक्तिः ... परिकरः ... ... लेषः ... अप्रस्तुतप्रशंसा पर्यायोक्तम्
... व्याजस्तुतिः आक्षेपः ... विरोधः ... विभावना... विशेषोक्तिः असंगतिः...
... ८०९
...
... ४२७
...
विषमम् ...
विषयः यथासंख्यम पर्यायः ... परिवृत्तिः ... परिमख्या... अर्थापत्तिः विकल्पः ... समुच्चयः ... समाधिः ... प्रत्यनीकम् प्रतीपम् ... प्रौढोक्तिः ललितम् ... प्रदर्षणम् ... विषादनम् उल्लास: ... अवज्ञा अनुज्ञा ... तिरस्कारः लेशः ... तद्गुणः ... अतद्गुणः ... मीलितम् ... सामान्यम्... उत्तरम् ...
: :: :: :: :: :: :: :: :: :: :: :: ::
:: :: :: :: :: :: :: :: :: :: :: ::
... ५०४
समम् ...
... ४४ विचित्रम् ... अधिकम् ... अन्योन्यम् विशेषः ... ... व्याघातः ... ... शृङ्खलामूलालंकाराः कारणमाला ... एकावली... ... सारः ... ... काव्यलिङ्गम् अर्थान्तरन्यासः ... ... ४७१ अनुमानम्
... ',०८
... '५१२ ... ५१३ ... ५१४ ... '५१५
४६६
... ५१९
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जगन्नाथपण्डितराजः।
"जगन्नाथपण्डितस्तैलङ्गदेशाज्जयपुरे समागत्य पाठशालां स्थापितवान् , पराजितवांश्च विवादे तत्र दिल्लीनगरादागतं 'काजी'ति प्रसिद्धं कंचन यवनपण्डितं सत्वरमेव तन्मत ग्रन्थानधीत्य. ततश्च 'काजी'मुखात्तद्विद्याबुद्धिचमत्कारमाकर्ण्य परितुध्यता दिलीनरेन्द्रेण पण्डितो जयपुरात्समाहूतः, सभाजितश्च. तत्र च कस्वांचन येवनकन्यायामासक्तो बादशाहानुग्रहेण तां परिणीय तया सह सुखेनातिवाहितवान्यौवनं बादशाहसमाश्रय एव. वार्धके च वाराणस्यां गतो 'यवनीसंसर्गदूषितोऽयम्' इत्यप्पदीक्षितादिपण्डितैस्तिरस्कृतो झातिबहिष्कृतश्च गङ्गातटे गत्वा सोपानपतिशिखरे समुपविष्टस्तत्क्षणनिभितैर्भक्तिभरितैः पद्यैर्गङ्गां स्तोतुमुपचक्रमे. भक्तवत्सला गङ्गापि प्रतिश्लोकमेकैकं सोपानमधिरोहन्ती द्वापञ्चाशन्मिते श्लोके प्रणीते प्राप्तवती पण्डितराजोपकण्ठम्, प्लावितवती च सत्वरमेव यवनीसमेतमेतम्. ततथासूयामत्सराभ्यां दृषिता वाराणसेयाः पण्डितास्तादृशं पण्डितराजप्रभावमालोक्यातीव विलक्षा बभवः' इत्येके वदन्ति. अपरे त्वेवं कथयन्ति--"दिल्लीनरेन्द्रकृपापात्रता प्राप्तस्य तत्प्रसादालव्धश्रियस्तारुण्यतिमिरतिरस्कृतविवेकालोकस्य जगन्नाथपण्डितस्य बभूव कस्यांचन यवनयुवत्यामासक्तिः. सा च कियत्कालानन्तरं पञ्चत्वं गता. ततस्तद्विरहातुरः पण्डितोऽपि दिली परित्यज्य वाराणस्यामागतस्तदाचरणमाकर्णितवद्भिस्तत्रयैः पण्डितैरनादृतो दुराचरणानु
१. जयपुरे तु महाराष्ट्रदेशस्थब्राह्मणः सम्राड्जगन्नाथपण्डितो भिन्न एवासीत्, यत्संततिरद्यापि जयपुरसमीपे ब्रह्मपुर्या वर्तते, यश्च महाराजसवाइजयसिंहाज्ञया १७३१ ख्रिस्ताव्दे सिद्धान्तसम्राजम् , सिद्धान्तकोस्तुभम्, पञ्चदशाध्यायात्मकस्य 'श्रीक भाषानिबद्धस्य 'यूक्लीप्रणीतस्य ग्रन्थस्य रेखागणितनामक संस्कृतानुवादं च विरचितवान्. महाराजसवाईजयसिंहस्तु १६८८ खिस्ताब्दे जन्म लेभे, १७०० ख्रिस्ताब्द राज्यसिंहासनमधिरूढः, १७१४ ख्रिस्ताब्देऽश्वमेधयागं कृतवान् , १७२८ ख्रिस्तान्दे च परलोकं जगामेति जयपुरोतिहासे समुपलभ्यंत. २. 'यवनीरमणी विपदः शमनी कमनोयतमा नवनीतसमा । उहिहिवचोऽमृतपूर्णमुखी स सुखी जगतीह यदङ्कगता ॥', 'यवनी नवनीतकोमलाङ्गी शयनीय यदि नीयते कदाचित् । अवनीतलमेव साधु मन्ये न बनी माघवनी विनोदहेतुः ॥', 'न याचे गजालि न वा वाजिराजिन वित्तषु चित्तं मदीयं कदापि । इयं सुस्तनी मस्तकन्यस्तहस्ता लवङ्गी कुरङ्गीदगङ्गीकरोतु ।।' इत्याद्याः प. ण्डितराजप्रणीता यवन्यासक्त्यनुमापकाः श्लोकाः सन्तीति केचिद्वदन्ति, परमेते पण्डि. तराजग्रन्थेष्वस्मदृष्टेषु नोपलभ्यन्ते. ३. सैव स्तुतिरधुना 'गङ्गालहरी'नाम्ना प्रसिद्धा सर्वत्र भागीरथीभक्तः पठ्यते. ४. अत्र भामिनीविलासस्य तृतीयो विलासः प्रमाणमिति वदन्ति, तैस्तु रसगङ्गाधरे करुणप्रकरणे समुदाहृतात् 'अपहाय सकलबान्धवचिन्तामुद्वास्य गुरुकुलप्रणयम् । हा तनय विनयशालिन्कथमिव परलोकपथिकोऽभूः ॥' इत्यस्मात्पद्यात्पण्डितस्य पुत्रमरणमपि कुतो नानुमीयते ?
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
शयेन तिरस्कारेण प्रियतमाविरहानलेन च दूयमानमनाः कुत्रापि निर्वृतिमलभमानः स्वकृतां गङ्गालहरीं पठन्प्राकृषि प्रवृद्धे गङ्गाप्रवाहे झम्पामदत्त, निममज च तत्रैव." ए. वमन्या अपि नानाविधाः पण्डितराज विषयिण्यो जनश्रुतयः श्रयन्ते. एताः सर्वा अपि प्रमाणशून्या इत्युपेक्ष्य पण्डितराजप्रणीतग्रन्थेभ्यो यदवगतं यच्चानुमितं तदेवात्र सप्रमाणमस्माभिः पुरस्क्रियते---
आसीतैलङ्गाभिजनो वेगिनाडकुलोत्पन: पेरुभट्टाख्यो महासुरसत्तमः, यो वाराणस्यां ज्ञानेन्द्रभिक्षोर्वेदान्तशास्त्रम्, महेन्द्रपण्डितान्यायवैशेषिकदर्शने, खण्डदेवात्पूर्वमीमांसाम्, शेषोपाहावीरेश्वरपण्डिताच महाभाष्यमधोतवान्. तस्मालक्ष्मीनामिकायां तद्धमंपन्यां जगनाथो जन्म लेभे, पठितवांश्च निखिलानि शास्त्राणि प्रायः स्वपितुरेव. प्राप्तयौवनश्चाश्रयेच्छया दिल्लीनगरे समागत्य शक्रोपमवैभवस्य शाहजहानाभिधयवनसार्वभौमस्य संसदि प्रवेशं लब्धवान्. अधिगतवांश्च निजविद्याचमत्कारपरितोषितात्तस्मादेव पण्डितराजपदवीम्. स्थितश्च मध्यमे वयसि प्रायस्तत्रैव तत्समीपे तत्सूनार्दाराशिकोहस्य समीपे च. शाहजहानमहीपतिस्तु १६२८ ख्रिस्ताब्दे राजसिंहासनमधिरूढः, १६५८ ख्रिस्ताब्दे औरङ्गजेबनाम्ना स्वपुत्रेण कारागारे निवेशितः, १६६६ ख्रिस्ताब्द च पञ्चत्वं गतः. दाराशाहस्तु प्रागेव दुर्दशामनुभाव्य औरङ्गजेबेन घातितः. पण्डितराजोऽपि वार्धके काश्यां मथुरायां वा गत्वा परमेश्वराराधनेन वयःशेषं नीतवान्. तस्माविस्ताब्दीयसप्तदशशतकमध्यभागे पण्डितराज आसोदिति सुव्यक्तमेव,
१. 'तेलङ्गान्वयमङ्गलालय-' इत्यादि प्राणाभरणसमाप्तिस्थे पद्ये, अग्रे समुद्ते आसफविलासप्रारम्भस्थे गये च स्फुटमस्य तैलगत्वम्. २. केचिद्भामिनीविलासपुस्तके .समाप्तौ 'इति श्रीमदखिलान्ध्रवेगिनाडिकुलावतंस-' इत्यादि समुपलभ्यते. ३. पेरुभट्टस्य पेरमभट्ट इत्यपि नामान्तरं प्राणाभरणान्ते समुपलभ्यते. ४. सिद्धान्तकौमुदीटीकायास्तत्त्वबोधिन्याः कर्तायं ज्ञानेन्द्रभिक्षुः स्यात्. ५. स्वपितुर्गुरोः शेषोपालवीरेश्वरपण्डितादपि किंचिदधीतवानिति मनोरमाकुचमर्दनारम्भे समुपलभ्यते. ६. 'अथ सकललोकविस्तारविस्तारितमहोपकारपरम्पराधीनमानसेन प्रतिदिनमुद्यदनवद्यगद्यपद्याद्यनेकवियाविद्योतितान्तःकरणः कविभिरुपास्यमानेन कृतयुगीकृतकलिकालेन कुमतितृणजालसमाच्छादितवेदवनमार्गविलोकनाय समुद्दीपितसुतर्कदहनज्वालाजालेन मतिमतेव नवाबासफखानमनःप्रसादेन द्विजकुलसेवाहेवाकिवाङ्मनःकायेन माथुरकुलसमुद्रेन्दुना राय. मुकन्देनादिष्टेन सार्वभौमश्रीशाहजहांप्रसादादधिगतपण्डितराजपदवीविराजितन तैलङ्गकुलावतंसन पण्डितजगन्नाथेनासफविलासाख्येयमाख्यायिका निरमीयत । सेयमनुग्रहेण सहदयानामनुदिनमुल्लासिता भवतात् ।' एतद्गद्यमासफविलासप्रारम्भ समुपलभ्यते. ७. दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः' इति भामिनीविलासान्ते वर्तते. ८. जगदाभरणे दाराशाहस्यैव वर्णनं कृतमस्ति. ९. भामिनीविलासान्ते 'संप्रत्यन्धकशासनस्य नगरे तत्त्वं परं चिन्त्यते' इत्यस्ति. केचित्पुस्तकेप संप्रत्युज्झितवासनं मधुपुरीमध्ये हरिः सेव्यते' इत्यपि पाठः समुपलभ्यते. तत्रान्धकशासनस्य नगरं काशी, मधुपुरी च मथुरेति ज्ञेयम्.
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
जगन्नाथपण्डितराजः ।
Acharya Shri Kailassagarsuri Gyanmandir
अद्यावधि ज्ञाताः पण्डितराजप्रणीता ग्रन्थास्त्वेते
( १ ) अमृतलहरी - यमुनास्तुतिरूपोऽयं ग्रन्थः काव्यमालायां मुद्रितः. ( २ ) आसफविलासः- :- अत्र नव्त्राबासफखानस्य वर्णनमस्ति रसगङ्गाधरेऽपि पद्यद्वयमासफनामाङ्कितं समुपलभ्यते तच्चास्मादेव समुद्धृतं स्यात् ग्रन्थोऽयमद्यापि नास्माभिरुपलब्धः केवलं पूर्व टिप्पण्यामुद्धृतं गद्यमलवरमहाराजाश्रितपण्डितभवानन्दोदयानन्दरामचन्द्रशर्मभिर्लिखित्वा पूर्वतरे वर्षे प्रहितमासीत्. मीपेऽप्ययं ग्रन्थः संपूर्णा नास्तीत्यपि तैरुक्तम.
अस्मत्स
( ३ ) करुणालहरी - विष्णुस्तुतिरूपा काव्यमालायां मुद्रिता. ( ४ ) चित्रमीमांसाखण्डनम् - अप्रसिद्ध एवायं ग्रन्थः अत्राप्पदीक्षितकृतचित्रमीमांसाया दूषणानि संकलितानि सन्ति.
( ५ ) जगदाभरणम् - अत्र शाहजहानसूनोर्दाराशिकोहस्य स्तुतिरस्ति. किंतु प्राणाभरणसमानमेवैतत्काव्यम् प्रायः प्राणनारायणनामस्थले दाराशाहस्य नाम न्यस्तमस्ति अस्यैकं पुस्तकं कोटानगरनरेन्द्राश्रितकैलासवासिगङ्गावलमपण्डितममीपे दृष्टमासीत्.
( ६ ) पीयूषलहरी - - इयं गङ्गालहरीनाम्ना सुप्रसिद्धा मदाशिवचतुर्भुजरामचन्द्रादिकृतकतिपयटोकासमेता सुलभा मुद्रिता च.
( ७ ) प्राणाभरणम् - अत्र कामरूपदेशाधिपतेः प्राणनारायणमहीभृतो वर्णनमस्ति मुद्रितं चैतत्काव्यमालायाम् एतट्टिप्पणमपि पण्डितराजकृतमेवास्ति.
( ८ ) भामिनीविलासः - अयं पण्डितराजप्रणीतपय संग्रहरूपो ग्रन्थः सर्वत्र सुलभ एव, मुद्रित बहुवारम्. मोडकोपाह्वपण्डिताच्युतरायप्रणीता भामिनीविलासटोकापि समुपलभ्यते.
( ९ ) मनोरमाकुचमर्दनम् - अयं ग्रन्थो महोजिदीक्षितप्रणीताया मनोरमायाः खण्डनरूपो विरलप्रचार एव तत्रास्माभिरुपलब्धस्य पुस्तकस्य प्रारम्भे– “लक्ष्मीकान्तपदाम्भोजमानम्य श्रेयसां पदम् । पण्डितेन्द्रो जगन्नाथः स्यति गर्व गुरुदुहाम् ॥' इह केचिन्निखिलविद्वन्मुकुटमयूखमाला [ला ]लितचरणकमलानां गीर्वाणग[r] गौरवग्रास (ग्राम ?) मांसलमहिममण्डिताखण्डमहीमण्डलानां शेषवंशावतंसानां श्रीकृष्णपण्डितानां चिरायाचितयोः पादुकयोः प्रसादT [T] सादितशब्दान (नु)शासनास्तेषु च पारमेश्वरं पदं प्रयातेषु कलिकालवशंवदी भवन्तस्तत्रभवद्भिह (रु)ल्ला सितं प्रक्रिया प्रकाशमाशयानववेधनिबन्धनिवं (नवबोधनिबन्धनै) दूषणैः स्वयं निर्मितायां म
For Private And Personal Use Only
१. भोजिदीक्षितानाम् २. महोजिदीक्षिताः ३. अयमेव शेषश्रीकृष्ण पण्डितः कंसवध - पारिजातहरणयोः कर्तेति भाति, यतः कंसवधप्रस्तावनायामप्यात्मनो वैयाकरणतां प्रकटयति, अथ च समयेऽपि साम्यमस्तीति सुधीभिर्विचारणीयम्. ४. शेषश्रीकृष्णैः. ५. प्रक्रियाप्रकाशः प्रक्रियाकौमुदीटीका.
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
४
काव्यमाला |
नोरमायामाकुल्यकार्षुः । सा च प्रक्रियाप्रकाशकृतां पौत्रैरखिलशास्त्र महार्णवमन्याचला[य]मानसा[ना]मस्मद्गुरुपण्डितवीरेश्वराणो (णां) तनयैर्दृषितापि स्वमतिपरीक्षार्थ पुनरस्माभिर्निरीक्ष्यते । तत्र तावत्सार्वधातुकमपिदिति सूत्रगकौस्तुभवद्भिरुपहसनीयमर्थं निरूपयताम्, तथाणुदित्सूत्रगत कौस्तुभेक्षणं स्वव्युत्पत्तिपाटवमुहिरताम् भवतेर इति सूत्रगतमनोरमायांयमानानां गुरुद्वेषदूषितमतीनां यद्यपि पुरुषायुषेणापि न शक्यन्ते गणयितुं प्रमादास्तथापि दित्रेण कानपि कुशाग्रीयधिषणेषु निरूपयामः ।" इत्यादि वर्तते.
-इत्यादिना संख्या-इत्यर्थस्य निर्णयेन विल-शपः प्रवृत्ति सम
(१०) यमुनावर्णनम् -- गद्यनिबद्धोऽयं ग्रन्थो नाद्याप्युपलब्ध: रसगङ्गाधर उदाहृतानि द्वित्राणि गद्यान्यस्य समुपलभ्यन्ते.
(११) लक्ष्मीलहरी - काव्यमालायां मुद्रितैव. ( १२ ) सुधालहरी - काव्यमालायां मुद्रितैव.
(१३) रसगङ्गाधरः - अयं पण्डितजगन्नाथस्य मुख्यो ग्रन्थः, किंतु सर्वत्रासमाप्त एव लभ्यते. अद्यावधि दृष्टेष्वस्माभिर्नवसु पुस्तकेष्वेकमप्युत्तरालंकारप्रकरणं नातिक्रामति पण्डितराजात्स्वल्पकालानन्तरं समुत्पन्नेन नागेशभट्टेनाप्ययं ग्रन्थ उत्तरालंकारप्रकरणान्तमेव प्राप्तः, यतस्तत्प्रणीता रसगङ्गाधरटीकाप्युत्तरालंकारप्रकरणपर्यन्तमेवास्ति. अतः पञ्चाननात्मकः संपूर्णोऽयं ग्रन्थः कदाचिदुपलप्स्यत इति दुराशा - मात्रम् ग्रन्थसमाप्तिं कर्तुमपारयन्मध्य एवं पण्डितराजः परलोकं गत इत्यपि वक्तुं न युज्यते. यतश्चित्रमीमांसाखण्डनमनेन रसगङ्गाधरानन्तरं प्रणीतमिति तत्त्रारम्भे स्फु टमस्ति. केवलमेतावदनुमीयते - अप्पदीक्षित द्वेषेण चित्रमीमांसानुकरणप्रवृत्तः पण्डित - राजोऽपि स्वग्रन्थं चित्रमीमांसावदसमाप्तमेव स्थापितवान् चित्रमीमांसा तु बुद्धिपूर्वमे• वाष्पदीक्षितेन समाप्तिं न नीतेति तत्समाप्तिस्यश्लोकतो ज्ञायते.
Acharya Shri Kailassagarsuri Gyanmandir
एवं त्रयोदशग्रन्थाः पण्डितराजप्रणीता ज्ञायन्ते. शशिसेना. पण्डितराजशतकं चेत्यन्यदपि ग्रन्थद्वयं पण्डितराजप्रणीतमस्तीति केचिदुच्यते.
(१) अश्वघाटी - रतिमन्मथ- वसुमतीपरिणयकर्ता तऔरनगरवासी जगन्नाथः, (२)
१. मनोरमा २. पुस्तकपञ्चकमस्माभिः साक्षाद्दृष्टम्, पुस्तकचतुष्टयस्य त्वन्तिमा परिस्मन्मित्रैः काश्यादि नगरेभ्यो लिखित्वा प्रहिता दृष्टा. ३. 'नामनाम घनश्यामं धाम तामरसेक्षणम् । पण्डितेन्द्रो जगन्नाथशर्मा निर्माति कौतुकम् ॥', 'रसगङ्गाधरे चित्रमीमांसाया मयोदिताः । ये दोपास्तेऽत्र संक्षिप्य कथ्यन्ते विदुषां मुदे ॥', 'सूक्ष्मं विभाव्य मयका समुदीरितानामप्पय्यदीक्षितकृताविह दूषणानाम् । निर्मत्सरो यदि समुद्धरणं विदध्यादस्याहमुज्ज्वलमतेश्वरणौ वहामि ||' इति चित्रमीमांसाखण्डनप्रारम्भश्लोकाः. ४. 'अप्यर्धचित्रमीमांसा न मुदे कस्य मांसला । अनूरुरिव तीक्ष्णांशोरन्दुरिव धूर्जटेः ॥' अयं चित्रमीमांसासमाप्तौ श्लोकः ५. काव्यमालाया द्वितीयेऽङ्के प्राणाभरणप्रारम्भटिप्पणेऽश्वघाटी रतिमन्मथं वसुमतीपरिणयं चेति ग्रन्थत्रयं पण्डित - राजप्रणीतग्रन्थनाममालायां भ्रमेण लिखितमासीदिति ज्ञेयम्.
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जगन्नाथपण्डितराजः ।
रेखागणितादिकर्ता सम्राजगन्नाथः, (३) विवादभङ्गार्णवकर्ता जगन्नाथतर्कपश्चाननः,(४) अतन्द्रचन्द्रिकनाटककर्ता जगनाथमैथिलः, (५) अनङ्गविजयभाणकर्ता श्रीनिवाससूनुजगनाथपण्डितः, (६) सभातरङ्गकर्ता जगन्नाथमिश्रः, (७) अद्वैतामृतकर्ता जगनाथमरस्वती, (८) समुदायप्रकरणकर्ता जगन्नाथसूरिः, (९) शरभराजविलासकर्ता जगन्नाथः, (१०) ज्ञानविलासकाव्यकर्ता नारायणदैवज्ञसूनुर्जगन्नाथः, (११) अनुभोगकल्पतरुकर्ता जगन्नाथः, इत्याद्या बह्वो जगन्नाथनामानः पण्डिताः समभूवन , ते सेवेऽपि पण्डितराजाद्भिन्ना इति ज्ञेयम्.
नम्र सूचन इस ग्रन्थ के अभ्यास का कार्य पूर्ण होते ही नियत
समयावधि में शीघ्र वापस करने की कृपा करें. जिससे अन्य वाचकगण इसका उपयोग कर सकें.
१. अयं जगन्नाथोऽपि तौरनगरवास्तव्य आसोदिति रतिमन्मथादिप्रणेतुन भिन्न इति भाति.
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नागेशभट्टः।
अयं रसगङ्गाधरटीकाप्रणेता कालोपनामकदेशस्थमहाराष्ट्रब्राह्मणशिवभट्टसतीदेव्योः सूनुर्नागेशभट्टः काश्यां कस्मिन्समय आसीदिति विचारे मनोरमाकुचमर्दन-शब्दरत्न-मझूषादिग्रन्थविलोकनेनेत्यं पुरुषपरम्परावगता -
शेषश्रीकृष्णः
भटोजिदीक्षित: (शिष्यः)
शेषवोरेश्वरः (पुत्रः)
वीरेश्वरदीक्षितः (पुत्रः)
पण्डितराजजगन्नाथः (शिष्यः)
हरिदीक्षितः (पुत्रः)
नागेशभट्टः (शिष्यः) अत्र पण्डितराजाद्वितीयः पुरुषो नागेश आसीदिति ज्ञायते. पूर्वनिर्णीते आमन्ने जगन्नाथपण्डितराजसमये १६६६ ख्रिस्ताब्दे पुरुषद्वयपर्याप्तानि चत्वारिंशद्वर्षाणि योज्यन्ते चेत्तदा १७०६ रिव्रस्ताब्दोऽयमासन्नो नागेशसमयः समायाति. अथ च “जयपुरमहाराजाः श्रीसवाईजयसिंहबर्माणोऽश्वमेधप्रसङ्गे नागेशभट्टाय निमन्त्रणपत्रं प्रहित. वन्तः. तदा नागेशेन 'अहं क्षेत्रसंन्यासं गृहीत्वा काश्यां स्थितोऽस्मि, अतस्तां परित्यज्यान्यत्र गन्तुं न शनोमि' इत्युत्तरं प्रहितम्' एषा किंवदन्ती जयपुरेऽधुनापि प्रसिद्धास्ति. श्रीजयसिंहमहाराजाश्च १७१४ ख्रिस्ताब्देऽश्वमेधं कृतवन्त इत्युक्तमेव प्राक. अयमश्वमेधसंवत्सरोऽपि पूर्वलिखित १७०६ ख्रिस्तसंवत्सरासन एवेति ख्रिस्ताब्दीयायादशशतकप्रथमतुरीयांशे नागेशभट आसीदिति व्यक्तमेव. केचित्त ख्रिस्ताब्दीयाष्टादशशतकपूर्वार्धानन्तरं नागेशसत्तां कथयन्ति. हरिदीक्षितशिष्योऽयं नागेशभट्टः स्वशिष्याच्छृङ्गवेरपुराधीशबिसेनवंशसमुद्भूतरामनृ
१. 'अधीत्य फणिभाष्याब्धि सुधीन्द्रहरिदीक्षितात् । न्यायतन्त्रं रामरामाद्वादिरक्षोघ्नरामतः ॥ याचकानां कल्पतरोररिकक्षहुताशनात् । शृङ्गवेरपराधीशरामतो लब्धजी. विकः ॥ वैयाकरणनागेशः स्फोटायनऋषेर्मतम् । परिष्कृत्योत्तावांस्तेन प्रीयतामुमया शिवः ॥ दृढस्तऽस्य नाभ्यास इति चिन्त्यं न पण्डितैः । दृपदोऽपि हि संतीर्णाः पयोधौ रामयोगतः ॥ एते श्लोका मञ्जूषादिसमाप्तौ वर्तन्ते. २. 'बिसेनवंशजलधौ पर्णः शीत. करोऽपरः।-नाम्ना हिम्मतिवर्मा भद्धर्येण हिमवानिव।--तस्माजातो रामदत्तथन्द्राच्चान्द्रिरिवापरः।------तेन श्रीरामभक्तेन सर्वाविद्याः प्रजानता। शृङ्गवेरपुरेशेन रिपु. कक्षदवाग्निना ॥ अथिनां कल्पवृक्षेण विद्वजनसभासदा। भट्टनागेशशिष्येण बध्यते गमव
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नागेशभः ।
पालन्धजीवनो बहून्ग्रन्थान्प्रणीतवान्. तत्राद्यावधि ज्ञाता ग्रन्थास्त्वेते--(१) काव्यप्रदीपोद्दयोतः, (२) परमलघुमञ्जूषा, (३) परमार्थसारविवरणम्, (४) परिभाषेन्दुशेखरः, (५) प्रायश्चित्तेन्दुशेखरः, (६) बृहच्छब्देन्दुशेखरः, (७) बृहन्मअषा, (८) भाष्यप्रदीपोद्दयोतः, (९) योगसूत्रवृत्तिः, (१०) रसगङ्गाधरमर्मप्रकाशः, (११) रसतरङ्गिणीटीका, (१२) रसम बरीटीका, (१३) लघुमञ्जूषा, (१४) लघुशब्देन्दुशेखरः, (१५) वृत्तिसंग्रहः, (१६) वेदान्तसूत्रवृत्तिः, (१७) सप्तशतीस्तोत्रटीका, (१८) सांख्यसूत्रवृत्तिः, (१९) सापिण्ड्यनिर्णयः.
काव्यप्रकाशोहयोतः, न्यायसूत्रत्तिः, मीमांसासूत्रवृत्तिः, वैशेषिकसूत्रवृत्तिः, एतद्न्यचतुष्टयमन्यदपि नागेशप्रणीतमस्तोति केचिद्वदन्ति, स्वगुरोर्हरिदीक्षितस्य नाना शब्दरत्नम्, स्वप्रभोः शङ्गवेरपुराधीशरामस्य नाम्नाध्यात्मवाल्मीकीयरामायणयोष्टीकाद्वयं च नांगशभनेव प्रणीतमित्यपि प्रसिद्धिरस्ति.
मणा ||-----सेतुः परोपकृतयेऽध्यात्मरामायणाम्बुधौ।' एते श्लोका अध्यात्मरामायणटीकाप्रारम्भ सन्ति. ३. शृङ्गवेरपरं गङ्गातीरे वर्तत इति वाल्मीकीयरामायणेऽयोध्याकाण्डे पञ्चाशन्मिते सर्गेऽस्ति. अध्यात्मरामायणेऽयोध्याकाण्डे पञ्चमे सर्गे च 'गङ्गातीरं समागच्छच्छृङ्गिवेराविदूरतः ।' इत्यादि (६०)श्लोकटीकायां 'ङ्गिवेर ङ्गीऋष्याश्रमः । तदविदरतस्तत्पर्वभागे।' इत्यस्ति. कोलबुक (11. ''. Colebrooke) पण्डितोऽपि 'मिस्सेलेनिअस् एस्सेस्' (Miscellaneous Essays) नामकग्रन्थे (द्वितीयभागे १३ पृष्ठे टिप्पणे) 'शृङ्गवेरपुरं गङ्गातटोपरि सिंघोरनाम्ना ख्यातं प्रयागादुपरिभागे वर्तते' इति वदति.
१. शब्दरत्ने नागेशस्य तत्कृतशेखरमञ्जूषयोश्च नाम समुपलभ्यते.
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
_ 'पण्डितराजजगन्नाथकृतो रसगङ्गाधरः सत्वरमेव प्रसिद्धि प्रापणीयः' इति नानादेशवासिभिर्बहभिमित्रः प्रोत्साहिताः, विशेषतश्च मान्यवर्यभाण्डारकरोपाहरामकृष्णशर्मभिर्विद्वन्मूर्धरत्नेः समादिष्टा वयं काव्यमालायामेतन्मुद्रणे प्रवृत्ताः स्मः. तत्रास्मन्मुद्रणाधारभूतानि पुस्तकान्येतानि सन्ति
१ जयपुरीयराजगुरुपर्वणोकरनारायणभट्टानां मूलमात्रमुत्तरालंकारप्रकरणान्तं नातिशुद्धम्.
२ जयपुरीयराजगुरुभलक्ष्मीदत्तसूनुभट्टश्रीदत्तानां तादृशमेव.
३ जयपुरीयराजगुरुकथाभट्टचन्द्रेश्वराणां मूलमात्रमप्रस्तुतप्रशंसाप्रकरणान्तमशुद्धमेव प्रायः.
४ पूर्वोक्तविशेषणविशिष्टनारायणभट्टरेव ग्वाह्नेरनगरादानायितं मलमात्रमपतिप्रकरणान्तं प्रायः शुद्धम्.
५ जयपुरीयजैनपाठशालाप्रधानाध्यापकद्रविडकाशिनाथशास्त्रिणां टीकामात्र प्रा. यः शुद्धम्. ६ पूर्वोक्तविशेषणविशिष्टभश्रीदत्तानां टिप्पणमात्रं शुद्धमेव.
अत्र मूलपुस्तकचतुटयेऽप्यशुद्धतामपहाय प्रायो नास्ति पाठभेदः. अत एव पाठान्तरप्रदर्शनाय न यतितम्. विहिते चानकपुस्तकावलम्बेनापि मद्रणे मानुष्यसुलभात्प्रमादाव्युत्पत्तिशैथिल्यादक्षरयोजकादिदोषाद्वा संजाता क्वचित्वचिदशुद्धतेति स्थूलदृष्टया भलमन्यशोधनपत्रं विधाय ग्रन्थान्ते निहितम्. अतस्तत्साहाय्येन प्रथमं ग्रन्यशोधनं कृत्वा विद्वद्भिः पठनपाठनादि विधेयमस्य ग्रन्थस्येति शिवम्.
१. एतहिप्पणं तु केनचिन्नागेशकृतरसगङ्गाधरटीकात एव समुद्धतम्. २. टीकाया एकमेव पुस्तकं समुपलब्धमिति बहुपु स्थलेषु संदेहो वर्तते. अत एव टीकायाः शोधनपत्रमपि कर्तुं न पारितम्.
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
पण्डितराजश्रीजगन्नाथविरचितो
रसगङ्गाधरः। नागेशभकृतया गुरुमर्मप्रकाशाख्यव्याख्यया समेतः ।
प्रथममाननम् । स्मृतापि तरुणातपं करुणया हरन्ती नृणा
मभङ्गरतनुत्विषां वलयिता शतैर्विद्युताम् । कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी ॥
नत्वा गङ्गाधरं मर्मप्रकाशं तनुते गुरुम् । रसगङ्गाधरमणेरतिगूढार्थसंविदे ॥ याचकानां कल्पतरोररिकक्षहुताशनात् ।
नागेशः शृङ्गवेरेशरामतो लब्धजीविकः ॥ प्रारिप्सितप्रतिबन्धकदुरितशमनाय शृङ्गारालम्बनादिविभावतया तद्देवतात्वेन च समुचितस्वेष्टदेवतावस्तुनिर्देशरूपं मङ्गलमाचरञ्शिष्यशिक्षायै व्याख्यातृश्रोतणामनुषङ्गतो मङ्गलाय च निबध्नाति-स्मृतापीति । कादम्बिनी मेघपतित्वेनाध्यवसिता कृष्णमूर्तिः। विलक्षणश्यामत्वात्सकलमेघकार्यकरत्वाच्च । अत एव मेघत्वेनाध्यासः । कापीत्यनेनात्र तद्धर्मसत्त्वेऽपि ततोऽधिककार्यकारित्वेन प्रसिद्ध कादम्बिनीतो व्यतिरेकस्तत्र बोध्यते । मतिचुम्बिनी मतिविषयः । भवत्विति प्रार्थने लोट् । व्यतिरेकपोषकं विशेषणत्रयम् । प्रसिद्धा सा तु दृष्टा वर्षणद्वारा स्पृष्टा वा स्वाभाव्या द्रुषस्थभान्वातपान्यतापं केषांचिन्न तु सर्वेषां भूतभविष्यद्वर्तमानभेदेन हृतवती । इयं तु स्मृतापि । दृष्टादिसमुच्चायकोऽपिः । तरुणातपम् । तमपि करुणया न तु यथाकथंचित् । नृणां सर्वेषां न तु केषांचित् । हरन्ती न तु जहार हरिष्यति वा । किं च सा भङ्गशीलतनुकान्तिविद्युता वेष्टिता। इयं तु चिरकालस्थायिशरीरकान्तीनां वियतां तत्त्वेनाध्यावसितानां गोपाङ्गनानां शतैर्न त्वेकद्वित्र्यादिभिर्वलयिता वेष्टिता। यद्वा 'धान्येन धनवान्' इतिवत्तृतीया । तदभिन्नसंजात. वलया । कलिन्दाख्यमहीधरोत्पन्नयमुनातीरे सुरद्रुमा नीपाः । तेषां तत्त्वं तु हरिप्रिय
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
श्रीमज्ज्ञानेन्द्रभिक्षोरधिगतसकलब्रह्मविद्याप्रपञ्चः
काणादीराक्षपादीरपि गहनगिरो यो महेन्द्रादवेदीत् । देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं
शेषाङ्कप्राप्तशेषामलभणितिरभूत्सर्वविद्याधरो यः॥ पाषाणादपि पीयूषं स्यन्दते यस्य लीलया। तं वन्दे पेरुभट्ठाख्यं लक्ष्मीकान्तं महागुरुम् ॥ निमग्नेन क्लेशैर्मननजलधेरन्तरुदरं
मयोन्नीतो लोके ललितरसगङ्गाधरमणिः । हरन्नन्तन्तिं हृदयमधिरूढो गुणवता
मलंकारान्सर्वानपि गलितगर्वान्रचयतु ॥ त्वात् । 'मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे' इति लिङ्गाच्च बोध्यम् । यद्वा तीरमेव सुरद्रुमास्तत्त्वेन प्रसिद्धाः पञ्च । तदाश्रयिका । सा तु वियत्सरण्यायिकेति भावः । यद्वा कादम्बिनीत्वेनाध्यवसिता काली। सा च कृष्णमूर्तिः । वृन्दावनाधिष्ठात्री देवता राधा वा । विद्युत्त्वेनाध्यवसितास्तत्परिचारकदेव्यः । तृतीयविशेषणार्थस्तु स्पष्ट एवेति बोध्यम् । अत्र व्यतिरेकरूपकातिशयोक्योरङ्गाङ्गिभावाख्यः संकरः ॥
स्वोक्तेः कल्पितत्वनिरासाय स्वविद्यायाः सांप्रदायिकत्वसूचनाय च गुरुनति द्वाभ्यामाह-श्रीमदिति । श्रीः सरस्वती ब्रह्मवर्चसं वा । ज्ञानेन्द्राख्ययतेः । सकाशादित्यर्थः । पूर्वाधं य इत्युभयत्रान्वेति । उत्तरार्धे य इति त्रिषु । प्रपञ्चे निखिलत्वोक्त्या लेशतोऽपि तदत्यागः सूचितः । कणादाक्षपादाभ्यां प्रोक्ता गम्भीरवाण्यः । न्यायवैशेषिकशास्त्राणीति यावत् । देवादेव । एवः प्रसिद्धौ । खण्डदेवादेवेत्यर्थः । स्मरेति । काश्यां जैमिनिप्रोक्तं शास्त्रम् । शेष इत्यङ्क उपनाम यस्य तस्माद्वीरेश्वरपण्डितात्प्राप्ता शेषस्य पतञ्जलेरमला भणितिर्महाभाष्यरूपा येन तादृशः । उपसंहरति-सवेति । एतेन तदितरशास्त्रवेदादिज्ञातत्वं सूचितम् । अत्र य इत्यस्य तमित्युत्तरश्लोकेनान्वयः ।।
पाषाणादपीति । यच्चेष्टाविशेषेण जडादप्यमृतस्रावश्चेतनादिति तु किमु वाच्यम् । इत्यनेन महामहिमशालिता वणिता। तेन तन्मुखश्रवणमात्रेण पाषाणतुल्यस्वस्य सकलवि. द्याविर्भावोऽनायासेन सूचितः । लक्ष्मीति तत्पत्नीनाम । यद्वा लक्ष्मीकान्तं विष्णुस्वरूपम् । सर्वविद्यानामेकस्मादेव लाभात्तत्र महत्त्वम् ॥
ततः किमत आह-निमनेनेति । युक्तिहेतुकानुचिन्तनरूपोदध्युदरमध्ये न तु यत्र क्वचित् । क्लेशैर्न तु क्लेशेन । नितरां न तु यथाकथंचित् । मनेन मया जगन्नाथेन लोके भूलोक उन्नीत आनीतो ललितो रमणीयो रसगङ्गाधर एव मणिगुणवताम् । अनेन तद्रहितानामनादरेऽपि न क्षतिरिति सूचितम् । हृदयमधिरूढ: स्वान्तं प्रविष्टः । असा.
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
परिष्कुर्वन्त्वर्थान्सहृदयधुरीणाः कतिपये तथापि क्लेशो में कथमपि गतार्थो न भविता । तिमीन्द्राः संक्षोभं विदधतु पयोधेः पुनरिमे किमेतेनायासो भवति विफलो मन्दरगिरेः ॥ निर्माय नूतनमुदाहरणानुरूपं
काव्यं मयात्र निहितं न परस्य किंचित् । किं सेव्यते सुमनसां मनसापि गन्धः कस्तूरिकाजननशक्तिभृता मृगेण ॥ मननतरितीर्ण विद्यार्णवो जगन्नाथपण्डितनरेन्द्रः । रसगङ्गाधरनाम्नीं करोति कुतुकेन काव्यमीमांसाम् ||
m
धारणधर्ममाह - अन्तरिति । ग्रन्थपक्षे साहित्यविषयमज्ञानम् । मणिपक्षे तु स्पष्टमेव । अलंकारान्भूषणानि तच्छास्त्राणि वा । सर्वानपि न तु कांश्चित् । गलितः स्वयमेव च्युतो नष्टो गर्वो येषां तान्रचयतु । करोत्वित्यर्थः ॥
For Private And Personal Use Only
ननु तादृशार्षप्रथेनैव निर्वाहे किमित्यपूर्वोऽयं ग्रन्थोऽत आह- परीति । केचन काव्यवासनावासितान्तःकरणश्रेष्ठा अर्थानाषनलंकारादीन्परिष्कुर्वन्तु, तथापि तैस्तथा कृतेऽपि मे क्लेशो रसगङ्गाधररचनरूपः कथमपि स्वल्पतोऽपि गतार्थश्चरितार्थो न भविता | भविष्यतीति वाच्ये भवितेत्यनेनेदं सूचितम् स्वग्रन्थकरणकाले स्वतुल्यपण्डितसत्त्वेन तेषां गतार्थत्वेऽप्यग्रिमाणामल्पबुद्धीनां न गतार्थत्वम् । अत एव केचन सहृदय - धुरीणा इत्युक्तमिति । उक्तमर्थमर्थान्तरोपन्यासेन द्रढयति - तिमीन्द्रा मत्स्यविशेषश्रेष्ठाः पुनर्भूयः सम्यङ् न तु यथाकथंचित्क्षोभमालोडनं कुर्वन्तु । एतेन तत्कर्तृकेन तेन मन्दराचलप्रयास विफलो निष्फलः किं भवति । अपि तु नेति । तिमीन्द्राणां तत्रत्यरत्नलाभेsपि देवानां तदलाभात्तत्करणेन साफल्यमिति भावः ॥
इतरग्रन्थतो विशेषान्तरमाह-निर्मायेति । उदेति । तत्तदलंकारादिलक्ष्यत्वयोग्यं काव्यं भामिनीविलासाख्यम् । अत्र रसगङ्गाधरग्रन्थे । लेशतोऽपि परकीयत्वाभावायाह- -न परस्येति । निहितमित्यस्यानुषङ्गः । पूर्ववदाह - किमिति । सुमनसां पुष्पा - णाम् । गन्ध आमोदः । कस्तूरिकावतेति वाच्ये जननशक्तीत्यनेन सूचितम् कदापि परकीयग्रहणं न । तज्जननशक्तिसत्त्वेन यावदपेक्षितोत्पादनसंभवादिति ।।
प्रतिजानीते - मननेति । मननरूपनौकापारंगत विद्यारूपो दधिर्जगन्नाथाख्यपण्डितश्रेष्ठः । पण्डितो नरेन्द्रः पृथ्वीशो येन वा । नरेन्द्रस्य पण्डित इति वा । पण्डितश्चासौ नरेन्द्रश्च तत्तुल्यत्वादिति वा । वस्तुतस्तु जगन्नाथपण्डितराज इति पृथ्वीपतिदत्तनामाभिलापोऽयम् । कुतुकेनेत्यनेन स्वस्य ग्रन्थकरणे क्लेशाभावः सूचितः । मीमांसा विचारः ।।
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
रसगङ्गाधरनामा संदर्भोऽयं चिरं जयतु ।
किं च कुलानि कवीनां निसर्गसम्यञ्चि रञ्जयतु ॥ __ तत्र कीर्तिपरमाहादगुरुराजदेवताप्रसादाद्यनेकप्रयोजनकस्य काव्यस्य व्युत्पत्तेः कविसहृदययोरावश्यकतया गुणालंकारादिभिर्निरूपणीये तस्मिन्विशेष्यतावच्छेदकं तदितरभेदबुद्धौ साधनं च तल्लक्षणं तावन्निरूप्यते
रमणीयार्थप्रतिपादकः शब्दः काव्यम् । रमणीयता च लोकोत्तराहादजनकज्ञानगोचरता । लोकोत्तरत्वं चाहादगतश्चमत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेषः । कारणं च तदवच्छिन्ने भावनाविशेषः पुनःपुनरनुसंधानात्मा । 'पुत्रस्ते जातः', 'धनं ते दास्यामि' इति वाक्यार्थधीजन्यस्याहादस्य न लोकोत्तरत्वम् । अतो न तस्मिन्वाक्ये काव्यत्वप्रसक्तिः । इत्थं च चमत्कारजनकभावनाविषयार्थप्र
प्रार्थयते-रसेति । अयं बुद्धिस्थः संदर्भः पञ्चाङ्गकं वाक्यं चिरं चिरकालं जयतु सर्वोत्कर्षेण वर्तताम् । किं च स एव निसर्गसम्यश्चि स्वभावरमणीयानि । एतेन कृ. त्रिमरमणीयनिरासः । कवीनां कुलानि वंशान्समूहान्वा रञ्जयत्वनुरक्तान्करोतु ॥
तत्र करणीये अन्थे । परमालादो विगलितवेद्यान्तरानन्दः । आदिना द्रव्यलाभादिः । कविः काव्यकर्ता । सहृदयस्तदनुभववान् । कवेरनुभवश्चेत्सहृदयत्वेनैव न तु कवित्वेन । गणेति । विशेषणैरित्यर्थः । आदिना रसादिपरिग्रहः । तस्मिन्काव्ये। निष्ठत्वं सप्तम्यर्थः । तस्य विशेष्यतायामन्वयः । तल्लक्षणं काव्यलक्षणम् । इष्टतावच्छेदकं च तदेव । तत्प्रकारकज्ञानस्य प्रवर्तकत्वादिति बोध्यम् । तावदादौ । रमणीयेति । कटाक्षादिवारणाय शब्द इति । व्यङ्गयादिसंग्रहाय वाचक इत्यनुक्त्वा प्रतिपादक इत्युक्तम् । रमणीयशब्दप्रतिपादके व्याकरणादिरूपेऽतिव्याप्तिवारणायार्थेति । 'घटमानय' इत्यादिवाक्यवारणाय रमणीयेति । ननु रमणीयस्याननुगतत्वात्तत्रापि तत्त्वमस्त्येवेत्यत आह-रमणीयता चेति । ननु लोकोत्तरत्वं यथाकथंचिच्चेदुक्तदोषः । आत्यन्तिकं चेद्ब्रह्मानन्द एवात आह-लोकोत्तरत्वं चेति । अनुभवसाक्षिक इत्यनेन तदन्यप्रमाणनिरासः । स चानुभवः सहृदयानामेव । एवं च नोक्तदोष इति भावः । ज्ञानं च भावनारूपमेव ना. न्यदित्याह-कारणं चेति । तदवच्छिन्ने चमत्कारत्वापरपर्यायलोकोत्तरत्वरूपजात्यवच्छिन्ने । विशेषो न तु सामान्यम् । अत एव तत्स्वरूपमाह-पुनरिति । लोकोत्तरेति विशेषणकृत्यमाह-पुत्रस्ते इत्यादि। अत्र वाक्यार्थद्वयम् । तथा सति परिष्कृतं लक्षणमाह-इत्थं चेति । उक्तार्थसिद्धौ चेत्यर्थः । फलितमित्यत्रान्वयः । यत्किचि
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
तिपादकशब्दत्वम्, यत्प्रतिपादितार्थविषयकभावनात्वम्, चमत्कारजनकतावच्छेदकं तत्त्वम् । स्वविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेण चमत्कारत्ववत्त्वमेव वा काव्यत्वमिति फलितम् । यत्तु प्राञ्चः 'अदोषौ सगुणौ सालंकारौ शब्दार्थों काव्यम्" इत्याहुस्तत्र विचार्यते-शब्दार्थयुगलं न काव्यशब्दवाच्यम् । मानाभावात् । काव्यमुच्चैः पठ्यते, काव्यादर्थोऽवगम्यते, काव्यं श्रुतमर्थो न ज्ञातः, इत्यादिविश्वजनीनव्यवहारतः प्रत्युत शब्दविशेषस्यैव काव्यपदार्थत्वप्रतिपत्तेश्च । व्यवहारः शब्दमात्रे लक्षणयोपपादनीय इति चेत्, स्यादप्येवम्, यदि काव्यपदार्थतया पराभिमते शब्दार्थयुगले काव्यशब्दशक्तेः प्रमापकं दृढतरं किमपि प्रमाणं स्यात् । तदेव तु न पश्यामः । विमतवाक्यं त्वश्रद्धेयमेव । इत्थं चासति काव्यशब्दस्य शब्दार्थयुगलशक्तिग्राहके प्रमाणे प्रागुक्ताद्वयवहारतः शब्दविशेषे सिद्धयन्ती शक्ति को नाम निवारयितुमीष्टे । एतेन विनिगमनाभावादुभयत्र शक्तिरिति प्रत्युक्तम् । तदेवं शब्दविशेषस्यैव काव्यपदार्थत्वे सिद्धे तस्यैव लक्षणं वक्तुं युक्तम्, न तु स्वकल्पि
चमत्कारजनकज्ञाने समूहालम्बनविधया भासमानान्यार्थप्रतिपादकशब्दे काव्यत्ववार. णाय ज्ञानेत्यपहाय भावनेत्युक्तम् । शब्दत्वमित्यस्य काव्यत्वमित्यत्रान्वयः । धारावाहिकसकलज्ञानविषयतादृशार्थप्रतिपादके वाक्येऽतिव्याप्तेराह-यत्प्रतिपादितेति । यादृशानुपूर्वीप्रतिपादितार्थविषयकत्वविशिष्टभावनात्वं तज्जनकतावच्छेदकं तादृशानुपूर्वीमत्वमित्यर्थः । तेन नोक्तदोषः । लाघवादाह-स्वेति । स्वं चमत्कारत्वम् । जनकतावच्छेदकार्थेति । अर्थे भावनानिष्ठजनकतावच्छेदकता विषयतासंबन्धेन बोध्या । लक्ष्यतावच्छेदकं चैतत्समानाधिकरणं काव्येत्याद्यनुगतव्यवहारेणास्वादजनकतया च सिद्धजातिविशेषरूपमुपाधिरूपं वा काव्यत्वं बोध्यम् । प्राञ्चः प्रकाशकृदादयः । नन्वास्वादव्यञ्जकत्वस्योभयत्राविशेष एव मानमत आह-काव्यमिति । प्रत्युत वैपरीत्येन । आदिना काव्यं पठितमित्यादिसंग्रहः । इत्यादि । इत्यादि सार्वजनीनव्यवहारात् । सार्वविभक्तिकस्तसिः । विशेषपदेन प्रागुक्तार्थकत्वसूचनम् । एवमग्रेऽपि । एवेनार्थनिरासः । प्रतिपत्तेश्च निर्णयाचेत्यन्वयार्थी । परेति । प्रकाशकृदादीत्यर्थः । प्रत्यायकं निश्चायकम् । विमतेति । प्रकाशकृदित्यर्थः । उपसंहरति-इत्थं चेति । तस्याश्रद्धयत्वे चेत्यर्थः । शब्दस्येत्यस्योभयत्र शक्तावन्वयः । एतेन व्यवहाररूपविनिगमकसत्वेन । प्रकरणार्थमुपसंहरति-तदेवमिति । एवमुक्तप्रकारेण । तस्यैव शब्दविशेषरूपस्यैव । प्रासङ्गिक
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
तस्य काव्यपदार्थस्य । एषैव च वेदपुराणादिलक्षणेष्वपि गतिः । अन्यथा तत्रापीयं दुरवस्था स्यात् । यत्त्वास्वादोद्बोधकत्वमेव काव्यत्वप्रयोजकं तच्च शब्दे चार्थे चाविशिष्टमित्याहुः, तन्न । रागस्यापि रसव्यञ्जकताया ध्वनिकारादिसकलालंकारिकसंमतत्वेन प्रकते लक्षणीयत्वापत्तेः । किं बहुना नाट्याङ्गानां सर्वेषामपि प्रायशस्तथात्वेन तत्त्वापत्तिर्दुर्वारैव । एतेन रसोद्बोधसमर्थस्यैवात्र लक्ष्यत्वमित्यपि परास्तम् । अपि च काव्यपदप्रवृत्तिनिमित्त शब्दार्थयोासक्तम्, प्रत्येकपर्याप्तं वा । नाद्यः।एको न द्वावितिव्यवहारस्येव श्लोकवाक्यं न काव्यमिति व्यवहारस्यापत्तेः । न द्वितीयः । एकस्मिपद्ये काव्यद्वयव्यवहारापत्तेः। तस्माद्वेदशास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता । लक्षणे गुणालंकारादिनिवेशोऽपि न युक्तः । 'उदितं मण्डलं विधोः' इति काव्ये दूत्यभिसारिकाविरहण्यादिसमुदीरितेऽभिसरणविधिनिषेधजीवनाभावादिपरे ‘गतोऽस्तमर्कः' इत्यादौ चाव्याप्यापत्तेः । न चेदमकाव्यमिति शक्यं वदितुम् । काव्यतया पराभिम
माह-एषैव चेति । अन्यथा वेदत्वादेरुभयत्राङ्गीकारे दुरवस्था व्यवहारोच्छेदापत्ति. रूपा । लक्षणीयत्वेति । तथा च तत्रातिव्याप्तिरिति भावः । सर्वेषामपि चेष्टादोनामपि । क्वचित्तदभावादाह-प्रायश इति । तथात्वेन रसव्यञ्जकत्वेन । तत्त्वापत्तिः काव्यत्वापत्तिः । मतत्रयसाधारणं दोषमाह-अपि चेति । व्यासक्तं व्यासज्यवृत्ति । उचितेति । यदि त्वास्वादव्यञ्जकत्वस्योभयत्राप्यविशेषाच्चमत्कारिबोधजनकज्ञानविष. यतावच्छेदकधर्मवत्त्वरूपस्यानुपहसनीयकाव्यलक्षणस्य प्रकाशायुक्तलक्ष्यतावच्छेदकस्योभयवृत्तित्वाच्च काव्यं पठितम्, श्रुतं काव्यम्, बुद्ध काव्यमित्युभयविधव्यवहारदर्शनाच काव्यपदप्रवृत्तिनिमित्तं व्यासज्यवृत्ति । अत एव वेदत्वादेरुभयवृत्तित्वप्रतिपादकः 'तदधोते' इत्यादि सूत्रस्थो भगवान्पतञ्जलि: संगच्छते । लक्षणयान्यतरस्मिन्नपि तत्त्वादेको न द्वावितिवन्न तदापत्तिः । तेनानुपहसनीयकाव्यलक्षणं प्रकाशोक्तं निर्याधम् । एवमास्वादादौ वैलक्षण्यनिवेशादुक्तलक्षणद्वयमपि निधिमिति नान्यमतमपि दुष्टमित्युच्यते तास्तु तथा । सामान्यलक्षणं त्वदोषादिपदाघटितमेव तेषामपि मते । एवं च न कोऽपि दोष इति बोध्यम् । तदाह-लक्षण इति । काव्यसामान्यलक्षण इत्यर्थः । आदिना सख्यादिपरिग्रहः । यथासंख्यमन्वयः । आदिना पतिप्राप्त्यादिपरिग्रहः । इदं च मध्यमणिन्यायेनोभयान्वयि । अव्याप्त्यापत्तेरिति । गुणालंकारयोरभावादिति भावः । तथा अकाव्यमितीति । ननु काव्यजीवितं चमत्कारित्वं तत्रास्तीत्यत आह--काव्यति ।
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः । तस्यापि तथा वक्तुं शक्यत्वात् । काव्यजीवितं चमत्कारित्वं चावशिष्टमेव । गुणत्वालंकारत्वादेरननुगमाच्च । दुष्टं काव्यमिति व्यवहारस्य बाधकं विना लाक्षणिकत्वायोगाच्च । न च संयोगाभाववान्वृक्षः संयोगीतिवदंशभेदेन दोषरहितं दुष्टमिति व्यवहारे बाधकं नास्तीति वाच्यम् । 'मूले महीरुहो विहंगमसंयोगी न शाखायाम्' इति प्रतीतेरिवेदं पद्यं पूर्वार्धे काव्यमुत्तरार्धे तु न काव्यमिति स्वरसवाहिनो विश्वजनीनानुभवस्य विरहादव्याप्यवृत्तिताया अपि तस्यायोगात् । शौर्यादिवदात्मधर्माणां गुणानाम्, हारादिवदुपस्कारकाणामलंकाराणां च शरीरघटकत्वानुपपत्तेश्च । यत्तु 'रसवदेव काव्यम्' इति साहित्यदर्पणे निर्णीतम्, तन्न ! वस्त्वलंकारप्रधानानां काव्यानामकाव्यत्वापत्तेः । न चेष्टापत्तिः । महाकविसंप्रदायस्याकुलीभावप्रसङ्गात् । तथा च जलप्रवाहवेगनिपतनोत्पतनभ्रमणानि कविभिर्वर्णितानि । कपिबालादिविलसितानि च । न च तत्रापि यथाकथंचित्परम्परया रसस्पर्शोऽस्त्येवेति वाच्यम् । ईदृशरसस्पर्शस्य 'गौश्चलति', ननु विलक्षणचमत्कारित्वं तत्रैवेति नोक्तदोषोऽत आह-गुणत्वेति । ननु काव्यधर्मत्वं रसधर्मत्वं वा गुणत्वम्, काव्यशोभाधायकत्वं काव्यधर्मलं वालंकारत्वमित्यनुगम एवेति चेत्सत्यम् । तथापि गुणालंकारादीत्यादिपदेनादोषाविति विशेषणमयुक्तमित्यभिमतम् । युक्तं चैतत् । दोषसामान्याभावनिवेशे काव्यव्यवहारस्य विरलविषयतापत्तेः । इदं काव्यं दुष्टमिति व्यवहारानापत्तेश्च । न चादोषपदेन स्फुटदोषराहित्यं विवक्षितम् । स्फुटत्वं च शाब्दबोधप्रतिबन्धकत्वम् । तेन निराकाङ्कत्वानासन्नत्वे गृह्यते । अन्यथा रसादिदोषाणां त्यागे बीजानापत्तिः । नह्यदोषौ शब्दार्थावित्युक्ते रसादिदोषाभावः प्रतीयत इति वाच्यम् । अर्थशब्देन रसस्यापि ग्रहादिति भावः । तदाहदुष्टकाव्यमितीति । एवं च तेषामपि मते तादृशकाव्यलक्षणेऽदोषाविति मात्रस्यानिवेश इति बोध्यम् । स्वरसेति । स्वारसिकस्येत्यर्थः । विश्वेति । सर्वजनीनेत्यर्थः । अपिः प्रागुक्तरीतिसमुच्चायकः । ननु सामान्यलक्षणस्यादोषपदाघटितत्वात्तथा व्यवहा. रोपपत्तिरत आह-शौर्यादीति । उत्कर्षाधायकत्वेन साम्यत्वम् । एवं च विशेषलक्षणे तेषां निवेशेऽपि सामान्यलक्षणे तेषां न निवेश इति न कोऽपि दोष इति भावः । वस्त्विति । प्रधानपदस्योभयत्रान्वयः । आकुलीति। उच्छेदेत्यर्थः । संप्रदायमेवाह-तथा चेति । विलसितानि चेति । वर्णितानीत्यस्यानुषङ्गः । न च तत्र रसो. ऽस्तीति भावः । यथाकथंचिदित्यस्यैव व्याख्या परम्परयेति । परम्परामेवाह-अथेति । - सर्वस्यार्थस्येत्यर्थः ।
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
'मृगो धावति' इत्यादावतिप्रसक्तत्वेनाप्रयोजकत्वात् । अर्थमात्रस्य वि. भावानुभावव्यभिचार्यन्यतमत्वादिति दिक् ॥
तस्य च कारणं कविगता केवला प्रतिभा । सा च काव्यघटनानुकूलशब्दार्थोपस्थितिः । तद्गतं च प्रतिभात्वं काव्यकारणतावच्छेदकतया सिद्धो जातिविशेष उपाधिरूपं वाखण्डम् । तस्याश्च हेतुः क्वचिद्देवतामहापुरुषप्रसादादिजन्यमदृष्टम् । क्वचिच्च विलक्षणव्युत्पत्तिकाव्यकरणाभ्यासौ । न तु त्रयमेव । बालादेस्तौ विनापि केवलान्महापुरुषप्रासादादपि प्रतिभोत्पत्तेः । न च तत्र तयोर्जन्मान्तरीययोः कल्पनं वाच्यम् । गौरवान्मानाभावात्कार्यस्यान्यथाप्युपपत्तेश्च । लोके हि बलवता प्रमाणेनागमादिना सति कारणतानिर्णये पश्चादुपस्थितस्य व्यभिचारस्य वारणाय जन्मान्तरीयमन्यथानुपपत्त्या कारणं धर्माधर्मादि कल्प्यते । अन्यथा तु व्यभिचारोपस्थित्या पूर्ववृत्तकारणतानिर्णये भ्रमत्वप्रतिपत्तिरेव जायते । नापि केवलमदृष्टमेव कारणमित्यपि शक्यं वदितुम् । कियन्तं चित्कालं काव्यं कर्तुमशक्नुवतः कथमपि संजातयोर्युत्पत्त्यभ्यासयोः प्रतिभायाः प्रादुर्भावस्य दर्शनात् । तत्राप्यदृष्टस्याङ्गीकारे प्रागपि ताभ्यां तस्याः
तस्य च काव्यस्य । केवलेत्यनेन निपुणतादिव्यावृत्तिः । शब्दार्थोपेति । शब्दार्थोभयेत्यर्थः । उपाधिर्वेति । उपाधित्वपरित्यागेन तत्त्वाङ्गीकारे बीजमित्यर्थः । नीलघटत्वादिवत्सखण्डोपाधिरेवेति वार्थः । 'अखण्डम्' इति पाठस्तु चिन्त्य एव । तस्याः प्रतिभायाः । आदिना तपआदिपरिग्रहः । व्युत्पत्तीति । लोकशास्त्रादिविषयेत्यर्थः । न तु त्रयमेवति । प्रतिभात्वावच्छिन्नं प्रति मिलितं त्रितयमेव कारणमिति नेत्यर्थः । एवकारेण क्वचित्रितयस्यापि कारणत्वमिति ध्वनयति । विलक्षणत्रितयजन्यप्रतिभा चातिविलक्षणा । तज्जन्यं काव्यं चातिविलक्षणमेवेति न दोष इति दिक् । दोषान्तरमाह-मानेति । ननु कार्यान्यथानुपपत्तिरेव मानमत आह-कार्येति । केवला. ष्टादपीत्यर्थः । तदेव विशदयति-लोके हीति । लोकशब्दः प्रकृतेतरपरः । आगम: श्रुतिः । आदिना स्मृत्यादिपरिग्रहः । अत एव बलवत्त्वम् । अन्यथा तु, बलवतागमादिना तदनिर्णये तु । एवेन प्रमात्वव्यावृत्त्या कार्यासाधकत्वं सूचितम् । केवलपदं स्पष्टार्थम् । प्रतिभा प्रतीति शेषः । कथमपि केनापि प्रकारेण । व्युत्पत्यभ्यासयोः सतो. रिति शेषः । ताभ्यां व्युत्पत्त्यभ्यासाभ्याम् । तस्याः प्रतिभायाः । तत्र व्युत्पत्त्यभ्यासप्राकालिकादृष्टविषये । एवं च तदानीं सा न । अनन्तरं कथमपि प्रतिबन्धकनाशे
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
प्रसक्तेः । न च तत्र प्रतिभायाः प्रतिबन्धकमदृष्टान्तरं कल्प्यमिति वाच्यम् । तादृशानेकस्थलगतादृष्टद्वयकल्पनापेक्षया क्लृप्तव्युत्पत्त्यभ्यासयोरेव प्रतिभाहेतुत्वकल्पने लाघवात् । अतः प्रागुक्तसरणिरेव ज्यायसी । ताहशादृष्टस्य तादृशव्युत्पत्त्यभ्यासयोश्च प्रतिभागतं वैलक्षण्यं कार्यतावच्छेदकम्, अतो न व्यभिचारः । प्रतिभात्वं च कवितायाः कारणतावच्छेदकं प्रतिभागतवैलक्षण्यमेव वा विलक्षणकाव्यं प्रतीतिनात्रापि सः । न च सतोरपि व्युत्पत्त्यभ्यासयोर्यत्र न प्रतिभोत्पत्तिस्तत्रान्वयव्यभिचार इति वाच्यम् । तत्र तयोस्तादशलक्षण्ये मानाभावेन कारणतावच्छेदकानवच्छिन्नत्वात् । पापविशेषस्य तत्र प्रतिबन्धकत्वकल्पनाद्वा न दोषः । प्रतिबन्धकाभावस्य च कारणता समुदितशक्त्यादित्रयहेतुतावादिनः शक्तिमात्रहेतुतावादिनचाविशिष्टा । प्रतिवादिना मन्त्रादिभिः कृते कतिपयदिवसव्यापिनि वास्तम्भे विहितानेकप्रबन्धस्यापि कवेः काव्यानुदयस्य दर्शनात् ॥ तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा । शब्दार्थी यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यङ्गस्तदायम् ।
सा भवत्येवेति भावः । क्लप्तति। प्रतिबन्धकादृष्टादि नाशकतयेति भावः । एतेनोक्तद्वयव्यावृत्तिः । नन्वेवं प्रतिभाकार्यककार्यकारणभावे व्यभिचारोऽत आह-तादृशति । केवलेत्यर्थः । तथा च विजातीयप्रतिभा प्रति तत्कारणं विजातीयप्रतिभा प्रति ताविति न दोष इति भावः । नन्वेवमपि प्रतिभाकारणककार्यकारणभावे व्यभिचार एवात आहप्रतिभात्वं चेति । प्रागुक्तं सामान्यरूपमित्यर्थः । नन्वेवमप्येकप्रतिभातोऽपरमपि काव्यं स्यादत आह-प्रतिभागतेति । अत्रापीति । द्वितीयकार्यकारणभावेऽपि न व्यभिचार इत्यर्थः । ननु वैलक्षण्यमदृष्टासहकृतत्वरूपमेवोक्तं तच्च तत्रास्त्येवेत्यत आह-पाति । नन्वेवमिदमेव गौरवमत आह-प्रतीति । एवं च कार्यमानं प्रति प्रतिबन्धकाभावस्य कारणतायाः क्लप्तत्वेन काव्यं प्रति यथोभाभ्यां स्वीक्रियते तथात्रापीति न मेऽधिककल्पनजगौरवमिति भावः । समुदितहेतुवादिमते तत्स्वीकार आवश्यक इत्याहप्रतिवादीति । विहितेति । कृतानेककाव्यस्यापीत्यर्थः ॥
तच्चेति । काव्यं चेत्यर्थः । शब्दार्थाविति । गुणीभावितात्मानौ शब्दार्थौ यत्र कमप्यर्थमभिव्यक्त इत्यन्वयः । भूमिं निदानम् । व्यङ्ग्यपदस्योभयत्र संबन्धः । एवमग्रे
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
काव्यमाला। कमपीति चमत्कृतिभूमिम् । तेनातिगूढस्फुटव्यङ्गचयोनिरासः । अपराङ्गवाच्यसिद्धयङ्गव्यङ्गयस्यापि चमत्कारितया तद्वारणाय गुणीभावितात्मानाविति स्वापेक्षया व्यङ्गयप्राधान्याभिप्रायकम् ।। उदाहरणम्'शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् ।
दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥' अत्रालम्बनस्य नायकस्य, सविधशयनाक्षिप्तस्य रहःस्थानादेरुद्दीपनस्य च विभावस्य, तादृशनिरीक्षणादेरनुभावस्य, त्रपौत्सुक्यादेश्च व्यभिचारिणः, संयोगाद्रतिरभिव्यज्यते । आलम्बनादीनां खरूपं वक्ष्यते । न च यद्ययं शयितः स्यात्तदास्याननाम्बुजं चुम्बेयमिति नायकेच्छाया एंव व्यङ्गचत्वमत्रेति वाच्यम् । मनोरथान्सफलीकर्तुमसमर्थत्यनेन मनोरथाः सर्वेऽस्या हृदि तिष्ठन्तीति प्रतीतेः । स्वशब्देन मनोरथपदेन सामान्याकारेण तादृशेच्छाया अपि निवेदनात् । न च मनोरथपदेन मनोरथत्वाकारण सामान्येच्छाया अभिधानेऽपि चुम्बेयमिति विषयविशेषविशिष्टेच्छात्वेन व्यङ्गयत्वे किं बाधकमिति वाच्यम् । चमत्कारो न स्यादित्यस्यैव बाधकत्वात् । न हि विशेषाकारेण व्यङ्गयोऽपि सामान्याकारणाभिहितोऽर्थः सहृदयानां चमत्कृतिमुत्पादयितुमीष्टे । कथमपि वाच्यवृत्त्य
ऽपि । निरास इति । असुन्दरस्येत्यपि बोध्यम् । गुणीभावितात्मानावित्यनेनाप्यस्य निरास इति ध्वनयितुं द्वयोरेवोक्तिः । एवं संदिग्धप्राधान्यतुल्यप्राधान्यकाकाक्षिप्तानामपि बोध्यम् । स्वापेक्षया शब्दार्थापेक्षया । सविधेऽर्थाद्दयितस्य । कारणसत्त्वेऽपि कार्याभावादहो इत्याश्चर्ये । रह एकान्तम् । त्रपौत्सुक्यादेरिति । दरेत्यनेन त्रपा व्यङ्गया, निरीक्षणेन चौत्सुक्यमिति बोध्यम् । संयोगात्संबन्धात् । रतिरिति । नायकाया इति शेषः । शयित इति । कर्तरि भूते क्तः । तदास्याननाम्बुजम्' इति पाठः । एव उक्तव्यवच्छेदे । स्वशब्देनेत्यस्य व्याख्या मनोरथेति । सामान्येति । मनोरथवे. त्यर्थः । तथा च वाच्यस्याव्यङ्गयत्वमिति भावः । सामान्येनेत्यस्य व्याख्या मनोरथेति । यद्वा सामान्येनेच्छात्वेन । अवच्छिन्नत्वं तृतीयार्थः । चमत्काराभावे हेतुमाह-नहीति । तत्र हेतुमाह-कथमपीति । सामान्यरूपेण विशेषरूपेण चेत्यर्थः । एवं च ध्वनिविशेष एवैतद्बोध्यम् । स्पष्टश्चायमर्थो गूढाख्यगुणीभूतव्यङ्गयनिरूपणे पश्चमोल्लासो रसदो.
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
नालिङ्गितस्यैव व्यङ्गयस्य चमत्कारित्वेनालंकारिकैः स्वीकारात् । चुम्बनेच्छाया रत्यनुभावतयैव सुन्दरत्वेन तदव्यञ्जने चुम्बयामीति शब्दबलाचुम्बनेच्छावदचमत्कारित्वाच्च । एवं त्रपाया अपि न प्राधान्येन व्यङ्गयत्वम् । अनुवाद्यतावच्छेदकतया प्रतीतायां तस्यां मुख्यवाक्यार्थत्वायोगात् । न च दरमीलन्नयनत्वविशिष्टनिरीक्षणं विधेयमिति नानुवाद्यतावच्छेदकत्वं तस्या इति वाच्यम् । एवमपि नयनगतदरमीलनस्य तत्कार्यत्वेऽपि दरमीलन्नयनात्वविशिष्टनिरीक्षणस्य रतिमात्रकार्यत्वात् । त्रपाया एव मुख्यत्वेन व्यङ्गयत्वे निरीक्षणोक्तेरनतिप्रयोजनकत्वापत्तेः । वाच्यवृत्त्या रतेरनुभावे निरीक्षणे त्रपाया अनुभावस्य दरमीलनस्येव व्यञ्जनया तस्यां तस्या अपि गुणीभावप्रत्ययौचित्यात् ॥ यथा वा'गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम् ।
दरकुण्डलताण्डवं नतभ्रूलतिकं मामवलोक्य घूर्णितासीत् ॥' अत्र घृणितासीदित्यनेनासमीक्ष्यकारिन्किमिदमनुचितं कृतवानसीत्यर्थसंवलितोऽमर्षश्चर्वणाविश्रान्तिधामत्वात्प्राधान्येन व्यज्यते । तत्र शब्दोऽर्थश्च गुणः ॥
पनिरूपणे सप्तमोल्लासे च । व्यङ्गयस्य वाच्यीकरणे वमनाख्यदोष इति प्राञ्चः । नन्वत्र पक्षे यदेवोच्यते तदेव व्यङ्गयं यथा तु व्यङ्ग्यं न तथोच्यत इत्यादि पर्यायोक्तप्रकरणस्थमलग्रन्थविरोधोऽत आह-चुम्बनेच्छाया इति । संशयालंकारनिरूपणे च स्फुटतरं निरूपयिष्यत एव ग्रन्थकृता। एवस्तदन्यथात्वेन तत्त्वव्यवच्छेदे। तदव्यञ्जने रत्यव्यअने। एवमिच्छाया इव। यथाकथंचित्तत्त्वसत्त्वादाह-प्राधान्येनेति । तस्यां त्रपायाम् । एवमग्रेऽपि । मुख्येति। मुख्यतया वाक्यतात्पर्यविषयत्वायोगादित्यर्थः । तत्कार्येति । त्रपाकाचैत्यर्थः । मात्रपदेन तदन्यव्यवच्छेदः । ननु मीलन्नयनात्वमेव विधेयमास्तामत आह-त्रपाया इति । त्रपाजनकतया निरीक्षणस्योपयोगादाह-अ. नतीति । ननु वैपरीत्येन निरीक्षणविशिष्टदरमीलनयनात्वमेव विधेयमास्तामत आहवाच्येति । भावप्रधानमाख्यातमिति सिद्धान्तादिति भावः । तस्यां रतौ । तस्यास्त्रपायाः। गुरुमध्येति । श्वश्वादिसमीपप्रदेशोपविष्टा। कमलमुकुलेन मन्दं नितरां हता। अत एव घूर्णनं भ्रमणं तादृशी सा मामवलोक्य दरेति नतेति च यथा स्यात्तथा घूर्णितासीदित्यन्वयः । मन्दत्वफलं दरेति । गुरुमध्यगतत्वान्नतेति । नायकोक्तिरियं सखायं प्रति । कृ.
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
काव्यमाला।
यथा वा
तल्पगतापि च सुतनुः श्वासासङ्ग न या सेहे ।
संप्रति सा हृदयगतं प्रियपाणिं मन्दमाक्षिपति ।। इदं च पद्यं मन्निर्मितप्रबन्धगतत्वेन पूर्वसाकाङ्क्षमिति दिङ्मात्रेण व्याख्यायते-या नववधूः पल्यङ्कशयिता श्वासस्थासङ्गमात्रेणापि संकुचदङ्गलतिकाभूत्सा संप्रति प्रस्थानपूर्वरजन्यां प्रवत्स्यत्पतिका प्रियेण सशङ्केन समर्पितं हृदि पाणि नववधूजातिस्वाभाव्यादाक्षिपति । परं तु मन्दम् । अत्र शनैः स्वस्थानप्रापणात्मना मन्दाक्षेपेण रत्याख्यः स्थायी संलक्ष्यक्रमतया व्यज्यते । उपपादयिष्यते च स्थाय्यादीनामपि संलक्ष्यक्रमव्यङ्गयत्वम् । अमुमेव च प्रभेदं ध्वनिमामनन्ति । यत्तु चित्रमीमांसायामप्पय्यदीक्षितैः 'निःशेषच्युतचन्दनम्' इति पद्यं ध्वन्युदाहरणप्रसङ्गे व्याख्यातम्-'उत्तरीयकर्षणेन चन्दनच्युतिरित्यन्यथासिद्धिपरिहाराय निःशेषग्रहणम् । ततश्चन्दनच्युतेः स्नानसाधारण्यव्यावर्तनेन संभोगचिबोद्धाटनाय तटग्रहणम् । स्नाने हि सर्वत्र चन्दनच्युतिः स्यात्, तव तु स्तनयोस्तट उपरिभाग एव दृश्यते । इयमाश्लेषकतैव । तथा निर्मष्टरागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बात्प्राचीनरागस्य किंचिन्मृष्टतेत्यन्यथासिद्धिपरिहाराय निर्मुष्टराग इति रागस्य निःशेषमृष्टतोक्ता । पुनः स्नानसाधारण्यव्यावर्तनेन संभोगचिह्नोद्घाटनायाधर इति विशिष्य ग्रहणम् । उत्तरोष्ठे सरागेऽधरोष्ठमात्रस्य निर्मुष्टरागता चुम्बनकतैव, इत्यादिना, इदमपि ध्वनेरुदाहरणम्, इत्यन्तेन संदर्भण तटादिघटिता वाक्यार्थाः तवानसीत्यर्थेति । अस्याप्यमर्ष प्रति गुणतैव । तत्कार्यत्वात् । संवलितो विशिष्टः । चर्वणेति । पार्यन्तिकास्वादाश्रयत्वादित्यर्थः । तत्रामर्षे । अयमेव पूर्वोदाहरणाद्विशेषः । तल्पं शय्या । असहे हेतुगर्भ विशेषणं सुतनुरिति । स्वहृदयस्थितं शनैः स्वस्थानं प्रापयतीत्यर्थः । प्रबन्धो भामिनीविलासाख्यः । नवोढाप्रकरणादाह-नवेति । आङ् ईषदर्थे । संप्रतीत्यस्यार्थमाह-प्रस्थानेति । प्रकरणादाह-प्रवदिति। सशड्रेनेति । सुतनुत्वान्नाशशङ्केति भावः । मन्दमिति । भाविविरहशङ्कयेति भावः । संलक्ष्येति । व्यङ्गयव्यञ्जकयोः क्रमः संलक्ष्यो यत्र तयेत्यर्थः । अयमेव पूर्वतो · विशेषः । ननु स्थाय्यादीनामसंलपक्रमव्यङ्गयत्वमेव प्राचीनैरुक्तमत आह-उपेति । अमुमुत्तमोत्तमम् । व्याख्यानमे
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
स्नानव्यावृत्तिद्वारा संभोगाङ्गानामाश्लेषचुम्बनादीनां प्रतिपादनेन प्रधानव्य
चव्यञ्जने साहायकमाचरन्ति' इति, तदेतदलंकारशास्त्रतत्त्वानवबोधनिबन्धनम् । प्राचीनसकलग्रन्थविरुद्धत्वादुपपत्तिविरोधाच्च । तथा हि पञ्चमोल्लासशेषे 'निःशेषेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतोऽपि भवन्ति । यतश्चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानीत्यनैकान्तिकानि' इति काव्यप्रकाशकतोक्तम् । तथा तत्रैव तेन _ 'भम धम्मिअ वीसत्थो सो सुणओ अज्ज मालिदो तेण ।
गोलाणईकच्छकुडङ्गवासिणा दरिअसीहेण ॥' इत्यादौ लिङ्गजलिङ्गिज्ञानरूपेणानुमानेन व्यक्तिं गतार्थयतो व्यक्तिविवेककृतो मतं प्रत्याचक्षाणेन व्यभिचारित्वेनासिद्धत्वेन च संदिह्यमानादपि लिङ्गाद्वयञ्जनमभ्युपगतम् । इत्थमेव च ध्वनिकतापि प्रथमोद्योते । एवं च व्यञ्जकानां साधारण्यं प्रतिपादयतां प्रामाणिकानां ग्रन्थैः सहासाधारंण्यं प्रतिपादयतस्तव ग्रन्थस्य विरोधः स्फुटः । किं च यदिदं निःशेषेत्याद्यवान्तरवाक्यार्थानां वापस्निानव्यावृत्तिद्वारेण व्यङ्गयासाधारण्यं संपाद्यते
वाह-उत्तरीयेत्याद्याचरन्तीत्यन्तेन । इत्यादीत्यादिना प्रातर्दत्तमञ्जनं कालविलम्बन किंचिद्विलप्तमित्यन्यथासिद्धिपरिहाराय दूरमिति । अत्यर्थमित्यापाततोऽर्थः । एतेन कालान्यथासिद्धिनिरासः । पुनः स्नानसाधारण्यव्यावर्जनेन संभोगचिह्नोद्धाटनाय दूरे प्रान्त इति हृदयस्थितोऽर्थः । कालतः स्नानेन सर्वतोऽअनलोपः स्यात्तव तु लोचनयोः क्वचित्प्रान्त एवानअनत्वमिदं चुम्बनकृतमेवेत्यादि परिग्रहः । वाक्यार्थी विशेषणवाक्यार्थाः। प्रधानव्यङ्गयं संभोगः । तत्र ग्रन्थविरोधमाह-पञ्चमोलासेति । अस्योक्तमित्यत्रान्वयः । गमकेति । संभोगेत्यादिः । अत्रैव निःशेषेत्यादावेव । प्रतिबद्धानि, जन्यतया न तत्रैव संबद्धानि । अनैकान्तिकानि साधारणानि । तत्रैव पञ्चमोल्लास एव । तेन प्रकाशकृता । अभ्युपगतमित्यत्रान्वयः । भ्रमेति । 'भ्रम धार्मिक विश्रब्धः स शुनकोऽद्य मारितस्तेन। गोदानदीकच्छनिकुञ्जवासिना दृप्तसिंहेन ।' कुसुमावचयार्थ कुञ्ज धार्मिकपरिभ्रमणेन खण्डितसंकेतायास्तनिवारणोक्तिरियम् । अत्र वाच्येन भीरुस्वभावस्य गृहे श्वनिवृत्त्या भ्रमणेन निकुञ्ज सिंहोपलब्ध्या भ्रमणनिषेधो व्यङ्ग्यः । इत्थमेवति । उक्तं स्वीकृतं चे. त्यर्थः । ननु तैः साधारण्ये व्यञ्जने स्वीकृतेऽसाधारण्ये सुतरामङ्गीकृतम्, प्रकृते च तथा संभवान्मयोपपादितमिति कस्तर्विरोध इति चेत्सत्यम्, अत एवोपपत्तिविरोधोऽपरो दो
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
तत्किमर्थमिति टच्छामः । व्यङ्गयस्य व्यञ्जनार्थमिति चेन्न । व्यञ्जकगतासाधारण्यस्य व्यञ्जनानुपायत्वात् ।
'औणिदं दोब्बल्लं चिन्ता अलसन्तणं सणीससिअम् ।
मह मन्दभाअणीए केरं सहि तुह वि परभवइ ।' इत्यादौ साधारणानामेवौन्निद्यादीनां वक्रादिवैशिष्टयवशादर्थविशेषव्यञ्जकताया अभ्युपगतेः । प्रत्युतासाधारण्यस्य व्याप्त्यपरपर्यायस्यानुमानानुकूलतया व्यक्तिप्रतिकूलत्वाच्च । अथ तदादिघटितत्वेऽपि न निःशेषेत्यादिवाक्यार्थानामसाधारण्यम् । सलिलावसनकरणकप्रोञ्छनादिनापि तत्संभवादिति चेत्तहि वापीस्नानव्यावर्तनेन कः पुरुषार्थः । एकत्रानैकान्तिकत्वस्येव बहुष्वनैकान्तिकताया अपि ज्ञाताया अनुमितिप्रतिकूलत्वाद्वयक्तिप्रतिकूलत्वाच्च । अपि चात्र हि तदन्तिकमेव रन्तुं गतासीति व्यङ्गयशरीरे तदन्तिकगमनं रमणरूपफलांशश्चेति द्वयं घटकम् । तत्र तावत्तदन्तिकं गतासीत्यंशस्य त्वन्मते व्यङ्ग्यत्वं दुरुपपादम् । त्वदुक्तरीत्या विशेषणवाक्यार्थानां निःशेषेतिप्रतिपाद्यानां वाच्यार्थे वापीस्नाने बाधितत्वाद्वाच्यकक्षागतप्रधानवाक्यार्थीभूतविधिनिषेधप्रतिपादकाभ्यां गता न गतेतिशब्दाभ्यां विरोधिलक्षणया निषेधस्य विधेश्च प्रतीतेरुपपत्तेः । नहि मुख्यार्थबाधेनोन्मीलितेऽर्थे व्यक्तिवेद्यतोचिता । यथा 'अहो पूर्ण सरो यत्र लुठन्तः स्नान्ति मानवाः' इत्यत्र कर्तृविशेषणानुपपत्त्यधीनोल्लासे षोऽभिहितस्तमुपपादयति-किं चेत्यादि । व्यङ्गयेति । व्यङ्गयसंभोगं प्रत्यसाधारण्यमित्यर्थः । अनुपायत्वे हेतुमाह-औणिहमिति । औनिय दौर्बल्यं चिन्तालसत्वं सनि:श्वसितम् । मम मन्दभागिन्याः कृते सखि त्वामपि परिभवति ॥ कृतकामुकसंभोगां दूती प्रत्युपभोगचिह्नस्तं ज्ञातवत्या नायिकाया इयमुक्तिः । साधारणानां रोगादितोऽपि तत्संभवात् । यथात्रैव नायिकायास्तद्वियोगतः । वक्रादीति । आदिना बोद्धव्यपरिग्रहः । ननु तस्य तदनुपायत्वेऽपि सति संभवे तत्प्रतिपादनमित्युक्तमेवात आह-प्रत्युतति । व्यक्तीति । व्यञ्जनेत्यर्थः । एवमग्रेऽपि । एवं च व्यञ्जनासिद्धिरेव न स्यादिति भावः । त. टादीत्यस्य वापीनानव्यावर्तनायेत्यादि । आदिना जलबिन्दपातादिपरिग्रहः । 'जातायाः' इति पाठः । नन्वत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्यनाधमपदेन व्यज्यत इति प्रकाशकारााक्तत्वात्स्नानव्यावृत्तिर्मया कृतात आह-अपि चोति । वन्मत इत्यनेन तेषां
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। पूर्णत्वाभावे । अथ तदन्तिकगमनस्य लक्षणावेद्यत्वेऽपि रमणस्य फलांशस्य लक्ष्यशक्तिमूलध्वननवेद्यत्वमव्याहतमेवेति चेत्, 'अधमत्वमप्रकृष्टत्वं तच्च जात्या कर्मणा वा भवति । तत्र जात्यापकर्ष नोत्तमनायिका नायकस्य वक्ति' इत्यादिना संदभैण भवतैवार्थापत्तिवेद्यतायाः स्फुटं वचनात् । अन्यलभ्यस्य च शब्दार्थताया अस्वीकृतेः । अन्यच्च यथाकथंचिदङ्गीकुरु वात्र व्यञ्जनाव्यापार तथापि न तवेष्टसिद्धिः । वाच्यानां निःशेषच्युतचन्दनस्तनतटत्वादीनामधमत्वस्य च त्वदुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूतीसंभोगमात्रनिष्पाद्यत्वेन गुणीभूतव्यङ्गचत्वप्रसङ्गात् । एवं चोपपत्तिविरोधोऽपि स्फुटतर एव । तस्माद्वाच्यार्थसाधारण्यमेवोचितमतिविदग्धनायिकानिरूपितानां विशेषणवाक्यार्थानाम् । तथा हि 'अयि बान्धवजनस्याज्ञातपीडागमे स्वार्थपरायणे स्नानकालातिक्रमभयवशेन नदीमदीयप्रिययोरन्तिकमगत्वैव वापी स्नातुमितो ममान्तिकाद्गतासि न पुनस्तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम् । यतो निःशेषच्युतचन्दनं स्तनयोस्तटमेव नोरःस्थलम् । वापीगतबहुलयुवजनत्रपापारवश्यादंसद्वयलग्नाग्रस्वस्तिकीकृतभुजलतायुगलेन तटस्यैवोन्नततया मुमते तत्सूपपादमिति सूचितम् । त्वदुक्तेति । तटादिघटितत्वरूपयेत्यर्थः । निषेधस्येति । यथाक्रममन्वयः । उन्मीलिते प्रकटिते । कर्टविशेषणं लठन्त इति । तदनुपपत्त्यधीन उल्लासो यस्य विरोधिलक्षणया पूर्णत्वाभावस्य तत्र यथा न व्यञ्जनावेद्यतेत्यर्थः । लक्ष्येति । लक्ष्यं तदन्तिकगमनं तस्य या शक्तिः सामर्थ्य तन्मूलं यद्ध्यञ्जनं तद्वेद्यत्वमित्यर्थः । आदिना 'नापि स्वापराधपर्यवसायिदूतीसंभोगादिहीनकर्मा तिरिक्तेन कर्मणा तादृशं हि दूतीप्रेषणात्प्राचीनं सर्व सोढमेवेति नोद्धाटनाहेमन्यथा स्वयं दृतीसंप्रेषणानुपपत्तेः' इत्यादि परिग्रहः । तस्यापि रमणस्यापि । ननु तद्वद्यत्वेऽपि व्यञ्जना कुतो नात आह-अन्येति । 'अनन्यलभ्यो हि शब्दार्थः' इति न्यायादिति भावः । यथाकथंचिदिति । अर्थापत्तिप्रमाणस्यातिरिक्तस्याभावादिति भावः । अत्र रमणे । संभोगमात्रेति । तदन्येन वाच्यस्य सिद्धेरेवाभावादितिभावः । उपसंहरति-एवं चेति। उक्तरीत्या गुणीभूतव्यङ्गत्वप्रसङ्गे चेत्यर्थः । एवं चात्र तदनुरोधेन तथोक्तावुपपत्तिविरो
धवत्तत्र तदनुरोधत्यागेनासाधारण्यप्रतिपादनं तद्विरुद्धमेव तदाह-अपीति । कथं तर्हि • तस्य व्यङ्गयत्वं प्रकाशाद्युक्तमाह-तस्माद्वाच्याति।वापीस्नानेत्यर्थः । निरूपितेति । बोधितेत्यर्थः । गमे इत्यन्तव्याख्या स्वार्थेति । अन्तिकमित्यत्र गतासीत्यनुषङ्गः । एवं
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
काव्यमाला ।
हुरामर्शात् । एवं त्वरया सम्यगक्षालनेनोत्तरोष्ठो न निर्मृष्टरागोऽधरस्तु तदपेक्षया गण्डूषजलरदनशोधनाङ्गुल्यादीनामधिकसंमर्दमावहतीति तथा । किं च सम्यगक्षालनेन नेत्रे जलमात्र संसर्गाद्दूरमुपरिभाग एवानञ्जने । शीतवशात्तानवाच्च तव तनुः पुलकितेति । एवं तस्या विदग्धाया गूढतात्पर्यैवोक्तिरुचिता । अन्यथा वैदग्ध्यभङ्गापत्तेः । एवं साधारणेष्वेषु वाक्यार्थेषु मुख्यार्थे बाधाभावात्तात्पर्यार्थस्य झटित्यनाकलनात्कुतोऽत्र लक्षणावकाशोऽनन्तरं च वाच्यार्थप्रतिपत्तेर्वक्तृ बोद्धव्यनायकादीनां वैशिष्टस्य प्रतीतो सत्यामधमपदेन स्वप्रवृत्तिप्रयोजको दुःखदातृत्वरूपो धर्मः साधारणात्मा वाच्यार्थदशायामपराधान्तरनिमित्तकदुःखदातृत्वरूपेण स्थितो व्यञ्जनाव्यापारेण दूतीसंभोगनिमित्तकदुःखदातृत्वाकारेण पर्यवस्यतीत्यालंकारिक सिद्धान्तनिष्कर्षः । एतेन 'अधमत्वमपकृष्टत्वं तच्च जात्या कर्मणा वा भवति । तत्र जात्यापकर्ष नोत्तमनायिका नायकस्य वक्ति । नापि स्वापराधपर्यवसायिदूतीसंभोगादिहीनकर्मातिरिक्तेन कर्मणा । तादृशं च दूतीसंप्रेषणात्प्राचीनं सोढमेवेति नोद्घाटनार्हमिती तरव्यावृत्त्या संभोगरूपमेव पर्यवस्यति' इति यदुक्तम्, तदपि निरस्तम् । विदग्धोत्तमनायिकायाः सखीसमक्षं तदुपभोगरूपस्य स्वनायकापराधस्य स्फुटं प्रकाशयितुमतितमामनौचित्येन प्राचीनानामेव सोढानामप्यपराधानामसह्यतया दूतीं प्रति प्रतिपिपादयिषितत्वादिति दिक् ॥
पापारवश्यात् । तथा निर्हृष्टरागः । तन्वीत्यस्यार्थमाह - तानवाच्चेति । कृशत्वाचेत्यर्थः । उपसंहरति - एवमिति । उक्तप्रकारेत्यर्थः । प्रागुक्तलक्षणापत्तिदोष इह नेत्याह - एवमिति । मुख्यार्थे वापीस्नाने । अनन्तेति । वाच्यार्थप्रतिपत्तेरनन्तरं चे - त्यर्थः । वक्री विदग्धोत्तमनायिका । बोद्धव्या दुःशीला दूतीं । नायकस्तादृशः । आदिना काक्कादिपरिग्रहः । अधमपदेनेति । बोधित इति शेषः । स्वेति । अधमपदप्रवृत्तिनिमित्तमित्यर्थः । साधारणेति । तादृशकर्मान्तरसाधारणेत्यर्थः । दातृत्वरूपेण । स्थित इति । अधमपदप्रवृत्तिनिमित्तस्य सकलाधमसाधारणस्यैकस्याभावात्तत्तद्धर्मास्तत्र तत्र प्रवृत्तिनिमित्ततया स्वीकार्याः । प्रकृते तु दुःखदातृत्वरूपो धर्मः । तत्र च वाच्यकक्षायां दुःखत्वेन रूपेणापराधान्तरनिमित्तं दुःखं प्रकरणादिवशाद्धटकीभूय भासते । व्यङ्गयकक्षायां तु दूतीसंभोगनिमित्तदुःखत्वेन दूतीसंभोगनिमित्तकं दुःखमिति भावः ।
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
यत्र व्यङ्गयमप्रधानमेव सच्चमत्कारकारणं तद्वितीयम् । वाच्यापेक्षया प्रधानीभूतं व्यङ्गयान्तरमादाय गुणीभूतं व्यङ्गयमादायातिव्याप्तिवारणायावधारणम् । तेन तस्य ध्वनित्वमेव । लीनव्यङ्ग्यवाच्यचित्रातिप्रसङ्गवारणाय चमत्कारेत्यादि । यत्तु 'अतादशि गुणीभूतव्यनयम्' इत्यादि काव्यप्रकाशगतलक्षणे चित्रान्यत्वं टीकाकारैर्दत्तं तन्न । पर्यायोक्तसमासोक्त्यादि प्रधानकाव्येष्वव्याप्त्यापत्तेः । तेषां गुणीभूतव्यङ्गतायाचित्रतायाश्च सर्वालंकारिकसंमतत्वात् । उदाहरणम्'राघवविरहज्वालासंतापितसह्यशैलशिखरेषु ।
शिशिरे सुखं शयानाः कपयः कुप्यन्ति पवनतनयाय ॥' अत्र जानकीकुशलावेदनेन राघवः शिशिरीकृत इति व्यङ्ग्यमाकस्मिककणिकर्तृकहनूमद्विषयककोपोपपादकतया गुणीभूतमपि दुर्दैववशतो दास्यमनुभवद्राजकलत्रमिव कामपि कमनीयतामावहति । नन्वेवं प्रागुक्तमाक्षेपगतं मान्द्यमपि नववधूप्रकृतिविरोधादनुपपद्यमानं व्यङ्गयेनैवोपपाद्यत इति कथमुत्तमोत्तमता तस्य काव्यस्येति चेत् । न । यतो ह्यनुदिनसख्युपदेशादिभिरनतिचमत्कारिभिरप्युपपद्यमानं मान्द्यमिदं प्रथमचित्तचुम्बिनी
तदभिप्रायेणोच्यते स्थित: पर्यवस्यतीति चेति । स्वापेति। स्वं नायिका । दूतीसंभोगादिरूपं यद्धीनकर्मेत्यर्थः । एतेनेत्यस्यार्थमाह-विदेति । तदपेति । इत्युपेत्यर्थः । अतितमामत्यन्तम् । प्राचीति । दूतीसंप्रेषणादित्यादिः। अन्यथा वैदग्ध्यादिभङ्गापत्तिः । दोषान्तरमपि प्रागुक्तं तदाह-दिगिति । द्वितीयमुत्तमम् । वाच्येति । वाच्यार्थतः प्रधानमन्यव्यङ्गयादप्रधानं यद्ध्यङ्गयं तदादायेत्यर्थः । अपराङ्गोदाहरणे 'अयं स रशनोत्कर्षी' इत्यत्रापि वाच्यापेक्षया शृङ्गारस्य न प्राधान्यम् । शोकोत्कर्षकतया शृङ्गाररूपव्यङ्गयापेक्षया वाच्यस्यैव चमत्कारित्वात् । एवं सर्वत्रापराङ्गोदाहरणेह्यम् । अवधारणे एवः । तस्य सांप्रतमक्तस्य । लीनव्यङ्गयेति बहुव्रीहिः । शब्दचित्रे तदभावादाह-वाच्येति। तत्रोत्तमत्वादिप्रसङ्गेत्यर्थः । उदेति । लक्षितद्वितीयकाव्योदाहरणमित्यर्थः । राघवविरहेति । सीतावियोगकृतरामविरहानलज्वालासंतापितसह्यनामकादिशिखरेषु शिशिरतौ सुखं यथा तथा शयाना इत्यादिरर्थः । कोपो वाच्यः । प्रागुक्तं ध्वनितृतीयलक्ष्ये 'तल्पगतापि च' इति पये उक्तम् । व्यङ्गयेनैव रत्याख्यस्थायिनैव । एवोऽन्यव्यवच्छेदे। प्रथ
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
विप्रलम्भरतिमप्रकाशयन्न प्रभवति स्वातन्त्र्येण परनिर्वृतिचर्वणागोचरतामाधातुम् । इत्थमेव निःशेषच्युतचन्दनमित्यादिपद्येष्वधमत्वादीनि वाच्यानि व्यङ्ग्यातिरिक्तेनार्थेनापाततो निष्पन्नशरीराणि व्यञ्जकानीति न तत्रापि गुणीभावः शङ्कनीयः । अनयोर्भेदयोरनपह्नवनीयचमत्कारयोरपि प्राधान्याप्राधान्याभ्यामस्ति कश्चित्सहृदयवेद्यो विशेषः । यत्तु चित्रमीमांसाहतोक्तम्'प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेण वा
किमुत सकले याते वाह्नि प्रिय त्वमिहैप्यसि । इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालालापैः सबाप्पगलज्जलैः ॥ इत्यत्र सकलमहः परमावधिस्ततः परं प्राणान्धारयितुं न शक्नोमीति व्यङ्गयं प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गमतो गुणीभूतव्यङ्गयमिति ।' तन्न । सबाप्पगलज्जलानां प्रहरविरतावित्याद्यालापानामेव प्रियगमननिवारणरूपवाच्यसिद्ध्यङ्गतया व्यङ्गयस्य गुणीभावाभावात् । आलापैरिति तृतीयया प्रकृत्यर्थस्य हरणक्रियाकरणतायाः स्फुटं प्रतिपत्तेः । न च व्यङ्गयस्यापि वाच्यसिद्ध्यङ्गतात्र संभवतीति तथोक्तमिति वाच्यम् । निःशेषच्युतचन्दनमित्यादाविवाधमत्वरूपवाच्यसिद्ध्यङ्गताया दूतीसंभोगादौ संभवाद्गुणीभावापत्तेः । अस्तु वा ततः परं प्राणान्धारयितुं न शक्नोमीति ममेव । चित्तारूढामित्यर्थः । अप्रेति । अव्यञ्जयन् । स्वेति । मन्दत्वमात्रेणेत्यर्थः । परेति । परमसुखास्वाद विषयतामित्यर्थः । अर्थेनापराधान्तरनिमित्तकदुःखदातृत्वरूपेण । तत्र तात्पर्याभावादाह-आपातत इति । ननूक्तभेदयोश्चमत्कृतेस्तौल्यादैक्यमेवास्तामत आह-अनयोरिति । प्रहरविरताविति । हे प्रिय, त्वं किं प्रहरसमाप्तौ दिनमध्ये याते वा मध्याह्नादपि परेण तृतीयप्रहरेण यातेन वा सर्वदिने गते वेह मत्समीपे उत निश्चयेनैष्यस्यागमिष्यसि । इत्येवं प्रकारेण । आलापेऽस्यान्वयः । अग्रे स्पष्टम् । शतशब्दोऽनियतसंख्यावाची। एवमुक्तव्यङ्गयव्यवच्छेदे । व्यङ्गयस्य शक्नोमीत्यन्तस्य । ननु विनिगमनाविरहोऽत आह-आलापैरिति । प्रकृत्यर्थस्य तादृशालापस्य । अपिरुक्तसमुच्चये । ननु सबाष्पगलज्जलतदक्तालापानां गमनोत्तरचिरकालावस्थितिनिवारकतया. प्युपपत्तेयंङ्गयसहितानामेव गमननिवारणसामर्थ्यमत आह-अस्तु वेति । आन्तरालिकव्यङ्गयमादायैव ध्वनिगुणीभूतव्यङ्ग्यादि व्यवहारस्योपपद्यमानतया विप्रलम्भेन ध्व
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
यथा
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
व्यङ्ग्यस्य वाच्यसिद्ध्यङ्गतया गुणीभावस्तथापि नायकादेर्विभावस्य बाप्पादेरनुभावस्य चित्तावेगादेव संचारिणः संयोगादभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत् ॥
यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो वाच्यचमत्कारस्तत्तृतीयम् । यथा यमुनावर्णने 'तनयमैनाकगवेषणलम्बीकृत जलधिजठरप्रविष्टहिम गिरिभुजायमानाया भगवत्या भागीरथ्या सखी' इति । अत्रोत्प्रेक्षा वाच्यैव चमत्कृतिहेतुः । चैत्यपातालतलचुम्बित्वादीनां चमत्कारो लेशतया सन्नप्युत्प्रेक्षाचमत्कृतिजठरनिलीनो नागरिकेतरनायकाकल्पितकाश्मीरद्रवाङ्गरागनिगीर्णो निजाङ्गगौरिमेव प्रतीयते । न तादृशोऽस्ति. कोऽपि वाच्यार्थो यो मनागनामृष्टप्रतीयमान एव स्वतो रमणीयतामा - धातुं प्रभवति । अनयोरेव द्वितीयतृतीयभेदयोजगरूकाजागरूक गुणीभूतव्यङ्गययोः प्रविष्टं निखिलमलंकारप्रधानं काव्यम् ॥ यत्रार्थचमत्कृत्युपस्कृता शब्दचमत्कृतिः प्रधानं तदधमं चतुर्थम् ।
मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे । गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नमः ||
१९
For Private And Personal Use Only
नित्वं को निवारयेदिति चिन्त्यम् | अन्यथा 'ग्रामतरुणम्' इत्यादिगुणीभूतव्यङ्गचीयप्रकाशीयुक्तोदाहरणानामप्य संगत्यापत्ती व्याकुली स्यात् । तत्रापि व्यङ्गयसंकेतभङ्गेन वाच्यमुखमालिन्यातिशयरूपानुभावमुखेनैव विप्रलम्भाभास पोषणं न केवलेन संकेतभङ्गेन । तस्याकर्तव्यत्वबुद्ध्यापि संभवादिति बोध्यम् । व्यङ्गयेति । तदसमानाधिकरणत्वं चास्फुटतया बोध्यम् | हिमाचलस्य मैनाकः पुत्रः । लम्बीकृतत्वप्रविष्टत्वे भुजविशेषणे । तद्वदाचरिता | 'उपमानादाचारे' इति क्यङ् । सखी यमुना वाच्यैव । तदर्थे क्यङः सत्त्वात् । अत्र श्वेतपातालतलगामिनी भागीरथी तादृशविशिष्टभुजत्वेनोत्प्रेक्ष्यते । एव व्यावर्त्य व्यङ्गयमाह — श्वैत्येति । व्यङ्गयानामिति शेषः । नागेति । ग्रामीणेत्यर्थः । अत एव सम्यग्लेपनात्स्वाङ्गगौरत्व निगरणम् । काश्मीरद्रवः केसररसः । सन्नपीत्यनेन व्यङ्गयासमानाधिकरणत्वमित्येव कुतो नोक्तमित्यस्य निरासः । तदाह-न तादृश इति । मनागिति । ईषदस्पृष्टव्यङ्गय एवेत्यर्थः । उपस्कृतत्वं पोषितत्वम् । अत एव तस्याः प्राधान्यम् । गोत्रात्र इति सृजन्तस्य चतुर्थ्यन्तम् । शिवाय विष्णवे वा । सूर्याचन्द्रनेत्राय । त्रयी वेदत्रयी तत्र शात्रवं शत्रुत्वं यस्य मदनस्य, येषां वा दैत्यानाम्, तच्छत्रवे । गोत्रारि
1
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
काव्यमाला।
अत्रार्थचमत्कृतिः शब्दचमत्कृतौ लीना । यद्यपि यत्रार्थचमत्कृतिसामान्यशून्या शब्दचमत्कृतिस्तत्पञ्चममधमाधममपि काव्यविधासु गणयितुमुचितम् । यथैकाक्षरपद्यार्धारत्तियमकपद्मबन्धादि । तथापि रमणीयार्थप्रतिपादकशब्दतारूपकाव्यसामान्यलक्षणानाक्रान्ततया वस्तुतः काव्यत्वाभावेन महाकविभिः प्राचीनपरम्परामनुरुन्धानैस्तत्र तत्र काव्येषु निबद्धमपि नास्माभिर्गणितम् । वस्तुस्थितेरेवानुरोध्यत्वात् । केचिदिमानपि चतुरो भेदानगणयन्त उत्तममध्यमाधमभावेन त्रिविधमेव काव्यमाचक्षते । तत्रार्थचित्रशब्दचित्रयोरविशेषेणाधमत्वमयुक्तं वक्तुम् । तारतम्यस्य स्फुटमुपलब्धेः । को ह्येवं सहृदयः सन् 'विनिर्गतं मानदमात्ममन्दिरात्,' 'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादिभिः काव्यैः 'स्वच्छन्दोच्छलद्' इत्यादीनां पामरश्लाघ्यानामविशेषं ब्रूयात् । सत्यपि तारतम्ये यद्येकभेदत्वं कस्तहि ध्वनिगुणीभूतव्यङ्गयोरीषदन्तरयोविभिन्नभेदत्वे दुराग्रहः । यत्र च शब्दार्थचमत्कृत्योरैकाधिकरण्यं तत्र तयोर्गुणप्रधानभावं पर्यालोच्य यथालक्षणं व्यवहर्तव्यम् । समप्राधान्ये तु मध्यमतैव । यथाउल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानां
निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् । रिन्द्रस्तद्गोत्रजा देवास्तद्रक्षकायेत्यर्थः । लीनेति। अप्रधानत्वेनास्फुटत्वादिति भावः । न्यूनतां परिहरति-यद्यपीति । विधासु भेदेषु । महत्त्वेन तथा निबन्धे योग्यता सूचिता । पराम्परामित्यनेनान्धपरम्परावद विचारः सचितः । काव्येषु तत्र तत्र स्थलविशेषे । प्राचीनोक्तेः सूचितासांगत्यहेतुमाह-वस्त्विति । केचित्प्रकाशकारादयः । एवं तारतम्यज्ञत्वेन । 'विनिर्गतं मानदमात्ममन्दिराद्भवत्युपश्रुत्य यदृच्छयापि यम् । ससंभ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियामरावती ॥' इति प्रकाशाद्युक्तम् । ‘स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्ठात्पवनावधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥' इत्यप्पय्यदीक्षितोक्तम् । काव्यैः । अर्थचित्रैरिति शेषः । 'स्वच्छन्दोच्छ. लदच्छकच्छकुहरच्छातेतराम्भश्छटामर्छन्मोहमहर्षिहर्षविहितस्नानाहिकाहाय वः । भिन्यादुद्यदुदारदर्दुरदरीदैादरिद्रद्रुमद्रोहोद्रेकमयोमिमेदुरमदा मन्दाकिनी मन्दताम् ॥' इति प्रकाशाद्युक्तम् । पामरोति । शब्दचित्रत्वादिति भावः । ईषदन्तरोति। प्राधान्याप्राधान्यकृतेत्यर्थः । उल्लास इति । रविवर्णनम् । उदयाचलप्रान्तभागादयं कोऽपि
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः
संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥ अत्र वृत्त्यनुप्रासप्राचुर्यादोजोगुणप्रकाशकत्वाच्च शब्दस्य प्रसादगुणयोगादनन्तरमेवाधिगतस्य रूपकस्य हेत्वलंकारस्य वा वाच्यस्य चमस्कृत्योस्तुल्यस्कन्धत्वात्सममेव प्राधान्यम् ॥
तत्र ध्वनेरुत्तमोत्तमस्यासंख्यभेदस्यापि सामान्यतः केऽपि भेदा निरूप्यन्ते-द्विविधो ध्वनिः, अभिधामूलो लक्षणामूलश्च । तत्राद्यस्त्रिविधः । रसवस्त्वलंकारध्वनिभेदात् । रसध्वनिरित्यलक्ष्यक्रमोपलक्षणाद्रसभावतदाभासभावशान्तिभावोदयभावसंधिभावशबलत्वानां ग्रहणम् । द्वितीयश्च द्विविधः । अर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्च । एवं पञ्चात्मके ध्वनौ परमरमणीयतया रसध्वनेः । तदात्मारसस्तावदभिधीयते-- __ समुचितललितसंनिवेशचारुणा काव्येन समर्पितैः सहृदयहृदयं प्रविष्टैस्तदीयसहृदयतासहकृतेन भावनाविशेषमहिम्ना विगलितदुज्यन्तरमणीयत्वादिभिरलौकिकविभावानुभावव्यभिचारिशब्दव्यपदेश्यैः शकुन्तलादिभिरालम्बनकारणैश्चन्द्रिकादिभिरुदीपनकारणैरश्रुपातादिभिः काश्चिन्तादिभिः सहकारिभिश्च संभूय प्रादुर्भावितेनालौकिकेन व्यापारेण तत्कालनिवर्तितानन्दांशावरणा
विलक्षणो धाम्नां तेजसां समूहः प्रादुर्भवति । तत्र रूपकं चतुर्धा । विकसितकमलसमूहमध्यावधिकनिःसरणयुतरसपानजोन्मादवद्भमराणामुल्लासः । तादृशकोकीनां निस्तारो दुःखोद्धर्ता । नाशिततेजसां तामसानां तमःसमहानामुत्पातो नाशकः । नेत्राणां पक्षपातः सहकारी । 'आवृत्तवर्णसंपूर्ण वृत्त्यनुप्रासवद्वचः । ओजः स्यात्प्रौढिरर्थस्य संक्षेपो वातिभयसः ।। यस्मादन्तःस्थितः सर्वः स्पष्टमर्थोऽवभासते । सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ॥' इति तल्लक्षणानि बोध्या नि । रूपकस्योल्लासाद्यभेदरूपकस्य । ननल्लासादीनां तत्कार्यत्वात्कथं रूपकमत आह-हेत्वलमिति । ‘हेतोहेतुमता साध वर्णनं हेत. रुच्यते' इति तल्लक्षणम् । तत्र चतुर्णा मध्ये । त्रैविध्योपपत्तये आह---रसेति । एतेनाधिक्यात्रैविध्यमनुपपन्नमित्यपास्तम् । तदाभासेति । रसाभासभावाभासेत्यर्थः । एतेषां स्वरूपाण्यग्रे स्फुटीभविष्यन्ति । एवमुक्तप्रकारेण । घटकत्वं सप्तम्यर्थः । रसध्वनेः परमरमणीयतयेत्यर्थः । तदात्मा ध्वन्यात्मा। समुचितेति । तत्तद्रससमुचितेत्यर्थः ।
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२२
ज्ञानेनात एव प्रमुष्टपरिमितप्रमातृत्वादि निजधर्मेण प्रमात्रा खप्रकाशतया वास्तवेन निजस्वरूपानन्देन सह गोचरीक्रियमाणः प्राग्विनिविष्टवासनारूपो रत्यादिरेव रसः ॥
तथा चाहुः -- ' व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः' इति । व्यक्तो व्यक्तिविषयीकृतः । व्यक्तिश्च भग्नावरणा चित् । यथा हि शरावादिना पिहितो दीपस्तन्निवृत्तौ संनिहितान्पदार्थान्प्रकाशयति, स्वयं त्र प्रकाशते । एवमात्मचैतन्यं विभावादिसंवलितान्रत्यादीन् । अन्तःकरधर्माणां साक्षिभास्यत्वाभ्युपगतेः । विभावादीनामपि स्वमतुरगादीनामिव रङ्गरजतादीनामिव साक्षिभास्यत्वमविरुद्धम् । व्यञ्जकविभावादिचर्वणाया आवरणभङ्गस्य वोत्पत्तिविनाशाभ्यामुत्पत्तिविनाशौ रसे उपचर्यते । वर्णनित्यतायामिव व्यञ्जकताल्वादिव्यापारस्य गकारादौ विभावादिचर्वणाव - धित्वादावरणभङ्गस्य निवृत्तायां तस्यां प्रकाशस्यावृतत्वाद्विद्यमानोऽपि स्थायी न प्रकाशते । यद्वा विभावादिचर्वणामहिम्ना सहृदयस्य निजसहृदयतावशोन्मिषितेन तत्तत्स्थाय्युपहितस्वस्वरूपानन्दाकारा समाधाविव योगिनश्चित्तवृत्तिरुपजायते । तन्मयीभवनमिति यावत् । आनन्दो ह्ययं न
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
अत एव ललित इति बोध्यम् । सहकारिभिश्चेत्यस्य चर्व्यमाणैरिति शेषः । आनन्दां - शेति । आनन्दांशस्यावरणरूपमज्ञानं यस्येति बहुव्रीहिः । प्रमातृविशेषणमिदम् । अत एव । आवरणनिवृत्तेरेवेत्यर्थः । सकलविषयज्ञानसंभवादिति भावः । प्रमात्रेत्यस्य गोचरीक्रियमाण इत्यत्रान्वयः । आहुर्मम्मटभट्टाः । रत्यादीनित्यत्र प्रकाशयति स्वयं च प्रकाशत इत्यस्यानुषङ्गः । ननु भासनारूपरत्यादीनां तद्भास्यत्वेऽपि विभावादीनां कथं तद्भास्यत्वम् । असाहित्येनासंबन्धादत आह-अन्तःकरणेति । तथा च परम्परासंबन्ध इति भावः । हेतोर विरुद्धमित्यत्रान्वयः । स्वप्नदृष्टान्तमुक्त्वा जाग्रद्दृष्टान्तमाह - रङ्गेति । नन्वेवमुत्पन्नो नष्टो रस इति व्यवहारो न स्यात्, चैतन्यरूपत्वात्, अत आह— व्यञ्जकेति । बहुपरम्पराभयादाह - आवरणेति । उत्पन्तीति । हेतौ पञ्चमी । उत्पत्तिविनाशयोः सत्त्वादित्यर्थः । व्यापारस्योत्पत्त्यादेः । ननु विभावादिचर्वणानाशेऽपि स्थायिप्रकाशः कुतो नात आह— विभेति । तस्यां तच्चर्वणायाम् । विद्येति । सूक्ष्मरूपतयेति भावः । मध्ये व्यापारकल्पनजलाघवायाह – यद्वेति । सहृदयस्येत्यस्य चित्तवृत्तिरित्यत्रान्वयः । आनन्दाकारा तद्विषया । समाधौ सविकल्पकसमाधौ । निर्विकल्पके तदनङ्गीकारादिति बोध्यम् । चित्तवृत्तिरिति । सा च काव्यव्यञ्जनामूलेति बोध्यम् । तन्मयीति । आनन्दविषयतया तत्प्रचुरेत्यर्थः । अस्य लौकिकत्वादाह - सुखान्तरेति ।
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
२३
लौकिक सुखान्तरसाधारणः । अनन्तः करणवृत्तिरूपत्वात् । इत्थं चाभिनवगुप्तमम्मटभट्टादिग्रन्थस्वारस्येन भग्नावरणचिद्विष्टो रत्यादिः स्थायीभावो रस इति स्थितम् । वस्तुतस्तु वक्ष्यमाणश्रुतिस्वारस्येन रत्याद्यवच्छिन्ना भग्नावरणा चिदेव रसः । सर्वथैव चास्या विशिष्टात्मनो विशेषणं विशेष्यं वा चिदशमादाय नित्यत्वं स्वप्रकाशत्वं च सिद्धम् । रत्याद्यंशमादाय त्वनित्यत्वमितरभास्यत्वं च । चर्वणा चास्य चिद्गतावरणभङ्ग एव प्रागुक्ता, तदाकारान्तःकरणवृतिर्वा । इयं च परमब्रह्मास्त्वादात्समाधेर्विलक्षणा । विभावादिविषयसंवलितचिदानन्दालम्बनत्वात् । भाव्या च काव्यव्यापारमात्रात् । अथास्यां सुखांशभाने किं मानमिति चेत्समाधावपि तद्भाने किं मानमिति पर्यनुयोगस्य तुल्यत्वात् । ‘सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम्' इत्यादिः शब्दोऽस्ति तत्र मानमिति चेदस्त्यत्रापि 'रसो वै सः, रसं ह्येवायं लध्वानन्दी भवति' इति श्रुतिः, सकलसहृदय प्रत्यक्षं चेति प्रमाणद्वयम् । येयं द्वितीयपक्षे तदाकारचित्तवृत्त्यात्मिका रसचर्वणोपन्यस्ता सा शब्द - व्यापारभाव्यत्वाच्छाब्दी । अपरोक्षसुखालम्बनत्वाच्चापरोक्षात्मिका । तवं वाक्यजत्रुद्धिवत् । इत्याहुरभिनवगुप्ताचार्यपादाः || " भट्टनायकास्तु ताटस्थ्येन रसप्रतीतावना स्वाद्यत्वम् । आत्मगतत्वेन तु प्रत्ययो दुर्घटः । शकुन्तलादीनां सामाजिकान्प्रत्यविनाभावत्वात् । विना विभावमनालम्ब - नस्य रसादेरप्रतिपत्तेः । न च कान्तात्वं साधारणविभावतावच्छेदकमत्रा
अनन्तःकरणेति । अन्तःकरणवृत्त्यवच्छिन्न चैतन्यारूपत्वादित्यर्थः । अस्या वृत्तनिरखच्छिन्नविषयकत्वादिति भावः । उपसंहरति - इत्थं चेति । स्थितमित्यनेन सूचितश्रुतिविरोधरूपारुचि सिद्धान्तमाह — वस्त्विति । वक्ष्येति । 'रसो वै सः' इत्यादीति भावः । सर्वथैव चेति । उभयथापीत्यर्थः । मतक्रमादाह - विशेषेति । चर्व्यमाणो रस इति प्राचीनव्यवहारोपपत्तये आह- चर्वणा चास्येति । यद्वेति मतेनाह - प्रागुक्तेति । इयं चेति । रसचर्वणा चेत्यर्थः । परेति बहुव्रीहिः । समाधेः सविकल्पकात् । विषयेति । सा च विषयासंवलितशुद्धब्रह्मालम्बनेति भावः । काव्यव्यापारो व्यञ्जना | मापदेन तत्कारणश्रवणादिनिरासः । शाब्दत्वापरोक्षत्वयोर्न विरोध इत्याह- तवेति । ताटस्थ्येन रसेति । स्वसंबन्धराहित्येनेत्यर्थः । विभावं विनैवास्तामत आह-विनेति । अनालम्बनस्य निराधारस्य । अत्रापि वेषेऽपि । अनालिङ्गितत्वं ज्ञानविशेषम् ।
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
काव्यमाला।
प्यस्तीति वाच्यम् । अप्रामाण्यनिश्चयानालिङ्गितागम्यात्वप्रकारकज्ञानविरहस्य विशेष्यतासंबन्धावच्छिन्नप्रतियोगिताकस्य विभावतावच्छेदककोटाववश्यं निवेश्यत्वात् । अन्यथा स्वस्त्रादेरपि कान्तात्वादिना तत्त्वापत्तेः । एवमशोच्यत्वकापुरुषत्वादिज्ञानविरहस्य तथाविधस्य करुणरसादौ । तादृशज्ञानानुत्पादस्तु तत्प्रतिबन्धकान्तरनिर्वचनमन्तरेण दुरुपपादः । स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरेव तथेति चेत् । न । नायके धराधौरेयत्वधीरत्वादेरात्मनि चाधुनिकत्वकापुरुषत्वादेवैधर्म्यस्य स्फुटं प्रतिपत्तेरभेदबोधस्यैव दुर्लभत्वात् । किं च केयं प्रतीतिः। प्रमाणान्तरानुपस्थानाच्छाब्दीति चेत् । न । व्यावहारिकशब्दान्तरजन्यनायकमिथुनवृत्तान्तवित्तीनामिवास्या अप्यहृद्यत्वापत्तेः। नापि मानसी। चिन्तोपनीतानां तेषामेव पदार्थानां मानस्याः प्रतीतेरस्या वैलक्षण्योपलम्भात् । न च स्मृतिः । तथा प्रागननुभवात् । तस्मादभिधया निवेदिताः पदार्था भावकत्वव्यापारणागम्यत्वादिरसविरोधिज्ञानप्रतिबन्धद्वारा कान्तात्वादिरसानुकूलधर्मपुरस्कारेणावस्थाप्यन्ते । एवं साधारणीकृतेषु दुष्यन्तशकुन्तलादेशकालवयोवस्थादिषु पङ्गो पूर्वव्यापारमहिमनि तृतीयस्य भोगकृत्त्वव्यापारस्य महिना निगर्णियो रजस्तमसोरुद्रिक्तसत्त्वजनितेन निजचित्स्वभावनिर्वृतिविश्रान्तिलक्षणेन साक्षात्कारेण विषयीकतो भावनोपनीतः साधारणात्मा रत्यादिः स्थायी रसः । तत्र भुज्यमानो रत्यादिः, रत्यादिभोगो वेत्युभयमेव रसः । सोऽयं
विशेष्यतासंबन्धः समवायः । आवश्यकत्वमुक्तं द्रयितुं विपक्षे बाधकमाह-अन्यथेति । एवमुक्तरीत्या । तथाविधस्य विशेष्यतासंबन्धावच्छिन्नप्रतियोगिताकस्य । रसादावित्यस्य विभावतावच्छेदककोटाववश्यनिवेश्यत्वमिति शेषः । तादृशेति । अप्रामाण्यनिश्चयानालिङ्गितेत्यर्थः । 'धराधोरेय' इति पाठः । विशिष्टोऽत्र धर्म उभयत्र । प्रमोति । प्रत्यक्षादीत्यर्थः । शब्दान्तरेति । काव्यान्यव्यवहारसाधकशब्देत्यर्थः । वृत्तान्तति । वृत्तान्तज्ञानानामित्यर्थः । अस्या अपि । उक्तशाब्दप्रतीतेरित्यर्थः । अगम्यत्वादीति । तत्प्रकारकं रसविरोधि यज्ज्ञानं तत्प्रतीत्यर्थः । कान्तति । कान्तावादी रसानुकुलो यो धर्मस्तद्वैशिष्ट्येनेत्यर्थः । एवमुक्तव्यापारेण । तावतैव साफल्येनाह-प. ड्राविति । सतिसप्तमी। तमसोरित्यत्राप्येवम् । उद्रेकश्च स्वेतरावभिभयावस्थानम् । साधारणेति । संबन्धिविशेषानवच्छिन्नेत्यर्थः । विनिगमनाविरहादाह-तत्रेति । वि.
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
२५
भोगो विषयसंवलनाद्ब्रह्मास्वादसविधवर्तीत्युच्यते । एवं च त्रयशाः काव्यस्य । ‘अभिधा भावना चैव तद्भोगीकृतिरेव च" इत्याहुः ॥ मतस्यैतस्य पूर्वस्मान्मताद्भावकत्वव्यापारान्तरस्वीकार एव विशेषः । भोगस्तु व्यक्तिः । भोगकृत्वं तु व्यञ्जनादविशिष्टम् । अन्या तु सैव सरणिः । नव्यास्तु "काव्ये नाट्ये च कविना नटेन च प्रकाशितेषु विभावादिषु व्यञ्जनव्यापारेण दुष्यन्तादौ शकुन्तलादिरतौ गृहीतायामनन्तरं च सहृदयतोल्लासितस्य • भावनाविशेषरूपस्य दोषस्य महिना कल्पितदुष्यन्तत्वावच्छादिते स्वात्मन्यज्ञानावच्छिन्ने शुक्तिकाशकल इव रजतखण्डः समुत्पद्यमानोऽनिर्वचनीयः साक्षिभास्यशकुन्तलादिविषयकरत्यादिरेव रसः । अयं च कार्यो दोषविशेषस्य । नाश्यश्व । तन्नाशस्य स्वोत्तरभाविना लोकोत्तराहादेन भेदाग्रहात्सुखपदव्यपदेश्यो भवति । स्वपूर्वोपस्थितेन रत्यादिना तदग्रहात्तद्रतित्वेनैकत्वाध्यवसानाद्वा व्यङ्गयो वर्णनीय श्रोच्यते । अवच्छादकं दुष्यन्तत्वमप्यनिर्वचनीयमेव । अवच्छादकत्वं च रत्यादिविशिष्टबोधे विशेष्यतावच्छेदकत्वम् । एतेन दुष्यन्तादिनिष्ठस्य रत्यादेरनास्वा - द्यत्वान्न रसत्वम् । स्वनिष्ठस्य तु तस्य शकुन्तलादिभिरंतत्संबन्धिभिः कथमभिव्यक्तिः । स्वस्मिन्दुष्यन्ताद्यभेदबुद्धिस्तु बाधबुद्धिपराहतेत्यादिकमपास्तम् | यदपि विभावादीनां साधारण्यं प्राचीनैरुक्तं तदपि काव्येन शकुन्तलादिशब्दैः शकुन्तलात्वादिप्रकार कबोधजनकैः प्रतिपाद्यमानेषु शकुन्तलादिषु दोषविशेषकल्पनं विना दुरुपपादम् । अतोऽवश्यकल्प्ये दोषविशेषे तेनैव स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरपि सूपपादा | नन्वेव - मपि रतेरस्तु नाम दुष्यन्त इव सहृदयेऽपि सुखविशेपजनकता, करुणरसादिषु तु स्थायिनः शोकादेर्दुःखजनकतया प्रसिद्धस्य कथमिव सहशिष्ट इत्यर्थः । भोगश्च सत्त्वगुणोद्रेकात्प्रकाशते य आनन्दस्तत्स्वरूपानन्यालम्बना या संवित्तत्स्वरूपो लौकिक सुखानुभन्न विलक्षणः । सत्त्वरजस्तमसां गुणानामुद्रेकेण क्रमात्सुखदुःख ःखमोहाः प्रकाश्यन्ते । सविधेति । न तु स एवेति भावः । अंशा व्यापाराः । सैवेति । प्रागुक्त एव मार्ग इत्यर्थः । तन्नाशेति । दोषविशेषनाशेत्यर्थः । स्वपूर्वोपेति । दुष्यन्तादौ गृहीतशकुन्तलारत्यादिनेत्यर्थः । तदग्रहादिति । भेदाग्रहादित्यर्थः । नन्वेवमपि कथं तद्धर्मलाभोत आह- तद्वतीति । एतेनेति । उक्तरीत्या सर्वोपपाद
४
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
काव्यमाला।
दयाह्लादहेतुत्वम् । प्रत्युत नायक इव सहृदयेऽपि दुःखजननस्यैवौचित्यात् । न च सत्यस्य शोकादेर्दःखजनकत्वं क्लृप्तं न कल्पितस्येति नाय“कानामेव दुःखम्, न सहृदयस्येति वाच्यम् । रज्जुसदेर्भयकम्पाद्यनुत्पादकतापत्तेः । सहृदये रतेरपि कल्पितत्वेन सुखजनकतानुपपत्तेश्चेति चेत् । सत्यम् । शृङ्गारप्रधानकाव्येभ्य इव करुणप्रधानकाव्येभ्योऽपि यदि केवलाहाद एव सहृदयहृदयप्रमाणकस्तदा कार्यानुरोधेन कारणस्य कल्पनीयत्वाल्लोकोत्तरकाव्यव्यापारस्यैवाहादप्रयोजकत्वमिव दुःखप्रतिबन्धकत्वमपि कल्पनीयम् । अथ यद्यालाद इव दुःखमपि प्रमाणसिद्धं तदा प्रतिबन्धकत्वं न कल्पनीयम् । स्वस्वकारणवशाच्चोभयमपि भविष्यति । अथ तत्र कवीनां कर्तुम्, सहृदयानां च श्रोतुम्, कथं प्रकृत्तिः । अनिष्टसाधनत्वेन निवृत्तेरुचितत्वात् । इति चेत् । इष्टस्याधिक्यादनिष्टस्य च न्यूनत्वाञ्चन्दनद्रवलेपनादाविव प्रवृत्तेरुपपत्तेः । केवलाह्लादवादिनां तु प्रवृत्तिरप्रत्यूहैव । अश्रुपातादयोऽपि तत्तदानन्दानुभवस्वाभाव्यात् । न तु दुःखात् । अत एव भगवद्भक्तानां भगवद्वर्णनाकर्णनादश्रुपातादय उपपद्यन्ते । न हि तत्र जात्वपि दुःखानुभवोऽस्ति । न च करुणरसादौ स्वात्मनि शोकादिमद्दशरथादितादात्म्यारोपे यद्याहादस्तदा स्वप्नादौ संनिपातादौ वा स्वात्मनि तदारोपेऽपि स स्यात्। आनुभविकं च तत्र केवलं दुःखम् । इतीहापि तदेव युक्तमिति वाच्यम् । अयं हि लोकोत्तरस्य काव्यव्यापारस्य महिमा, यत्प्रयोज्या अरमणीया अपि शोकादयः पदार्था आह्वादमलौकिकं जनयन्ति । विलक्षणो हि कमनीयः काव्यव्यापारज आस्वादः प्रमाणान्तरजादनुभवात् । जन्यत्वं च स्वजन्यभावनाजन्यरत्यादिविषयनेनेत्यर्थः । तस्य रत्यादेः । रज्जुसदेरिति । तद्रूपसपीदेरित्यर्थः । केवलति । दु:खा मिश्रेत्यर्थः । दुःखप्रतिबन्धेति । सुरतकालिकदन्ताद्याघातस्येवेत्यर्थः। प्रमाणेत्यस्य सहृदयेत्यादिः । तत्र करुणप्रधानकाव्ये । द्वितीयमतेनेदमुक्तं नाद्यमतेनेत्याह-केवलेति । न चाद्यमतेऽश्रुपातादयो न स्युः, तेषां दुःखकार्यत्वादत आह–अश्रुपातादयोऽपीति । नेदं क्वचिदृष्टमत आह-अत एवेति । जात्वपीपदपि । तदारोपेऽपि शोकादिमद्दशरथादितादात्म्यारोपेऽपि । स आहादः । तत्र स्वप्नादौ । इहापि करुणरसादावपि । तदेव दुःखमेव । यत्प्रयोज्याः काव्यव्यापारप्रयोज्याः । प्राचीनोक्तदोषमुद्ध
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
कत्वम् । तेन रसास्वादस्य काव्यव्यापाराजन्यत्वेऽपि न क्षतिः । शकुन्तलादावगम्यात्वज्ञानोत्पादस्तु स्वात्मनि दुष्यन्ताभेदबुद्ध्या प्रतिबध्यते" इत्याहुः । परे तु " व्यञ्जनव्यापारस्यानिर्वचनीयख्यातेश्चानभ्युपगमेऽपि प्रागुक्तदोषमहिम्ना स्वात्मनि दुष्यन्तादितादात्म्यावगाही शकुन्तलादिविषयकरत्यादिमदभेदबोधो मानसः काव्यार्थभावनाजन्मा विलक्षणविषयताशाली रसः । स्वामादिस्तु तादृशबोधो न काव्यार्थचिन्तनजन्मेति न रसः । तेन तत्र न तादृशालादापत्तिः । एवमपि स्वस्मिन्नविद्यमानस्य रत्यादेरनुभवः कथं नाम स्यात् । मैवम् । नह्ययं लौकिकसाक्षात्कारो रत्यादेः, येनावश्यं विषयसद्भावोऽपेक्षणीयः स्यात् । अपि तु भ्रमः । आस्वादस्य रसविषयकत्वव्यवहारस्तु रत्यादिविषयंकत्वालम्बनः” इत्यपि वदन्ति । एतैश्च स्वात्मनि दुप्यन्तत्वधर्मितावच्छेदकशकुन्तलादिविषयकरतिवैशिष्टयावगाही, स्वात्मत्वविशिष्टे शकुन्तलादिविषयकरतिविशिष्टदुप्यन्ततादात्म्यावगाही, स्वात्मत्वविशिष्टे दुप्यन्तत्वशकुन्तलाविषयकरत्योवैशिष्टयावगाही, वा त्रिविधोऽपि बोधो रसपदार्थतयाभ्युपेयः । तत्र 'रतेविशेषणीभूतायाः शब्दादप्रतीतत्वाद्यञ्जनायाश्च तत्प्रत्यायिकाया अनभ्युपगमाच्चेष्टादिलिङ्गकमादौ विशेषणज्ञानार्थमनुमानमभ्युपेयम् । मुख्यतया दुष्यन्तादिगत एव रसो रत्यादिः कमनीयविभावाद्यभिनयप्रदर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नटे समारोप्य साक्षात्क्रयते' इत्येके । मतेऽस्मिन्साक्षात्कारो दुश्यन्तोऽयं शकुन्तलादिविषयकरतिमानित्यादिः प्राग्वद्धयंशे लौकिक आरोप्यांशे त्वलौकिकः । 'दुष्यन्तादिगतो रत्यादिनटे पक्षे दुप्यन्तत्वेन गृहीते विभावादिभिः कृत्रिमैरप्यकत्रिमतया गृहीतैर्भिन्ने विषयेऽनुमितिसामग्र्या बलवत्त्वादनुमीयनमानो रसः' इत्यपरे । रति-शकुन्तलादाविति । प्रागुक्तदोषमुद्धरति-स्वामादिस्त्विति । नन्वेवं बोधस्यैव सत्त्वेन कथमास्वादे रसविषयकत्वव्यवहारोऽत आह-आस्वादति । एतैश्च 'परे तु' इतिवादिभिश्च । अभ्युपेय इति । विनिगमनाविरहादिति भावः । रस इति । रत्यादिरूपो रस इत्यन्वयः । दुष्यन्ताद्यनकर्तरीति । श्रव्यकाव्ये तु काव्यपाठक इति बोध्यम् । मतेऽस्मिन्निति । अस्मिन्मते इत्यादिः । साक्षात्कारस्तत्र लौकिकोऽन्यत्रालौकिक इत्यन्वयः । मतान्तरमाह-दुष्यन्तादीति। कतिपये केचन । त्रिषु विभा
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
काव्यमाला।
'विभावादयस्त्रयः समुदिता रसः' इति कतिपये । 'त्रिषु य एव चमत्कारी स एव रसोऽन्यथा तु त्रयोऽपि न' इति बहवः । 'भाव्यमानो विभाव एव रसः' इत्यन्ये । 'अनुभावस्तथा तथा' इतीतरे । 'व्यभिचायेव तथा तथा परिणमति' इति केचित् । तत्र 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति सूत्रं तत्तन्मतपरतया व्याख्यायते--'विभावानुभाव'व्यभिचारिभिः संयोगाद्वयञ्जनाद्रसस्य चिदानन्दविशिष्टस्थाय्यात्मनः स्थाय्युपहितचिदानन्दात्मनो वा निष्पत्तिः स्वरूपेण प्रकाशनम्' इत्याद्ये । "वभावानुभावव्याभिचारिणां सम्यक्साधारणात्मतया योगाद्भावकत्वव्यापारेण भावनाद्रसस्यं स्थाय्युपहितसत्त्वोद्रेकप्रकाशितस्वात्मानन्दरूपस्य निष्पत्तिभॊगाख्येन साक्षात्कारेण विषयीकृतिः' इति द्वितीये । 'विभावानुभावव्यभिचारिणां संयोगाद्भावनाविशेषरूपादोषाद्रसस्यानिर्वचनीयदुष्यन्तरत्याचात्मनो निष्पत्तिरुत्पत्तिः' इति तृतीये । 'विभावादीनां संयोगाज्ज्ञानाद्रसस्य ज्ञानविशेषात्मनो निष्पत्तिरुत्पत्तिः' इति चतुर्थे । 'विभावादीनां संबन्धाद्रसस्य रत्यादनिष्पत्तिरारोपः' इति पञ्चमे । 'विभावादिभिः कृत्रि. मैरप्यकृत्रिमतया गृहीतैः संयोगादनुमानाद्रसस्य रत्यादेनिष्पत्तिरनुमितिनटादौ पक्ष इति शेषः' इति षष्ठे । विभावादीनां त्रयाणां संयोगात्समुदायाद्रसनिष्पत्ती रसपदव्यवहारः' इति सप्तमे । 'विभावादिषु सम्यग्योगाचमत्कारात्' इत्यष्टमे । तदेवं पर्यवसितस्त्रिषु मतेषु सूत्रविरोधः । विभावानुभावव्यभिचारिणामेकस्य तु रसान्तरसाधारणतया नियतरसव्यञ्जकतावादिषु । तथा भाव्यमानोऽनुभावस्तथा रस इतीतरे इत्यर्थः । तथा भाव्यमानो व्यभि. चारिभाव एव तथा रसरूपतया परिणमतीत्यर्थः । उक्तार्थानां समूलत्वमाह-तत्रेति । उक्तपक्षसिद्ध्यर्थमित्यर्थः । संयोगादित्यस्य व्याख्या व्यञ्जनादिति । विनिगमनाविरहा. दाह-स्थाय्युपति । निष्पत्तिरित्यस्य व्याख्या स्वरूपेणेत्यादि । आयेऽभिवनगुप्तमते । • संयोगादित्यस्य विच्छिद्यार्थमाह-सम्यगिनि । द्वितीये भट्टनायकमते । दृतीये नव्य
मते । चतुर्थे परे वितिमते । पञ्चमे इत्येके इतिमते । अनुमतिरित्यन्तोऽर्थः । अग्रे • शेषपूरणम् । षष्ठे इत्यपरे इतिमते । सप्तमे इति कतिपये इतिमते । अष्टमे इति बहव इतिमते । उपसंहरति-तदेवमिति । त्रिषु मतेषु भाव्यमान इत्यादिष्वग्रिमेषु । ननु तत्रैव त्रयाणां किमित्युपादानं येन मतत्रये सूत्रविरोधोऽत आह-विभावति । निर्धारणषष्ठीयम् । रसान्तरेति । तदुक्तम्-'व्याघ्रादयो विभावा भयातकस्येव
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
नुपपत्तेः सूत्रे मिलितानामुपादानम् । एवं च प्रामाणिके मिलितानां व्यअकवे यत्र क्वचिदेकस्मादेवासाधारणाद्रसोद्बोधस्तत्रेतरद्वयमाक्षेप्यम् । अतो नानैकान्तिकत्वम् । इत्थं नानाजातीयाभिः शेमुषीभिर्नानारूपतयावसितोऽपि मनीषिभिः परमाह्लादाविनाभावितया प्रतीयमानः प्रपञ्चेऽस्मिबसो रमणीयतामावहतीति निर्विवादम् ॥ स च
'शृङ्गारः करुणः शान्तो रौद्रो वीरोऽद्भुतस्तथा ।
हास्यो भयानकश्चैव बीभत्सश्चेति ते नव ॥' इत्युक्तेर्नवधा । मुनिवचनं चात्र मानम् ॥ केचित्तु
'शान्तस्य शमसाध्यत्वान्नटे च तदसंभवात् ।
अष्टावेव रसा नाव्ये न शान्तस्तत्र युज्यते ॥' इत्याहुः । तच्चापरे न क्षमन्ते । तथा हि-नटे शमांभावादिति हेतुरसंगतः । नटे रसाभिव्यक्तेरस्वीकारात् । सामाजिकानां शमवत्त्वेन तत्र रसोद्बोधे बाधकाभावात् । न च नटस्य शमाभावात्तदभिनयप्रकाशकत्वानुपपत्तिरिति वाच्यम् । तस्य भयक्रोधादेरप्यभावेन तदभिनयप्रकाशकताया अप्यसंगत्यापत्तेः । यदि च नटस्य क्रोधाद्दूरभावेन वास्तवतत्कार्याणां वधबन्धादीनामुत्पत्त्यसंभवेऽपि कृत्रिमतत्कार्याणां शिक्षाभ्यासादित उत्पत्तौ नास्ति बाधकमिति निरीक्ष्यते तदा प्रकृतेऽपि तुल्यम् । अथ रौद्राद्भुतवीराणाम् । अश्रुपातादयोऽनुभावाः शृङ्गारस्येव करुणभयानकयोः । चिन्तादयो व्यभिचारिणः शृङ्गारस्येव करुणवीरभयानकानाम्' इति । एवं च उक्तहेतोस्तदनुपपत्तौ च । यत्र कचिदिति । 'परिमृदितमृणालीम्लानमङ्ग प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु । कलयति च हिमांशोनिष्कलङ्कस्य लक्ष्मोमभिनवकरिदन्तच्छेदपाण्डुः कपोलः ॥' इत्यादावित्यथैः । परमप्रकृतमुपसंहरति-इत्थमिति । उक्तप्रकारैरित्यर्थः । शेमुषीभिर्मतिभिः । अविनेति । तन्नियंतसंबन्धितयेत्यर्थः । तद्भेदमाह-स चेति । अत्राप्रामाण्यशङ्कां निराचष्टे-मुनीति । 'शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बोभत्साद्भुतशान्ताश्च काव्ये नव रसाः स्मृताः ॥' इतीत्यर्थः । शमसाध्यत्वाच्छमस्थायिकत्वात् । नाट्ये इत्यस्येतीति शेषः । प्रकृतेऽपि तुल्यमिति । न च शान्तस्य रोमाञ्चादिराहित्येनानभिनेयत्वात्कथं नाट्ये स
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
नाट्ये गीतवाद्यादीनां विरोधिनां सत्वात्सामाजिकेष्वपि विषयवैमुख्यात्मनः शान्तस्य कथमुद्रेक इति चेत्, नाव्ये शान्तरसमभ्युपगच्छद्भिः फलबलात्तद्गीतवाद्यादेस्तस्मिन्विरोधिताया अकल्पनात् । विषयचिन्तासामान्यस्य तत्र विरोधित्वस्वीकारे तदीयालम्बनस्य संसारानित्यत्वस्य तदुद्दीपनस्य पुराणश्रवणसत्सङ्गपुण्यवनतीथावलोकनादेरपि विषयत्वेन विरोधित्वापत्तेः । अत एव चरमाध्याये संगीतरत्नाकरे
'अष्टावेव रसा नाट्येष्विति केचिदचचुदन् ।
तदचारु यतः कंचिन्न रसं स्वदते नटः ॥' इत्यादिना नाट्येऽपि शान्तो रसोऽस्तीति व्यवस्थापितम् । यैरपि नाट्ये शान्तो रसो नास्तीत्यभ्युपगम्यते तैरपि बाधकाभावान्महाभारतादिप्रबन्धानां शान्तरसप्रधानताया अखिललोकानुभवसिद्धत्वाच्च काव्ये सोऽवश्यं स्वीकार्यः । अत एव 'अष्टौ नाट्ये रसाः स्मृताः' इत्युपक्रम्य 'शान्तोऽपि नवमो रसः' इति मम्मटभट्टा अप्युपसमहार्षुः ॥ अमीषां च
रतिः शोकैश्च निर्वेदक्रोधोत्साहाश्च विस्मयः ।
हासो भयं जुगुप्सा च स्थायिभावाः क्रमादमी ।' रसेभ्यः स्थायिभावानां घटाटर्घटाद्यवच्छिन्नाकाशादिव प्रथमद्वितीययोर्मतयोः, सत्यरजतस्यानिर्वचनीयरजतादिव तृतीये, विषयस्य (रजतादेः) ज्ञानादिव चतुर्थे भेदो बोध्यः । तत्र आ प्रबन्धं स्थिरत्वादमीषां भावानां स्थायित्वम् । न च चित्तवृत्तिरूपाणामेषामाशुविनाशित्वेन स्थिरत्वं दुलभम्, वासनारूपतया स्थिरत्वं तु व्यभिचारिष्वतिप्रसक्तमिति वाच्यम् । इति वाच्यम् । सर्वचेष्टाराहित्यरूपेणैव तदभिनयसंभवादित्याहुः । अत एव च उक्तरीत्या तत्र तस्य रसत्वादेव च । व्यवस्थापितमित्यत्रान्वयः । कंचित्कंचिदपि । नाट्येऽपि शान्तो रस इति । अत एव प्रबोधचन्द्रोदयस्य नाटकत्वं स्वीकृतं सर्वैः । अभ्युपे. त्याह-यैरपीति । अत एव काव्ये आवश्यकत्वादेव । उपसमहार्षरुपसंहारं कृतवन्तः । तथा च तेषां नववे न विवाद इति भावः । अमीषां च शृङ्गारादीनां च । मतयोरभिनवगुप्तभट्टनायकोक्तयोः । तृतीये नव्यमते । चतुर्थे परे त्विति मते । ननु पारमार्थिकस्थिरत्वाभावात्कथं स्थायित्वमत आह-तत्रेति । काव्यादावित्यर्थः । नयतीत्यत्र
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। वासनारूपाणाममीषां मुहुर्मुहुरभिव्यक्तेरेव स्थिरपदार्थत्वात् । व्यभिचारिणां तु नैव, तदभिव्यक्तेविद्युदुद्दयोतप्रायत्वात् । यदाहुः'विरुद्धैरविरुदैर्वा भावैर्विच्छिद्यते न यः ।
आत्मभावं नयत्याशु स स्थायी लवणाकरः ॥ चिरं चित्तेऽवतिष्ठन्ते संबध्यन्तेऽनुबन्धिभिः ।
रसत्वं ये प्रपद्यन्ते प्रसिद्धाः स्थायिनोऽत्र ते ॥' चिरमिति व्यभिचारिवारणाय । अनुबन्धिभिर्विभावाद्यैः । तथा
"सजातीयविजातीयैरतिरस्कृतमूर्तिमान् । .
यावसं वर्तमानः स्थायिभाव उदाहृतः ॥ इति । केचित्तु रत्याद्यन्यतमत्वं स्थायित्वमाहुः । तन्न । रत्यादीनामेकस्मिन्प्ररूढेऽन्यस्याप्ररूढस्य व्यभिचारित्वोपगमात् । प्ररूढत्वाप्ररूढत्वे बह्वल्पविभावजत्वे । तदुक्तं रत्नाकरे
'रत्यादयः स्थायिभावाः स्यु यिष्ठविभावजाः ।
स्तोकैर्विभावैरुत्पन्नास्त एव व्यभिचारिणः ॥ इति । __ एवं च वीररसे प्रधाने क्रोधो रौद्रे चोत्साहः शृङ्गारे हासो व्यभिचारी भवति, नान्तरीयकश्च । यदा तु प्रधानपरिपोषार्थ सोऽपि बहुविभावजः क्रियते तदा तु रसालंकार इत्यादि बोध्यम् ।
तत्र
स्त्रीपुंसयोरन्योन्यालम्बनः प्रेमाख्यश्चित्तवृत्तिविशेषो रतिः स्थायिभावः। विभावादीनिति शेषः । लवणेति । लवणाकर इवेत्यर्थः । बह्वल्पविभावजत्वे इति । बहु विपुलम् । विभावशब्दो वा साहचर्याद्विभावानुभावव्यभिचारिपरः । अत एव रत्नाकरे बहुवचनम् । एवं च एकस्य प्ररूढत्वेऽन्यस्य तत्त्वाङ्गीकारे च । नान्तरीयति । क्रोधादि विना तंदसंभवादिति भावः । सोऽपि क्रोधादिरपि । रसालंकार इति । रसव
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
गुरुदेवतापुत्राद्यालम्बनस्तु व्यभिचारी । पुत्रादिवियोगमरंणादिजन्मा वैक्लव्याख्यश्चित्तवृत्तिविशेषः शोकः।
स्त्रीपुंसयोस्तु वियोगे. जीवित्वज्ञानदशायां वैक्लव्यपोषिताया रतेरेव प्राधान्याच्छृङ्गारो विप्रलम्भाख्यो रसः । वैक्लव्यं तु संचारिमात्रम् । मृतत्वज्ञानदशायां तु रतिपोषितस्य वैक्लव्यस्येति करुण एव । यदा तु सत्यपि मृतत्वज्ञाने देवताप्रसादादिना पुनरुज्जीवनज्ञानं कथंचित्स्यात्तदालम्बनस्यात्यन्तिकनिरासाभावाञ्चिरप्रवास इव विप्रलम्भ एव, न स करुणः । यथा चन्द्रापीडं प्रति महाश्वेतावाक्येषु । केचित्तु रसान्तरमेवात्र करुणविप्रलम्भाख्यामिच्छन्ति । । नित्यानित्यवस्तुविचारजन्मा विषयविरागाख्यो निर्वेदः। गृहकलहादिजस्तु व्यभिचारी। गुरुबन्धुवधादिपरमापराधजन्मा प्रज्वलनाख्यः क्रोधः ।
अयं च परविनाशादिहेतुः । क्षुद्रापराधजन्मा तु परुषवचनासंभाषणादिहेतुः । अयमेवामर्षाख्यो व्यभिचारीति विवेकः । परपराक्रमदानादिस्मृतिजन्मा औन्नत्याख्य उत्साहः । अलौकिकवस्तुदर्शनादिजन्मा आश्चर्याख्यो विस्मयः । वागङ्गादि विकारदर्शनजन्मा विकासाख्यो हासः। व्याघ्रदर्शनादिजन्मा परमानर्थविषयको वैक्लव्याख्यः स भयम् ।
परमानर्थविषयकत्वाभावे तु स एव त्रासो व्यभिचारी । अपरे तु औत्पातिकप्रभवस्त्रासः, स्वापराधद्वारोत्थं भयमिति भयत्रासयोर्भेदमाहुः । दलंकार इत्यर्थः । तान्क्रमेण लक्षयति-तत्र तेषां मध्ये । आदिना नृपादिपरिग्रहः । शोकं लक्षयति-पुत्रादीति । पुत्रादीत्युक्तिफलमाह-स्त्रीपुंसेति । वियोंग उक्त्वा मरण आह-मृतत्वेति । वैलव्यस्येति। प्राधान्यमिति शेषः । एवादादिनेत्यस्य पुनरुज्जीवनेऽन्वयः । कथंचित्केनापि प्रकारेण । एव न सेति । विप्रलम्भ एव सः, न करुण इत्यर्थः । अत्र पुनरुज्जीवनस्थले। उक्तरीत्यैव निर्वाहेऽधिकतत्स्वीकारो वृथेत्यरुचिः केचि. दित्यनेन सूचिता । वधादीति । वधादिरूपो य: परमापराधस्तज्ज इत्यर्थः । परमानति । मरणादिसंपादकेत्यर्थः । स चित्तवृत्तिविशेष: । त्रासस्तदाख्यः । विभावादी
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
. ३३ कदर्यवस्तुविलोकनजन्मा विचिकित्साख्यश्चित्तवृत्तिविशेषो जुगुप्सा।
एवमेषां स्थायिभावानां लोके तत्तन्नायकगतानां यान्यालम्बनतयोद्दीपनतया वा कारणत्वेन प्रसिद्धानि तान्येषु काव्यनाटयः योर्व्यज्यमानेषु विभावशब्देन व्यपदिश्यन्ते । विभावयन्तीति व्युत्पत्तेः । यानि च कार्यतया तान्यनुभावशब्देन । अनु पश्चाद्भाव उत्पत्तिर्येषाम् । अनुभावयन्तीति वा व्युत्पत्तेः । यानि सह चरन्ति तानि व्यभिचारिशब्देन । तत्र शृङ्गारस्य स्त्रीपुंसावालम्बने । चन्द्रिकावसन्तविविधोपवनपवनरहःस्थानादय उद्दीपनविभावाः । तन्मुखावलोकनतद्गुणश्रवणकीर्तनादयोऽन्ये साविकभावाश्चानुभावाः । स्मृतिचिन्तादयो व्यभिचारिणः ।
करुणस्य बन्धुनाशादय आलम्बनानि । तत्संबन्धिगृहतुरगाभरणदर्शनादयस्तत्कथाश्रवणादयश्चोद्दीपकाः। गात्रक्षेपाश्रुपातादयोऽनुभावा ग्लानिक्षयमोहविषादचिन्तौत्सुक्यदीनताजडतादयो व्यभिचारिणः । __ शान्तस्यानित्यत्वेन ज्ञातं जगदालम्बनम् । वेदान्तश्रवणतपोवनतापसदर्शनाधुद्दीपनम् । विषयारुचिशत्रुमित्राद्यौदासीन्यचेष्टाहानिनासाग्रहष्टचादयोऽनुभावाः । हर्षोन्मादस्मृतिमत्यादयो व्यभिचारिणः ।
रौद्रस्यागस्कृत्पुरुषादिरालम्बनम् । तत्कृतोऽपराधादिरुद्दीपकः । वधबन्धादिफलको नेत्रारुण्यदन्तपीडनपरुषभाषणशस्त्रग्रहणादिरनुभावः । अमर्षवेगौग्र्यचापलादयः संचारिणः ।
एवं यस्याश्चित्तटत्तेर्यों विषयः स तस्या आलम्बनम् । निमित्तानि चोद्दीपकानीति बोध्यम्।
क्षयति-एवमिति । स्थायिभाववदित्यर्थः । एषु स्थायिभावेषु । कार्यतया स्थायिभावानां प्रसिद्धानीत्यस्यषानुगः । शब्देन, व्यपदिश्यन्त इत्यनुषङ्गः । एवमग्रेऽपि । लाघवादाह-अनुभावयन्तीति । तत्र तेषां मध्ये । तन्मुखेति । अन्योन्यमुखेत्यर्थः । एवमप्रेऽपि । अन्ये सात्त्विकेति । क्षेपस्त्यागः । चेष्टाहानिनिश्चेष्टत्वम् । आगस्कृदपराध
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
तत्र शृङ्गारो द्विविधः । संयोगो विप्रलम्भश्च । रतेः संयोगकालावच्छिन्नत्वे प्रथमः | वियोगकालावच्छिन्नत्वे द्वितीयः । संयोगश्च न दंपत्योः सामानाधिकरण्यम् । एकतल्पशयनेऽपादिसद्भावे विप्रलम्भस्यैव वर्णनात् । एवं वियोगोऽपि न वैयधिकरण्यम् । दोषस्योक्तत्वात् । तस्माहाविमौ संयोगवियोगाख्यावन्तःकरणत्तिविशेषौ । यत्संयुक्तो वियुक्तवास्मीति धीः । तत्राद्यो यथा 'शयिता सविधेऽप्यनीश्वरा' (१० पृष्ठे) इत्यत्र निरूपितः। __यत्तु चित्रमीमांसायाम—'वागर्थाविव संप्टक्तो, इत्यत्र रसध्वनिः । निरतिशयप्रेमशालिताव्यञ्जनात्' तइनिमार्गानाकलननिबन्धनम् । पार्वतीपरमेश्वरविषयककविरतौ प्रधाने निरतिशयप्रेम्णो गुणीभावात् । न हि गुणीभूतस्य रत्यादे रसध्वनिव्यपदेशहेतुत्वं युक्तम् । 'भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः' इति सिद्धान्तात् । द्वितीयो यथा'वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्पं जने
केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा । निःश्वासग्लपिताधरोपरिपतद्वाष्पावक्षोरुहा
- बाला लोलविलोचना शिव शिव प्राणेशमालोकते ॥' अत्राप्यालम्बनस्य नायकस्य, निःश्वासाश्रुपातादेरनुभावस्य, विषादचिन्तावेगादेश्च व्यभिचारिणः, संयोगादतिरभिव्यज्यमाना वियोगकालावच्छिन्नत्वाद्विप्रलम्भरसव्यपदेशहेतुः । यथा वा
'आविर्भूता यदवधि मधुस्यन्दिनी नन्दसूनोः
___ कान्तिः काचिन्निखिलनयनाकर्षणे कार्मणज्ञा । कृत् । उक्तन्यायेन वीरादिष्वपि बोध्यमित्याह-एवमिति । एकतल्पेति । एकल. टायां निद्रायामपीत्यर्थः । एवमित्यस्यार्थमाह-दोषेति । ईर्ष्याद्यभावे वैयधिकरण्येऽपि संभोगस्यैव वर्णनादित्यर्थः । यद्यस्मात् । तत्रायः शयितेति पाठः । यथेति पाठे तथेति शेषः । माङ्गलिकीमङ्गलफलकाः । मारुतेति । गवाक्षविवर इत्यर्थः । निःश्वासैर्लपितो
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
श्वास दीर्घस्तदवधि मुखे पाण्डिमा गण्डयुग्मे शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत् ॥'
यथा वा
----
Acharya Shri Kailassagarsuri Gyanmandir
'नयनाञ्चलावमर्श या न कदाचित्पुरा सेहे । आलिङ्गितापि जोषं तस्थौ सा गन्तुकेन दयितेन ॥' इहापि सहजचाञ्चल्यनिवृत्तिर्जडता चानुभावव्यभिचारिणौ । इमं च पञ्चविधं प्राश्चः प्रवासादिभिरुपाधिभिरामनन्ति । ते च प्रवासाभिलाषविरहेशापानां विशेषानुपलम्भान्नास्माभिः प्रपञ्चिताः ।
करुणो यथा
३५
'अपहाय सकलबान्धवचिन्तामुद्वास्य गुरुकुल प्रणयम् ।
हा तनय विनयशालिन्कथमिव परलोकपथिकोऽभूः ॥' अत्र प्रमीततनय आलम्बनम् । तत्कालावच्छिन्न बान्धवदर्शनाद्युद्दीपनम् । रोदनमनुभावः । दैन्यादयः संचारिणः ।
शान्तो यथा
'मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः ।
श्वपचात्मभुवोर्निरन्तरा मम जाता परमात्मनि स्थितिः ॥ ' अत्र प्रपञ्चः सर्वोऽप्यालम्बनम् । सर्वत्र साम्यमनुभावः । मत्यादयः संचारिणः । यद्यपि प्रथमार्धे उत्तमाधमयोरुपक्रमाद्दितीयार्धेऽधमोत्तमवचनं
For Private And Personal Use Only
ग्लापितोऽधरोष्ठो यस्य प्राणेशस्य तत्र । शिव शिवेति खेदातिशये । यदवधि यद्दिनादारभ्य | मधुस्यन्दिनी मधुस्राविणी । तदाकर्षणविषयकं यत्कार्मणं मन्त्रतन्त्रादि तज्ज्ञा । नयनेति । लोचनपक्ष्मस्पर्शमित्यर्थः । जोषं तूष्णीम् । गन्तुकेन गन्तुकामेन । इमं च विप्रलम्भं च । ते च प्रवासाद्युपाधयः । षष्ठयन्तपाठे चैवम् । अग्रे प्रथमान्तपाठे उपाधय इत्येवार्थः । प्रवासाभिलाषेति । प्रवास: प्रसिद्धः । अनादिसङ्गाभावेऽपि गुणश्रवणादिजन्याभिलाषे इच्छारूपे सति तदप्राप्तौ यः सोऽभिलाषहेतुक उच्यते । गुरुजनादिल. ज्जादितः संगमप्रतिबन्धो विरहः । ईर्ष्या असूयादिशब्देन मानहेतुक उच्यते । प्रिये सपत्नीरते कोप ईर्ष्या । तत्कृतो गुणेषु दोषारोपोऽसूया । शापायथा शकुन्तलादेर्दुर्वा - सस इति प्राचामाशयः । प्रमीतो मृतः । तत्कालेति । मृतिकाळेत्यर्थः । भोगिभोगः सर्पफणा । श्वपचेति । चण्डालज्ञानिनोरित्यर्थः । निरन्तरां तारतम्यशून्या । प्रपञ्च
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
क्रमभङ्गमावहति, तथापि वक्तुब्रह्मात्मकतयोत्तमाधमज्ञानवैकल्यं संपन्नमिति द्योतनाय क्रमभङ्गो गुण एव । इदं पुनोंदाहार्यम्--
'मुरखोतस्विन्याः पुलिनमधितिष्ठन्नयनयो___विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् । विधूतान्तन्तिो मधुरमधुरायां चिति कदा
निमनः स्यां कस्यांचन नवनभस्याम्बुदरुचि ॥' अत्रापि यद्यपि विषगणालम्बनः सुरस्रोतस्विनीतटाधुद्दीपितो नयननिमीलनादिभिरनुभावितः स्थायी निवेदः प्रतीयते । तथापि भगवद्वासुदेवालम्बनायां कविरतौ गुणीभूत इति न शान्तरसध्वनिव्यपदेशहेतुः । इदं च पद्यं मन्निमितायां भगवद्भक्तिप्रधानायां करुणालहर्यामुपनिबद्धमिति तत्प्रधानभावप्राधान्यमेवार्हति । शान्तरसाननुगुणश्चायमोजस्वी गुम्फ इति चानुदाहायमेवैतत् । पूर्वपद्ये तु 'परमात्मनि स्थितिः' इत्यनेन तत्ताद्रूप्यावगमाद्रतेरप्रतिपत्तिः । रौद्रो यथा'नवोच्छलितयौवनस्फुरदखर्वगर्वज्वरे
मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति । अयं पततु निर्दयं दलितहप्तभूभृद्गल
स्खलद्रुधिरघस्मरो मम परश्वधो भैरवः ॥' अत्र तदानी रामत्वेनाज्ञातो गुरुकार्मुकभञ्जक आलम्बनम् । अत एव विशेष्यानुपादानम् । गुरुद्रुहो नामग्रहणानौचित्यात् । क्रोधाविष्काराद्वा। ध्वनिविशेषानुमितो निःशङ्कधनुर्भङ्ग उद्दीपकः । परुषोक्तिरनुभावः । गर्वोग्रत्वादयः संचारिणः । एषा च धनुर्भङ्गध्वनिभग्नसमाधेर्भार्गवस्योक्तिः । इति । अनित्यत्वेन ज्ञात इति । क्रमभङ्गमिति । तथा चाक्रमंत्वदोषाहुष्टं काव्यमिति भावः । गुण एवेति । तथा चादुष्टमिति भावः । पुलिनमिति । 'अधिशीङ्-' इति कर्म । सपदि तत्कालम् । गुम्फो रचनाविशेषः । इति च, इत्यतोऽपि । नन्वेवमुदाहृतपद्येऽप्येवं स्यादत आह-पूर्वेति । तदानीं क्रोधसमये । गुरुः शिवः । अत एवेत्यस्या
For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
वृत्तिरप्यत्र महोद्धता रौद्रस्य परमौजस्वितां परिपुष्णाति । अन्यत्र गुरुस्मरणे सत्यहंभावविगमस्यावश्यकतया प्रकृते चाजहत्स्वार्थलक्षणामूलध्वननेन मदीयेत्यनेन गर्वोत्कर्षस्यैव प्रकाशनात्स्फुटं गम्यमानेन विवेकशून्यत्वेन क्रोधस्याधिक्यं गम्यते । इदं तु नोदाहार्यम्'धनुर्विदलनध्वनिश्रवणतत्क्षणाविर्भव
न्महागुरुवधस्मृतिः श्वसनवेगधूताधरः । विलोचनविनिःसरद्बहलविस्फुलिङ्गव्रजो
___रघुप्रवरमाक्षिपञ्जयति जामदग्न्यो मुनिः ॥' । अत्राप्यपराधास्पदेन रघुनन्दनेनालम्बितो धनुर्विदलनध्वनिश्रवणेनोद्दीपितो निःश्वासनेत्रज्वलनादिभिरनुभावितो महागुरुवधस्मृतिगर्वोग्रत्वादिभिश्च संचारितः क्रोधो यद्यपि व्यज्यते, तथाप्यसौ तत्प्रभाववर्णनबीजभूतायां कविरतौ गुणीभूत इति न रौद्ररसध्वनिव्यपदेशहेतुः । काव्यप्रकाशगतरौद्ररसोदाहरणे तु 'कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकम्' इति पद्ये रौद्ररसव्यञ्जनक्षमा नास्ति वृत्तिः, अतस्तत्कवेरशक्तिरेव ।
वीरश्चतुर्धा । दानदयायुद्धधर्मेस्तदुपाधेरुत्साहस्य चतुर्विधत्वात् । तत्राद्यो यथा'कियदिदमधिकं मे यहिजायार्थयित्रे
कवचमरमणीयं कुण्डले चार्पयामि । अकरुणमवकृत्य द्वाकृपाणेन निर्य
दहलरुधिरधारं मौलिमावेदयामि ॥' एषा द्विजवेषायेन्द्राय कवचकुण्डलदानोद्यतस्य कर्णस्य तदानवि
र्थमाह-गुर्विति । धनुरित्यस्य श्रीरामकृतशिवेत्यादिः । अन्यत्र क्रोधाभावे । लक्षणोत । लक्ष्यतावच्छेदकं चैकविंशतिवारनिःक्षत्रियवसुमतीकारकत्वम् । पित्राज्ञया मातृवधकारित्वं वा । तत्प्रभावेति । जामदग्न्यप्रभावेत्यर्थः । निर्यनिःसरत् ।
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
स्मितान्सभ्यान्प्रत्युक्तिः । अत्र याचमान आलम्बनम् । तदुदीरिता स्तुतिरुद्दीपिका । कवचादिवितरणं तत्र लघुत्वबुद्ध्यादिकं चानुभावः । मे इत्यर्थान्तरसंक्रमितवाच्यध्वन्युत्थापितो गर्वः स्वकीयलोकोत्तरपितृजन्यत्वादिस्मृतिश्च संचारिणौ । त्तिरप्यत्र तत्तदर्थानुरूपोद्गमविरामशालितया सहृदयैकचमत्कारिणी । तथा हि-उत्साहपोषकं कवचकुण्डलार्पणयोलघुत्वनिरूपणं विधातुं पूर्वार्धे तदनुकूलशिथिलबन्धात्मिका । उत्तराधे तु मौलितः । प्राग्वक्तृगतगर्वोत्साहपरिपोषणायोद्धता । ततः परं ब्राह्मणे सविनयत्वं प्रकाशयितुं तन्मूलीभूतं गर्वराहित्यं ध्वनयितुं पुनः शिथिलैव । अत एवावेदयामीत्युक्तम् । न तु ददामि वितरामीति वा । इदं तु नोदाहरणीयम्-- 'यस्योद्दामदिवानिशार्थिविलसद्दानप्रवाहप्रथा
माकर्ष्यावनिमण्डलागतवियद्वन्दीन्द्रवृन्दाननात् । ईर्ष्यानिर्भरफुल्लरोमनिकरव्यावल्गदूधःस्त्रव. पीयूषप्रकरैः सुरेन्द्रसुरभिः प्रावृट्पयोदायते ॥' अत्रेन्द्रसभामध्यगतसकलनिरीक्षकालम्बनः, अवनिमण्डलागतवियद्वन्दीन्द्रवदनविनिर्गतराजदानवर्णनोद्दीपितः, उधःप्रस्नुतपीयूषप्रकरैरनुभावितः, असयादिभिः संचारिभिः परिपोषितोऽपि कामगवीगत उत्साहो राजस्तुतिगुणीभूत इति न रसव्यपदेशहेतुः ।
याचमान इन्द्रः । अरमणीयपदार्थमाह-तत्र लघुत्वति । मे इत्यर्थान्तरेति । अनेकशो रणेषु क्षतजर्जरीभूतकलेंवरत्वं लक्ष्यतावच्छेदकम्, सकलराज्यकोषादिदातृत्वं वा, रविकुन्तीसुतत्वं वा । स्वकीयलोकोत्तरेति । इदमेव च शक्यतावच्छेदकम् । तत्तदिति । तत्तदर्थानुरूपौ यावुद्गमविरामौ प्रारम्भसमाप्ती तच्छालितयेत्यर्थः । मौलितो मौलिमित्यतः । वक्ता कर्णः । ब्राह्मणे तद्वेष इन्द्रे । तन्मूलीभूतं सविनयत्वम् - लीभूतम् । सुरेन्द्रसुरभिः कामधेनुः । यस्य राज्ञः स्तुतिस्तामाकर्ण्य तैः प्रावृट्पयोदायते वर्षामेघायते । बन्दीन्द्राः स्तुतिपाठकेन्द्राः । व्यावल्गन्मधु(न्थ)रम् । कोपोऽमर्ष इत्यन
र्थान्तरम् । ईर्ष्याक्षमा, गुणेषु दोषारोपोऽस्येति भेदः । असूयादिभिरिति । ईर्ष्याज. निका चासूयेति व्यङ्गयत्वमेवास्या इति भावः । कामगवी कामधेनुः । अत एव गुणी
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
Acharya Shri Kailassagarsuri Gyanmandir
अत एवेदमपि नोदाहरणम् -
'साधी कुलाचलां वसुमतीमाक्रम्य सप्तान्तरां सर्वां द्यामपि सस्मितेन हरिणा मन्दं समालोकितः । प्रादुर्भूतपर प्रमोदविदलद्रोमाञ्चितस्तत्क्षणं व्यानम्रीकृतकंधरोऽसुरवरो मौलिं पुरो न्यस्तवान् ॥' इह च भगवद्यामनालम्बनः, तत्कर्तृकमन्दनिरीक्षणोद्दीपितः, रोमाञ्चादिभिरनुभावितः, हर्षादिभिः पोषितः, उत्साहो व्यज्यमानोऽपि गुणः । प्रागन्यगतस्येव प्रकृते राजगतस्यापि तस्य राजस्तुत्युत्कर्षकत्वात् । एतेन 'त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः' इति श्रीवत्सलान्छनोक्तमुदाहरणं परास्तम् । तस्य गुणीभूतव्यङ्ग्यत्वेन रसध्वनिप्रसङ्गेऽनुदाहरणीयत्वात् । ननु 'अकरुणमवकृत्य - ' इत्यत्रापि प्रतीयमानस्य दानवीरस्य कर्णस्तुत्यङ्गत्वात्कथं ध्वनित्वमिति चेत् । सत्यम् । अत्र कवेः कर्णवचनानुवादमात्रतात्पर्यकत्वेन कर्णस्तुतौ तात्पर्यविरहात्, कर्णस्य च महाशयत्वेनात्मस्तुतौ तात्पर्यानुपपत्तेः स्तुतिरवाक्यार्थ एव । परं तु वीररसप्रत्ययानन्तरं तादृशोत्साहेन लिङ्गेन स्वाधिकरणे सानुमीयते । राजवर्णनपद्ये तु राजस्तुतौ तात्पर्याद्वाक्यार्थतैव तस्याः ।
द्वितीयो यथा
'न कपोत भवन्तमरावपि स्टशतु श्येनसमुद्भवं भयम् । इदमद्य मया तृणीकृतं भवदायुः कुशलं कलेवरम् ॥'
३९
For Private And Personal Use Only
भूतत्वादेव | सप्तान्तरां सप्तप्राकाराम् । अत एव सर्वा द्याम् । छलेन द्वाभ्यां सर्वप्रहणान्मन्दत्वम् । पर उत्कृष्ट: । असुरवरो बली दैत्यः । हर्षादिभिरिति । प्रमोदः सुखं तदंशावर णभञ्जकश्चित्तवृत्तिविशेषो हर्षः । अतो न वाच्यता व्यभिचारिण इत्यवधेयम् । प्रागन्येति । सामानाधिकरण्यवैयधिकरण्यप्रयुक्तभेदेऽप्युपकारकत्वं तस्य समानमिति भावः । त्यागः सप्तेति । 'उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरुवर्य तत्र न मदिरामनुपमं व्यक्तं हि तत्कर्मभिः । त्यागः सप्तसमुद्रमुद्रितमही निर्व्याजदानावधिः सत्यब्रह्मतपोनिधेर्भगवतः किं किं न लोकोत्तरम् ॥' इतीत्यर्थः । एतेनेत्यस्यार्थ - माह - तस्येति । ननु स्वकर्तृकेव स्तुतिरास्तामत आह-- कर्णस्येति । तादृशोत्सा हैनेति । विभावाद्यभिव्यक्तोत्साहेनेत्यर्थः । सा स्तुतिः । अर्थिनस्तद्विषयकार्थित्ववतः । १. काव्यप्रकाशठीकायाः सारबोधिन्याः कर्ता श्रीवत्सलाञ्छन:.
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अथवैवं विन्यासः'न कपोतकपोतकं तव स्टशतु श्येन मनागपि स्टहा ।
इदमद्य मया समर्पितं भवते चारुतरं कलेवरम् ॥' एषा शिबेः कपोतं श्येनं प्रति चोक्तिः । अत्र कपोत आलम्बनम् । तद्गतं व्याकुलीभवनमुद्दीपनम् । तस्य कते स्वकलेवरार्पणमनुभावः । न चान शरीरदानप्रत्ययादानवीरध्वनित्वापत्तिरिति वाच्यम् । श्येनकपोतयोर्भक्ष्यभक्षकभावापन्नत्वेन शिबिशरीरस्यार्थिनोऽभावात्तदप्रतिपत्तेः।श्येने शरीरनिवेदनस्य कपोतशरीरत्राणोपाधिकतया विनिमयपदवाच्यत्वात् । तृतीयो यथा'रणे दीनान्देवान्दशवदन विद्राव्य वहति
प्रभावप्रागल्भ्यं त्वयि तु मम कोऽयं परिकरः । ललाटोद्यज्ज्वालाकवलितजगजालविभवो
भवो मे कोदण्डच्युतविशिखवेगं कलयतु ।' एषा दशवदनं प्रति भगवतो रामस्योक्तिः । इह भव आलम्बनम् । रणदर्शनमुद्दीपनम् । दशवदनावज्ञानुभावः। गर्वः संचारी । त्तिरत्र देवानां प्रस्तावे तद्गतकातर्यप्रकाशनद्वारा वीररसानालम्बनत्वावगतयेऽनुद्धतैव । दशवदनप्रस्तावे तु देवदर्पदमनवीरत्वप्रतिपादनायोद्धतापि । तस्यावज्ञया रामगतोत्साहानालम्बनत्वेन तदालम्बनस्य रसस्याप्रत्ययान्न प्रकर्षवती । भगवतो भवस्य तु परमोत्तमालम्बनविभावत्वात्तत्प्रस्तावे तदालम्बनस्यौजस्विनो वीररसस्य निष्पत्तेः प्रकृष्टोद्धता ।
चतुर्थों यथा'सपदि विलयमेतु राज्यलक्ष्मीरुपरि पतन्त्वथवा कृपाणधाराः। अपहरतु तरां शिरः कृतान्तो मम तु मतिर्न मनागपैति धर्मात् ॥'
तदप्रेति । शरीरदानाप्रतिपत्तेरित्यर्थः । नन्वेवं किमित्यर्पितमत आह-श्येन इति । निरुपाधिकस्थल एव दानप्रतीतिरिति भावः । परिकरो गात्रबन्ध आरम्भो वा । कलयतु जानात्वङ्गीकरोतु वा । तद्गतेति । देवगतेत्यर्थः । देवदति । तदर्पदमनं यद्वीरत्वं तत्प्रेत्यर्थः । तस्य रावणस्य । तत्प्रस्तावे भवप्रस्तावे । तदालम्बनस्य भवाश्रयकस्य ।
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४१
एषा धर्मेणापि रिपुर्जेतव्य इति वदन्तं प्रति युधिष्ठिरस्योक्तिः। अत्र धर्मविषय आलम्बनम् । 'न जातु कामान्न भयान्न लोभाद्धर्म त्यजेज्जीवितस्यापि हेतोः' इत्यादिवाक्यालोचनमुद्दीपनम् । शिरश्छेदाद्यङ्गीकारोऽनुभावः । धृतिः संचारिणी । इत्थं वीररसस्य चातुर्विध्यं प्रपञ्चितं प्राचामनुरोधात् । ___ वस्तुतस्तु बहवो वीररसस्य शृङ्गारस्येव प्रकारा निरूपयितुं शक्यन्ते । तथा हि-प्राचीन एव 'सपदि विलयमेतु' इत्यादि पद्ये 'मम तु मतिर्न मनागपैतु सत्यात्' इति चरमपादव्यत्यासेन पद्यान्तरतां प्रापिते सत्यवीरस्यापि संभवात् । न च सत्यस्यापि धर्मान्तर्गततया धर्मवीररस एव तंद्वीरस्याप्यन्तर्भाव इति वाच्यम् । दानदययोरपि तदन्तर्गततया तहीरयोरपि धर्मवीरात्टथग्गणनानौचित्यात् ।
एवं पाण्डित्यवीरोऽपि प्रतीयते । यथा'अपि वक्ति गिरां पतिः स्वयं यदि तासामधिदेवतापि वा ।
अयमस्मि पुरो हयाननस्मरणोल्लचितवाङ्मयाम्बुधिः ॥' अत्र बृहस्पत्याद्यालम्बनः सभादिदर्शनोद्दीपितो निखिलविद्वत्तिरस्कारानुभावितो गर्वेण संचारिणा पोषित उत्साहो वक्तुः प्रतीयते । ननु चात्र युद्धवीरत्वम् । युद्धत्वस्य वादसाधारणस्य वाच्यत्वात् । इति चेत्, क्षमावीरे किं ब्रूयाः। यथा--- 'अपि बहलदहनजालं मूर्ध्नि रिपुम निरन्तरं धमतु।
पातयतु वासिधारामहमणुमात्रं न किंचिदाभाषे॥' क्षमावत उक्तिरियम् । बलवीरे वा किं समादध्याः ।
तदन्तरिति । धर्मान्तर्गततयेत्यर्थः । तद्वीरेति । दानदयावीरयोरपीत्यर्थः । तासामधीति । गिरामधिष्ठात्री देवता । सरस्वतीत्यर्थः । याननो हयग्रीवः । तां धराम् । हे
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
काव्यमाला ।
यथा'परिहरतु धरां फणिप्रवीरः सुखमयतां कमठोऽपि तां विहाय ।
अहमिह पुरुहूत पक्षकोणे निखिलमिदं जगदलमं वहामि ॥' पुरुहूतं प्रत्येषा गरुत्मत उक्तिः । ननु 'अपि वक्ति-' 'परिहरतु धराम्.-' इति पद्यद्वये गर्व एव नोत्साहः । मध्यस्थपद्ये तु धृतिरेव ध्वन्यते इति भावध्वनय एवैते न रसध्वनय इति चेत्, तर्हि युद्धवीरादिष्वपि गर्वादिध्वनितामेव किं न ब्रूयाः । रसध्वनिसामान्यमेव वा किं न तब्यभिचारध्वननेन गतार्थयेः । स्थायिप्रतीतिर्दुरपह्नवा चेत्तुल्यं प्रकृतेऽपि । अनन्तरोक्तपद्ये तु नोत्साहः प्रतीयते । दयावीरादिषु प्रतीयत इति तु राज्ञामा(राजा)ज्ञामात्रम् । . . अद्भुतो यथा
'चराचरजगजालसदनं वदनं तव ।
गलद्गगनगाम्भीर्य वीक्ष्यास्मि हृतचेतना ॥' कदाचिद्भगवतो वासुदेवस्य वदनमालोकितवत्या यशोदाया इयमुक्तिः। अत्र वदनमालम्बनम् । अन्तर्गतचराचरजगजालदर्शनमुद्दीपनम् । हृतचेतनत्वम्, तेन गम्यं रोमाञ्चनेत्रस्फारणादि चानुभावः । त्रासादयो व्यभिचारिणः । नैवात्र विद्यमानापि पुत्रगता प्रीतिः प्रतीयते । व्यञ्जकाभावात् । प्रतीतायां वा तस्यां विस्मयस्य गुणत्वं न युज्यते । एवं कश्चिन्महापुरुषोऽयमिति भक्तिरपि तस्याः पुत्रो ममायं बाल इति निश्चयेन प्रतिबन्धादुत्पत्तुमेव नेष्टे । अतस्तस्यामपि विस्मयस्य गुंणीभावो न शङ्कयः । पुरुहूत, स्वपक्षकदेशे । 'निखिलमिदं जगदण्डकं वहामि' इति पाट: । वीररसध्वन्युच्छेदमुक्त्वा तुल्ययुक्त्या सामान्योच्छेदमाह-रसेति । स्थायीत्यस्य तत्रेत्यादिः । दयावीरादिषु प्राचीनोदाहृतेषु । गलनष्टम् । तेन गम्यमिति । तद्बोधकशब्दाभावादिति भाव: । अत्र भावध्वनित्वं निराचष्टे-नैवेति । प्रतीतायां वेति । प्रकरणादिपर्यालो. चनयेति भावः । विस्मयस्य गुणत्वमिति । विस्मयस्योत्कटत्वेन तस्या एव गुणत्वमनुत्कटत्वात् । हृतचेतनेत्यनेन तस्यैव प्राधान्यप्रकटनाच्चेति भावः । अन्यथापि संभावितत्वं निराचष्टे-एवमिति । तस्या इत्यस्य मध्यमणिन्यायेनान्वयः । अत उपपत्त्यभा.वादेव । तस्यामपि भक्तावपि । कथंकारं कथं कृत्वा । अस्य विस्मयस्य । तत्र दृष्टान्त
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
'यच्च सहृदयशिरोमणिभिः प्राचीनैरुदाहृतम्
3
'चित्र महानेष तवावतारः क्व कान्तिरेषाभिनवैव भङ्गिः । लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतिर्नूतन एवं सर्गः ॥ इति, तत्रेदं वक्तव्यम् - प्रतीयतां नामात्र विस्मयः परं त्वसौ कथंकारं [ अद्भुतरस]ध्वनिव्यपदेशहेतुः । प्रतिपाद्यमहापुरुषविशेषविषयायाः प्रधानीभूतायाः स्तोतृगतभक्तेः प्रकर्षकत्वेनास्य गुणीभूतत्वात् । यथा महाभारते गीतासु विश्वरूपं दृष्टवतः पार्थस्य पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंधान्' इत्यादौ वाक्यसंदर्भे । इत्थं चास्य रसालंकारत्वमुचितम् । भक्तिर्नैवात्र प्रतीयत इति चेदरमुकुलितलोचनं विदांकुर्वन्तु सहृदयाः । हास्यो यथा
अत्राहु:
Acharya Shri Kailassagarsuri Gyanmandir
'श्रीतातपादैर्विहिते निबन्धे निरूपिता नूतनयुक्तिरेषा | अङ्गं गवां पूर्वमहो पवित्रं न वा कथं रासभधर्मपत्न्याः ||’ तार्किकपुत्रोऽत्रालम्बनम् 1 तदीया निःशङ्कोक्तिरुद्दीपिका । रदनप्रकाशादिरुद्वेगादयश्चानुभावव्यभिचारिणः ।
'आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम् । आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः ॥ हसन्तमपरं दृष्ट्वा विभावश्वोपज्ञायते । योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः ॥ उत्तमानां मध्यमानां नीचानामप्यसौ भवेत् । व्यवस्थः कथितस्तस्य षड्भेदाः सन्ति चापरे ॥
४३
For Private And Personal Use Only
माह - यथेति । पार्थस्यार्जुनस्य । इत्यादिरूपवाक्यसंदर्भे । तस्य तत्र त्वंप्रथेत्यर्थः । अस्य प्राचोक्तपयस्य । एवमग्रेऽपि । ईषन्मुकुलितलोचनमिति क्रियाविशेषणम् । विहिते कृते । गौर्गर्दभी च तल्येति भावः । रदनेति । दन्तेत्यर्थः । यथासंख्यमन्वयः । अत्र हास्यविषये । आहुः प्राञ्चः । तदेवाह - आत्मेत्यादिमतमितीत्यन्तेन । अस्य हास्यस्य । व्यवस्थ उक्तप्रकारेण त्रिधावस्थः । तस्योक्तविधस्य । षण्णां क्रमेण लक्षणान्याह – ई
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
काव्यमाला । स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः । भवेद्विहसितं. चोपहसितं मध्यमे नरे ॥ नीचेऽपहसितं चातिहसितं परिकीर्तितम् । ईषत्फुल्लकपोलाभ्यां कटाक्षरप्यनुल्बणैः ॥ अदृश्यदशनो हासो मधुरः स्मितमुच्यते । वक्त्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः ॥ किंचिल्लक्षितदन्तश्च तदा हसितमिष्यते । सशब्दं मधुरं कालगतं वदनराग़वत् ।।
आकुञ्चिताक्षि मन्द्रं च विदुर्विहसितं बुधाः। निकुञ्चितांसशीर्षश्च जिह्मदृष्टिविलोकनः ॥ उत्फुल्लनासिको हासो नाम्नोपहसितं मतम् । अस्थानजः साश्रुदृष्टिराकम्पस्कन्धमूर्धजः ॥ शाङ्गदेवेन गदितो हासोऽपहसिताह्वयः । स्थूलकर्णकटुध्वानो बाप्पपूरप्लुतेक्षणः ।
करोपगूढपार्श्वश्च हासोऽतिहसितं मतम् ॥' इति । भयानको यथा'श्येनमम्बरतलादुपागतं शुष्यदाननबिलो विलोकयन् ।
कम्पमानतनुराकुलेक्षणः स्पन्दितुं नहि शशाक लावकः ॥' अत्र श्येन आलम्बनम् । सवेगापतनमुद्दीपनम् । आननशोषादयो. ऽनुभावाः । दैन्यादयः संचारिणः । बीभत्सो यथा
'नखैर्विदारितान्त्राणां शवानां पूयशोणितम् ।
आननेष्वनुलिम्पन्ति हृष्टा वेतालयोषितः ॥' दिति। अनुल्वणैरवृद्धैः। दशना दन्ताः। 'कालगतम्' इत्यपाठः। 'कायगतम्' इति पाठः । वदनेति । तल्लौहित्यविशिष्टम् । जिह्मेति । व्यधिकरणपदबहुव्रीहिः । आकम्पी कम्पमानौ स्कन्धमूधजौ यस्मिन् । स्थूलः कर्णकटुवा॑नः शब्दो यत्र । कराभ्यामुपगूढे व्याप्ते पार्श्व यत्र । शुष्यदाननमेव बिलं यस्य । लावकः पक्षिविशेषः । सवेगेति । वेगसहितमापतनमित्यर्थः । पूयेति समाहारद्वन्द्वः । आननेत्यस्य स्वेत्यादिः । तत्र तयोः । ननु
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
शवा इहालम्बनम् । आन्त्रविदारणाद्युद्दीपनम् । आक्षिप्ता रोमाञ्चनेत्रनिमीलनादयोऽनुभावाः । आवेगादयः संचारिणः । ननु रतिक्रोधोत्साहभयशोकविस्मयनिर्वेदेषु प्रागुदाहृतेषु यथालम्बनाश्रययोः संप्रत्ययः, न तथा हासे जुगुप्सायां च । तत्रालम्बनस्यैव प्रतीतेः । पद्य श्रोतुश्च रसास्वादाधिकरणत्वेन लौकिकहासजुगुप्साश्रयत्वानुपपत्तेरिति चेत् । सत्यम् । तदाश्रयस्य द्रृष्टृपुरुषविशेषस्य तत्राक्षेप्यत्वात् । तदनाक्षेपे तु श्रोतुः स्वीयकान्तावर्णनपद्यादिव रसोद्बोधे बाधकाभावात् ।
एवं च संक्षेपेण निरूपिता रसाः । एषां प्राधान्ये ध्वनिव्यपदेश - तुत्वम्, गुणीभावे तु रसालंकारत्वम् । केचित्तु 'प्राधान्य एवैषां रसत्वमन्यथालंकारत्वमेव । रसालंकारव्यपदेशस्त्वलंकारध्वनिव्यपदेशवत् । ब्राह्मणश्रमणन्यायात् । एवमसंलक्ष्यक्रमतायामेव । अन्यथा तु वस्तुमात्रम् ' इत्याहुः । एते चासंलक्ष्यक्रमव्यङ्गयाः । सहृदयेन रसव्यक्तौ झगिति जायमानायां विभावानुभावव्यभिचारिविमर्शक्रमस्यं सुतोऽपि सूचीशतपत्रपत्रशतवेधक्रमस्येवालक्षणात् । न त्वक्रमव्यङ्गयाः । व्यक्तेस्तद्धेतूनां च हेतुहेतुमद्भावासंगत्यापत्तेः । अथ कथमेत एव रसाः । भगवदालम्बनस्य रोमाञ्चाश्रुपातादिभिरनुभावितस्य हर्षादिभिः परिपोषितस्य भागवतादिपुराणश्रवणसमये भगवद्भक्तैरनुभूयमानस्य भक्तिरसस्य दुरपह्नवत्वात् । भगवदनुरागरूपा भक्तिश्चात्र स्थायिभावः । न चासौ शान्तरसेऽन्तर्भावमर्हति । अनुरागस्य वैराग्यविरुद्धत्वात् । उच्यते-- भक्तेर्देवादिविषयरतित्वेन भावान्तर्गततया रसत्वानुपपत्तेः ।
४५
For Private And Personal Use Only
पद्य श्रोतैवाश्रयोऽत आह— पद्येति । रसस्त्वलौकिक इति भावः । तदेति । हासाश्रयस्येत्यर्थः । तत्र हासजुगुप्सयोः । तुरप्यर्थे । पद्यादिवेति । तत इति शेषः । एवं चेत्यस्य हेतुत्वादावन्वयः । एतेन रसत्वव्यवच्छेदः । प्राचोक्तिविरोधं परिहरति - रसा-लंकारेति । भूतपूर्वगत्येति भावः । प्रकारान्तरेणाह - एवमिति । तायामेवेति । 'रसत्वमेषामिति शेषः । अन्यथा तु संलक्ष्यक्रमतायां तु । केचिदित्यरुचिबीजं तूक्तंरीत्यैवोपपत्तौ भूतपूर्वगत्याद्याश्रयणमयुक्तमिति । एते च रसाः । सहृदयेनेत्यस्यालक्षणादित्यत्रान्वयः । रसव्यक्तौ रसाभिव्यक्तौ । अक्रमेति बहुव्रीहिः । विभ्भ्रावदिविशेषणापत्तेरिति । हेतुहेतुमद्भावस्य ऋभनियतत्वादिति भावः । भगेति बहुव्रीहिः । अनुभूयेति । तथा चानुभवापलापः कर्तुमशक्य इति भावः । नन्वेवमपि स्थायिभावाभावान्नाधिक्यमत
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
'रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ।
भावः प्रोक्तस्तदाभासा. ह्यनौचित्यप्रवर्तिताः ॥' __ इति हि प्राचां सिद्धान्तात् । न च तर्हि कामिनीविषयाया अपि रतर्भावत्वमस्तु, रतित्वाविशेषात्, अस्तु वा भगवद्भक्तेरेव स्थायित्वम्, कामिन्यादिरतीनां च भावत्वम्, विनिगमकाभावात्, इति वाच्यम् । भरतादिमुनिवचनानामेवात्र रसभावत्वादिव्यवस्थापकत्वेन स्वातन्त्र्यायोगात् । अन्यथा पुत्रादिविषयाया अपि 'रतेः स्थायिभावत्वं कुतो न स्यात्, न स्याहा कुतः शुद्धभावत्वं जुगुप्साशोकादीनाम्, इत्यखिलदर्शनव्याकुली स्यात् । रसानां नवत्वगणना च मुनिवचननियन्त्रिता भज्येत, इति यथाशास्त्रमेव ज्यायः।
एतेषां परस्परं कैरपि सहाविरोधः कैरपि विरोधः । तत्र वीरशङ्गारयोः, शृङ्गारहास्ययोः, धीराद्भुतयोः, वीररौद्रयोः, शृङ्गाराद्भुतयोश्चाविरोधः । शृङ्गारबीभत्सयोः, शृङ्गारकरुणयोः, वीरभयानकयोः, शान्तरौद्रयोः, शान्तशृङ्गारयोश्च विरोधः । तत्र कविना प्रकृतरसं परिपोष्टुकामेन तदभिव्यञ्जके काव्ये तद्विरुद्धरसाङ्गानां निवन्धनं न कार्यम् । तथा हि सति तदभिव्यक्ती विरुद्धः प्रकृतं बाधेत । सुन्दोपसुन्दन्यायेन चोभयोरुपहतिः स्यात् । यदि तु विरुद्धयोरपि रसयोरेकत्र समावेश इप्यते तदा विरोधं परिहृत्य विधेयः । तथा हि-विरोधस्तावद्विविधः । स्थितिविरोधो ज्ञानविरोधश्च । आद्यस्तदधिकरणारत्तितारूपः । द्वितीयस्तज्ज्ञानप्रतिबद्धज्ञानकत्वलक्षणः । तत्राधिकरणान्तरे विरोधिनः स्थापने
आह-भगेति । अञ्जितोऽभिव्यक्तो व्यभिचारिभावः । तथाशब्दश्चार्थे । प्राचां प्रकाशकृताम् । अतिप्रसङ्गं दत्त्वा वैपरीत्यमाह-अस्तु वेति । अत्र शास्त्रे । अन्यथा तद्वच-. नानामव्यवस्थापकत्वे । शुद्धोति । स्थायिभावत्वानालिङ्गितव्यभिचारिभावत्वमित्यर्थः । दर्शनं शास्त्रम् । भक्तिरसस्यातिरिक्तत्वाङ्गीकारे दोषान्तरमाह-रसानामिति । नियन्त्रिता नियमिता । एतेषां रसानाम् । विरोध इति । अन्ये तदासीनाः । यथा शान्ताद्भतो, वीरबीभत्सावित्यादीति बोध्यम् । तदभीति । विरुद्धरसाङ्गाभीत्यर्थः । तस्य बाधकवे नियामकाभावादाह-सुन्दोपेति । एकत्र काव्ये । तत्र तयोर्मध्ये। विरो
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४७ प्रथमो निवर्तते । यथा नायकगतत्वेन वीरसरे वर्णनीये प्रतिनायके भयानकस्य । रसपदेनात्र प्रकरणे तदुपाधिः स्थायिभावो गृह्यते । रसस्य सामाजिकवृत्तित्वेन नायकाद्यवृत्तित्वात् । अद्वितीयानन्दमयत्वेन विरोधासंभवाच्च । उदाहरणम्
'कुण्डलीकृतकोदण्डदोर्दण्डस्य पुरस्तव ।
मृगारातेरिव मृगाः परे नैवावतस्थिरे ॥ रसान्तरस्याविरोधिनः संधिकर्तुरिवान्तरालेऽवस्थापने द्वितीयोऽपि निवर्तते । यथा मन्निमितायामाख्यायिकायां कण्वाश्रमगतस्य श्वेतकेतोमहर्षेः शान्तिरसप्रधाने वर्णने प्रस्तुते 'किमिदमनाकलितपूर्वं रूपम्, कोऽयमनिर्वाच्यो वचनरचनाया मधुरिमा' इत्यद्भुतस्यान्तरवस्थापनेन वरवणिनी प्रत्यनुरागवर्णने । यथा वा
'सुराङ्गनाभिराश्लिष्टा व्योनि वीरा विमानगाः।
विलोकन्ते निजान्देहान्फेरुनारीभिरावृतान् ॥' अत्र सुराङ्गनामृतशरीरालम्बनयोः शृङ्गारबीभत्सयोरन्तः स्वर्गलाभाक्षिप्ता वीररसो निवेशितः । अन्तर्निवेशश्च तदुभयचर्वणाकालान्तर्वतिकालगतचर्वणाकत्वम् । तच्च प्रकृतपद्ये प्रथमार्ध एव शृङ्गारचर्वणोत्तरं वीरस्य चर्वणादनन्तरं च द्वितीयाधै बीभत्सस्येति स्फुटमेव । 'भूरेणुदिग्धान्' इत्यादि काव्यप्रकाशगतपद्यकदम्बेषु तु प्रथमश्रुतबीभत्ससामग्रीवशाद्वीभत्सचर्वणोत्तरं तत्सामग्र्याक्षिप्तनिःशङ्कप्राणत्यागादिरूपसामग्रीकस्य धिनः । रसस्येति शेषः । प्रथमः स्थितिविरोधः । भयानकस्य । स्थापने इति शेषः । रसस्य मुख्यरसस्य । अत एवाह-अद्वितीयति । उदति । उक्तरीत्या आद्यविरोधाभावोदाहरणमित्यर्थः । कुण्डलीति । बहुव्रीहिद्वयम् । मृगारातेः सिंहस्य । परे शत्रवः । अन्तराले विरुद्धरसयोमध्ये । वरवणिनी तदाख्यनायिकाम् । व्योनि विमानगा इत्यन्वयः । फेरुनारीभिर्जम्बुकस्त्रीभिः । अत्र सुरानोति । यथासंख्यमन्वयः । स्वर्गलाभश्च मूर्वार्धन प्रतिपादितः । तदभयेति । विरुद्धरसद्वयेत्यर्थः । चर्वणात् । क्रमेण पादद्वयेनेति भावः । बीभत्सस्य चर्वणादित्यस्यानुषः । तच्चेत्यस्य स्फुटमेवेत्यत्रान्वयः । चर्वणे ।
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
काव्यमाला। वीरस्य चर्वणे शङ्गारचर्वणेति विवेकः । इत्थं चोदासीनचर्वणेन प्रतिबन्धकज्ञाननिवृत्तौ निष्प्रत्यूहः प्रतिबध्यचर्वणोदय इति फलितोऽर्थः । अङ्गाङ्गिनोरङ्गिन्यन्यस्मिन्नङ्गयोर्वा न विरोधः । अङ्गत्वानुपपत्तिप्रसङ्गात् । यथा'प्रत्युद्गता सविनयं सहसा सखीभिः
स्मेरैः स्मरस्य सचिवैः सरसावलोकैः । मामद्य मञ्जुरचनैर्वचनैश्च बाले
__ हा लेशतोऽपि न कथं वद मुत्करोषि ॥' इयं च पुरो निपतितां प्रमीतां नायिकां प्रति नायकस्योक्तिः । इह नायिकालम्बना, अश्रुपातादिभिरनुभावैरावेगविषादिभिः संचाभिश्च व्यज्यमाना नायकगता रतिस्तुल्यसामग्र्यभिव्यक्ते प्रकृतत्वात्प्रधानीभूते तद्गत एव शोके प्रकर्षकत्वादङ्गम् । यदि तु नायकगता रतिर्नात्र प्रतीयते, किं तु निरुक्तसामग्र्या शोक एव प्रकृतत्वादित्यागृह्यते तदा नायकालम्बना प्रत्युद्गमाद्यनुभाविता हर्षादिभिः पोषिता नायिकाश्रया रतिरेव तत्राङ्गमस्तु.। नायिकागतरते यकशोकप्रकर्षहेतुतायाः सर्वसंमतत्वात् । न च नायिकाया नाशात्तद्गताया रतेरसंनिधानात्कथमङ्गतेति वाच्यम् । संनिधानस्याङ्गतायामतन्त्रत्वेन स्मर्यमाणायास्तस्या अङ्गत्वोपपत्तेः । अङ्गयोर्यथा'उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यकृताः
___पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम् । सतीति शेषः । विवेको भेदः । द्वितीयविषयमुपसंहरति-इत्थं चेति । उक्तप्रकारेण चेत्यर्थः । उदेति मध्ये इत्यादिः । निवृत्तौ । ज्ञानस्य त्रिक्षणावस्थायित्वादिति भावः । प्रकारान्तरेण विरोधं परिहरति-अङ्गाङ्गिनोरिति । पुनरन्यथा तं परिहरति-अङ्गिनीति । अङ्गत्वेति । एकाङ्गिनिरूपितेत्यादिः। तत्राद्योदाहरणमाह-प्रत्युद्गतेति। अमीतां मृताम् । तुल्यसामग्रीति । उक्तसामग्रीसजातीयेत्यर्थः । तद्गते एव नायकगते एव । नात्रेति । नैवात्रेत्यर्थः । निरुक्तेति । नायिकालम्बनेत्यादिनेति भावः । आयह्यते आग्रहः क्रियते। तत्र शोके । नायकशोकेति । नायकनिष्ठशोकेत्यर्थः । अतन्त्रत्वेनाकारणत्वेन । अजयोरित्यस्यैकस्मिन्नङ्गिनीत्यादिः । उत्क्षिप्ता उन्नतीकृताः । विव.
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां - यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ॥'. अत्र समासोक्त्यवयवाभ्यां तरुकामिकर्तृकरिपुकामिनीकबर्यादिग्रहणरूपाभ्यां प्रकृताप्रकृतव्यवहाराभ्यां व्यक्तयोः करुणशृङ्गारयो राजविषयकरतिभावाङ्गत्वम् । किं च प्रकृतरसपरिपुष्टिमिच्छता विरोधिनोऽपि रसस्य बाध्यत्वेन निबन्धनं कार्यमेव । तथा हि सति वैरिविजयकता वर्ण्यस्य कापि शोभा संपद्यते । बाध्यत्वं च रसस्य प्रबलैर्विरोधिनो रसस्याङ्गैविद्यमानेष्वपि खानेषु निष्पत्तेः प्रतिबन्धः । व्यभिचारिणो बाध्यत्वं तु तदीयरसनिष्पत्तिप्रतिबन्धमात्रात् । न त्वनभिव्यक्त्या । अभिव्यक्तों बाधकाभावात् । न च विरोध्यङ्गाभिव्यक्त्या प्रतिबन्धान्नाभिव्यक्तिरिति वाच्यम् । तद्व्यञ्जकशब्दार्थज्ञानसमये विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानस्यासंनिधानात् । प्रतिबध्यप्रतिबन्धकमावकल्पने मानाभावात् । भावशबलताया उच्छेदापत्तेश्च । रसनिष्पत्तेः प्रतिबन्धस्त्वनुभवसिद्ध इति तां प्रत्येव विरोध्यङ्गानां बलवतामभिव्यक्तेः प्रतिबन्धकत्वं न्याय्यम् । अपि च यत्र साधारणविशेषणमहिना विरुद्धयोरभिव्यक्तिस्तत्रापि विरोधो निवर्तते । यथा
'नितान्तं यौवनोन्मत्ता गाढरक्ताः सदाहवे । वसुंधरों समालिङ्गय शेरते वीर तेऽरयः ॥'
लिता वक्रीकृताः । न्यकृता अधःकृताः । ग्रहणे हेतुगर्भ विशेषणं कण्टकचिता इति । कण्टकव्याप्ता इत्यर्थः । तरुकामीति.। एतदुभयकर्तकेत्यर्थः । रतिभावेति । कविनिष्ठेत्यादिः । एकत्र काव्ये । पुन: प्रकारान्तरेण विरुद्धत्वाभिमतयोनिबन्धे न दोष इ. त्याह-किं चेति । इच्छतेति । कविनेति शेषः । काप्यनिर्वचनीया । रसस्येत्यस्य पूर्वत्रेव निष्पत्तेरित्यत्राप्यन्वयः । तदीयति । व्यभिचारभावीयेत्यर्थः । अनभीत्यस्य व्यभिचारिभावस्येत्यादिः । एवमग्रेऽपि । विरोध्यङ्गति । विरोधिनो रसस्याङ्गेत्यर्थः । . तद्वय अकेति । व्यभिचारिभावव्यञ्जकेत्यर्थः । असंनिधानानष्टत्वात् । ननु संस्कारस्यैव तत्त्वमास्तामत आह-भावति । नन्वेवं रसनिष्पत्तिप्रतिबन्धोऽपि न स्यादत आहरसेति । पुनरन्यथा तं परिहरति-अपि चेति । अत्र रक्तं रुधिरम्, अनुरांगश्च, इति ।
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
इत्थमविरोधसंपादनेनापि निबध्यमानो रसो रसशब्देन शृङ्गारादिशब्दैर्वा नामिधातुमुचितः । अनास्वाद्यतापत्तेः । तदास्वादश्च व्यञ्जनमात्रनिष्पाद्य इत्युक्तत्वात् । यत्र विभावादिभिरभिव्यक्तस्य रसस्य स्वशब्देनाभिधानं तत्र को दोष इति चेत्, व्यङ्गयस्य वाच्यीकरणे सामान्यतो वमनाख्यदोषस्य वक्ष्यमाणत्वात् । आस्वाद्यतावच्छेदकरूपेण प्रत्ययाजनकतया रसस्थले वाच्यवृत्तेः कापेयकल्पत्वेन विशेषदोषत्वाच्च । एवं स्थायिव्यमिचारिणामपि शब्दवाच्यत्वं दोषः । एवं विभावानुभावयोरसम्यकप्रत्यये विलम्बेन प्रत्यये वा न रसास्वाद इति तयोर्दोषत्वम् । समबलप्रबलप्रतिकूलरसाङ्गानां निबन्धनं तु प्रकृतरसपोषप्रातीपिकमिति दोषः । प्रबन्धे प्रकृतस्य रसस्य प्रसङ्गान्तरेण विच्छिन्नस्य पुनर्दीपने सामाजिकानां न सामग्र्येण रसास्वाद इति विच्छिन्नदीपनं दोषः। तथा तत्तद्रसप्रस्तावनानहैऽवसरे प्रस्तावः । विच्छेदानहें च विच्छेदः । यथा संध्यावन्दनदेवयजनादिधर्मवर्णने प्रसक्ते कयापि कामिन्या सह कस्यचित्कामुकस्यानुरागवर्णने । [यथा वा] समुपस्थितेषु महाहवदुर्मदेषु प्रतिभटेषु मर्मभिन्दि वचनान्युगिरत्सु नायकस्य संध्यावन्दनादिवर्णने चेत्युभयमनुचितम् । एवमप्रधानस्य प्रतिनायकादेर्नानाविधानां चरितानामनेकविधायाश्च संपदो नायकसंबन्धिभ्यस्तेभ्यो नातिशयो वर्णनीयः । तथा सति वर्णयितुमिष्टो नायकस्योत्कर्षों न सिध्येत् । तत्प्रयुक्तो रसपोषश्च न स्यात् । न च । प्रतिनायकोत्कर्षस्य तदभिभावकनायकोत्कर्षाङ्गत्वात्कंथमवर्णनीयत्वमिति साधारणत्वं विशेषणस्य । तद्वलाकरुणशङ्गारयोरभिव्यक्तिः । एवमविरोधानुक्त्वा दोषानाह-इत्थमिति । उक्तप्रकारैरित्यर्थः । शङ्कते-योति । सामान्यदोषमुक्त्वा विशेपदोषमाह-आस्वाद्येति । कापेयेति । वानरचेष्टिततुल्यत्वेनेत्यर्थः । एवं रसवत् । दोषान्तरमाह-एवमिति । उक्तदोषवदित्यर्थः । तयोर्दोषत्वमिति । तद्विषयकासम्यक्प्रत्ययविलम्बप्रत्यययोरित्यर्थः । दोषान्तरमाह-समबलेति । रसाङ्गविशेषणम् । प्रातीपिकं प्रतिकूलतासंपादकम् । विरुद्धमिति यावत् । दोष इति । तदेव दोष इत्यर्थः । दोषान्तरमाह-प्रबन्ध इति । सामग्येण साकल्येन । दोषान्तरद्वयमाह-तथेति ।' द्वितीयमुदाहरति-समुपेति । इतः प्राग्यथा वेत्यपपाठः । दोषान्तरमाह-एवमिति। तेभ्यो नानांचरितादिभ्यः । तत्प्रयुक्त उत्कर्षप्रयुक्तः । तदभीति । तत्तिरस्कारकारी
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधर। वाच्यम् । यादृशस्य प्रतिनायकोत्कर्षवर्णनस्य तदभिभावकनायकोत्कर्षाङ्गतासंपादकत्वं तादृशस्येष्टत्वात् । तद्विरोधिन एव निषेध्यत्वात् । न च प्रतिपक्षस्य प्रकृतापेक्षया वर्ण्यमानोऽप्युत्कर्षः स्वाश्रयहन्तृतामात्रादेव प्रकृतगतमुत्कर्षमतिशाययेत्, अतो न दोषावह इति वाच्यम् । एवं हि सति महाराज कमपि विषशरक्षेपमात्रेण व्यापादितवतो वराकस्य शबरस्येव प्रकृतस्य नायकस्य न कोऽप्युत्कर्षः स्यादिति । तथा रसालम्बनाश्रययोरनुसंधानमन्तरान्तरा न चेद्दोषः । तदनुसंधानाधीना हि रसप्रतिपत्तिधारा तदननुसंधाने विरता स्यात् । एवं प्रकृतरसानुपकारकस्य वस्तुनो वर्णनमपि प्रकृतरसविरामहेतुत्वाद्दोष एव । अनौचित्यं तु रसभङ्गहेतुत्वात्परिहरणीयम् । भङ्गश्च पानकादिरसादौ सिकतादिनिपांतजनितेवारंतुदता । तच्च जातिदेशकालवर्णाश्रमवयोवस्थाप्रकृतिव्यवहारादेः प्रपञ्चजातस्य तस्य तस्य यल्लोकशास्त्रसिद्धमुचितद्रव्यगुणक्रियादि तद्भेदः । जात्यादेरनुचितं यथा--गवादेस्तेजोबलकार्याणि पराक्रमादीनि, सिंहादेश्च साधुभावादीनि । स्वर्गे जराव्याध्यादि, भूलोके सुधासेवनादि । शिशिरे जलविहारादीनि, ग्रीष्मे वह्निसेवा । ब्राह्मणस्य मृगया, बाहुजस्य प्रतिग्रहः, शूद्रस्य निगमाध्ययनम् । ब्रह्मचारिणो यतेश्च ताम्बूलचर्वणम्,' दारोपसंग्रहः । बालवृद्धयोः स्त्रीसेवनम्, यूनश्च विरागः । दरिद्राणामा. व्याचरणम्, आख्यानां च दरिद्राचारः । प्रकृतयो दिव्याः, अदिव्याः, दिव्यादिव्याश्च । धीरोदात्तधीरोद्धतधीरललितधीरशान्ता उत्साहक्रोध
त्यर्थः । ननु सर्वत्रोत्कर्षसंपादकत्वं नोक्तवैषम्यमित्याशयेन शङ्कते-न चेति । स्वाथयेति । उत्कर्षाश्रयप्रतिपक्षकर्मकहननकर्तृत्वमात्रादेवेत्यर्थः । मात्रपदेनोक्तवैषम्यव्यावृत्तिः । विषेति । तत्संबद्धबाणेत्यर्थः । वराकस्य दीनस्य । दोषान्तरमाह-तथेति । रसस्यालम्बनाश्रययोरित्यर्थः । अन्तरान्तरा मध्येमध्ये । तदुपपादयति-तदन्विति।तयोस्ताहशान्वित्यर्थः । दोषान्तरमाह-एवमिति । दोषान्तरमाह-अनौचीति । तुरुक्तप्रकारव्यवच्छेदाय । तदाह-रसेति । अत एवाह-भङ्गश्चेति । अरंतुदता मर्मच्छेदिता। तच्चानौचित्यं च । प्रपञ्चजातस्य प्रपञ्चसमूहस्य । बाहुजस्य क्षत्रियस्य । निगमो वेदः । संग्रहः संग्रहश्च । प्रकृत्यन्तरमाह-धीरोदात्तेति । धीरोदात्तादीनां चतुर्णा चत्वारि यथासंख्येनाह-उत्सालेति । प्रकृत्यन्तरमाह-उत्तमति । तत्र तासां मध्ये । सर्वत्र
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
कामिनीरतिनिवेदप्रधाना उत्तममध्यमाधमाश्च । तत्र रत्यादीनां भयातिरिक्तस्थायिभावानां सर्वत्र समत्वेऽपि रतेः संभोगरूपाया मनुष्येष्विवोत्तमदेवतासु स्फुटीरुतसकलानुभाववर्णनमनुचितम् । क्रोधस्य च लोकभस्मीकरणपटोदिनरात्रिव्यत्ययाद्यनेकाश्चर्यकारिणो दिव्येष्विवादिव्येषु । आलम्बनगताराध्यत्वस्यानुभावगतमिथ्यात्वस्य च प्रतीत्या रसानुल्लासापत्तेः । न च साधारणीकरणादाराध्यत्वज्ञानानुत्पत्तिरिति वाच्यम् । यत्र सहृदयानां रसोद्बोधः प्रमाणसिद्धस्तत्रैव साधारणीकरणस्य कल्पनात् । अन्यथा स्वमातृविषयकखपितृरतिवर्णनेऽपि सहृदयस्य रसोद्बोधापत्तेः । जयदेवादिभिस्तु गीतगोविन्दादिप्रबन्धेषु सकलसहृदयसंमतोऽयं समयो मदोन्मत्तमतङ्गजैरिव भिन्न इति न तन्निदर्शनेनेदानीतनेन तथा वर्णयितुं सांप्रतम् । तथा विद्यावयोवर्णाश्रमतपोभिरुत्कृष्टैः स्वतोऽपकृष्टेषु न संबहुमानेन वचसा व्यवहर्तव्यम् । व्यवहर्तव्यं चापकृष्टरुत्कृष्टेषु । तत्रापि तत्रभवन्भगवन्नित्यादिभिः संबोधनैर्मुनिगुरुदेवताप्रभृतय एव न राजादयः, जात्योत्तमैर्द्विजैरेव नाधमैः शूद्रादिभिः, परमेश्वरेत्यादिसंबोधनैश्चक्रवर्तिन एव न मुनिप्रभृतयः संबोध्याः । तथा चाहुः"अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ॥' इति ।
सर्वासु प्रकृतिषु । स्फुटीकृतोत । स्फुटीकृताः सकलानुभावा यस्मिन्कर्मणि यथातथेति क्रियाविशेषणमेतत् । अदिव्येषु वर्णनमनुचितमित्यस्यानुषङ्गः । साधारणीति। यथा चैतत्तथा प्राक्प्रतिपादितम् । अन्यथा सर्वत्र साधारणीकरणे । समयः संकेतः । तनिदर्शनेन तदृष्टान्तेन । मदोन्मत्तेति । दृष्टान्तोल्लेखेन भेदने उन्माद एव कारणम्, न तु युक्तिरिति सचितम् । अत एव सांप्रतं तदनाश्रयणमिति भावः। एवं प्रकृत्यन्तानौचित्यमुक्त्वा व्यवहारानौचित्यमाह-तथेति । स्वतः स्वेन रूपेणैवेत्यर्थः । संबहिति । सम्यग्बहुमानो यत्र वचसि तेनेत्यर्थः । 'सबहु' इति पाठे तत्सहितेनेत्यर्थः । व्यवेति । तादृशेन वचसेति भावः । व्यवहर्तनियममाह-जात्योत्तमैरिति । ब्राह्मणक्षत्रियवैश्यरित्यर्थः । अनौचित्यं त्वित्याद्युक्तेऽर्थे संमतिमाह-तथा चाहुरिति । परोत्कृष्टा । उपनिषदिव । यथा सा ब्रह्मणः प्रतिपादिका तथायं रसस्येति भावः । तत्र विशेषमाह
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। यावता त्वनौचित्येन रसस्य पुष्टिस्तावत्तु न वार्यते । रसप्रतिकूलस्यैव तस्य निषेध्यत्वात् । अत एव
'ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां
‘स्वल्पं जल्प बृहस्पते जडमते नैषा सभा वजिणः । वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो
सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लङ्केश्वरः ॥' इति कस्यचिन्नाटकस्य पद्ये विप्रलम्भशृङ्गारागीभूतवीररसाक्षेपकपरमैश्वर्यपरिपोषकतया स्थितदौवारिकवचनस्य ब्रह्माद्यधिक्षेपपरस्यानौचित्यं न दोषः । एवमेव 'अले ले सद्दः समुप्पाडिअहरियकुसग्गन्थिमयाच्छमालापइवित्तिविस्संभिअबालविहवंदःकअणा बह्मणा' इत्यादिविदूषकवचनेऽपि रेशब्दादिप्रयोगस्य तत्तथा । हास्यानुगुणत्वात् । एषा हि दिगुपदर्शिता । अनया सुधीभिरन्यदप्यूह्यम् । __रसेषु चैतेषु. निगदितेषु माधुर्योजःप्रसादाख्यास्त्रीन्गुणानाहुः । तत्र 'शङ्गारे संयोगाख्ये यन्माधुर्य ततोऽतिशयितं करुणे ताभ्यां विप्रलम्भे तेभ्योऽपि शान्ते । उत्तरोत्तरमतिशयितायाश्चित्तद्रुतेर्जननात्' इति केचित् । 'संयोगशृङ्गारात्करुणशान्तयोस्ताभ्यामपि विप्रलम्भे' इत्यपरे । संयोगशृङ्गारात्करुणविप्रलम्भशान्तेष्वतिशयितमेव न पुनस्तत्रापि तारतम्यम्' इत्यन्ये । तत्र प्रथमचरमयोर्मतयोः 'करुणे विप्रलम्भे तच्छान्ते यावतेति । तस्यानौचित्यस्य । अत एव पोषकस्य तस्यावार्यत्वादेव । न दोष इत्यत्रास्यान्वयः । ब्रह्मन्निति । रावणद्वारि समागतान्ब्रह्मादीन्प्रति दौवारिकस्येयमुक्तिः । बहिस्तृष्णी स्थीयताम् । बहुभाषित्वादेव जडमतित्वम् । स्तुतीत्याद्युत्तरान्वयि । सीताया रलकः सीमन्तसरणिरेव भल्लो बाणस्तेन भग्नं हृदयं यस्य सः । 'शिरःसिन्दूरसरणिः स्त्रीणामारल्लकं स्मृतम्' इति हलायुधः । विप्रलम्भेति । सीताविषयेत्यादिः । उदाहरणान्तरमाह-एवमेवेति । तत्तथेत्यत्रान्वयः । अले ले इति । 'अरे रे सद्यः समुत्पा. टितहरितकुशग्रन्थिमयाक्षमालापरिवृत्तिविलम्भितबालविधवान्तःकरणा ब्राह्मणाः' इत्यादि प्राकृतार्थः । तदनौचित्यं तथा न दुष्टम् । हास्यान्विति । तत्पोषकत्वादित्यर्थः । नेदं परिगणनम्, किं-तूपलक्षणमित्याह-एषेति । दिग्रीतिः । अनया दिशा। निरतीति । नितरामतिशयितमित्यर्थः । तत्रापि करुणविप्रलम्भशान्तेष्वपि । तन्माधुर्यम् । नन्वेक
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
चातिशयान्वितम्' इति प्राचां सूत्रमनुकूलम् । तस्योत्तरसूत्रगतस्य क्रमेणेति पदस्थापकर्षानपकर्षाभ्यां व्याख्याद्वयस्य संभवात् । मध्यस्थे तु मते करुणशान्ताभ्यां विप्रलम्भस्य माधुर्यातिशये यदि सहृदयानामनुभवोऽस्ति साक्षी तदा स प्रमाणम् । वीरबीभत्स द्वेष्वोजसो. यथोत्तरमतिशयः । उत्तरोत्तरमतिशयितायाश्चित्तदीप्तेर्जननात् । अद्भुतहास्यभयानकानां गुणद्वययोगित्वं केचिदिच्छन्ति । अपरे तु प्रसादमात्रंम् । प्रसादस्तु सर्वेषु रसेषु सर्वासु रचनासु च साधारणः । गुणानां चैषां हृतिदीप्तिविकासाख्यास्तिस्त्रश्चित्तवृत्तयः क्रमेण प्रयोज्याः। तत्तद्गुणविशिष्टरसचर्वणाजन्या इति यावत् । एवमेतेषु गुणेषु रसमात्रधर्मेषु व्यवसितेषु मधुरा रचना, ओजस्वी बन्ध इत्यादयो व्यवहारा आकारोऽस्य शूर इ. त्यादिव्यवहारवदौपचारिका इति मम्मटभट्टादयः । येऽमी माधुर्योजःप्रसादा रसमात्रधर्मतयोक्तास्तेषां रसधर्मत्वे किं मानम्, प्रत्यक्षमेवेति चेत्, न । दाहादेः कार्यादनलगतस्योष्णस्पर्शस्य यथा भिन्नतयानुभवस्तथा द्रुत्यादिचित्तरत्तिभ्यो रसकार्येभ्योऽन्येषां रसगतगुणानामननुभवात् । तादृशगुणविशिष्टरसानां द्रुत्यादिकारणत्वात्कारणतावच्छेदकतया गुणानामनुमानमिति चेत्, प्रातिस्विकरूपेणैव रसानां कारणतोपपत्तौ गुणकल्पने गौरवात् । शृङ्गारकरुणशान्तानां माधुर्यवत्वेन द्रुतिकारणत्वं प्रातिस्विकरूपेण कारणत्वकल्पनापेक्षया लघुभूतमिति तु न वाच्यम् । परेण
तोऽर्थद्वयप्रतीत्यभावेन कथं तयोस्ततो लाभोऽत आह-तस्योत्तरेति। 'दीप्त्यात्मविस्तुतेर्हेतुरोजो वीररसस्थितिः । बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण तु ॥' इत्युत्तरसूत्रेत्यर्थः । यदीत्यनेन तदभावः सूचितः । एवं त्रयाणां रसानां माधुर्यमुक्त्वा त्रयाणामोजोगुणमाह-वीति । मात्रपदेनान्यगुणव्यावृत्तिः । एवं सति प्रसादोऽन्ययोर्नेति भ्रमनिवारणायाह-प्रसादस्त्विति । रचनासु चेति । एताः स्फुटीभविष्यन्ति । प्रयोज्याः, न तु जन्याः। तदेवाह-तत्तदिति। चर्वणास्वादः । व्यवेति । निश्चितेष्वित्यर्थः । उक्तमतं दूषयन्स्वमतमाह-येऽमीत्यादि मादृशाः इत्यन्तेन । तादृशेत्यस्य न वित्यादिः । 'इति चेत्, न' इति पाठः । प्रातिस्विकेति । शृङ्गारत्वादिनेति भावः । गुणेति । उक्तरीत्या.तदन्यगुणकल्पन इत्यर्थः । शङ्कते-शृङ्गारेति। लघुभूतामति। एककार्यकारणभावात् । तत्र तु त्रयमिति भावः । परेण मम्मटभटादिना । पृथक्पार्थक्येन ।
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। मधुरतरादिगुणानां प्रथग्द्रुततरत्वादिकार्यतारतम्यप्रयोजकतयाभ्युपगमेन : माधुर्यवत्त्वेन कारणताया गडुभूतत्वात् । इत्थं च प्रातिस्विकरूपेणैव कारणत्वे लाघवम् । किं चात्मनो निर्गुणतयात्मरूपरसगुणत्वं माधुर्यादीनाअनुपपन्नम् । एवं तदुपाधिरत्यादिगुणत्वमपि । मानाभावात्, पररीत्या गुणे गुणान्तरस्यानौचित्याच्च । अथ शृङ्गारो मधुर इत्यादिव्यवहारः कथमिति चेत्, एवं तर्हि इत्यादिचित्तवृत्तिप्रयोजकत्वम्, प्रयोजकतासंबन्धेन द्रुत्यादिकमेव वा माधुर्यादिकमस्तु । व्यवहारस्तु वाजिगन्धोष्णेतिव्यवहारवदक्षतः । प्रयोजकत्वं चादृष्टादिविलक्षणं शब्दार्थरसरचनागंतमेव ग्राह्यम् । अतो न व्यवहारातिप्रसक्तिः । तथा च शब्दार्थयोरपि माधुर्यादेरीदशस्य सत्त्वादुपचारो नैव कल्प्य इति तु मादृशाः । जरत्तरास्तु
'श्लेषः प्रसादः समता माधुर्य सुकुमारता ।
अर्थव्यक्तिरुदारत्वमोजः कान्तिसमाधयः ॥' इति दश शब्दगुणान्, दशैव चार्थगुणानामनन्ति । नामानि पुनस्तान्येव, लक्षणं तु भिन्नम्।
एवं च विशिष्य प्रयोज्यप्रयोजकभावेनैव निर्वाहे सामान्यकार्यकारणभावस्तुरीयो निष्फलत्वाद्डुस्थानापन्न इति तदङ्गीकारे विपरीतं गौरवमिति भावः । तदाह-इत्थं चेति । तुरीयकार्यकारणभावाङ्गीकारे चेत्यर्थः । नन्वेवं .तथैवास्तां तावतापि गुणसिद्धिरत आह-किं चेति। एवं रसवत्। गुणत्वम्, अप्यनुपपन्नमित्यस्यानुषङ्गः । अथेति । तेषां तदुभयगुणत्वाभावे इति भावः । लाघवादाह-प्रयोजकेति । ननु प्रयोजकत्वस्याधादिसाधारण्यात्तत्रापि माधुर्यादिव्यवहारापत्तिरत आह-प्रयोजकत्वं चेति। आदिना कालादिपरिग्रहः । शब्दार्थेति चतुर्णा द्वन्द्वः । अतो न व्यवेति । इदमपरमत्र बोध्यम् । आह्लादकत्वरूपमाधुर्यस्याह्लादकरूपे रसे स्थितिः कथं वक्तुं युक्ता । शब्दवृत्तिता. नये गुणालंकारयोर्भेदस्त्वेवम्--काव्यशोभाकारिणो गुणाः, तदतिशयहेतवोऽलंकारा इति । अत एव वामनः-'युवतेरिव सर्वमङ्गकाव्यं स्वदते शुद्धगुणं तदप्यतीव । विहितप्रणयं निरन्तराभिः सदलंकारविकल्पकल्पनाभिः ॥ इति ।' इति । तथा सति फलितमाह-तथा चेति । जरत्तरास्त्वित्यस्याहुरित्यप्रेतनेनाप्यन्वयः । लक्षणं विति
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५६
तथा हि
-
www. kobatirth.org
काव्यमाला ।
Acharya Shri Kailassagarsuri Gyanmandir
शब्दानां भिन्नानामप्येकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्णविन्यासविशेषो गाढत्वापरपर्यायः श्लेषः ।
यदाहुः— 'लिष्टमस्पष्टशैथिल्यम्' इति । यथा - 'अनवरत विद्वद्रुम-' द्रोहिदारिद्र्यमाद्यद्विपोद्दामदपघविद्रावणप्रौढपञ्चाननः' इति । गाढत्वशैथिल्याभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसादः ।
यथा
'किं ब्रूमस्तव वीस्तां वयममी यस्मिन्धराखण्डल क्रीडाकुण्डलितभ्रुशोणनयने दोर्मण्डलं पश्यति । माणिक्यावलिकान्तिदन्तुरतरैर्भूषासह स्त्रोत्करै
विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः ॥' अत्र यस्मिन्नित्यन्तं शैथिल्यम्, भ्रूशब्दान्तं गाढत्वम्, पुनर्नयनेऽन्तं प्रथममित्यादि बोध्यम् ।
उपक्रमादा समाप्ते रसभेदः समता ।
यथा वक्ष्यमाणमाधुर्योदाहरणे । तत्र ह्युपनागरिकयैवोपक्रमसंहारौ । संयोगपरहस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुर्यम् ।
प्रत्येकाभिप्रायमेकवचनम् । तत्रादौ शब्दगुणलक्षणानि सोदाहरणान्याह -- शब्दानामित्यादि । संहितया परसंनिकर्षेण । श्लिष्टं श्लेषः । न स्पष्टं शैथिल्यं भेदो यत्रेत्यर्थः ॥ विद्वांस एव द्रुमास्तेषां निरन्तरं द्रोहकारिणो ये दारिद्र्यरूपा मायन्तो द्विपा गजास्तेषामुत्कृष्ट दर्पसमूहनाशने समर्थः सिंहस्त्वमिति राजवर्णनम् । व्युक्रमेणादौ शैथिल्यम गात्वम् । हे पृथ्वीन्द्र, यस्मिंस्त्वयि क्रीडया तस्यां वा कुण्डलिते भ्रुवौ शोणनयने च यस्य तस्मिन्सति । दोर्मण्डलं दोर्युग्मं पश्यति च सति । तत्कालं तस्मिन्नेव समये । रक्तमणिसमूहकान्तिमिश्रितैर्भूषणानन्तसमूहेर्विन्ध्यादेवनगुहागृहवृक्षाश्चत्वार उल्हासिताः । अतस्तव वीरताममी वयं किं ब्रूम इत्यर्थः । क्रीडायां तथाकृतं श्रुत्वा शत्रवः पलाय्य विन्ध्यप्रदेशे संगता इति भावः । आ समाप्तेः समाप्तिपर्यन्तम् । रीत्यभेद इति । रीतयचोपनागरिका परुषा कोमला च । एता एव क्रमेण वैदर्भीगोडीपाञ्चाल्य उच्यन्ते । माधुर्यव्यञ्जकवर्णयुताया। ओजोव्यञ्जकवर्णयुता द्वितीया । माधुर्यौजोव्यअकवर्णातिरिक्तकेवलप्रसादयुक्ताक्षरान्त्येति विवेक: । अन्त्याया एव ग्राम्येति संज्ञा केषांचित् । वक्ष्यमाणेत्यस्यानुपदमित्यादिः । संयोगपरेति । संयोगश्चात्र परसवर्णानिष्पन्नहलघटित एव
1
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
यथा-- 'नितरां परुषा सरोजमाला न मणालानि विचारपेशलानि ।
यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ॥'. अपरुषवर्णघटितत्वं सुकुमारता । यथा'स्वेदाम्बुसान्द्रकणशालिकपोलपालि
दोलायितश्रवणकुण्डलवन्दनीया। आनन्दमङ्कुरयति स्मरणेन कापि ___रम्या दशा मनसि मे मंदिरेक्षणायाः ॥'. अत्र पूर्वार्धे । उत्तरार्धे तु माधुर्यमपि । झगिति प्रतीयमानार्थान्वयकत्वमर्थव्यक्तिः। यथा 'नितराम्' इत्यादौ । कठिनवर्णघटनारूपविकटत्वलक्षणोदारता। यथा'प्रमोदभरतुन्दिलप्रमथदत्ततालावली
विनोदिनि विनायके डमरुडिण्डिमध्वानिनि । ललाटतटविस्फुटन्नवळपीटयोनिच्छटो
हठो तजटोद्भटो गतपटो नटो नृत्यति ॥' 'पदानां नृत्यत्प्रायत्वं विकटता' इति काव्यप्रकाशटीकाकारा व्याचक्षते । उदाहरन्ति च ‘स्वचरणविनिविष्टै पुरैर्नर्तकीनां झटिति रणितमासीत्' इत्यादि । तत्र तेषामेतादृशीं विकटत्वलक्षणामुदारतामोजस्यन्त - ग्राह्यः । स्पष्टं चेदमत्रैवाग्रे । पृथक्पदत्वम् । पदानि भिन्नान्यपेक्षितानि, न तु श्लेषवत् । विचारेति । अङ्गवन्मृणालानि न वेति विचारेऽपि समर्थानि नेत्यर्थः । अङ्गकानामित्यत्रानुकम्पायां कन् । दृष्टेति शेषः । नायिका प्रति नायकोक्तिः । स्वेदेति। नायकोक्तिः । श्रवणकुण्डलं कर्णताटङ्कः । अत्र स्मृत्युपष्टब्धशृङ्गारः पूर्वार्धे । अपरुषवर्णघटितत्वरूपा सुकुमारतेति शेषः । अपिनास्या अपि समुच्चयः । झगिति द्राक् । प्रतीयमानत्वमन्वयविशेषणम् । आकाङ्क्षा दिसकलकारंणसामग्रीसत्त्वादिति भावः । प्रमथा गणाः । डमरुडिण्डिमेति । डमरुढंकृति तन्वतीत्यर्थः । गतपटो दिगम्बरः । तत्रोक्तेऽर्थे । तेषां
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
काव्यमाला।
वयन्काव्यप्रकाशकारः कथमनुकूल इति त एव जानन्ति । नवौजसो वैपुल्येन प्रतिभानमस्ति । 'विनिविष्टैपुरैर्नत-' इत्यत्र सन्नप्योजसो लवो न चमत्कारी । नापि तत्र नृत्यत्प्रायत्वं वर्णानामनुभवन्ति सहृदयाः । अंशान्तरे तु माधुर्यमेव ।
संयोगपरहखपाचुर्यरूपं गाढत्वमोजः। .यथा'साहंकारसुरासुरावलिकराकष्टभ्रमन्मन्दर
क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वकषाः । तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता - भूमीभूषण भूषयन्ति भुवनाभोगं भवत्कीर्तयः ॥' यथा वा 'अयं पततु निर्दयम्' इत्यादिप्रागुदाहृते ।
अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभारूपमौज्ज्वल्यं कान्तिः ।
यथा 'नितराम्' इत्यादि प्रागुदाहृते। बन्धगाढत्वशिथिलत्वयोः क्रमेणावस्थापनं समाधिः । · अनयोरेव प्राचीनैरारोहावरोहव्यपदेशः कृतः । क्रम एव हि तयोः • प्रसादादस्य भेदकः । तत्र हि तयोव्युत्क्रमेण वृत्तेः ।
यथा__ 'स्वर्गनिर्गतनिरर्गलगङ्गातुङ्गभङ्गुरतरङ्गसखानाम् ।
केवलामृतमुचां वचनानां यस्य लास्यगृहमास्यसरोजम् ॥' अत्रारोहः प्रथमेऽर्थे । तृतीयचरणे त्ववरोहः । गङ्गेत्यादौ माधुर्यस्य व्यञ्जकेषु वर्णेषु सत्स्वपि दीर्घसमासान्तःपातितया न तस्य प्ररोहः । उत्तराधे तु सोऽपि । एते दश शब्दगुणाः । टीकाकाराणाम् । अनुकलत्वाभावमेवाह-नहीति । अत्र स्वचरणेति पद्ये । वैपुल्येन सर्वांशेन । लवो लेशः । अत एव न चमत्कारित्वम् । तत्रौजसो लवांशे । साहमिति। हे भमीभषण । आभोगो विस्तारः। अनयोर्गाढत्वशिथिलत्वयोः। प्रसादात्समाधेर्भेदमाहक्रम एवेति । तयोर्गाढत्वशिथिलत्वयोः क्रम एव हीत्यर्थः । वृत्तेः प्रवृत्तेः । स्वर्गेति । यस्यास्यसरोजं तेषां लास्यगृहं भवतीत्यर्थः । तृतीयचरण इति बहुव्रीहिः । द्वितीयेऽधे
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९
रसगङ्गाधरः। एवं क्रियापरम्पराया विदग्धचेष्टितस्य तदस्फुटत्वस्य तदुपपादकयुक्तेश्च सामानाधिकरण्यरूपः संसर्गः श्लेषः ।
यावदर्थकपदत्वरूपमर्थवैमल्यं प्रसादः।
यथा 'कमलानुकारि वदनं किल तस्याः' इत्यादि । प्रत्युदाहरणं तु 'कमलकान्त्यनुकारि वक्त्रम्' इत्यादि ।
प्रक्रमाभङ्गेनार्थघटनात्मकमवैषम्यं समता। यथा'हरिः पिता हरिर्माता हरिता हरिः सुहृत् ।
हरि सर्वत्र पश्यामि हरेरन्यन्न भाति मे ॥ अत्र विष्णुीतेत्यादिनिर्माणे प्रक्रमभङ्गात्मकं वैषम्यम् । एकस्या एवोक्तेर्भङ्गयन्तरेण पुनः कथनात्मकमुक्तिवैचित्र्यं माधुर्यम् । यथा-- 'विधत्तां निःशङ्ख निरवधिसमाधि विधिरहो
सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः । कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः
सवित्री कामानां यदि जगति जागति भवती ॥' इत्यर्थः । तस्य माधुर्यस्य । पृथक्पदत्वस्य तत्र निविष्टत्वेन तदभावादिति भावः । सोऽपि माधुर्यप्ररोहोऽपि । तथा च सांकर्यमिति भावः । एवं शब्दगुणानां प्रपञ्चमुक्त्वार्थगुणानां तमाह-एवमिति । उक्तवदित्यर्थः । विदग्धचेष्टितस्येति । यथा 'दृष्टैकासनसंस्थिते प्रियतमे' इत्याद्यमरुपद्यादौ । अत्रैकामतिक्रम्यान्याचुम्बनं विदग्धचेष्टितम् । तस्यास्फुटत्वमन्यया तदज्ञानात् । तत्रोपपत्तिश्च नयनपिधानपूर्वकं क्रीडानुबन्धः । एषां च पश्चादागमननयनपिधानक्रीडाकरणादिक्रियापरम्परया सामानाधिकरण्यं काव्ये निबद्धम् । इदं च ‘क्रियापरम्परया' इति तृतीयान्तपाठे बोध्यम् । षष्ठयन्तपाठे तु तस्य तेषां च सामेत्याद्यर्थः । यावदिति । अर्थान्यूनाधिकपदवत्त्वेत्यर्थः । प्रत्यदाहरणे कान्तीत्यधिकम् । प्रक्रमेति । उपक्रमामङ्गेनेत्यर्थः । शाब्दबोधे शब्दस्यापि प्रकारतया भानस्य 'न सोऽस्ति' इत्यादिना हरिणा प्रतिपादितत्वादिति भावः । भङ्गयन्तरेण रीत्यन्तरेण । विधत्तामिति । देवी प्रति भक्तोक्तिः । कामानां मनोरथानां सवित्री निष्पादिका । एषोऽर्थ इत्यस्यैक एवेति शेषः । अन्यथा तथैव प्रत्येकमुक्तौ ।
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
काव्यमाला |
अत्र विध्यादिभिर्नास्ति किमपि प्रयोजनमित्येषोऽर्थः समाधिविधानादिप्रेरणारूपेणोक्तिवैचित्र्येणाभिहितः । अन्यथानवी कृतत्वापत्तेः ।
अकाण्डे शोकदायित्वाभावरूपमपारुष्यं सुकुमारता । यथा -- ' त्वरया याति पान्थोऽयं प्रियाविरहकातरः । 'प्रियामरणकातरः' इत्यत्र तु शोकदायिनो मरणशब्दस्य सत्त्वात्पारुप्यम् । इदं चाश्लीलतादोषव्याप्यम् । वस्तुनो वर्णनीयस्यासाधारणक्रियारूपयोर्वर्णनमर्थव्यक्तिः ।
यथा-
गुरुमध्ये कमलाक्षी कमलाक्षेण प्रहर्तुकामं माम् । रदयन्त्रितरसनायं तरलितनयनं निवारयांचके ॥
अयमेवेदानींतनैः स्वभावोक्त्यलंकार इति व्यपदिश्यते । 'चुम्बनं देहि मे भार्ये कामचाण्डालतृप्तये' इत्यादिग्राम्यार्थपरिहार उदारता ।
एकस्य पदार्थस्य, बहुभिः पदैरभिधानं बहूनां चैकेन, तथैकस्य वाक्यार्थस्य बहुभिर्वाक्यैर्वहुवाक्यार्थस्यैकवाक्येनाभिधानं विशेषणानां साभिप्रायत्वं चेति पञ्चविधमोजः ।
यदाहुः
'पदार्थ वाक्यरचना वाक्यार्थे च पदाभिधा । प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ।।' इति । पूर्वार्धप्रतिपाद्यं द्वयं व्याससमासौ चेति चतुष्प्रकारा प्रौढिः, साभिप्रायत्वं चेति पञ्चप्रकारमोज इत्यर्थः । प्रौढिः प्रतिपादनवैचित्र्यम् ।
अनवीति । दोषोऽयम् । अकाण्डेऽनवसरे । मार्गे विवक्षित देशप्राप्ते रुद्देश्यत्वे नावसर इति शोकस्यानवसरः । प्रत्युदाहरणमाह - प्रियेति । ननु शोकदायित्वरूपं पारुष्यं न दोषेषु गणितमत आह- इदं चेति । तदन्तः पात्यमङ्गलरूपत्वादिति भावः । रूपं स्वरूपम् । कमलाक्षीति स्वरूपम् । रदेत्यादि क्रिया । अयमेव अर्थव्यक्त्याख्यगुण एव । उक्तक्रमेणैवाह – पदार्थ इति । व्यासेति । तथेत्यादिनोक्तौ । अस्य विशेषणस्य । प्रौढपदार्थमाह-प्रतीति । क्रमेणोदाहरणान्याह - यथेत्यादिना । इत्याद्यग्रे ऽपीति ।
For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. रसगङ्गाधरः।
यथा
'सरसिजवनबन्धुश्रीसमारम्भकाले
. रजनिरमणराज्ये नाशमाशु प्रयाति । परमपुरुषवक्त्रादुद्गतानां नराणां
___ मधुमधुरगिरां च प्रादुरासीद्विनोदः ॥' अत्रोषसीत्येकपदार्थस्याभिधानाय प्रथमचरणः । इत्याद्यग्रेऽपि बोध्यम् ।
'खण्डितानेत्रकञ्जालिमञ्जरञ्जनपण्डिताः ।
मण्डिताखिलदिवप्रान्ताश्चण्डांशोभन्ति भानवः ॥' अत्र 'यस्याः पराङ्गनागेहात्पतिः प्रातगृहेऽञ्चति' इति वाक्याथै खण्डितापदाभिधानम् ।
'अयाचितः सुखं दत्ते याचितश्च न यच्छति ।
सर्वस्वं चापि हरते विधिरुच्छृङ्खलो नृणाम् ॥' अत्र दैवाधीनं सर्वमित्येकस्मिन्वाक्यार्थे नानावाक्यरचनात्मको व्यासपदवाच्यो विस्तरः।
'तपस्यतो मुनेर्वक्त्राद्वेदार्थमधिगत्य सः ।
वासुदेवनिविष्टात्मा विवेश परमं पदम् ॥ अत्र मुनिस्तपस्यति तद्वक्त्रात्स वेदार्थमधिगतवान्, तदनन्तरं वासुदेवे परब्रह्मणि मनः प्रावेशयत्, ततश्च मुक्तोऽभूदिति वाक्यार्थकलापः शतृ-क्त्वाबहुव्रीहिभिस्तिङन्तेन चानुवाद्य विधेयभावेनैकवाक्यार्थीकृतः । साभिप्रायत्वं च प्रकृतार्थपोषकता।
द्वितीयचरणोऽपि तदर्थे । तृतीयचरणेन ब्राह्मणानामित्यर्थलाभः । ईशमुखजत्वात्तेषाम् । उद्गतानामित्यस्य गिरां चेत्यत्रापि संबन्धः । अत एव च वेदानामित्यर्थलाभ: । द्विती. योदाहरणमाह-खण्डीति । कजं कमलम् । सूर्यस्य किरणाः । खण्डितानेत्ररञ्जकत्वं तु तदा प्रियदर्शनेनेति बोध्यम् । अञ्चति गच्छति । तृतीयोदाहरणमाह-अयाचीति । उच्छवलो निर्मर्यादः । तुर्योदाहरणमाह-तपेति । सः परमभक्तः कश्चित् । अत्रेत्यस्यादाविति शेषः । तद्वक्त्रादित्यस्य तत इत्यादिः । आत्मशब्दार्थमाह-मन इति ।
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
यथा'गणिकाजामिलमुख्यानवता भवता बताहमपि । सीदन्भवमरुगते करुणामूर्ते न सर्वथोपेक्ष्यः ॥' अत्रोपेक्षाभावे करुणामूर्तित्वं पोषकम् । पापिष्ठत्वात्करुणाया अभावे प्रकृतेऽस्याः संपादनाय गणिकेत्यादि सीदन्निति च ।
दीप्तरसत्वं कान्तिः।
तत्र स्फुटप्रतीयमानरसत्वम् । उदाहरणं च वर्णितमेघ । रसप्रकरणे वर्णयिष्यते च । ___ अवर्णितपूर्वोऽयमर्थः पूर्ववर्णितच्छायो वेति कवेरालोचनं समाधिः। ज्ञानस्य विषयतासंबन्धनार्थनिष्ठत्वादर्थगुणता ।
आद्यो यथा--'तनयमैनाकगवेषण-'(१९ टप्टे) इत्यादौ, द्वितीयस्तु प्रायशः सर्वत्रैवेत्याहुः । अपरे त्वेषु गुणेषु कतिपयान्प्रागुक्तैस्त्रिभिर्गुणैर्वक्ष्यमाणदोषाभावालंकारैश्च गतार्थयन्तः, कांश्चिद्वैचित्र्यमात्ररूपतया क्वचिदोषतया च मन्यमाना न तावतः स्वीकुर्वन्ति । तथाहिलेपोदारताप्रसादसमाधीनामोजोव्यञ्जकघटनायामन्तर्भावः । न च श्लेपोदारतयोः सर्वांशे गाढवन्धात्मनोरोजोव्यञ्जकघटनान्तर्भावोऽस्तु नाम, प्रसादसमाध्योस्तु गाढशिथिलात्मनोरंशेनौजोव्यञ्जकान्तर्भावेऽप्यंशान्तरेण कुत्रान्तर्भाव इति वाच्यम् । माधुर्याभिव्यञ्जके प्रसादाभिव्यञ्जके वेति सुवचत्वात् । माधुर्य तु परेषामस्मदभ्युपगतमाधुर्यव्यञ्जकमेव । एवं च सर्वत्र व्यञ्जके व्यङ्ग्यशयथेति । गणिका चाजामिलश्च तो मुख्यौ येषां तान् । गणिका पिङ्गला । अंजामिलो राजा । भागवते प्रसिद्धोऽयमर्थः । बतेति खेदे । भव एव मरुगर्तस्तत्र सीदन्दुःखी । प्रकृते मयि । मुख्यदीप्तत्वाभावादाह-तच्चेति । रसेत्यस्य पूर्वान्वयः । छायस्तत्सदृशः । नन्वालोचनं ज्ञानं तच्चात्मगुणो नार्थगुण इत्यत आह-ज्ञानस्येति । स्वोक्तौ तथाभावादाह-प्रायश इति । दोषाभावेति । द्वयोर्बहुवचनान्तानां द्वन्द्वः । तावतो दश । तत्रादौ शब्दगुणानां तेषामन्तर्भावायाह--श्लेषोदेति । घटनायां वर्णरचनायाम् । तदंशे सर्वत्रमाधुर्यसत्त्वे मानाभावात् । प्रसादस्य सर्वरससाधारण्याचाह–प्रसादामीति। प्रतिपाद्येति । प्रतिपाद्यस्य यदुद्भटत्वमनुद्भटत्वं च ताभ्यामित्यर्थः । प्राम्यत्वकष्टत्व
For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
रसगङ्गाधरः ।
ब्दप्रयोगो भाक्तः । समता तु सर्वत्रानुचितैव । प्रतिपाद्योगटत्वानुगटत्वाभ्यामेकस्मिन्नेव पद्ये मार्गभेदस्येष्टत्वात् ।
यथा-
'निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रवमृडीका मधुमाधुरीमदपरीहारोहुराणां गिराम् । काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशां
नो चेद्दुष्कृतमात्मना कृतमिव स्वान्ताद्बहिर्मा कृथाः ॥' अत्र पूर्वार्धे तृतीयचरणे च लोकोत्तरनिर्माणप्रतिपादके यो मार्गों न स चतुर्थचरणे कदर्यकाव्यप्रतिपादक इति वैषम्यमेव गुणः । ग्राम्यत्वकष्टत्वयोस्त्यागात्कान्तिसौकुमार्ययोर्गतार्थता । प्रसादेन चार्थव्यक्तेरिति । अर्थगुणेष्वपि श्लेषः । ओजस आद्यात्वारो भेदाश्र वैचित्र्यमारूपा न गुणान्तर्भावमर्हन्ति । अन्यथा प्रतिश्लोकमर्थवैचित्र्यवैलक्षण्यागुणभेदापत्तेः । अनधिकपदत्वात्मा प्रसादः, उक्तिवैचित्र्यवर्माधुर्यम्, अपारुष्यशरीरं सौकुमार्यम्, अग्राम्यरूपोदारता, वैषम्याभावलक्षणा समता, साभिप्रायत्वात्मकः पञ्चम ओजसः प्रकारः, स्वभावस्फुटत्वात्मिकार्थव्यक्तिः, स्फुटरसत्वरूपा कान्तिश्च, अनवीकृतत्वामङ्गलरूपाश्लीलग्राम्यभग्नप्रक्रमा.पुष्टार्थरूपाणां दोषाणां निराकरणेन स्वभावोक्त्यलंकारस्य रसध्वनिरसवदलंकारयोश्र स्वीकरणेन च गतार्थानि । समाधिस्तु कविगतः काव्यस्य कारणं न तु गुणः । प्रतिभाया अपि काव्यगुणत्वापत्तेः । योस्त्यागादिति । अत्रेदं चिन्त्यम् - कष्टत्वमोजोव्यञ्जकवर्णत्वम्, सुकुमारत्वं माधुर्यव्यञ्जकत्वम् । तथा चानयोः परस्परभावत्वाभावात्कथं तेनान्यस्यान्यथा सिद्धिरिति । अर्थव्यक्तेरित्यस्य गतार्थतेत्यस्यानुषङ्गः । इतिः शब्दगुणान्तर्भावादिसमाप्तौ । अन्यथा वैचित्र्यमात्ररूपत्वेऽपि गुणान्तर्भावे गुणभेदापत्तेरिति । एतेन चमत्कारानुगुणत्वरूपस्य वैचित्र्यस्य गुणत्वसाधकतेत्यपास्तम् । कान्तिश्चेत्यस्यैतानीति शेषः । अनधिकपदेत्यारभ्योक्तानीति तदर्थः । क्रमेणाह - अधिकेति । अर्थव्यक्तेः संग्रहायाह - स्वभाविति । कान्तेराह - रसेति । प्राधान्ये रसत्वमन्यथा रसवदलंकारत्वमिति भावः । समाधिस्त्विति । ज्ञानरूप इत्यर्थः । तस्यात्मगुणत्वादिति भावः । तदाह - कवीति । नतु गुण इति । अर्थस्य तत्कारणमिति शेषः । प्रतीति । तस्या अपि विषयता संबन्धेन
६३
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अतस्त्रय एव गुणा इति मम्मटभट्टादयः । तत्र टवर्गवर्जितानां वर्गाणां प्रथमतृतीयैः शर्मिरन्तस्थैश्च घटिता, नैकल्येन प्रयुक्तैरनुस्खारपरसवर्णैः शुद्धानुनासिकैश्च शोभिता, वक्ष्यमाणैः सामान्यतो विशेषतश्च निषिद्वैः संयोगाद्यैरचुम्बिता, अष्टत्तिर्मूदुवृत्तिर्वा रचनानुपूर्व्यात्मिका माधुर्यस्य व्यञ्जिका । द्वितीयचतुर्थास्तु वा गुणस्यास्य नानुकूला नापि प्रतिकूलाः, दूरतया संनिवेशिताश्चेत् । नैकव्येन तु प्रतिकूला अपि भवन्ति । यदि तदायत्तोऽनुप्रासः । अन्ये तु वर्गस्थानां पञ्चानामप्यविशेषेण माधुर्यव्यअकतामाहुः। उदाहरणम्'तां तमालतरुकान्तिलचिनी किंकरीकृतनवाम्बुदत्विषम् ।
स्वान्त मे कलय शान्तये चिरं नैचिकीनयनचुम्बितां श्रियम् ॥ यथा वा'स्वेदाम्बुसान्द्रकणशालिकपोलपालि
रन्तःस्मितालसविलोकनवन्दनीया । आनन्दमङ्कुरयति स्मरणेन कापि
रम्या दशा मनसि मे मदिरेक्षणायाः ॥' प्रथमे पद्येऽतिशयोक्त्यलंकृतस्य भगवद्ध्यानौत्सुक्यस्य भगवद्विषयकरतेर्वा ध्वन्यमानायाः शान्त एव पर्यवसानात्तद्गतमाधुर्यस्याभिव्यञ्जिका तद्वदर्थवृत्तित्वादिति भावः । उपसंहरति-अत इति । अथ यासु रचनास्वन्तर्भाव उक्तस्ता रचना आह-तत्रेत्यादिना । तत्र तासां मध्ये । शभिः शषसैः । 'अन्त:स्थाभिश्च' इति पाठः । यरलवैरिति तदर्थः । वक्ष्यमाणैरित्यस्यानुपद मित्यादि । अ. त्तिवृत्तिसामान्याभाववती । बाधादाह-मृत्तिवेति । गुणस्यास्य माधुर्यस्य । नैकव्येन संनिवेशिताश्चेदित्यस्यानुषङ्गः । अपिनानुकलत्वसमुच्चयः । तदेवाह-यदीति । तदायत्तस्तदधीनः । वगैत्यस्य टवर्गान्येत्यादिः । अत्रारुचिबीजमुक्तमेव । उदेति । उदाहरणमित्यर्थः । तामिति । हे स्वान्त मनः, तां नियं कृष्णमूर्तिशोभा शान्तये मे चिरं कलयेत्यर्थः । नैचिक्यो गावस्तन्नेत्रचुम्बतामित्यर्थः । स्वेदाम्ब्वीति । गतोऽयं श्लोकः (५७ पृष्ठे)। यद्यपि पाल्यग्रे दोलायितश्रवणकुण्डल' इति तत्र पाठस्तथापि टवर्गस्य वय॑त्वादाह-'अन्तःस्थितालसविलोकन' इति ।अत एवानयोर्मध्ये 'यथा वा-स्मृतापि' इति क्वाचित्कोऽपपाठ इति बोध्यम् । अत एवाह-प्रथमे इति । तामित्यत्रेत्यर्थः ।
For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। रचनेयम् । द्वितीये तु स्मृत्युपष्टब्धशृङ्गारगतस्य नैकव्येन द्वितीयचतुर्थवर्गवर्णटवर्गजिह्वामूलीयोपध्मानीयविसर्गसकारबहुलैर्वर्णैर्घटितो झरेफान्यतरघटितसंयोगपरह्रस्वैश्च नैकव्येन प्रयुक्तैरालिङ्गितो दीर्घवृत्त्यात्मा गुम्फ ओजसः । अस्मिन्पतिताः प्रथमतृतीयवा गुणस्यास्य नानुकूला नापि प्रतिकूलाः संयोगाघटकाश्चेत् । तद्धटकास्त्वनुकूला एव । एवमनुस्वारपरसवर्णा अपि। यथा-'अयं पततु निर्दयं दलितहप्त-' (३६ पृष्ठे) इत्यादौ प्रागुदाहृते । श्रुतमात्रा वाक्याथ करतलबदरमिव निवेदयन्ती घटना प्रसादस्य । अयं च सर्वसाधारणो गुणः । उदाहरणान्यत्र प्रायशो मदीयानि संर्वाण्येव पद्यानि । तथापि यथा'चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः
प्राणेशः प्रणयाकुलः पुनरसावास्तां समस्ता कथा। एतत्त्वां विनिवेदयामि मम चेदुक्ति हितां मन्यसे
मुग्धे मा कुरु मानमाननमिदं राकापतिर्जेष्यति ॥' . अत्र सर्वावच्छेदेन प्रसादाभिव्यञ्जकत्वमंशभेदेन तु माधुयॊजोभिव्यञ्जकत्वमपि । मनसिजान्तस्य मा कुर्वादेश्व माधुर्याभिव्यक्तिहेतुत्वात् । सख्य इत्यादेरोजोगमकत्वात् । नन्वत्र शृङ्गाराश्रयस्य माधुर्यस्यामिव्यक्तये तदनुकूलास्तु नाम रचना, ओजसस्तु कः प्रसङ्गो यदर्थ तदनुकूलवर्णविन्यास
विनिगमनाविरहादाह-भगवदिति । तद्गतेति । शान्तगतेत्यर्थः । द्वितीये स्वेदाम्ब्विति पद्ये । स्मृत्युपेति । तद्विषयेत्यर्थः । गतस्येत्यस्य माधुर्येत्याद्यनुषङ्गः । प्रसादस्थल आह-कोनेति । 'टवर्गजिह्वः' इति पाठः। 'टवर्गझय' इत्यपपाठः। गम्फो रचनाविशेषः । व्यञ्जक इति शेषः । बहुलैरित्यनेनान्येषामपि सत्ता सचिता। तदाहअस्मिन्निति । वा वर्गसंबन्धिवर्णाः । अस्य ओजसः । चेदन्तं पूर्वान्वयि । सवर्णा अपीति । गुणस्येत्यादेः सर्वस्यानुषङ्गः । ओजसो लक्षणमाह-यथेति । मात्रपदेन वर्णविशेषनियमादिव्यवच्छेदः । घटना रचना । व्यजिकेति शेषः । उदेत्यस्य यद्यपीत्यादिः । अत्र प्रसादे । तथापि यथेति । विशिष्योदाहरणमित्यर्थः । चिन्तेति । 'एतत्त्वां विनि-' इति पाठः । जेष्यति पीडादानेन । मानमलीमसत्वन्मुखसादृश्यस्य स्वस्मिन्संपादनेन वा । अत एव राकापतिरित्युक्तम् । राका पूर्णिमा । अयंदा तु
For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
इति चेत् । नायिकामानोपशान्तये कृतानेकयत्नायास्तदीयं हितमुपदिशन्त्याः सख्याः सक्रोधत्वस्य व्यञ्जनीयतया तथाविन्यासस्य साफल्यात् । किं बहुना रसस्यौजस्विनोऽमर्षादेर्भावस्य चाविवक्षायामणि वक्तरिक्रुद्धतया प्रसिद्धे वाच्ये वा क्रूरतरे आख्यायिकादौ प्रबन्धे वा परुषवर्णघटनेष्यते । यथा वा
'कचा निर्मलया मुधामधुरया यां नाथ शिक्षामदा-. __ स्तां स्वप्नेऽपि न संस्टशाम्यहमहंभावाटतो निस्त्रपः । इत्यागःशतशालिनं पुनरपि स्वीयेषु मा बिभ्रत
स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तः परः ॥' अत्र गुणान्तरासमानाधिकरणः प्रसादः ।
इदानी तत्तद्गुणव्यञ्जनक्षमाया निर्मितेः परिचयाय सामान्यतो विशेषतश्च वर्जनीयं किंचिन्निरूप्यते---वर्णानां स्वानन्तर्य सकृदेकपदगतत्वे किंचिदश्रव्यम् । यथा--'ककुभसुरभिः, विततगात्र, पललमिवाभाति' इत्यादौ । असकच्चेदधिकम् । यथा-'वितततरस्तरुरेष भाति भूमौ ।' एवं भिन्नपदगतत्वेऽपिं । यथा--'शुक करोषि कथं विजने रुचिम्' इत्यादौ । असद्भिन्नपदगतत्वे ततोऽप्यधिकम् । यथा--'पिक ककुभो मुखरीकुरु प्रकामम्' । एवं स्वसमानवानन्तर्य सकदेकपदगतत्वे किंचिदश्रव्यम् । यथा-'वितथस्ते मनोरथः' । असकच्चेदधिकम् । यथा'वितथतरं वचनं तव प्रतीमः' । एवं भिन्नपदगतत्वे । यथा-'अथ तस्य वचः श्रुत्वा' इत्यादौ । असद्भिन्नपदगतत्वे तु ततोऽप्यधिकम् । 'अथ तथा कुरु येन सुखं लभे' । एतच्च वर्गाणां प्रथमद्वितीययोस्तृतीयचतुर्थयोरानन्तर्यम् । प्रथमतृतीययोद्वितीयतृतीययोर्वानन्तर्य तु तथा नाश्राव्यम् । किं
चन्द्रे सर्वथा साम्या प्रसिद्धिरिति भावः । तथा ओजोनुकूलवर्णेत्यर्थः । रसस्य वीररौ.. द्रबीभत्सात्मकस्य । भावस्य च व्यभिचारिभावस्य च । प्रसादस्योदाहरणान्तरमाहयथा वेति । उदाहरणान्तरदाने बीजमाह-अत्रेति । स्वानन्तये स्वाव्यवहितोत्तर-, त्वम् । किंचिदीषत् । एवं वर्णानां स्वानन्तर्य सकृत्किचिच्छ्रव्यमित्यर्थः । एवमग्रेऽपि । अत एवाग्रे ततोऽप्यधिकमित्युक्तम् । एतच्चेति । स्वसमानवानन्तर्य चेत्यर्थः । तेषां
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः । त्वीषन्निर्माणमार्मिकैकवेद्यम् । एतदप्यसकच्चेत्ततोऽधिकत्वात्साधारणैरपि वेद्यम् । 'खग कलानिधिरेष विजम्भते' । 'इति वदति दिवानिशं धन्यः । पश्चमानां मधुरत्वेन स्ववानन्तये न तथा। यथा---'तनुते तनुतां तनौं । स्वानन्तयं त्वश्रव्यमेव । यथा--'मम महती मनसि व्यथाविरासीत् । एतानि चाश्रव्यत्वानि गुरुव्यवाये नापोद्यन्ते । 'संजायतां कथंकारं काके केकाकलस्वनः'। यथा वा
'यथा.यथा तामरसायतेक्षणा मया सरागं नितरां निषेविता। . तथा तथा तत्वकथेव सर्वतो विकृष्य मामेकरसं चकार सा ॥' इदं तु दीर्घव्यवाये । संयोगपरव्यवाये तु
'सदा जयानुषङ्गाणामङ्गानां संगरस्थलम् ।
रङ्गाङ्गणमिवाभाति तत्तत्तुरगताण्डवैः ॥' इदं तु बोध्यम्-गुरुर्ययोर्व्यवधायकस्तयोरेव वर्णयोरानन्तर्यकृतमश्रव्यत्वमपवदति । तेनात्र थकारतकारानन्तर्यकृतदोषापवादेऽपि तकारथकारानन्तर्यकृतमश्रव्यत्वमनपोदितमेव । एवं त्र्यादीनां संयोगोऽपि प्रायेणाश्रव्यः । 'राष्ट्रे तवोष्ट्रयः परितश्चरन्ति' इत्येवमादयः श्रुतिकाटवभेदा अन्येऽप्यनुभवानुसारेण बोध्याः । अथ दीर्घानन्तर्य संयोगस्य भिन्नपदगतस्य सरूदप्यश्रव्यम् । असकृत्तु सुतराम् ।
'हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते ।
सेवितं सर्वसंपद्भिरपि तद्भवनं वनम् ॥' तयोरानन्तर्ये बोध्यमित्यन्वयः । ईषत्पदार्थमाह-निर्माणेति। साधारणैरपि निर्माणमामिकभित्रैरपि । आद्योदाहरणमाह-खगेति। द्वितीयोदाहरणमाह-इतीति । चतुर्णा गतिमुक्त्वा पञ्चमानामाह-पञ्चेति । न तथा नाश्रव्यम् । स्वानन्तर्यमिति । पञ्चमानामित्यस्यानुषङ्गः । एतेषामपवादमाह-एतानीति । गर्विति । गुरुवर्णव्यवधानेनेत्यर्थः । 'काक' इति पाठे संबोधनम् । तं प्रत्युक्तिः । युक्तस्तु सप्तम्यन्तपाठः। तत्त्वकथा ब्रह्मकथा। सर्वस्माद्विषयादाकृष्य । एकरसं स्वमयं ब्रह्ममयं च । गुरुद्वैधा, दीर्घः संयोगपरश्च। तत्राद्योदाहरणमुक्तम्,अन्त्यस्योच्यत इत्याह-इदं वित्यादि। गुरुव्यवायेन तदंशे दोषाभावो न सर्वोशे इत्याह-इदं विति । प्रायेणेति । श्रुत्यकटुवे तु न तथेति भावः । उपसंहरति-एवमादय इति।आद्योदाहरणं हरिणीत्यभिप्रायम् ।
For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
काव्यमाला।
एकपदगतस्य तु तथा नाश्रव्यम् । यथा-'जाग्रता विजितः पन्थाः शात्रवाणां थोद्यमः' । परसवर्णकृतस्य तु संयोगस्य सर्वथा दीर्घाद्भिन्नपदगतत्वाभावान्मधुरत्वाच्चानन्तर्य न मनागप्यश्रव्यम् । यथा-'तां तमालंतरुकान्ति-' इत्यादिपद्ये (६४ पृष्ठे)।अत्र तामित्यत्र नीमित्यत्र च परसवर्णस्य पूर्वपदभक्ततया न संयोगो भिन्नपदगतः । प्रत्येकं संयोगसंज्ञेति पक्षेऽपि भिन्नपदगतः संयोगो न दीर्घादव्यवहितपरः । नवाम्बुदेत्यत्र त्वेकादेशस्य पदद्वयभक्ततया दीर्घाद्भिन्नपदगतत्वे सत्यव्यवहितोत्तरत्वं यद्यपि परसवर्णकृतसंयोगस्य भवति तथाप्यत्र भिन्नपदगतत्वमेकपदगतभिन्नत्वं विवक्षितमित्यदोषः । असकृत्तु सुतराम् । यथा--'एषा प्रिया मे क्क गता त्रपाकुला' । इदं चाश्रव्यत्वं काव्यस्य पङ्गुत्वमिव प्रतीयते । अथ स्वेच्छया संध्यकरणं सकदप्यश्रव्यम् । यथा---'रम्याणि इन्दमुखि ते किलकिञ्चितानि' । प्रगृह्यताप्रयुक्तं त्वसकदेव । 'अहो अमी इन्दुंमुखीविलासाः'। एवमेव च य-व-लोपप्रयुक्तम् । 'अपर इषव एते कामिनीनां गन्ताः' ।
कथं तर्हि_ 'भुजगाहितप्रकृतयो गारुडमन्त्रा इवावनीरमण ।
तारा इव तुरगा इव सुखलीना मन्त्रिणो भवतः ॥' इति भवदीयं काव्यमिति चेदकृत्वैव यलोपं पाठान्न दोषः । एवं रोरुगतस्येत्यस्य संयोगस्य दीर्घानन्तर्यमिति शेषः । न दीर्घाव्यवेति । परसवर्णेनैव व्यवधानादिति भावः । समस्ते पदे विशेषमाह-नवाम्बुदेति । अदोष इति। वस्तुत एकपदगतत्वेन तत्त्वाभावादिति भावः । असकृत्तु सुतरामिति । भिन्नपदगतस्य संयोगस्य दीर्घानन्तर्यमसकृच्चत्तर्हि सुतरामश्रव्यमित्यर्थः । अश्रव्यत्वमंशे इति शेषः । काव्यस्य पङ्गुत्वमिवेत्यन्वयः । रसाद्यप्रतोतेस्तत्त्वमिति भावः । किलकिश्चितानि हावविशेषा इत्यर्थः । प्रयुक्तं तु संध्यकरणमित्यनुषङ्गः । एवमग्रेऽपि । असकृदेवेति। अन्यथा शास्त्रानर्थक्यं स्यादिति भावः । यवलोपे 'लोपः शाकल्यस्य' इति । तत्र यलोपोदाहरणमाह-अपर इति । इषव इति 'इव त' इति पाठान्तरम् । भुजगेति । हे पृथ्वीनाथ, तवामात्या गारुडमन्त्रा इव भुजगाहितप्रकृतयः, तारा इव तुरगा इव सुखलीना इत्यन्वयः । भुजगानां सपोणां विटाना चाहिता प्रकृतिर्येषाम् । सुखेष्वासक्ताः । सुष्ठ खे आकाशे लीनाः । सुष्ठ खलीनं येषां ते तादृशाश्चेत्यर्थः । उपसंहरतिएवमिति। उक्तप्रकारेणेत्यर्थः । सर्वेऽपि वर्णानां स्वानन्तर्यमित्यादिनोक्ताः । तत्र
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः । त्वस्य हलि लोपस्य यणगुणवृद्धिसवर्णदीर्घपूर्वरूपादीनां नैकव्येन बाहुल्यमश्रव्यताहेतुः । एवमिमे सर्वेऽप्यश्रव्यभेदाः काव्यसामान्ये वर्जनीयाः । __ अथ विशेषतो वर्जनीयाः । तत्र मधुररसेषु ये विशेषतो वर्जनीया अनुपदं वक्ष्यन्ते त एवौजविष्वनुकूलाः, ये चानुकूलतयोक्तास्ते प्रतिकूला इति सामान्यतो निर्णयः । मधुररसेषु दीर्घसमासं झय्घटितसंयोगपरबवस्य विसर्जनीयादेशसकारजिह्वामूलीयोपध्मानीयानां टवर्गझयां रेफहः कारान्यतरघटितसंयोगस्य हलां लमनभिन्नानां स्वात्मना संयोगस्य झय्द्वयघटितसंयोगस्य चासत्प्रयोगं नैकव्येन वर्जयेत् । सवर्णझयद्वयघटितसंयोगस्य शर्भिन्नमहाप्राणघटितसंयोगस्य सहदपीति संक्षेपः । दीर्घसमासो यथा'लोलालकावलिवलन्नयनारविन्द
लीलावविदितलोकविलोचनायाः । सायाहनि प्रणयिनो भवनं व्रजन्त्या
श्वेतो न कस्य हरते गतिरङ्गनायाः ॥' झयघटितसंयोगपरहवानां प्राचुर्य नैकव्येन यथा
'हीरस्फुरद्रदनशुभ्रिमशोभि किं च ___सान्द्रामृतं वदनमेणविलोचनायाः । वेधा विधाय पुनरुक्तमिवेन्दुबिम्ब
दूरीकरोति न कथं विदुषां वरेण्यः ॥' अत्र भ्रिशब्दपर्यन्तं शृङ्गाराननुगुणम् । शिष्टं तु रमणीयम् । उत्तराधे ककारतकाररूपझयद्वयसंयोगस्य सत्वेऽपि प्राचुर्याभावान्न दोषः ।
तेषां मध्ये । ये चेत्यादौ यथाक्रमं सप्तम्यन्तद्वयानुषङ्गः । समासमित्यस्य वर्जयेदित्यत्रान्वयः । अग्रिमसर्वषष्ठयन्तानामसकृत्प्रयोगमित्यत्रान्वयः । सवर्णेति । तुल्यास्यमिति सवर्णसंज्ञकेत्यर्थः। अपिनासकृत्समुच्चयः । नैकट्येन प्रयोगं वर्जयेदित्यस्यानुषङ्गः। 'चलन्' इति पाठेऽपि स एवार्थः । वशंवदितानि स्वाधीनीकृतानि । सायाहनि सायंकाले। हीरेति । हीरैरिवद्वा स्फुरन्तो ये रदना दन्तास्तेषां शुभ्रिम्णा शुभ्रत्वेन शोभते तच्छीलम् । सान्द्रं धनममृतं यस्मिंस्तत् । यद्वा नञ् काक्काम् । अपि तु दूरीकरो.
For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
काव्यमाला।
यदि तु 'दन्तांशुकान्तमरविन्दरमापहारि सान्द्रामृत' इत्यादि क्रियते तदा सर्वमेव रमणीयम् । विसर्गप्राचुर्य यथा
'सानुरागाः सानुकम्पाश्चतुसः शीलशीतलाः ।
हरन्ति हृदयं हन्त कान्तायाः स्वान्तवृत्तयः ।।' अत्र शकारद्वयसंयोगान्तं पूर्वार्ध माधुर्याननुगुणम् । जिह्वामूलीयप्राचुर्यं यथा'कलितकुलिशघाताः केऽपि खेलन्ति वाताः
कुशलमिह कथं वा जायतां जीविते मे । अयमपि बत गुञ्जन्नालि माकन्दमौलौ
__चुलुकयति मदीयां चेतनां चञ्चरीकः ॥' अत्र द्वितीयजिह्वामूलीयपर्यन्तमननुगुणं माधुर्यस्य । यदि च 'कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः' इति विधीयते तदा नायं दोषः ।
उपध्मानीयप्राचुर्य यथा'अलकाः फणिशावतुल्यशीला नयनान्ताः परिपुङ्कितेषुलीलाः ।
चपलोपमिता खलु स्वयं या बत लोके सुखसाधनं कथं सा ॥' अत्र द्वावुपध्मानीयावेव न शान्तानुगुणौँ ।
त्येव । परिवेषच्छलेनेति भावः । यदि त्विति । दन्तकिरणरम्यं कमलशोभापहारीत्यर्थः । हरन्ति । ममेति शेषः । नायकोक्तिरियम् । पूर्वार्ध तदवयवभूतम् । जिढत्यस्य विसर्गादेशेत्यादिः । एवमग्रेऽपि । कलितेति । नायिकोक्तिः सखी प्रति । कलितः कृतः कुलिशवद्वज्रवद्धातो यैस्तादृशाः केऽपि विलक्षणा वाताः खेलन्ति क्रीडां कुर्वन्ति । अत इह देशे मम जीविते कुशलं कथं जायताम् । वाशब्दः पादपूरण इवार्थे वा । कारणान्तरमाह-अयमिति । हे आलि, माकन्दतरुमौलावाम्रतरुमस्तके गुअन्नयमपि चश्चरीको भ्रमरः । बतेति खेदे । मदीयां चेतनो चुलकयति । चुलकवदापिषतीत्यर्थः । मलयाचलस्थतरुस्थितसर्पमुखनिःमृता इत्यर्थः । अत एव कृतान्ताः । अत्र सकृ. त्सत्त्वेऽपि प्राचुर्याभावः । अलका इति । यस्या इति शेषः । पुङ्कयुक्तबाणसदृश
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः । टवर्गझ्या प्राचुर्य यथा'वचने तव यत्र माधुरी सा हृदि पूर्णा करुणा च कोमलेऽभूत् ।
अधुना हरिणाक्षि हा कथं वा कटुता तत्र कठोरताविरासीत् ॥' 'अधुना सखि तत्र हा कथं वा गतिरन्यैव विलोक्यते गुणानाम्' इति त्वनुगुणम् । रेफघटितसंयोगस्यासकृत्प्रयोगो यथा'तुलामनालोक्य निजामखर्व गौराङ्गि गर्व न कदापि कुर्याः ।
लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु ॥' यदि तु 'तुलामनालोक्य महीतलेऽस्मिन्' इति निर्मीयते तदा साधु । हलाल-म-न-भिन्नानां स्वात्मना संयोगस्यासकृत्प्रयोगो यथा-'विगणय्य मे निकाय्यं तामनुयातोऽसि नैव तन्याय्यम् ।' ल-म-नानां स्वात्मनासंयोगस्तु न तथा पारुष्यमावहति । यथा
'इयमुल्लसिता मुखस्य शोभा परिफुल्लं नयनाम्बुजद्वयं ते ।
जलदालिमयं जगद्वितन्वन्कलितः क्वापि किमालि नीलमेघः ॥' झयद्वयघटितसंयोगस्य यथा-- ___ 'आ सायं सलिलभरे सवितारमुपास्य सादरं तपसा । - अधुनाब्जेन मनाक्तव मानिनि तुलना मुखस्याप्ता ॥'
अत्र.द्वितीयार्धमरम्यम् । 'सरसिजकुलेन संप्रति भामिनि ते मुखतुलाधिगता' इति तु साधु ।
लीलाः । चपला विद्युत् । एतेनान्यत्सर्व रमणीयमिति सूचितम् । वचन इति । हे कोमले तव यन्त्र वचने सा माधुरी, स्वान्ते पूर्णा करुणा चाभूत् ।हे हरिणाक्षि, अधुना । हेति खेदे । कथमिव तत्र यथाक्रमं कटुता कठोरता चाविरासीदित्यर्थः । अत्रो. त्तरार्धे टवर्ग झयां नैकत्येन प्राचुर्य बोध्यम् । अत एवाह-अधुनेति । अखर्व गर्वमित्यन्वयः । गहनं काननम् । साध्विति । एकत्र सत्त्वेऽपि प्राचुर्याभावः । हकारघटितसंयोगस्यासकृत्प्रयोगोदाहरणं त्रुटितमत्र । निकाय्यं निवासम् । तां सपत्नीम् । नायिकोक्तिर्नायकं प्रति । वहतीति । अतस्तदन्यत्वं निवेशितमिति भावः । इय..
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
७२
काव्यमाला ।
झय्यघटितसंयोगस्य सकृत्प्रयोगो यथा -
'अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाक्कुरुषे । अधुनैव कलय शमितं राकारमणस्य हन्त साम्राज्यम् ॥'
नन्वत्र ककारद्वयसंयोगस्य हल्घटितस्वात्मसंयोगत्वेनैव निषेधात्कखसंयोगस्य महाप्राणसंयोगनिषेधविषयत्वात्ततीयसंयोगस्य चासंभवात्सवर्णझय्द्वयसंयोगनिषेधो निरवकाश इति चेत् । न । सकृत्प्रयोगविषयत्वेनास्य पार्थक्यात् । अन्यथा मनाकुरुष इति निर्दोषं स्यात् ।
महाप्राणघटितसंयोगो यथा -
'अयि मृगमदबिन्दु चेद्भाले बाले समातनुषे ।' उत्तरार्धे तु प्राचीनमेव ।
Acharya Shri Kailassagarsuri Gyanmandir
एवं त्वप्रत्ययं यङन्तानि यङ्लुगन्तान्यन्यानि च शाब्दिकप्रियाण्यपि मधुररसे न प्रयुञ्जीत । एवं व्यङ्ग्यचर्वणातिरिक्तयोजनाविशेषापेक्षानापाततोऽधिकचमत्कारिणोऽनुप्रासनिचयान्यमकादींश्र संभवतोऽपि कविर्न निबभीयात् । यतो हि ते रसचर्वणायामनन्तर्भवन्तः सहृदयहृदयं स्वाभिमुखं विदधाना रसपराङ्मुखं विदधीरन् । विप्रलम्भे तु सुतराम् । यतो मधुरतमत्वेनास्य निर्मलसितानिर्मितपानकरसस्येव तनीयानपि स्वातन्त्र्यमावह पदार्थः सहृदयहृदयारुंतुदतया न सर्वथैव सामानाधिकरण्यमर्हति ।
यदाहु:
'ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् । शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ||'
1
मिति । अधुना द्वितीयेऽह्नि । अयीति । अयि तन्वङ्गि, यदि वदनं मनाक् मन्दस्मितमधुरं कुरुषे तर्हि अधुनैव । न तु कालान्तरे । हन्तेति हर्षे । चन्द्रस्य साम्राज्यं शमितं कलय | जानोहीत्यर्थः । कखेति । खादिधातुपाठे इति भावः । व्यङ्गयेति । व्ययास्वादान्यो यो योजनाविशेषः । पदार्थानां तदपेक्षा नेत्यर्थः । यतो हीति । निपातसमुदायो हेतौ । सुतरामिति । पूर्वोक्तसर्वानुषङ्गः । तनीयानपि पदार्थोः रजःकणः - पदार्थैकदेशश्च स्वातन्त्र्यं स्वाभिमुखत्वं कुर्वन्नित्यर्थः । निबन्धनं शक्तावपि प्रमादित्वरूपं
For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। ये तु पुनरक्लिष्टतयानुन्नतस्कन्धतया च न ष्टथग्भावनामपेक्षन्ते, किं तुर: सचर्वणायामेव सुमुखं गोचरीकर्तुं शक्याः, न तेषामनुप्रासादीनां त्यागो युक्तः। यथा
'कस्तूरिकातिलकमालि विधाय सायं ___ स्मेरानना सपदि शीलय सौधमौलिम् ।
मौढिं भजन्तु कुमुदानि मुदामुदारा
_मुल्लासयन्तु परितो हरितो मुखानि ।' इत्यमेते प्रसङ्गतो मधुररसाभिव्यञ्जिकायां रचनायां संक्षेपेण निरू पिता दोषाः ।।
'एभिर्विशेषविषयैः सामान्यैरपि च दूषण रहिता। माधुर्यभारभङ्गुरसुन्दरपदवर्णविन्यासा ।। व्युत्पत्तिमुगिरन्ती निर्मातुर्या प्रसादयुता ।
तां विबुधा वैदर्भी वदन्ति वृत्तिं गृहीतपरिपाकाम् ॥' अस्यामुदाहृतान्येव कियन्त्यपि पद्यानि । यथा वा'आयातैव निशा निशापतिकरैः कीर्ण दिशामन्तरं
· भामिन्यो भवनेषु भूषणगणैरुल्लासयन्ति श्रियम् । वामे मानमपाकरोषि न मनागद्यापि रोषेण ते .
हा हा बालमृणालतोऽप्यतितमां तन्वी तनुस्ताम्यति ॥' अस्याश्च रीतेर्निर्माणे कविना नितरामवहितेन ‘भाव्यम् । अन्यथा तु परिपाकभङ्गः स्यात् ।
भवतीत्यर्थः । अनुन्नतेति । अनुन्नतविस्तारतया चेत्यर्थः । सुसुखमत्यन्तसुखं यथा तथा । कचित् 'सुखम्? इत्येव पाठः । सौधौलिं सुधानिर्मितप्राकारोलप्रदेशम् । मदां प्रौढिमित्यन्वयः । उपसंहरति----इत्थमिति । प्रसङ्गागृत्ति निरूपयति-एभिरिति । मार्यभारेण भङ्गरोऽत एव सुन्दरः पदानां वर्णानां च विन्यासो रचना यस्यां सा । निर्मातुयुत्पत्तिमुगिरन्तीत्यन्वयः । प्रसादगुणेन युता । गृहीतः परिपाको रसचर्वणा यस्यां सा । कीर्ण व्याप्तम् । श्रियं शोभाम् । तन्वी कृशा । अस्या वैदाः । भङ्गमुदा
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७४
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
यथामरुककविपद्ये—
•
'शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैनिद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥' अत्रोत्थाय किंचिच्छनैरित्यत्र सवर्णझयुद्वयसंयोगस्तत्रापि नैकट्येनेति सुतरामश्रव्यः । एवं झय्घटितसंयोगपरह्रस्वस्यापि । तथा शनैर्निद्रेत्यत्र, निर्वर्ण्य पत्युर्मुखमित्यत्र च रेफघटितसंयोगस्य, झय्घटितसंयोगपरहस्वस्य च प्राचुर्यम् । विस्रब्धमित्यत्र महाप्राणघटितस्य, लज्जेत्यत्र स्वात्मसवर्णझय्यघटितस्य, मुखी प्रियेणेत्यत्र भिन्नपद्गतदीर्घानन्तरस्य संयोगस्य, तथा क्त्वाप्रत्ययस्य पश्ञ्चकृत्वः, लोकतेश्च धातोर्द्विः प्रयोगः कवेर्नि - माणसामग्रीदारिद्र्यं प्रकाशयति । इत्यलं परकीयकाव्यविमर्शनेन । इति संक्षेपेण निरूपिता रसाः । अथ भावध्वनिर्निरूप्यते
अथ किं भावत्वम् । विभावानुभावभिन्नत्वे सति रसव्यञ्जकत्वमिति चेत् । रसकाव्यवाक्येऽतिव्याप्त्यापत्तेः । अर्थद्वारा शब्दस्यापि व्यञ्जकत्वात् । द्वारान्तरनिरपेक्षत्वेन व्यञ्जकत्वे विशेषिते त्वसंभवः प्रसज्येत | भावस्यापि भावनाद्वारेव व्यञ्जकत्वात् । भावनायामतिव्यास्यापत्तेश्च । अत एव च विभावानुभावभिन्नत्वस्येव शब्दभिन्नत्वस्यापि तद्विशेषणत्वे न निस्तारः । प्रधानध्वन्यमानभावे रसव्यञ्जकताभावादव्यात्यापत्तेश्च । न च तत्रापि प्रान्ते रसोऽभिव्यज्यत एवेति वाच्यम् । भावध्वनिविलो
हरति-यथेति । अत्र लज्जेति पृथक्पदम् । तेन समानकर्तृकत्वोपपत्तिः । एवमिति । उक्तस्थल एवेत्यर्थः । नैकट्येनासकृत्प्रयोगोऽश्रव्य इति भावः । प्राचुर्यमिति । तथा चाश्रव्यमिति भावः । स्वात्मेति । स्वात्मघटितः सवर्णझय्द्वयघटितश्चेति दोषद्वयम् । घटितस्येति । द्वयस्य संयोगस्येत्यत्रान्वयः । सकृदिति तस्य शेषः । तस्य च प्रयोग इत्यत्रान्वयः । एवमग्रेऽपि । तस्य प्रकाशने कर्तृत्वम् । निर्माणेत्यस्य काव्येत्यादिः । अथ रसनिरूपणानन्तरम् । भावना पुनः पुनरनुसंधानम् । अत एव च भावनायामति
For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
७५ पप्रसङ्गात् । भावचमत्कारप्रकर्षाद्भावध्वनित्वम् । रसस्तु तंत्र व्यज्यमानोऽप्यचमत्कारित्वान्न ध्वनिव्यपदेशहेतुरित्यपि न शक्यं वदितुम् । चमत्काररहितरसव्यक्तौ मानाभावात् । रसे हि धर्मिग्राहकमानेनानन्दांशाविनाभावस्य प्रागेवावेदनात् ।
अस्तु वा प्राधान्येन ध्वन्यमानस्यापि भावस्य प्रान्ते रसाभिव्यञ्जकत्वम् । तथापि देशकालवयोवस्थादिनानापदार्थघटिते पद्यवाक्यार्थं तथाप्यतिव्याप्तिः । तस्य विभावानुभावभिन्नत्वे सति रसाभिव्यञ्जकत्वात् । नापि रसाभिव्यञ्जकचर्वणाविषयचित्तरत्तित्वं तत्वम् । भावादिचर्वणायामतिप्रसङ्गवारणाय चर्वणाविषयतेति चित्तत्तिविशेषणमिति वाच्यम् ।
'कालागुरुद्रवं सा हालाहलवद्विजानती नितराम् ।
अपि नीलोत्पलमाला बाला व्यालावलिं किलामनुते॥' इत्यत्र हालाहलसदृशत्वप्रकारकज्ञाने अतिव्याप्तेः । तस्य विप्रलम्भानुभावत्वेन रसाभिव्यञ्जकचर्वणाविषयत्वात्, चित्तवृत्तित्वाच्च । नाप्यखण्डम् । तत्त्वे मानाभावात् । अत्रोच्यते-विभावादिव्यज्यमानहर्षाद्यन्यतमत्वं तत्वम् । यदाहु:--'व्यभिचार्यञ्जितो भावः' इति । हर्षादीनां च सामाजिकगतानामेव स्थायिभावन्यायेनाभिव्यक्तिः, सापि रसन्यायेति केचित् ।
व्याप्तेरेव च । तद्विशेषणत्वे व्यञ्जकत्वविशेषणत्वे । अस्तु वा प्राधान्येनेति । रसं प्रति गुणीभूतत्वेऽपि वाच्यातिशायित्वात्तद्धनित्वं राजानुगम्यमानविवहनप्रवृत्तभृत्यस्येव रसापेक्षयापि हि अस्य प्राधान्यमस्ति । अत एव न भावध्वनिविलोप इति भावः । तथापि उक्तस्थलेऽव्यायापत्त्यभावेऽपि । तथापि विभावानुभावभिन्नत्वे सति [शब्दभिन्नत्वे सति] रसव्यञ्जकत्वमित्युक्तावपि । भिन्नत्वे सतीत्युपलक्षणं शब्दभित्रत्वे सतीत्यस्यापि । नापीत्यस्य वाच्यमित्यत्रान्वयः । चर्वणा आस्वादः । चर्वणायामतीति । रसाभिव्यञ्जकचित्तवृत्तित्वस्य तस्यां सत्त्वादिति भावः। कालागुरुद्रवं नितरां हालाहलवद्विजानती सा बाला नीलोत्पलमालामपि व्यालावलि किलामनुत इत्यन्वयः । तस्य ज्ञानस्य । चित्तवृत्तित्वाञ्चेति । अत्रैवानुभावभिन्नत्वे सतीति विशेषणदाने को दोष इति चिन्त्यम् । अखण्डं भावत्वमिति शेषः । तत्त्वे अखण्डत्वे । विशेष्यमात्रोक्तौ तेषां शब्दवाच्यत्वे तत्त्वापत्तिः । अत विभावादीति । तावन्मात्रोक्तौ रसेऽतिप्रसङ्ग इति समुदितमुपात्तम् । अञ्जितोऽभिव्यक्तो व्यभिचारी भाव इत्यर्थः । स्थायिशावेति । प्रति
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
७६
काव्यमाला ।
1
व्यङ्ग्यान्तरन्यायेनेत्यपरे मन्यन्ते । विभावानुभाव चात्र व्यञ्जको । न त्वेकस्मिन्व्यभिचारिणि ध्वन्यमाने व्यभिचार्यन्तरं व्यञ्जकतयावश्यमपेक्ष्यते । तस्यैव प्राधान्यापत्तेः । वस्तुतस्तु प्रकरणादिवशात्प्राधान्यमनुभवति कस्मिंश्चिद्भावे तदीयसामग्रीव्यङ्गयत्वेन नान्तरीयकतया तनिमानमावहतो व्यभिचार्यन्तरस्याङ्गत्वेऽपि न क्षतिः । यथा गर्वादावमर्षस्य, अमर्षादौ वा गर्वस्य । न चैवं सति गुणीभूतव्यङ्गयत्वापत्तिः । ष्टथग्विभावानुभावाभिव्यक्तस्य, अत एव नान्तरीयकस्य भावस्य [भावान्तरगुणीभूतस्यैव ] • गुणीभूतव्यङ्ग्यव्यपदेशहेतुत्वात् । विभावस्त्वत्र व्यभिचारिणो निमित्तकारणसामान्यम् । न तु रसस्येव सर्वथैवालम्बनोद्दीपने अपेक्षिते । यदि तु क्वचित्संभवतस्तदा न वार्यैते । हर्षादयस्तु —- हर्षस्मृतिव्रीडामोहधृतिशङ्काग्लानिदैन्यचिन्तामदश्रमगर्वनिद्रामतिव्याधित्रास सप्तविबोधामर्षावहित्थोग्रतोन्मादमरणवितर्कविषादौत्सुक्यावेगजडतालस्यासूयापस्मारचपलताः । प्रतिपक्षकृत धिक्कारादिजन्मा निर्वेदश्चेति त्रयस्त्रिंशव्यभिचारिणः । गुरुदेवनृपपुत्रादिविषया रतिश्चेति चतुस्त्रिंशत् । एतेन वात्स - ल्याख्यं पुत्राद्यालम्बनं रसान्तरंमिति परास्तम् । उच्छृङ्खलताया मुनिव चनपराहतत्वात् ।
तत्र
इष्टायादि जन्मा सुखविशेषो हर्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
पादितमेतदधस्ताद्रन्थकृता । सापि तद्वतानां तेषां तथाभिव्यक्तिरपि । व्यङ्कयान्तरेति । रसापेक्षया भिन्नं यद्व्यङ्गयं वस्त्वलंकारादि तद्रीत्येत्यर्थः । तथा च रसापेक्षयापकर्षः सूचितः । अत्र भावे । तस्यैव व्यभिचार्यन्तरस्य । प्रकरणादीनां तात्पर्ये नियामकत्वेन न तदापत्तिरित्याशयेन सिद्धान्तमाह - वस्तुतस्त्विति । तदीयेति । . प्रधानभावीयेत्यर्थः । नान्तरीयकत्वे हेतुरयम् । अत एवाग्रे 'अत एव नान्तरीयकस्य * इति वक्ष्यति । तनिमानमिति । क्रशिमानमित्यर्थः । विनिगमनाविरहादाह - अम र्षादौ वेति । एवं सति व्यभिचार्यन्तरस्य प्रधानभावेऽङ्गत्वे सति । भावशरीरनिविहर्षादीनाह - हर्षादय इति । एतेन पुत्रादिविषयर तेर्मुनिना भावत्वंगणनेनेत्यर्थः । तदाह - उच्छृङ्खलति । तत्र हर्षादीनां मध्ये | देवेत्यादि उत्पत्त्यन्तौ 'विभावो यत्र
।
A
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
तदुक्तम्
यथा
www. kobatirth.org
-
रसगङ्गाधरः ।
उदाहरणम्
'अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना । अवलोक्य समागतं तदा मामथ रामा विकसन्मुखी बभूव ॥ अत्रावधिकाले प्रियागमनं विभावः । सुखविकासोऽनुभावः । संस्कारजन्यं ज्ञानं स्मृतिः ।
Acharya Shri Kailassagarsuri Gyanmandir
'देवभर्तृ गुरुस्वामिप्रसादः प्रियसंगमः । मनोरथाप्तिरप्राप्यमनोहरधनागमः । तथोत्पत्तिश्च पुत्रादेर्विभावो यत्र जायते । नेवक्त्रप्रसादश्च प्रियोक्तिः पुलकोद्गमः ॥ अश्रुस्वेदादयश्रानुभावा हर्ष तमादिशेत् ॥' इति ।
'७७
'तन्म मन्दहसितां श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः । अद्यापि मे हृदयमुन्मदयन्ति हन्त सायंतनाम्बुजसंहोदरलोचनायाः ॥' चिन्ताविशेषोऽत्र विभावः । भ्रून्नतिगात्रनिश्चलत्वादय आक्षेपगम्या अनुभावाः । यद्यप्यत्रास्या एव स्मृतेः संचारिण्या नायिका रूपस्य विभावस्य हन्तपदगम्यस्य हृदयवैकल्यरूपानुभावस्य संयोगाद्विप्रलम्भरसाभिव्यक्ते रसध्वनित्वं शक्यते वक्तुम् । तथापि स्मृतेरेवात्र पुरः स्फूर्तिकत्वाच्चमत्कारित्वाच्च तद्ध्वनित्वमुक्तम् । तदादेर्बुद्धिस्थप्रकारावच्छिन्ने शक्तिरिति नये. बुद्धेः शक्यतावच्छेदकानुगमकतया न वाच्यता संस्पर्शः । बुद्धिस्थत्वं शक्यतावच्छेदकमिति नयेऽपि स्मृतित्वेन स्मृतेर्व्यक्ति वेद्यतैव ।
For Private And Personal Use Only
जायते, नेत्रेत्याद्युक्ता अनुभावा यत्र जायन्ते तं हर्षमादिशेदित्यर्थः । तदा अवधिकाले । अथ हर्षानन्तरम् । श्रीरित्यये चेति शेषः । तद्धनित्वं भावध्वनित्वम् । पूर्वमते - स्मृति-, स्वेन स्मृतेर्वाच्यत्वात्कथं भावध्वनित्वमत आह- बुद्धेरिति । शक्यतावच्छेदकतावच्छेदकस्येत्यर्थः । द्वितीयमते बुद्धिस्थत्वस्य वाच्यत्वेऽपि न स्मृतित्वस्य तत्त्वमित्याह - स्मृ
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
काव्यमाला |
तस्याश्चात्र वाक्यवेद्यत्वेऽपि पदस्यैव कुर्वद्रूपत्वात्पदध्वनिविषयत्वम् । एतेन भावानां पदव्यङ्गत्वे न वैचित्र्यमिति परास्तम् । सायंतनाम्बुजोपमानेन नयनयोरुत्तरोत्तराधिकानिमीलनोन्मुखत्वध्वननद्वारा तस्या आनन्द
मग्नताप्रकाशः ।
'दरानमत्कंधरबन्धमीषन्निमीलितस्निग्धविलोचनाब्जम् ।
अनल्पनिःश्वासभरीलसाङ्गं स्मरामि सङ्गं चिरमङ्गनायाः ॥' इत्यत्र स्मृतिर्न भावः । स्वशब्देन निवेदनाद्व्यङ्ग्यत्वात् । नापि स्मरणालंकारः । सादृश्यामूलकत्वात् । सादृश्यमूलकस्यैव स्मरणस्यालंकार - त्वम्, अन्यस्य तु व्यञ्जितस्य भावत्वमिति सिद्धान्तात् । किं तु विभाव एव सुन्दरत्वात्कथंचिद्रसपर्यंवसायी ।
स्त्रीणां पुरुषमुखावलोकनादेः पुंसां च प्रतिज्ञाभङ्गपराभवादेरुत्पन्नो वैवर्ण्यधोमुखत्वादिकारणीभूतश्चित्तवृत्तिविशेषो व्रीडा ।
यथा
'कुचकलशयुगान्तर्यामकीनं नखाङ्कं सपुलकतनु मन्दं मन्दमालोकमाना । विनिहितवदनं मां वीक्ष्य बाला गवाक्षे
चकित तनताङ्गी सद्म सद्यो विवेश ॥ ' अत्र प्रियस्य दर्शनं तेन नायिकाकर्तृकतत्कुचान्तर्वर्तिप्रियनखक्षतावलोकनजन्यहर्षावेदकतत्पुलकादेर्दर्शनं च विभावः । सद्यः सदनप्रवेशो ऽनुभावः ।
तित्वेन स्मृतेरिति । व्यक्तिर्व्यञ्जना | 'व्यङ्गयस्य कथमपि वाच्यवृत्त्यैनालिङ्गितस्यैव चमत्कारित्वमित्यालंकारिकसमय:' इति पूर्वतनग्रन्येन विरोधाञ्चिन्त्यमेतत् । व्यङ्गयता-. वच्छेदकतया भासमानजात्यादिरूपेण यत्र वच्यिता तत्रैवाचमत्कारिता । पूर्वोदाहरणे हि मनोरथत्वेच्छात्वयोर्घटत्व कलशत्ववदेकतया तेन रूपेणैव वाच्यतास्तीति न दोष इत्यपि कश्चित् । तस्या नायिकायाः । विभाव एव नायिकारूप एव । कथंचित्सामम्यन्तराभावकृतः क्लेशः । सपुलकतन्विति क्रियाविशेषणम् । गवाक्षे विनिहितवदनमित्यन्वयः । चकितेत्यत्र कर्मधारयद्वयम् । तेनेति । प्रियेणेत्यर्थः । तत्कर्तृकमिति यावत् । पुलकादेर्दर्शनमित्यत्रान्वयः । तत्कुचेति । नायिकाकुचेत्यर्थः । एवमग्रेऽपि । सद्मश
For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
७९
यथा वा-- 'निरुद्वय यान्ती तरसा कपोती. कूजत्कपोतस्य पुरो ददाने ।
मयि स्मिता वदनारविन्दं सा मन्दमन्दं नमयांबभूव ॥' पूर्वत्र त्रास इवात्रापि हर्षों लेशतया सन्नपि वीडाया अनुगुण एव । प्रियकर्तृकं कपोतस्याग्रे कपोत्याः समर्पणं विभावः । वदननमनमनुभावः ।
भयवियोगादिप्रयोज्या वस्तुतत्त्वानवधारिणी चित्तवृत्तिर्मोहः । 'अवस्थान्तरशबलिता सा तथा' इति तु नव्याः । उदाहरणम्'विरहेण विकलहृदया विलपन्ती दयित दयितेति ।
आगतमपि तं सविधे परिचयहीनेव वीक्षते बाला ॥' अत्र कान्तवियोगो विभावः । इन्द्रियवैकल्यं लज्जाद्यभावश्चानुभावः । यथा वा'शुण्डादण्डं कुण्डलीकृत्य कूले कल्लोलिन्याः किंचिदाकुञ्चिताक्षः । नैवाकर्षत्यम्बु नैवाम्बुजालिं कान्तापेतः कृत्यशून्यो गजेन्द्रः ॥ लोभशोकभयादिजनितोपप्लव निवारणकारणीभूतश्चित्तवृत्तिविशेषो धृतिः। उदाहरणम्'संतापयामि हृदयं धावं धावं धरातले किमहम् ।
अस्ति मम शिरास सततं नन्दकुमारः प्रभुः परमः ॥' अत्र विवेकश्रुतसंपत्त्यादिर्विभावः । चापलाद्युपशमोऽनुभावः । ननु चोंत्तरार्धे चिन्ता नास्तीति वस्तुनोऽभिव्यक्तेः कथमस्य धृतिभावध्वनित्वमिति चेत्, तस्य धृत्युपंयोगितयैवाभिव्यक्तेः ।
ब्दार्थमाह-सदनेति । तरसा शीघ्रम् । स्मितेनामिव नमयांबभूव नमांचकार । अम्बुजालि कमलपतिम् । जनितश्चासावुपप्लवश्च । उपद्रवश्चेत्यर्थः । धावं धावं धावित्वा धावित्वा । कथमिति । वस्तुध्वनित्वस्यैवौचित्यादिति भावः । तस्य चिन्ता.
For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
किमनिष्टं मम भविष्यतीत्याकारश्चित्तवृत्तिविशेषः शङ्का । उदाहरणम्'विधिवञ्चितया मया न यातं सखि संकेतनिकेतनं प्रियस्य ।
अधुना बत किं विधातुकामो मयि कामो नृपतिः पुनर्न जाने ।' अत्र राजापराधो विभावः । मुखवैवादय आक्षेप्या अनुभावाः । इयं तु भयाद्युत्पादनेन कम्पादिकारिणी, न तु चिन्ता । ' आधिव्याधिजन्यक्लहानिप्रभवो वैवर्ण्यशिथिलाङ्गत्वहरभ्रमणादिहेतुर्दुःखविशेषो ग्लानिः।
यथा
. 'शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव ।
प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणैरेव ।।' अत्र प्रियाविरहो विभावः । मधुरवीक्षणरेवेत्येवकारेण बोध्यमाना प्रत्युद्गमचरणनिपतनाश्लेषादीनां नित्तिरनुभावः । न चात्र श्रमः शङ्कचः । कारणाभावात् । केचित्तु व्याध्यादिप्रभवबलनाशं ग्लानिमाहुः । तेषां मते चित्तवृत्त्यात्मकेषु भावेषु नाशरूपाया ग्लानेः कथं समावेश इति ध्येयम् । यद्याप 'बलस्यापचयो ग्लानिराधिव्याधिसमुद्भवः ।' इति लक्षणवाक्यादपचयशब्देन नाश एव प्रतीयते, तथापि प्रागुक्तानुपपत्त्या बलनाशजन्यं दुःखमेव बलापचयशब्देन विवक्षितम् ।
दुःखदारिद्यापराधादिजनितः सापकर्पभाषणादिहेतुश्चित्तवृत्तिविशेषो दैन्यम् । उदाहरणम्'हतकेन मया वनान्तरे वनजाक्षी सहसा विवासिता ।
अधुना मम कुत्र सा सती पतितस्येव परा सरस्वती ।' भावरूपवस्तुनः । उपयोगिता पोषकता । विधिर्दैवम् । इयं तु शङ्का । तुरेवार्थे । सुषमा शोभाविशेषः । श्रमस्तदाख्यो भावः । कारणेति । तच्च स्फुटीभविष्यति। लक्षणेति। मुन्युक्तेत्यादिः । अनुपपत्तिरसमावेशरूपा । विवक्षितमिति । एवं तु केचिदन्योऽपि सुयोज इति भावः । हतकेन हतसदृशेन । भाग्यरहितेनेति यावत् । वनजाक्षी जलजाक्षी । सहसा कारणं विनैव । परा उत्कृष्टा सरस्वती । श्रुतिरित्यर्थः । विनिगम
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः । सीतां परित्यक्तवतो भगवतः श्रीरामभद्रस्येयमुक्तिः । अत्र सीतापरित्यागरूपोऽपराधस्तजन्यं दुःखं वा विभावः । पतितसाम्यरूपस्वापकर्षभाषणमनुभावः । यदाहुः
'चिन्तौत्सुक्यान्मनस्तापाद्दौर्गत्याच्च विभवतः। .. अनुभावात्तु शिरसोऽप्यारत्तेात्रगौरवात् ॥ देहोपस्करणत्यागादैन्यं भावं विभावयेत् ॥' इति ।
'दौर्गत्यादेरनौजस्यं दैन्यं मलिनतादिकत् ।' इति च । अत्र हतकेन मया विवासिता न तु विधिनेत्येतस्यार्थस्य पतितोपमयैव परिपोषः, न तु शूद्राद्युपमया । यतः शूद्रस्य जात्यैव श्रुतिदौलभ्यं विधिना कृतम् । पतितस्य तु ब्राह्मणादेविधिना श्रुतिसुलभत्वे स्वभावेन कृतेऽपि तेनैव तथाविधं पापमाचरता स्वतः श्रुतिर्दूरीकतेति तस्य पतितेन साम्यम् । तस्याश्च श्रुत्येत्युपमालंकारो दैन्यमेवालंकुरुते । तथा मयेति सेति चोपादानलक्षणामूलध्वनिभ्यां कृतघ्नत्वकृतज्ञात्वनिर्दयत्वदयावतीत्वाद्यनेकधर्मप्रकाशनद्वारा तदेव परिपोप्यते । ऐति स्मृत्या च लेशतः प्रतीयमानया।
काभावादाह-तजन्यमिति । चिन्तौत्सुक्यादिरूपविभावत्रयतः, शिरसोऽप्या(भ्या). वृत्त्यादिरूपानुभावत्रयतो दैन्यं भावं जानीयादित्यर्थः । वचनान्तरमाह-दौर्गत्यादेरिति । अनौजस्यमोजोगुणाभावः । सर्व वाक्यं सावधारणमिति न्यायलभ्यमर्थमाहन तु विधिनेति । जात्यैव स्वभावेनैव । तेनैव पतितेनैव। तथाविधं पातित्यजनकम् । तस्य रामस्य । तस्याः सीतायाः । साम्यमित्यस्यानुषङ्गः । मेवालमिति । अलंकुरुत एवेत्यर्थः । न तु स्वयं प्रधानं येन गुणीभूतव्यङ्गयत्वापत्तिरिति भावः । उपादानलक्षणामूलध्वनिभ्यामिति । स्वार्थमुपादायेतरार्थलक्षणमुपादानलक्षणा. । लक्ष्यतावच्छेदकं चा. तिक्लेशे तदत्यक्तत्वं मत्पदस्य । वनवाससखीत्वमित्यादि च तत्पदस्य । व्यङ्गयार्थमाहकृतघ्नत्वेत्यादि । यथाक्रममन्वयः । तदेवेति । दैन्यं परिपोष्यत एवेत्यर्थः । न तु प्राधान्यं येन दैन्यध्वनित्वोच्छेद इति भावः । सेतीति । यतस्तेन तद्धर्मप्रकाशोऽतो लेशतोऽङ्गतः प्रतीयमानया सेति स्मृत्या च दैन्यं परिपोष्यत एवेत्यस्यानुषङ्गः । न तु प्राधान्यं येन स्मृतिध्वनित्वं स्यात्, न दैन्यध्वनित्वमिति गावः । यत्र चिन्तायाम् ।
११
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. काव्यमाला ।
इष्टापाप्त्यनिष्टप्राप्त्यादिजनिता ध्यानापरपर्याया वैवर्ण्यभूले. खनाधोमुखत्वादिहेतुश्चित्तवृत्तिविशेषश्चिन्ता। यदाहुः
'विभावा यत्र दारिद्यमैश्वर्यभ्रशनं तथा । इष्टार्थापहृतिः शश्वच्छ्वासोच्छ्रासावधो मुखम् ॥ संतापः स्मरणं चैव काश्य देहानुपस्कृतिः । अधृतिश्चानुभावाः स्युः सा चिन्ता परिकीर्तिता ।। वितकोऽस्याः क्षणे पूर्व पाश्चात्येवोपजायते ॥ इति ।
'ध्यानं चिन्ता हितानाप्तेः संतापादिकरी मता।' इति च । उदाहरणम्“अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलचिनी ।
अकृतप्रतिमा तनुः कृता विधिना कस्य कृते मृगीदृशः ॥' अत्र तदप्राप्तिर्विभावः । अनुतापादय आक्षेप्या अनुभावाः । न चात्रौत्सुक्यध्वनिरिति वाच्यम् । कस्य कृत इत्यनिर्धारितधालम्बनायाश्चिन्ताया एव प्रतीयमानतया सतोऽप्यौत्सुक्यस्यैतद्वाक्येन प्राधान्येनावबोधनात् ।.
मद्याद्युपयोगजन्मा उल्लासाख्यः शयनहसितादिहेतुश्चित्तवृत्तिविशेषो मदः।
यदाहुः—'संमोहानन्दसंदोहो मदो मद्योपयोगजः ।' इति । तत्रोत्तम पुरुषे स्वापोऽनुभावः । मध्यमे हसितगाने । नीचे तु रोदनपरुषो
अथ विभावकथनानन्तरम् । 'अस्याः' इति पाठे चिन्ताया इत्यर्थः । एवमग्रेऽपि । तथा चेतः प्राक्तनाविर्भावः । अस्या इत्यस्यानुभावा इत्यनेनान्वयात् । देहानुपस्कृतिदेहाप्रसाधनम् । वितर्को वक्ष्यमाणस्वरूपः । अस्तपल्लवेति पश्चम्यर्थे बहुव्रीहिः । पल्लवपदेन तच्छोभा । अकृतप्रतिमेति । उपमानमित्यर्थः । कृता मृगीदृश इत्यनयोः सर्वत्र संबन्धः । तदप्राप्तिस्तादृशनायिकाप्राप्तिः । प्रतीयेत्यस्य द्राक्प्राधान्येनेत्यादिः । उपयोग: प्राशनम् । संमोहति । अनयोः समूहो यत्रेत्यर्थः । तत्र शयनादीनां मध्ये । उत्तमे पुरुषे इति । 'उत्तमसत्त्वः प्रहसति गायति तद्वच्च मध्यमप्रकृतिः । परुषवचनाभिधायी
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
क्त्यादि । अयं च मदस्त्रिविधः । तरुणमध्यमाधमभेदात् । अव्यक्तासंगतवाक्यैः सुकुमारस्खलद्गत्या च योऽभिनीयते .स आद्यः । भुजाक्षेपस्खलितपूर्णितादिभिर्मध्यमः । गतिभङ्गस्मृतिनाशहिक्काचर्यादिभिरधमः । उदाहरणम्'मधुरतरं स्मयमानः स्वस्मिन्नेवालपञ्शनैः किमपि ।
कोकनदयंस्त्रिलोकीमालम्बनशून्यमीक्षते क्षीबः ॥' अत्र मादकद्रव्यसेवनं विभावः । अव्यक्तालापाद्यनुभावः । अत्र मत्तस्वभाववर्णनस्य तन्निष्ठमदव्यञ्जनार्थत्वान्मदभाव एव प्रधानमिति न स्वभावोक्त्यलंकारस्य प्राधान्यम्, अपि तु तद्वन्युपस्कारकत्वमेव ।
इदं वा पुनरुदाहरणम्' 'मधुरंसान्मधुरं हि तवाधरं तरुणि महदने विनिवेशय ।
मम गृहाण करेण कराम्बुजं पपपतामि हहा भभभूतले ॥' अत्रापि स एव विभावः । अधिकंवोच्चारणादिरनुभावः । पूर्वार्धगता ग्राम्योक्तिरुत्तरार्धे च तरुणीकरेऽम्बुजोपमेयतया निरूपणीये खकरस्य तदुपमेयतया निरूपणं च मदमेव पोषयतः । . बहुतरशारीरव्यापारजन्मा निःश्वासाङ्गसंमर्दनिद्रादिकारणीभूतः खेदविशेषः श्रमः। यदाहुः
'अध्वव्यायामसेवाद्यैर्विभावैरनुभावकैः ।
गात्रसंवाहनैरास्यसंकोचैरङ्गमोटनैः ।। शेते रोदित्यधमसत्त्वः ॥' इति प्रदीपविरुद्धमेतत् । अव्यक्तेति । अस्पष्टाक्षरासंबद्धवाक्यै रित्यर्थः । सुकुमारेति कर्मधारयद्वयम् । शनैरित्यनेनाध्यक्तत्वं किमपीत्यनेनासंगतत्वम् । त्रिलोकी कोकनदयन् । आलम्बनेति क्रियाविशेषणम् । तनिष्ठति । मत्तनिष्ठेत्यर्थः । तद्धन्युपति । मदभावध्वन्युपेत्यर्थः । ननु क्षीबपदेन विशेषणविधया वाच्यस्य मदस्य कैथं ध्वनितास्पदत्वम्, कथमपि वाच्यवृत्त्यनालिङ्गितस्यैव व्यङ्गयस्य चमकारित्वमिति स्वयमेव प्रागावेदनात् । एवं च स्वभावोक्त्यलंकार एवायमत. आहइदं वा पुनरिति । हि यतो मधुरसान्मधुरं तव स्वस्य । स एव मादकद्रव्यसेवनरूपः' प्रागुक्त एवेत्यर्थः । अधिकति । पपहभभेत्यर्थः । पणं चेत्यस्योभे इति शेषः । अवेति त्रयाणां द्वन्द्वगर्भो पहुव्रीहिः । अनुभावकैरित्यस्याओतनैरन्वयः । संवाहनं सेवनम् । मो
For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला। निःश्वासैजृम्भितैर्मन्दैः पादोत्क्षेपैः श्रमो मतः ॥ इति ।
'श्रमः खेदोऽध्वगत्यादोर्नेद्राश्वासादिकन्मतः । इति च । अयं च सत्यपि बले जायते । शारीरव्यापारादेव च जायते । न तु ग्लानिः । अतो ग्लानेः श्रमस्य भेदः । उदाहरणम्'विधाय सा महदनानुकूलं कपोलमूलं हृदये शयाना । चिराय चित्रे लिखितेव तन्वी न स्पन्दितुं मन्दमपि क्षमासीत् ॥' अत्र विपरीतसुरतरूपः शारीरव्यापारो विभावः । स्पन्दराहित्यशयनादयोऽनुभावाः । न चात्र निद्राभावध्वननेन गतार्थतेति शङ्कयम् । सुषुप्तौ हि ज्ञानराहित्येनैव यत्नराहित्यान्मन्दमपि स्पन्दितुं न क्षमासीदित्यस्यानतिप्रयोजनकत्वापत्तेः । शीडाभिहिततया तस्या व्यङ्गचत्वानुपपत्तेश्च । श्रमे त्वानुगुण्यमुचितम्। रूपधनविद्यादिप्रयुक्तात्मोत्कर्षज्ञानाधीनपरावहेलनं गर्वः। उदाहरणम्'आ मूलाद्रत्नसानोर्मलयवलयितादा च कूलात्पयोधे
यविन्तः सन्ति काव्यप्रणयनपटवस्ते. विशङ्कं वदन्तु । मृबीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजां
__ वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥ ___ अत्र स्वकीयकविताया अनन्यसाधारणताज्ञानं विभावः । पराधिक्षेपपरैतादशवाक्यप्रयोगोऽनुभावः । इमं चास्यापि लेशतः पुष्णाति । उत्साहप्रधानो गूढगर्वो हि. वीररसध्वनिः, अयं तु गर्वप्रधान इति तस्मादस्य विशेषः । तथा हि वीररसप्रसङ्गे प्रागुदाहृते 'यदि वक्ति-'इत्यादि पद्ये
टनं मोडनमिति भाषाप्रसिद्धम् । मन्दै रित्युत्तरान्वयि । अतो ग्लानेरिति । उक्तहेतुद्वयागानेः सकाशादित्यर्थः । दृष्टान्तेन सुषुप्तेरेव लाभः, न तु स्वप्नस्येत्याशयेनाहसुषप्तौ हीति । नैवेति । यक्ष प्रति तस्य कारणत्वादिति भावः । नन स्पष्टार्थमेव तदस्तु, अत आह-शीति ।प्रकारतयेति भावः । तस्या निद्रायाः । रत्नसानः सुमेरुः । मदीका द्राक्षा । निर्यनिःसरन् । झरी प्रवाहः। तस्माद्वीररसध्वनेः । मदन्य
For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
गीष्पतिना गिरांमधिदेवतयापि साकमहं वदिष्यामीति वचनेनाभिव्यक्तस्योत्साहस्य परिपोषकतया स्थितः सर्वेभ्यः पण्डितेभ्योऽहमधिक इति गर्वः । न तु प्रकृतपद्य इव नास्त्येव महीतले मदन्य इति स्फुटोदितेन सोल्लुण्ठवचनेनानुभावेन प्राधान्येन प्रतीयमानः । श्रमादिप्रयोज्यं चेतः संमीलनं निद्रा । नेत्रनिमीलनगात्रनिष्क्रियत्वादयोऽस्यानुभावाः ।
•
यदाहु:
Acharya Shri Kailassagarsuri Gyanmandir
उदाहरणम्—
'सा मदागमनबृंहिततोषा जागरेण गमिताखिलदोषा । बोधतापि बुबुधे मधुपैर्न प्रातराननज सौरभलुब्धैः ॥' रात्रिजागरणश्रमोऽत्र विभावः । मधुरैर्बोधाभावोऽनुभावः । शास्त्रादिविचारजन्यमर्थनिर्धारणं मतिः । अत्र निःशङ्कतदर्थानुष्ठानसंशयोच्छेदादयोऽनुभावाः ।
८५
उदाहरणम्
'निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम् | अथ तस्य कृते कियानयं क्रियते हन्त मया परिश्रमः ॥' 'शरीरमेतज्जलबुद्बुदोपमं -' इत्यादिशास्त्रपर्यालोचनमत्र विभावः । हन्तपदगम्या स्वनिन्दा राजसेवादिविरतिर्वितृष्णता चानुभावः । 'झगिति मतेरेव चमत्काराद्धनिव्यपदेशहेतुता न । शान्तस्य विलम्बेन प्रतीतेः । रोगविरहादिप्रभवो मनस्तापो व्याधिः । गात्रशैथिल्यश्वासादयो ऽत्रानुभावाः ।
'एकैकशो द्वन्द्वशो वा त्रयाणां वा प्रकोपतः । वातपित्तकफानां स्युर्व्याधयो ये ज्वरादयः ॥ इह तत्प्रभवो भावो व्याधिरित्यभिधीयते ॥'
For Private And Personal Use Only
-
इतीति गर्वाकारः । सोल्लुण्ठं साभिप्रायम् । वचनैन आ मूलादित्यादि म[द]न्य इत्यन्तेन । दोषा रात्रिः । ये ज्वरादय इति । लोके इति शेषः । इह शास्त्रे । तत्प्र
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८६
www. kobatirth.org
काव्यमाला ।
Acharya Shri Kailassagarsuri Gyanmandir
उदाहरणम्
'हृदये कृतशैवलानुषङ्गा मुहुरङ्गानि यतस्ततः क्षिपन्ती । तदुदन्तपरे मुखे सखीनामतिदीनामियमादधाति दृष्टिम् ॥' विरहोत्र विभावः । अङ्गक्षेपादिरनुभावः । भीरोर्घोरसत्त्वदर्शनस्फूर्जथुश्रवणादिजन्मा चित्तवृत्तिविशेषस्त्रासः । अनुभावाश्चास्य रोमाञ्चकम्पस्तम्भभ्रमादयः ।
यदाहु:
'औत्पतिकैर्मनःक्षेपस्त्रासः कम्पादिकारकः ।'
उदाहरणम्
'आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती । आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमामयासीत् ॥' अत्र' पत्या स्ववचनाकर्णनं विभावः । पलायनमनुभावः । न चात्र ल'ज्जाया व्यंङ्ग्यत्वमाशङ्कनीयम् । शैशवेनैव तस्या निरासात् । इदं वा विविक्तमुदाहरणम्
' मा कुरु कशां कराब्जे करुणावति कम्पते मम स्वान्तम् । खेलन्न जातु गोपैरम्ब विलम्बं करिष्यामि || '
एषा भगवतो लीलागोपकिशोरस्योक्तिः । निद्राविभावोत्थज्ञानं सुप्तम् ।
स्वप्न इति यावत् । अस्यानुभावः प्रलापादिः । नेत्रनिमीलनादयस्तु निद्राया एवानुभावा न त्वस्य । अनिदंजन्यत्वात् । यत्तु प्राचीनैः 'अस्या।
भवो ज्वरादिप्रभवः । तदुदन्तेति । नायकोदन्तेत्यर्थः । मुखे इत्येकवचनेनैकवार्तेव सर्वोभिरुच्यत इति ध्वनितम् । तदलाभादैन्यं दृष्टौ । भीरोर्भयशीलस्य । सत्त्वं प्राणी ॥. स्फूर्जथुर्वज्रनिर्घोषः । औत्प्रातिकै रुत्पातसूचकैर्घोर सत्त्वदर्शनादिभिः । मनःक्षेपश्चित्तवृ त्तिविशेषः । केलीरभसेन कीडाराभस्येन । नायकोक्तिरियम् । आराद्दूरम् । ततोऽचिरंस्थायित्वेन विद्युच्छाभालाभ: । पत्या तत्कर्तृकम् । ' शब्दानुशासनमाचार्येण' इति - चत्प्रयोगः । शैशवेनैवेति । बालापुदबोध्येनेत्यर्थः । तस्या लज्जायाः । एवं च मूले कुठारान्न तदाशङ्केति भावः । ननु बालापंदं न शैशवबोधकम्, किं तु विशेषबोधकमत आह- इदं वेति । कशां ताडनरज्जुम् । वस्तुतस्तत्त्वाभावादाह - लीलेति । अनि
For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
८७
नुभावा निभृतगात्रनेत्रनिमीलनं -' इत्याद्युक्तं तदन्यथासिद्धानामपि तेषामे
तद्भावव्यापकत्वादिति ध्येयम् ।
उदाहरणम् --
'अकरुण मृषाभाषासिन्धो विमुञ्च ममाञ्चलं तव परिचितः स्नेहः सम्यङ्मयेत्यनुभाषिणीम् । अविरलगलद्वाष्पां तन्वीं निरस्तविभूषणां
इह भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥'
एषा प्रवासगतस्य स्वनेऽपि प्रियामेवंभाषिणीं दृष्टवतो निद्रां प्रति कस्यचिद्वक्तिः । यद्यप्येवंभूतायाः प्रियतमावस्थाया निवेदनेन निद्रे मम भवत्या महानुपकारः कृत इति वस्तु विप्रलम्भशृङ्गारश्रात्र प्रतीतिपथमवतरति, तथापि पुर: स्फूर्तिकतया स्वप्रध्वननमत्रोदाहृतं न प्रान्ते तयो - र्ध्वननं निरोद्धुमीष्टे ।
निद्रानाशोत्तरं जायमानो बोधो विवोधः । निद्रानाशश्च तत्पूर्तिस्वमान्त वलवच्छब्दस्पर्शादिभिर्जायत इति त एवात्र विभावाः । अक्षिमर्दनगात्रमर्दनादयोऽनुभावाः । तत्र संक्षेपेणोदाहरणम्
'नितरां हितया निद्रया मे बत यामे चरमे निवेदितायाः । सुदृशो वचनं शृणोमि यावन्मयि तावत्प्रचुकोप वारिवाहः ॥' अत्र गर्जितश्रवणं विभावः । प्रियावचनश्रवणोल्लासनाशोऽनुभावस्तून्नेयः । केचिदविद्याध्वंसजन्यमप्यमुमामनन्ति । तेषां मते 'नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तवं ॥ '
इति गीतापद्यमुदाहार्यम् । न तु वारिवाहविषयाया असूयाया एवात्र दंजन्यत्वादिति । एतज्जन्यत्वाभावादित्यर्थः । स्वप्नजन्यत्वाभावादिति यावत् । अन्यथेति । निद्रयेत्यर्थः । एतदिति । स्वप्रेत्यर्थः । मृषेति । मिथ्याभाषिन् । इह प्र० वासे । प्रियतमेति । नायिकेत्यर्थः । अत्रोदाहृतमिति । अस्यापि वाच्यातिशांयित्वादेत निव्यवहारोऽपि तथा च सांकर्यमिति भावः । तत्पूतिर्निद्रापूर्तिः । वारिवाहो मेघः । अमुं विबोधम् । सिंहावलोकनन्यायेना सूयाध्वनित्वं निराचष्टे - न त्विति ।
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८८
www. kobatirth.org
काव्यमाला |
वाक्यार्थतेति शङ्कयम् । विबोधप्रतीतौ हि सत्यां तस्मिन्ननौचित्यावगमे सत्यनुचितविबोधजनकत्वेन वारिवाहेऽसूयाया विलम्बेन प्रतीतेः परमुखनिरीक्षकत्वात् । स्यादपि तस्या अपि प्राधान्यम्, यदि वारिवाहे निष्करुणत्वादिबोधकं किंचिदपि स्यात् । नापि स्वमस्य । वारिवाहनादेन तन्नाशस्यैव प्रतिपत्तेः । अस्तु वा स्वप्नभावप्रशमेनासूयया च सहास्य
संकरः
4
Acharya Shri Kailassagarsuri Gyanmandir
इदं तु नादाहार्यम् —
'गाढमालिङ्गच सकलां यामिनी सह तस्थुषीम् । निद्रां विहाय स प्रातरालिलिङ्गाथ चेतनाम् ॥'
विबोधस्य चेतना पदवाच्यत्वात् । यथा कश्चित्सत्यप्रतिज्ञो द्वाभ्यां नायिकाभ्यां द्वौकालावुपभोगार्थं दत्त्वा यथोचितें काल एकामुपभुज्य कालान्तरे प्रवृत्ते तां विहायापरां भुङ्क्ते तथैवायं रात्रौ निद्रां प्रातश्चेतनामिति समासोक्तेरेवेह प्रकाशनात् ।
"
परकृतावज्ञादिनानापराधजन्यो मौनवाक्पारुष्यादिकारणीभूतश्चित्तवृत्तिविशेषोऽमर्षः ।
प्राग्वंत्कारणानां कार्याणां च क्रमेण विभावानुभावत्वम् ।
उदाहरणम्-
'वक्षोजाग्रं पाणिनामृष्य दूरे यातस्य द्रागाननाब्जं प्रियस्य । शोणाग्राभ्यां भामिनी लोचनाभ्यां जोषं जोषं जोषमेवावतस्थे ॥' इह त्याकस्मिकस्तनाग्रस्पर्शो विभावः । नयनारुण्यनिर्निमेषनिरीक्षणे
हि यतः । तस्मिन्विबोधे । तस्या अप्यसूयाया अपि । स्वप्नस्य वाक्यार्थतेति शङ्कयमित्यस्यानुषङ्गः । जलाहरणकर्तृत्वेन बोधकवारिवाहशब्दस्य सत्त्वात्, अत आह— अस्तु वा स्वप्रभावेति । इदं वक्ष्यमाणम् । सकलां यामिनीमभिव्याप्य सह स्थितवत निद्रां गाढमालिङ्गयाथ च प्रातस्तां विहाय स चेतनामालिलिङ्गेत्यन्वयः । नन्वेवं विबोधभावध्वनित्वाभावेऽपि कस्येदमुदाहरणम्, अत आह— यथेत्यादि । प्राग्वद्विबोधवत् । कारणानां परकृतावज्ञादीनाम् । कार्याणां मौनादीनाम् । आमृष्य संस्पृश्य । जोषं जोषमिति । निर्निमेषं दृष्ट्वा दृष्ट्वेत्यर्थः । जोषमेव तूष्णीमेव । भामिनी कर्त्री । अत्रादिसंप्रायविभावानुभावयोः सत्त्वमित्याह - इह त्विति । इदं व निर्निमेषनिरीक्षणं सेवा
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पोsवहित्थम् । तदुक्तम्
www. kobatirth.org
रसगङ्गाधरः ।
८९
अनुभावौ । ननु क्रोधामर्षयोः स्थायि संचारिणोर्भावयोः किं भेदकमिति चेत्, विषयतावैलक्षण्यमेवेति गृहाण । तत्र तु गमकं झटिति परविनाशादौ प्रवृत्तिर्वचनवैमुख्यादिकं चेति कार्यवैलक्षण्यम् ।
व्रीडादिभिर्निमित्तैर्हर्षाद्यनुभावानां गोपनाय जनितो भावविशे
यथा
Acharya Shri Kailassagarsuri Gyanmandir
'अनुभावपिधानार्थेऽवहित्थं भाव उच्यते । तद्विभाव्यं भयव्रीडाधाष्टर्य कौटिल्यगौरवैः ॥'
'प्रसङ्गे गोपानां गुरुषु महिमानं यदुपतेरुपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः । विषज्वालाजालं झगिति वमतः पन्नगपतेः
फणायां साश्रयै कथयतितरां ताण्डवविधिम् ॥' अत्र व्रीडा विभावः । तादृशकालियकथाप्रसङ्गोऽनुभावः । एवं भयादिप्रयोज्यमप्युदाहार्यम् |
1
अधिक्षेपापमानादिप्रभवा किमस्य करोमीत्याद्याकारा चित्तवृतिरुग्रता |
यदाहु:
'नृपापराधोऽसद्दोषकीर्तनं चोरधारणम् । विभावाः स्युरथो बन्धो वधस्ताडनभर्त्सने ॥ एते यत्रानुभावास्तदग्र्यं निर्दयतात्मकम् ॥' इति ।
र्थकजुषा णमुला च गम्यं तदाह- निर्निमेषेति । इदमुपलक्षणम् । मौनमप्यनुभावो बोध्यः । किं भेदकमिति । उक्तकारणकार्ययोस्तु ऐक्यमेवेति भावः । तत्र तु विषयतावैलक्षण्ये तु । कार्येति । क्रोधामर्षयोर्यथाक्रममित्यादिः । हर्षाद्यनुभावानामिति । हर्षादिजन्यानुभावानामित्यर्थः । भावविशेषोऽभिप्रायविशेष: । अनुभावेत्यस्य हर्षादिजन्येत्यादिः । तदवहित्यम् । भयादिभिर्विभाव्यं जन्यमित्यर्थः । गुरुषु तत्समीपे । गोपानां प्रसङ्गे इत्याद्यन्त्रयः । पन्नगपतेः कालियस्य । साश्चर्यमाश्चर्येण सहितम् । ताण्डवविधि यदुपतेरिति भावः । तादृशेति । विषवमनकत्रित्यर्थः । असदिति ।
१२
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
९०
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
यथा
'अवाप्य भङ्गं खलु संगराङ्गणे नितान्तमङ्गाधिपतेरमङ्गलम् । परप्रभावं मम गाण्डिवं धनुर्विनिन्दतस्ते हृदयं न कम्पते ॥' एषा कर्णेन पराभूतं गाण्डिवं निन्दन्तं युधिष्ठिरं प्रति धनंजयस्योक्तिः । युधिष्ठिरकर्तृका गाण्डिवनिन्दात्र विभावः । वधेच्छानुभावः । न चामर्षोग्रतयोर्नास्ति भेद इति वाच्यम् । प्रागुदाहृतेऽमर्षध्वनावुग्रताया अप्रतीतेः । नाप्यसौ क्रोधः । तत्र स्थापित्वेनास्याः संचारिणीत्वेनैव भेदात् । विमलम्भमहापत्तिपरमानन्दादिजन्मान्यस्मिन्नन्यावभास उन्मादः । शुक्तिरजतादिज्ञानव्यावृत्तये जन्मान्तम् ।
उदाहरणम्
'अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् । इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥'
एषा प्रवासगतं स्वनायिकावृत्तान्तं पृच्छन्तं नायकं प्रति कस्याश्चित्संदेशहारिण्या उक्तिः । प्रियविरहोत्र विभावः । असंबद्धोक्तिरनुभावः । उन्मादस्य व्याधावन्तर्भावे संभवत्यपि पृथगुपादानं व्याध्यन्तरापेक्षया वैचित्र्यविशेषस्फोरणाय ।
रोगादिजन्या मूर्छारूपा मरणप्रागवस्था मरणम् ।
न चात्र प्राणवियोगात्मकं मुख्यं मरणमुचितं ग्रहीतुम् । चित्तवृत्त्या - त्मकेषु भावेषु तस्याप्रसक्तेः । भावेषु च सर्वेषु कार्यसहवर्तितया शरीरप्रासंयोगस्य हेतुत्वात् ।
अविद्यमानदोषकथनमित्यर्थः । अङ्गाधिपतेः कर्णात् । परेति । उत्कृष्टेत्यर्थः । पराभूतमिति युधिष्ठिर विशेषणम् । न चामर्षोथेति । कारणाधिक्यादिति भावः । अप्र तीतेरिति । अस्यां वधादीच्छापि न । तस्मिन्नित्यनुभावभेदादिति भावः । असावुग्रता । भेदादिति । गुरुबन्धुवधादिजन्यः स्थायी, वागपराधादिजन्यः संचारीति भेद इत्यपरे । व्यावृत्तय इति । ज्ञानस्योन्मादलव्यावृत्तय इत्यर्थः । तस्याप्रसक्तेरिति । मुख्यमरणस्यान्तर्भावासंभवादित्यर्थः । तत्र हेतुमाह - भावेषु चेति । अङ्गीकुरुते
For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
उदाहरणम्'दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकितासीत् । अधुना खलु हन्त सा कशाङ्गी गिरमङ्गीकुरुते न भाषितापि ॥' प्रियविरहोऽत्र विभावः । वचनविरामोऽनुभावः । हन्तपदस्यात्रात्यन्तमुपकारकत्वाद्वाक्यव्यङ्गयोऽप्ययं भावः पदव्यङ्गयतामावहति । एतेन भावस्य पदव्यङ्ग्यतायां नात्यन्तं वैचित्र्यमिति परास्तम् । दयितस्य गुणाननुस्मरन्तीत्यनेन व्यज्यमानं चरमावस्थायामपि तस्या दयितगुणविस्मरणं नाभूदिति वस्तु विप्रलम्भस्य शोकस्य वा चरममभिव्यक्तस्य पोषकम् । अयं च भावः स्वव्यञ्जकवाक्योत्तरवर्तिना वाक्यान्तरेण संदर्भघटकेन नायिकादेः प्रत्युजीवनवर्णने विप्रलम्भस्य, अन्यथा तु करुणस्य पोषक इति विवेकः । कवयः पुनरमुं प्राधान्येन न वर्णयन्ति । अमङ्गलप्रायत्वात् । संदेहायनन्तरं जायमान ऊहो वितर्कः। स च निश्चयानुकूलः । _ 'यदि सा मिथिलेन्द्रनन्दिनी नितरामेव न विद्यते भुवि ।
अथ मे कथमस्ति जीवितं न विनालम्बनमाश्रितस्थितिः ॥' स्वात्मनि भगवतो रामस्यैषोक्तिः । भुवि सीतास्ति न वेति संदेहोऽत्र विभावः । भ्रूक्षेपशिरोङ्गुलिनर्तनमाक्षिप्तमनुभावः । न चासौ चिन्तेति शक्यं वदितुम् । चिन्ताया नियमेन निश्चयं प्रत्यप्रयोजकत्वात् । किं भविष्यति कथं भविष्यतीत्याद्याकारायाश्चिन्ताया इदमित्थं भवितुमर्हति प्रायश इत्याकारस्य वितर्कस्य विषयवैलक्षण्योपलम्भाच्च । न विनेत्यादिनोक्तोऽर्थान्तरन्यासोऽप्यस्मिन्नेवानुकूलः ।
न । न प्रतिवदतीत्यर्थः । अत्र मरणे हन्तपदस्य दुःखातिशयबोधकत्वादिति भावः । प्रकृतेऽनुपदं वक्ष्यमाणरीत्या विप्रलम्भासंभवादाह-शोकेति । करुणस्थायीभावस्येत्यर्थः । अस्य पुरोऽनभिव्यक्तेराह-चरममिति । अत एवैतद्धनित्वम् । तदेवाह-अयं चेति । नन्वस्य प्रधानोदाहरणं कुतो न दत्तमत आह--कवय इति । पुनःशब्दो हिशब्दार्थे। आदिना विपर्ययपरिग्रहः ।आलम्बनमाधारभूतम् । ननु नियमे तदभावेऽपि लक्षणे तदनिवेशात्प्रकृते तत्संभव एवात आह-किं भविष्यतीति । ननु न विनेत्यादिनार्थान्तरन्यासस्य प्रतीतेः कथं ध्वनित्वमत आह-न विनेत्यादीति । सामान्येन
For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
इष्टासिद्धिराजगुर्वाद्यपराधादिजन्योऽनुतापो विषादः । उदाहरणम्'भास्करसूनावस्तं याते जाते च पाण्डवोत्कर्षे ।
दुर्योधनस्य जीवित कथमिव नाद्यापि निर्यासि ॥' अत्र स्वापकर्षपरोत्कर्षयोर्दर्शनं विभावः । जीवितनिर्याणाशंसा, तदाक्षिप्तं वदननमनादि चानुभावः । अस्मिन्नेव च विषादध्वनौ दुर्योधनस्येत्यर्थान्तरसंक्रमितवाच्यध्वनिरनुग्राहकः । न चात्र त्रासभावध्वनित्वं शङ्कचम् । परवीरस्य दुर्योधनस्य त्रासलेशस्याप्ययोगात् । नापि चिन्ताध्वनित्वम् । युवा मरिष्यामीति तस्य व्यवसायात् । नापि दैन्यध्वनित्वम् । सकलसैन्यक्षयेऽपि विपदस्तेनागणनात् । न वा वीररसध्वनित्वम् । मरणस्य शरणीकरणे परापकर्षजीवितस्योत्साहस्याभावात् । इदं पुनरत्र नोदाहार्यम्
'अयि पवनरयाणां निर्दयानां हयानां
श्लथय गतिमहं नो संगरं द्रष्टुमीहे । श्रुतिविवरममी मे दारयन्ति प्रकुप्य
गुजगनिभभुजानां बाहुजानां निनादाः ॥' अत्र त्रासस्यैव प्रतीयमानत्वेन विषादस्याप्रतीतेः, लेशतया प्रतीतो वा त्रास एव । आनुगुण्यौचित्येन ध्वनिव्यपदेशायोग्यत्वात् ।
अधुनैवास्य लाभो ममास्त्वितीच्छा औत्सुक्यम् । विशेषसमर्थनमत्र बोध्यम् । भास्करसूनौ कर्णे । दुर्योधनस्य जीवितेति संबुद्धिः । हे वीरेत्यर्थः । इवशब्दो वाक्यालंकारे । निर्यासि गच्छसि । विषादध्वनित्वं द्रढयतिअस्मिन्नेवेति । वाच्यध्वनिरिति । लक्ष्यतावच्छेदकं च कर्णदर्शनावधिजीवित्वम्, एकादशाक्षौहिणीपतिवन्धत्वम्, प्रतापेनागणितपाण्डवतेजस्त्वम्, पाण्डवानां वनवासादिदातृत्वं वा अतिदुःखित्वं व्ययम् । परेति । उत्कृष्टेत्यर्थः । युद्धेति । तथा च किं भविष्यतीत्याद्याकारायास्तस्या असंभव इति भावः । तेनागेति । तथा च तद्विभावस्याभाव इति भावः । परेति । बहुव्रीहिस्तृतीयातत्पुरुषो वा । परापकर्षस्यैवाभावादिति भावः । उत्साहस्येति । तत्स्थायिभावस्येति भावः । अयोति कोमलामन्त्रणे । 'अमी मे' इति पाठः । बाहुजानां क्षत्रियाणाम् । अस्य पदार्थस्य । निपतदिति ।
For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
इष्टविरहादिरत्र विभावः । त्वराचिन्तादयोऽनुभावाः ।
यदाहु:
उदाहरणम्
'संजातमिष्टविरहादुद्दीप्तं प्रियसंस्मृतेः । निद्रया तन्द्रया गात्रगौरवेण च चिन्तया || अनुभावितमाख्यातमौत्सुक्यं भावकोविदैः ||' इति ।
Acharya Shri Kailassagarsuri Gyanmandir
―――――
'निपतद्वाष्पसंरोधमुक्तचाञ्चल्यतारकम् । कदा नयननीलाब्जमा लोकेय मृगीदृशः ॥' अनर्थातिशयजनिता चित्तस्य संभ्रमाख्या वृत्तिरावेगः । उदाहरणम्-
' लीलया विहितसिन्धुबन्धनः सोऽयमेति रघुवंशनन्दनः । दर्पदुर्विलसितो दशाननः कुत्र यामि निकटे कुलक्षयः ॥' एषा स्वात्मनि मन्दोदर्या उक्तिः । रघुनन्दनागमनमत्र विभावः । कुत्र यामीत्येतद्व्यङ्ग्यस्थैर्याभावोऽनुभावः । न चात्र चिन्ता प्राधान्येन व्यज्यत इति शक्यते वक्तुम् । कुत्र यामीति स्फुटं प्रतीतेन स्थैर्याभावेनोद्वेगस्येव चिन्ताया अप्रत्यायनात् । परं त्वावेगचर्वणायां तत्परिपोषकतया गुणत्वेन चिन्तापि विषयीभवति ।
चिन्तोत्कण्ठाभयविरहेष्टानिष्टदर्शनश्रवणादिजन्यावश्यकर्तव्या
र्थप्रतिसंधानविकला चित्तवृत्तिर्जडता । इयं च मोहात्पूर्वतः परतश्च जायते ।
यदाहु:
९३
'कार्याविवेको जडता पश्यतः शृण्वतोऽपि वा । तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा ||
For Private And Personal Use Only
निपतद्वाष्पसंरोधेन मुक्तचाचल्यास्तारका यस्येत्यर्थः । आलोकेय । लिङो रूपम् । उद्वेगस्येवेति । उद्वेगावेगौ पर्यायौ । चिन्तोत्कण्ठेति । 'चिन्तोत्कर्ष' इति पाठान्तरम् । इष्टानिष्टेति । प्रियानिष्टेत्यर्थः । तद्विभेति । जडताविभावा इत्यर्थः । रुजा
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
काव्यमाला।
अनुभावास्त्वमी तूष्णींभावविस्मरणादयः ।
सा पूर्व परतो वा स्यान्मोहादिति विदां मतम् ॥' उदाहरणम्'यदवधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतोऽभूत् । तदवधि शिथिलीकतो मदीयैरथ करणैः प्रणयो निजक्रियासु ॥'
प्रियविरहोऽत्र विभावः । करणैश्चक्षुःश्रवणादिभिः क्रियासु तत्तत्प्र. मितिषु प्रणयस्य शिथिलीकरणमनुभावः । मोहे चक्षुरादिभिश्चाक्षुषादेरजननम्, इह तु प्रकारविशेषवैशिष्टयेन बाहुल्येनाजननमिति तस्मादस्य विशेषः । अत एवोदाहरणे शिथिलीकत इत्युक्तम्, न तु त्यक्त इति ।
अतितृप्तिगर्भव्याधिश्रमादिजन्या चेतसः क्रियानुन्मुखतालस्यम्।
अत्र च नासामर्थ्यम् । नापि कार्याकार्यविवेकशून्यत्वम् । तेन कार्याकरणरूपस्यानुभावस्य तुल्यत्वेऽपि ग्लानेजंडतायाश्चास्य भेदः ।
उदाहरणम्'निखिलां रजनी प्रियेण दूरादुपयातेन विबोधिता कथाभिः । अधिकं नहि पारयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा ॥' एषा हि प्रियागमनद्वितीयदिवसे मुहुर्निशावृत्तान्तं प्रच्छन्ती सखी प्रति रजनिजागरणजनितालस्यायाः कस्याश्चिदुक्तिः । अत्र रजनिजागरणं विभावः । अधिकसंभाषणाभावोऽनुभावः । जडतायां मोहात्पूर्ववर्तित्वमुत्तरवर्तित्वं वा नियतम्, न त्वत्रेत्यपरो विशेषः । गोपनीयविषयत्वाद्यदि कथाभिरित्यविवक्षितवाच्यं तदा श्रमोऽस्तु परिपोषकः । श्रमजन्ये रोगश्चेत्यर्थः । वाशब्दः समुच्चये । विदामर्थांद्रसज्ञानां मतमिष्टम् । दूरतो दूरे । करणैरिन्द्रियैः । प्रणयः स्नेहः । अन्यासामसंभवादाह-तत्तत्प्रेति । चाक्षुषादिरूपास्वित्यर्थः । चाक्षषादेरिति । सामान्येनेति भावः । प्रकारेति । तत्तत्प्रकारेणेत्यर्थः । अत एव बाहुल्येन । अत एव सर्वथात्यागादेव । अस्यालस्यस्य । तुल्यत्वेऽपि ग्लान्या. दाविति शेषः । यथासंख्यमन्वयः । पारयामि शनोमि । आयसी लोहमयी । रसज्ञा जिह्वा । प्रियेति । प्रियस्यागमनं यस्मिन्दिने ततो द्वितीयेत्यर्थः। जडतातो भेदान्तरमाह---जडेति । वाशब्दश्चार्थे । अत्रालस्ये । कथाभिरित्यविवक्षितेति । कथाभिरिति सुरतपरं तत्त्वमेव लक्ष्यतावच्छेदकम् । अतिश्रमयुक्तत्वं व्यङ्ग्यम् । श्रम इत्यस्य
For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। ह्यालस्ये श्रमस्य पोषकताया अवार्यत्वात् । अतितृप्त्यादिजनिते त्वालस्ये श्रमाद्विविक्तविषयत्वं बोध्यम् ।
परोत्कर्षदर्शनादिजन्यः परनिन्दादिकारणीभूतश्चित्तवृत्तिविशेषोऽसूया। इमामेवासहनादिशब्दैर्व्यवहरन्ति । यथा
'कुत्र शैवं धनुरिदं क्व चायं प्रातः शिशुः ।
भङ्गस्तु सर्वसंहा कालेनैव विनिर्मितः ॥ एषा भग्नहरकार्मुकस्य भगवतो रामस्य पराक्रममसहमानानां तत्रत्यानां राज्ञामुक्तिः । अत्र च श्रीमद्दाशरथिबलस्य सर्वोत्कृष्टताया दर्शनं विभावः । प्राकृतशिशुपदगम्या निन्दानुभावः ।
'तृष्णालोलविलोचने कलयति प्राची चकोरव्रजे ____ मौनं मुञ्चति किं च कैरवकुले कामे धनुर्धन्वति । माने मानवतीजनस्य सपदि प्रस्थातुकामेऽधुना
धातः किं नु विधौ विधातुमुचितो धाराधराडम्बरः ॥' अत्रापि यद्यपि तदीयोच्छृङ्खलतादिदर्शनजन्या अनुचितकारित्वरूपनिन्दाप्रकाशानुभाविता कविगता विधात्रालम्बनासूयां व्यज्यत इति शक्यते वक्तुम्, तथापि कार्यकारणयोस्तुल्यत्वादभिव्यक्तेनामेषेण शबलि
व्यङ्गयेत्यादिः । परिपोषक इत्यनेन श्रमध्वनित्वं निरस्तम् । ननु तस्य तत्त्वे प्रकृते गौर. वमत आह-श्रमेति । नन्वेवं सर्वत्र तत्सत्त्वेन विभावभेदोक्तिरयुक्तात आह-अ. तीति । प्राकृत इति । क्षत्रियोद्भव इत्यर्थः । तत्रत्यानां सीतापरिणयनार्थ जनकगृहे समागतानां सदस्युपविष्टानाम् । शिशुपदेति । एतदुभयपदेत्यर्थः । तृष्णालोलेत्युदाहरणदाने बीजं कथयितुमाह-तृष्णेति । कलयतीत्यादि सत्सप्तम्यन्तम् । कलयति चन्द्रिकापानार्थ स्वीकुर्वति । चकोरबजे तत्समूहे । कुलं समूहः । धुन्वति टंकारयति । विधौ चन्द्रे । धाराधरेति । मेघाच्छादनमित्यर्थः । तदीयेति । धात्रीयेत्यर्थः । प्रकाशेत्यनेन तस्या वाच्यत्वं सूचितम् । वक्तुमिति । तथा चेदमप्यस्या उदाहरणमिति भावः । कार्यकारणयोस्तुल्यत्वादिति । असूयाकार्यकारणयोरिवामर्षकार्यकारणयोरपि विद्यमानत्वादित्यर्थः । असौ असूया प्रतीयत इत्यत्रान्वयः । एवव्यवच्छेद्यमाह-नेति।
For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
तैवासौ न विविक्ततया प्रतीयते । नहि विधातुरपराध इव भगवतो रामस्यापराधोऽस्ति येन करिव वीराणामप्यमर्षोऽभिव्यज्येत । स्वभावो हि महोन्नतक्रियानिष्पादनं वीराणाम् । अत्राप्रस्तुतचन्द्रवृत्तान्तेन प्रस्तुतराजकुमारादिवृत्तान्तस्य ध्वननान्नास्त्यसूयाध्वनित्वमिति तु न वाच्यम् । एकध्वनेर्ध्वन्यन्तराविरोधित्वात् । अन्यथा महावाक्यध्वनेरवान्तरवाक्यध्वनिभिः, तेषां च पदध्वनिभिः सह सामानाधिकरण्यं कुत्रापि न स्यात् । वियोगशोकभयजुगुप्सादीनामतिशयात् ।
ग्रहावेशादेश्वोत्पन्नो व्याधिविशेषोऽपस्मारः। व्याधित्वेनास्य कथनेऽपि विशेषाकारेण पुनः कथनं बीभत्सभयानकयोरस्यैव व्याधेरङ्गत्वं नान्यस्येति स्फोरणाय । विप्रलम्भे तु व्याध्यन्तरस्यास्यापि च । उदाहरणम्
'हरिमागतमाकर्ण्य मथुरामन्तकान्तकम् ।
कम्पमानः श्वसन्कंसो निपपात महीतले ॥' अत्र भयं विभावः । कम्पनिःश्वासपतनादयोऽनुभावाः । अमर्षादिजन्यवाक्पारुष्यादिकारणीभूता चित्तवृत्तिश्चपलता । यदाहुः
'अमर्षप्रातिकूल्येारागद्वेषाश्च मत्सरः । इति यत्र विभावाः स्युरनुभावस्तु भर्त्सनम् ॥ वाक्पारुष्यं प्रहारश्च ताडनं वधबन्धने । तच्चापलमनालोच्य कार्यकारित्वमिप्यते ॥ इति ।
भेदेन नेत्यर्थः । अत इदं नोदाहृतमिति भावः । ननु पूर्वोदाहरणेऽपि शबलितत्वमत आह-नहीति । ननु रामस्य कुतो नापराधोऽत आह-स्वभावो हीति । अप्रस्तुतप्रशंसैवात्रेति मतं निराचष्टे-अत्राप्रेति । तेषां च अवान्तरवाक्यध्वनीनां च । अस्य अपस्मारस्य । विशेषेति । अपस्मारत्वेनेत्यर्थः। बीभत्सेत्याधुक्तिस्वारस्यमाहविप्रेति । अस्यापि च अपस्मारस्यापि । अङ्गत्वमित्यस्यानुषङ्गः । कम्पमानः श्वसनिति । श्वासजन्यकम्पवानित्यर्थः । च मत्सर इति । मत्सरश्चेत्यर्थः । अहितेति ।
For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
उदाहरणम्
'अहितव्रत पापात्मन्मैवं मे दर्शयाननम् ।
आत्मानं हन्तुमिच्छामि येन त्वमसि भावितः ॥' एषा भगवदनुरक्तिविघटनोपायमपश्यतः प्रह्लादं प्रति हिरण्यकशिपोरुक्तिः । भगवडेपोत्थापितः पुत्रद्वेषोऽत्र विभावः । आत्मवधेच्छा परुषवचनं चानुभावः । न चामर्ष एवात्र व्यज्यत इति वाच्यम् । सदैव भगवदनुरागिणि प्रह्लादे हिरण्यकशिपोरमर्पस्य चिरकालसंभृतत्वेनात्मवधेच्छाया इदंप्रथमतानुपपत्तेः । इदंप्रथमकार्यस्य चेदंप्रथमकारणप्रयोज्यतया प्राचीनचित्तवृत्तिविलक्षणाया एव चपलताख्यचित्तवृत्तेः सिद्धेः । न चामर्षप्रकर्ष एवात्मवधेच्छादिकारणमभिव्यज्यतामिति वाच्यम् । प्रकर्षस्यापि स्वाभाविकविलक्षणलक्षणताया आवश्यकतया तस्यैव चपलतापदार्थत्वात् ।
नीचपुरुषेष्वाक्रोशनाधिक्षेपव्याधिताडनदारिद्येष्टविरहपरसंपदर्शनादिभिः, उत्तमेपु त्ववज्ञादिभिर्जनिता विषयद्वेषाख्या रोदनदीर्घश्वासदीनमुखतादिकारिणी चित्तवृत्तिनिर्वेदः। उदाहरणम्'यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति ।
अमुना जडजीवितेन मे जगता वा विफलेन किं फलम् ॥' नित्यानित्यवस्तुविवेकजन्यत्वाभावान्नासौ रसव्यपदेशहेतुः । देवादिविषया रतिर्यथा
'भवहारि क्रुध्यजयविजयदण्डाहतिदलकिरीटास्ते कीटा इव विधिमहेन्द्रप्रभृतयः ।
न हितं व्रतं भगवदनुरक्तिरूपं यस्य तत्संबुद्धिः । अत एव पापात्मन्प्रह्लाद । भावित इति । उत्पादित इत्यर्थः । अवज्ञादिभिरिति । आदिना विरहादयः । यदीति । भगवतो रामस्येयमुक्तिः । सा सीता । जडेति । अचेतनजीवितेनेत्यर्थः । विफलेन विरुद्ध फलेन । नन्वत्र निर्वेदस्थायिकशान्तरसध्वनित्वमेवात आह-नित्येति । असौ निर्वेदः । भवदिति । विष्णुं प्रति भक्तोक्तिः । हे क्षपितमुर मुरजित् । जयविजयौ
१३
For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
वितिष्ठन्ते युष्मन्नयनपरिपातोत्कलिकया
वराकाः के तत्र क्षपितमुर नाकाधिपतयः ॥' अत्रापमानसहनभगवहारनिषेवणभगवत्कटाक्षपाताभिलाषादिभिर्बह्मादिगता भगवदालम्बना रतिर्नाभिव्यज्यते । अपि तु भगवदैश्वर्यमवाङ्मनसगोचर इति चेत्तथापि तादृशभगवदैश्वर्यवर्णनानुभावितया कविगतभगवदालम्बनरत्या ध्वनित्वमक्षतमेव । इदं वोदाहरणम्'न धनं न च राज्यसंपदं नहि विद्यामिदमेकमर्थये ।
मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥' अत्र धनाद्यपेक्षाशून्यस्य भगवद्गन्तपाताभिलापो हि भगवत्यनुरक्ति व्यनक्ति । एवं संक्षेपेण निरूपिता भावाः ॥
अथ कथमस्य संख्यानियमः---मात्सर्योद्वेगदम्भेया॑विवेकनिर्णयक्लैब्यक्षमाकुतुकोत्कण्ठाविनयसंशयधाष्टादीनामपि तत्र तत्र लक्ष्येषु दर्शनात् । इति चेत् । न । उक्तेष्वेवैषामन्तर्भावेण संख्यान्तरानुपपत्तेः । अ. सूयातो मात्सर्यस्य, त्रासादुद्वेगस्य, अवहित्थाख्याद्भावाद्दम्भस्य, अमर्षादीर्ष्यायाः, मतेविवेकनिर्णययोः, दैन्यात्क्लैब्यस्य, धृतेः क्षमायाः, औत्सुक्यात्कुतुकोत्कण्ठयोः, लज्जाया विनयस्य, तर्कात्संशयस्य, चापलाद्धाष्टर्यस्य च वस्तुतः सूक्ष्मे भेदेऽपि नान्तरीयकतया तदनतिरिक्तस्यैवाध्यवसायात् । मुनिवचनानुपालनस्य संभव उच्छृङ्खलताया अनौचित्यात् । एषु च संचारिभावेषु मध्ये केचन केषांचन विभावा अनुभावाश्च भवन्ति । तथा हि-ईर्ष्याया निवेदं प्रति विभावत्वम्, असूयां प्रति चानुभावत्वम्। चिन्ताया निद्रां प्रति विभावत्वम्, औत्सुक्यं प्रति चानुभावतेत्यादि स्वयमूह्यम् ।
द्वारपालौ । ते अनिर्वचनीयप्रभावास्ते भववारि भवनेत्रपातोत्कण्ठया कोटा इव विति. टन्त इत्यन्वयः । वराका दीनाः । नाभिव्यज्यत इति। धनाद्यभिलाषेणापि तदुपपत्ते. रिति भावः । इतीत्यस्याभिव्यज्यत इत्यस्यानुषङ्गः । चेत् यद्यपि । नन्वस्या अप्राधान्येन कथं तत्त्वमत आह-इदं वेति । अस्य भावस्य । अन्तर्भावे हेतुमाह-असूयात इति । ननु सूक्ष्मभेदप्रयुक्तभेदः कुतो नात आह-मुनीति । संचारीति षष्ट्यर्थे
For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
Acharya Shri Kailassagarsuri Gyanmandir
९९
अथ रसाभासः तत्र
अनुचितविभावालम्बनत्वं रसाभासत्वम् । विभावादावनौचित्यं पुनर्लोकानां व्यवहारतो विज्ञेयम् । यत्र तेषामयुक्तमिति धीरिति केचिदाहुः । तदपरे न क्षमन्ते । मुनिपत्न्यादिविषयक - रत्यादेः संग्रहेऽपि बहुनायकविषयाया अनुभयनिष्ठायाश्च रतेरसंग्रहात् । तत्र विभावगतस्यानौचित्यस्याभावात् । तस्मादनौचित्येन रत्यादिर्विशेषणीयः । इत्थं चानुचितविभावालम्बनाया बहुनायक विषयाया अनुमयनिष्ठायाच संग्रह इति । अनौचित्यं च प्राग्वदेव । तत्र रसाद्याभासत्वं रसत्वादिना न समानाधिकरणम् । निर्मलस्यैव रसादित्वात् । 'हेत्वाभासत्वमिव हेतुत्वेन' इत्येके । 'नह्यनुचितत्वेनात्महानिः, अपि तु सदोषत्वादाभासव्यवहारः । अश्वाभासादिव्यवहारवत्' इत्यपरे ।
उदाहरणम्
'शतेनोपायानां कथमपि गतः सौधशिखरं सुधानस्वच्छे रहसि शयितां पुष्पशयने ।
विबोध्य क्षामाङ्गी चकितनयनां स्मेरवदनां सनिःश्वासं श्लिष्यत्यहह सुकृती राजरमणीम् ॥' अत्रालम्बनमनुचितप्रणया राजरमणी । रहोरजन्याद्युद्दीपनम् | साहसेन राजान्तःपुरे गमनम् प्राणेषूपेक्षा निःश्वासाश्लेषादयश्रानुभावाः । शङ्कादयः संचारिणः । निषिद्धालम्बनकत्वाच्चास्या रतेराभासत्वं रसस्य । न
For Private And Personal Use Only
1
सप्तमी । तत्र निरूपणीये रसाभासे । यत्र विभावादौ । तेषां लोकानाम् । आदिना गुरुपत्न्यादिसंग्रहः । तत्र तयोः । तस्मादिति । तथा चानुचितविभावालम्बनकर तित्वं तत्त्वं ज्ञेयम् | आदिना हासादिपरिग्रहः । इत्थं च तथाविशेषणे च । इतिरपरमतसमाप्तौ । चस्त्वर्थे । तत्र रसाभासेषु । आदिना भावपरिग्रहः । निर्मलस्य निर्दुष्टस्य । हेतुत्वेनेत्यस्य न समानाधिकरणमित्यस्यानुपङ्गः । नन्वत्र मते दुष्टो हेतुरितिवद्दुष्टो रस इत्यादिव्यवहारानुपपत्तिरतो मतान्तरमाह-नहीति । आत्महानिः स्वरूपहानिः । अश्वाभासेति । अश्वे इति भावः । सौधेति । सुधानिर्मितराजगृहोपरितनप्रदेश मित्यर्थः । फेनस्यात्यन्तस्वच्छत्वादुक्तिः । पुष्पशयने पुष्पशय्यायाम् । अहहेति शङ्कायाम् । अनुचितेति । अनुचितः प्रणयो यस्यामित्यर्थः । यस्या इति वा । इदमाद्योदाहरणमित्याह - निषिद्धेति । अस्या नायकनिष्ठायाः । परेत्यस्य विबोध्येति । बोधितेत्यादिः ।
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
काव्यमाला |
चात्र चकितनयनामित्यनेन परपुरुषस्पर्शत्रासाभिव्यक्त्या रतेरनुभयनिष्ठतेव्याभासताहेतुर्वाच्यः । अस्याश्च चिराय तस्मिन्नासक्ताया अन्तःपुरे परपुरुपागमनस्यात्यन्तमसंभावनया क एष मां बोधयतीत्यादावुचित एव त्रासः । अनन्तरं च परिचयाभिव्यक्त्या सोऽयं मत्प्रियो मदर्थं प्राणानपि तृणीकृत्यागत इति ज्ञानादुत्पन्नं हर्षमभिव्यञ्जयत्स्मेरवदनामिति विशेषणं रातें तदीयामपि व्यनक्ति । परं तु प्राधान्यं नायकनिष्ठाया एव रतेः । सकलवाक्यार्थत्वात् । यथा वा-
'भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेपु । तरुणेषु विलोचनाब्जमालामथ वाला पथि पातयांबभूव ॥' अत्र कुतश्चिदागच्छन्त्याः पथि तदीयरूपयौवनगृहीतमानसैर्युवभिरनुगम्यमानायाः कस्याश्चिद्भवनप्रवेशसमये निजसेवा सार्थक्यविज्ञानाय गमनाज्ञापनरूपलाभलालसेषु तेषु परमपरिश्रमस्मरणसंजातकरुणाया गमनाज्ञादाननिवेदकस्य विलोचनाम्बुजमालापरिक्षेपस्यानुभावस्य वर्णनादभिव्यज्य - माना रतिर्बहुवचनेन बहुविषया गम्यत इति । भवत्ययमपि रसाभासः ।
यथा वा
'पञ्जरे गृहीता नवपरिणीता वरेण वधूः । तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ||' अत्र रतेर्नववध्वा मनागप्यस्पर्शादनुभवनिष्ठत्वेनाभासत्वम् । तथा चोक्तम्
'उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च । बहुनायक विषयायां रतौ तथानुभयनिष्ठायाम् ||' इति ।
स्पर्शेति । स्पर्शकृतत्रासेत्यर्थः । अनुभयेति । नायके सत्त्वेऽपि नायिकायामभावादिति भावः । हेतुरिति । तथा च तृतीयोदाहरणमेतन्नायस्येति भावः । समाधत्ते - अस्याश्वेति । चो यत इत्यर्थे । व्यनक्तीत्यत्रास्यान्वयः । रतिमिति । नायिकासंबन्धिनीं रतिमपीत्यर्थः । ह्र्षसमुच्चायकोऽपिः । नन्वेवं विनिगमनाविरहोत आह- परं त्विति । नायिका निष्टा तु स्मेरेति पदमात्रव्यङ्गत्वान्न वाक्यार्थः । तथा चाद्योदाहरणतास्य सुस्थति भावः । द्वितीयोदाहरणमाह-यथा वेति । भवनं स्वगृहम् | विज्ञानाय तदङ्गीकाराय | तेषु तरुणेषु । करुणायामन्ययः । परमेत्यस्य तरुणसंवन्धीत्यादिः । बह्निति । तरुणेष्विति बह्नित्यर्थः । तृतीयोदाहरणमाह-यथा वेति । भुजेति रूपकम् । उपेति । आभासत्व
For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
अत्र मुनिगुरुशब्दयोरुपलक्षणपरतया राजादेरपि ग्रहणम् । अथात्र किं व्यङ्गयम्'व्यानम्राश्चलिताश्चैव स्फारिताः परमाकुलाः ।
पाण्डुपुत्रेषु पाञ्चाल्याः पतन्ति प्रथमा दृशः ॥' अत्र व्यानम्रतया धर्मात्मताप्रयोज्यं युधिष्ठिरे सभक्तित्वम्, चलिततया स्थूलाकारताप्रयोज्यं भीमसेने सत्रासत्वम्, स्फारिततया अलौकिकशौर्यश्रवणप्रयोज्यमर्जुने सहर्षत्वम्, परमाकुलतया परमसौन्दर्यप्रयोज्यं नकुलसहदेवयोरौत्सुक्यं च व्यञ्जयन्तीभिर्दग्भिः पाञ्चाल्या बहुविषयाया रतेरभि. व्यञ्जनाद्रसाभास एवेति नव्याः । प्राञ्चस्त्वपरिणेतृबहुनायकविषयत्वे रतेराभासतेत्याहुः । तत्र शृङ्गाररस इव शृङ्गाराभासोऽपि द्विविधः । संयोगविप्रलम्भभेदात् । संयोगाभासस्त्वनुपदमेवोदाहृतः । विप्रलम्भाभासो यथा'व्यत्यस्तं लपति क्षणं क्षणमथो मौनं समालम्बते
सर्वस्मिन्विदधाति किं च विषये दृष्टिं निरालम्बनाम् । श्वासं दीर्घमुरीकरोति न मनागङ्गेषु धत्ते धृति ।
वैदेहीकमनीयताकवलितो हा हन्त लङ्गेश्वरः ॥' अत्र सीतालम्बनेयं लङ्केशगता विप्रलम्भरतिरनुभयनिष्ठतया जगद्गुरुपत्नीविषयकतया चाभासतां गता, व्यत्यस्तं लपतीत्यादिभिरुक्तिभिर्व्यज्यमानैरुन्मादश्रममोहचिन्ताव्याधिभिस्तथैवाभासतां गतैः प्राधान्येन परिपोष्यमाणा ध्वनिव्यपदेशहेतुः । एवं कलहशीलकुपुत्राद्यालम्बनतया वीतमिति शेषः । प्रथमोदाहरणसंग्रहायाह-अत्रेति । अत्र वक्ष्यमाणोदाहरणे किं रसो वा तदाभासो वेत्यर्थः । स्फारिता विस्तृताः । प्रथमा इत्यनेन पूर्व दर्शनाभावः सूचितः । सभक्तित्वमित्यादि द्वितीयान्तानां व्य जयन्तीभिरित्यनेनान्वयः । भास एवेत्यस्य व्यङ्गय इति शेषः । एवेन रसव्यवच्छेदः । प्राञ्चस्त्विति । अत्रारुचिबीजं तु रत्यनौचित्यस्यापरिणीते इवात्रापि सत्त्वम् । नहि लक्षणे तथा निवेशोऽस्तीति । तत्र रसाभासानां मध्ये। एक क्षणमिति पूर्वान्वयि । अपरमत्तरान्वयि । नन सीतायास्तदभावेऽपि लङ्केशे तत्सत्त्वमत आह-जगदिति । उक्तिभिरिति । यथाक्रममिति शेषः । तथैव जगगुरुपत्नीविषयकतयैव । प्राधान्येनेति । तथा च न तद्भावाभासध्वनित्वमिति भावः । कलहशीलेति । अवीतरागादिविषयमिदम् । अत एवाह-वीतेति । कदर्यो
For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
काव्यमाला।
रागादिनिष्ठतया च वर्ण्यमानः शोकः, ब्रह्मविद्यानधिकारिचाण्डालादिगतत्वेन च निर्वेदः, कदर्यकातरादिगतत्वेन पित्राद्यालम्बनत्वेन वा क्रोधोत्साहौ, ऐन्द्रजालिकाद्यालम्बनत्वेन च विस्मयः, गुर्वाद्यालम्बनतया च हासः, महावीरगतत्वेन भयम्, यज्ञीयपशुवसासृङ्मांसाद्यालम्बनतया वर्ण्यमाना जुगुप्सा च रसाभासाः । विस्तृतिभयाञ्चामी नेहोदाहृताः सुधीभिरुन्नेयाः । एवमेवानुचितविषया भावाभासाः। यथा
'सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता
विद्यापि खेदकलिता विमुखीबभूव । सा केवलं हरिणशावकलोचना मे
__ नैवापयाति हृदयादधिदेवतेव ॥' गुरुकुले विद्याभ्याससमये तदीयकन्यालावण्यगृहीतमानसस्यान्यस्य वा कस्यचिदतिप्रतिषिद्धगमनां स्मरतो देशान्तरं गतस्येयमुक्तिः । अत्र च स्वात्मत्यागात्यागाभ्यां स्रक्चचन्दनादिषु विषयेषु चिरसेवितायां विद्यायां च कृतघ्नत्वम्, अस्यां च लोकोत्तरत्वमभिव्यज्यमानं व्यतिरेकवपुः स्मृतिमेव पुष्णातीति सैव प्रधानम् । एवं च त्यागाभावगतं सार्वदिकत्वं व्यञ्जयन्त्यधिदेवतोपमापि । एषा चानुचितविषयकत्वादनुभयनिष्ठत्वाच्च भावाभासः । यदि पुनरियं तत्परिणेतुरेवोक्तिस्तदा भावध्वनिरेव ॥
अथ भावशान्तिःभावस्य प्रागुक्तखरूपस्य शान्ति शः । स चोत्पत्त्यवच्छिन्न एव ग्राह्यः । तस्यैव सहृदयचमत्कारित्वात् । उदाहरणम् -- 'मुञ्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय ।
इति तन्व्याः पतिवचनैरपायि नयनाब्जकोणशोणरुचिः ।।' निन्द्यः । कातरो भीतः । एवमेव रसाभासवदेव । खेदकलिता खेदव्याप्ता । विनिगमनाविरहादाह--अन्यस्येति । अत्र च स्वात्मत्यागेति विषयविद्योभयकर्टकस्वत्यागेन विषयविद्ययोः कृतघ्नत्वम्, नायिकाकर्तकस्वीयात्यागेन चास्यां नायिकायां लोकोत्तरत्वमित्यर्थः । एवं स्मृतिमेव पुष्यतीत्यर्थः । स च नाशश्चोत्पत्त्यवच्छिन्न एवोत्पत्तिकाला
For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१०३ इह तादृशप्रियवचनश्रवणं विभावः । नयनकोणगतशोणरुचेर्नाशः, तदभिव्यक्तः प्रसादो वानुभावः । उत्पत्तिकालावच्छिन्नो रोषनाशो व्यङ्गयः । तथा भावोदयो भावस्योत्पत्तिः । उदाहरणम्'वीक्ष्य वक्षसि विपक्षकामिनीहारलक्ष्म दयितस्य भामिनी ।
अंसदेशवलयीकृतां क्षणादाचकर्ष निजबाहुवल्लरीम् ॥' अत्रापि दयितवक्षोगतविपक्षकामिनीहारलक्ष्मदर्शनं विभावः । प्रियांसंदेशवलयीकृतनिजबाहुलताकर्षणमनुभावः । रोषादयो व्यङ्गयाः । यद्यपि भावशान्तौ भावान्तरोदयस्य, भावोदये वा पूर्व भावशान्तेरावश्यकत्वान्नानयोर्विविक्तो व्यवहारस्य विषयः । तथापि द्वयोरेकत्र चमत्कारविरहात्, चमत्काराधीनत्वाच्च व्यवहारस्य, अस्ति विषयविभागः ।
एवं भावसंधिरन्योन्यानभिभूतयोरन्योन्याभिभावनयोग्ययोः सामानाधिकरण्यम् ।
उदाहरणम्'यौवनोद्गमनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः ।
संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥' अत्र भगवद्दाशरथिगतस्य लोकोत्तरयौवनोद्गमस्य, तादृशस्यैव शीलशौर्यादेच दर्शनं विभावः । नयनगतसंकोचविकासावनुभावः । वीडौत्सुक्ययोः संधिर्व्यङ्गयः ।
तथा भावशबलत्वम्भावानां बाध्यबाधकभावमापन्नानामुदासीनानां वा व्यामिश्रणम्। एकचमत्कृतिजनकज्ञानगोचरत्वमिति यावत् ।
वच्छिन्न एव । मुदिरालिमेघपतिः । नाशस्य साक्षात्तत्कार्यत्वाभावादाह-तदभीति। ननु ततः किमत आह-चमत्कारेति । एवं च यत्कृतो यत्र चमत्कारस्तत्र तब्यवहार इति भावः । सामानाधिकरण्यमिति । एकदेशवृत्तित्वविशिष्टैककालवृत्तित्वरूपमित्यर्थः । सूक्ष्मभेदस्त्वकिंचित्कर इति भावः । शबलतायां त्वेकदेशवृत्तित्वरूपमेव सामानाधिकरण्यमिति विशेषः । तादृशस्यैव लोकोत्तरस्यैव । एकेति । एकं यत्तादृशं
For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
काव्यमाला।
उदाहरणम्'पापं हन्त मया हतेन विहितं सीतापि यद्यापिता
सा मामिन्दुमुखी विना बत वने किं जीवितं धास्यति । आलोकेय कथं मुखानि कृतिनां किं ते वदिष्यन्ति मां __ राज्यं यातु रसातलं पुनरिदं न प्राणितुं कामये ॥" अत्र मत्यसूयाविषादस्मृतिवितर्कव्रीडाशङ्कानिर्वेदानां प्रागुक्तस्वस्वविभावजन्मनां शबलता। यत्तु काव्यप्रकाशटीकाकारैः 'उत्तरोत्तरेण भावेन पूर्वपूर्वभावोपमर्दः शबलता' इत्यभ्यधीयत तन्न । 'पश्येत्कश्चिन्चल चपल रे का त्वराहं कुमारी हस्तालम्ब वितर हहहा व्युत्क्रमः क्वासि यासि' इत्यत्र शङ्कासूयावृतिस्मृतिश्रमदैन्यमत्यौत्सुक्यानामुपमर्दलेशशून्यत्वेऽपि शवलताया राजस्तुतिगुणत्वेन पञ्चमोल्लासे मूलकतैव निरूपणात् । स्वोत्तरविशेषगुणेन जायमानस्तु नाशो न व्यङ्गयः । न वोपमर्दपदवाच्यः । नापि चमत्कारी । तस्मात्
__ 'नारिकेलजलक्षीरसिताकदलमिश्रणे ।
विलक्षणो यथा स्वादो भावानां संहतो तथा ॥' अत्रेदं बोध्यम्--य एते भावशान्त्युदयसंधिशवलताध्वनय उदाहतास्तेऽपि भावध्वनय एव । विद्यमानतया चळमाणेष्विवोत्पत्त्यवच्छिन्नत्वविनश्यदवस्थत्वसंधीयमानत्वपरस्परसमाधिकरणत्वैः प्रकारैश्चय॑माणेषु भावेष्वेव प्राधान्यस्यौचित्यात, चमत्कृतेस्तत्रैव विश्रान्तेः । यद्यप्युत्पत्ति
ज्ञानं महावाक्यार्थबोधस्तद्विषयत्वमित्यर्थः । पापमिति। अत्र पापमित्यनेन मतिः, हन्तेत्यादिनासूया, सीतापीत्यादिना विषादः, सेत्यनेन स्मृतिः, मामित्यादिना वितर्कः, आलो. केयेत्यादिना व्रीडा, किं त इत्यादिना शङ्का, राज्यमित्यादिना निर्वेदः, इति बोध्यम् । पश्येत्कश्चिदिति शङ्का । चल चपल रे इत्यसूया । का त्वरेति धृतिः । अहं कुमारीति स्मृतिः । हस्तालम्ब वितरेति श्रमः । हहहेति दैन्यम् । व्युत्क्रम इति दैन्यम् । क्वासीति मति: । यासीत्यौत्सुक्यम् । औत्सुक्यानामिति । मध्ये पूर्वपूर्वस्योत्तरोत्तरेणेति शेषः । मूल कृतैव प्रकाशकृतैव । तत्त्वेऽप्याह-न वेति । तत्त्वेऽप्याह-नापीति । अत्र च सहृदयहृदयमेव प्रमाणमिति भावः । उपसंहरति-तस्मादिति । चर्णिकेयम् । संहती मिश्रणे । भावशान्त्यदेति । भावसंबन्धिशान्त्यादीनां ध्वनय इत्यर्थः । स्थिती
For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
१०५
विनाशसंधिशबलतानां तत्संबन्धिनां भावानां च समानायां चर्वणाविषयतायां न प्राधान्यं विनिगन्तुं शक्यते । तथापि स्थितौ भावेषु प्रधानतायाः क्लृप्तत्वात्, भावशान्त्यादिष्वपि तेष्वेव शान्तिप्रतियोगित्वादिभिर्व्यज्यमानेषु तस्याः कल्पयितुमौचित्यात् । किं च यदि भावशान्त्यादौ भावो न प्रधानम्, किं तु तदुपसर्जनकशान्त्यादिरेवेत्यभ्युपेयते तदा व्यज्यमानभावेष्वभिहिततत्प्रशमादिषु काव्येषु भावप्रशमादि ध्वनित्वं न स्यात् ।
तथाहि ।
'उषसि प्रतिपक्षनायिकासदनादन्तिकमञ्चति प्रिये । सुदृशो नयनाब्जकोणयोरुदियाय त्वरयारुणद्युतिः ॥' अत्रोत्पूर्वकेणैतिना भावोदयस्य वाच्यतयैव प्रत्यायनात्, उदयस्य वाच्यत्वेऽपि भावस्यावाच्यत्वानित्वं सुस्थमिति चेत्, प्रधानस्य व्यपदेशानौपयिकत्वेऽप्रधानकृतव्यपदेशानुपपत्तेः । अस्मन्मते तूत्पत्तेर्वाच्यत्वेऽप्युत्पत्त्यवच्छिन्नस्यामर्षस्य प्रधानस्यावाच्यत्वाद्युक्त एव भावोदयध्वनि - व्यपदेशः । एवं व्यज्यमानभावप्रतियोगिकस्य प्रशमस्य वाच्यत्वे भावशान्तिध्वनित्वं न स्यात् ।
यथा
'क्षमापणैकपदयोः पदयोः पतति प्रिये । शेमुः सरोजनयनानयनारुणकान्तयः ॥'
.
ननु शब्दवाच्यानां प्रशमादीनामरुणकान्त्यैवान्वयात्, अरुणकान्तिप्रशमादेरेव वाच्यत्वं पर्यवसितम् । न तु तादृशप्रशमादिव्यङ्गयस्य रोपप्रशमादेः । व्यङ्ग्यव्यञ्जकभेदस्यावश्यकत्वात् । न चारुण्यव्यङ्गयरोपस्यैव वाच्यीभूतप्रशमाद्यन्वय इति वाच्यम् । वाच्यव्यङ्गय प्रतीत्योरानुपूर्वेण सि
For Private And Personal Use Only
तद्विषये । तेष्वेव भावेष्वेव । तस्याः प्रधानतायाः । ननु तत्र तत्कृतश्चमत्कारः, अत्र त्वेतत्कृत इति वैषम्यमत आह- किं चेति । सामान्येनोक्तमर्थं विशिष्योपपादयतितथा हीति । भवतीति सप्तमी । उत्पूर्वकेणैतिनेति । उदुपसर्गपूर्व केणेण्धातुत्यर्थः । शङ्कते - उदयेति । अनौपयिकत्वेऽप्रधानेत्यत्राकारप्रश्लेषः । उदयस्थले दोषं दत्त्वा शान्तिस्थले तमाह - एवमिति । एकपदयोरसाधारणस्थानयोः । पततीति सप्तमी । उभयत्र शङ्कते - नन्विति । वाच्यान्वयेति । सकलपदानामिति शेषः ।
1
१४
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
द्वतया वाच्यान्वयबोधवेलायां वाच्यैः सह व्यङ्गयान्वयानुपपत्तेः । अन्यथा 'सुदृशो नयनाब्जकोणयोः' इत्यस्यान्वयो न स्यात् । मैवम् । एवमपि
'निर्वासयन्तीं धृतिमङ्गनानां शोभा हरेरेणदृशो धयन्त्याः ।
चिरापराधस्मृतिमांसलोऽपि रोषः क्षणप्राघुणिको बभूव ॥' इत्यादावपि भावप्रशमध्वनित्वापत्तेः । भावस्य वाच्यत्वेऽपि प्रधानस्य तत्प्रशमस्य व्यङ्गयत्वात् । उभयोरप्यवाच्यत्वमपेक्षितमिति चेत्, प्रागुक्तपद्यद्वये शमत्वोदयत्वाभ्यां शमोदययोर्वाच्यत्वादनुदाहरणत्वापत्तेः । इष्टापत्तिस्तु सहृदयानामनुचितैव । तस्माद्भावप्रशमादिष्वपि प्राधान्येन भावानामेव चमत्कारित्वम्, प्रशमादेस्तूपसर्जनत्वमतो न तस्य वाच्यतादोषः । इदं पुनर्भावध्वनिभ्यो भावशान्त्यादिध्वनीनां चमत्कारवैलक्षण्ये निदानम्यदेकत्र चर्वणायां भावेषु स्थित्यवच्छिन्नामर्षादित्वम्, अमर्षादित्वमेव वा प्रकारः । अन्यत्र तु प्रशमावस्थत्वादिरपीति । रसस्य तु स्थायिमूलकत्वात्प्रशमादेरसंभवः । संभवे वा न चमत्कारः । इति न स विचार्यते । सोऽयं निगदितः सर्वोऽपि रत्यादिलक्षणो व्यङ्गयप्रपश्चः । ___ स्फुटे प्रकरणे झगिति प्रतीतेषु विभावानुभावव्यभिचारिपु सहृदयतमेन प्रमात्रा सूक्ष्मेणैव समयेन प्रतीयत इति हेतुहेतुमतोः पौर्वापर्यक्रमवाच्यैः प्रशमादिभिः । व्यङ्यान्वयेति । आरुण्यव्यङ्गयरोपान्वयेत्यर्थः । अन्यथा तदङ्गीकारे । न स्यात् । रोपोदये सुदृक्त्वस्य बाधात् । तथा च रोपप्रशमादिध्वनित्वं सुस्थमिति भावः । निर्वासयन्ती दूरीकुर्वतीम् । मांसल: पुष्टः । क्षणप्राघुणिकोऽतिथिः। शङ्कते-उभयोरपीति । एवमेव उक्तदोषद्वयाभावेऽपि । प्रधानाप्रधानयोरपीत्यर्थः । पद्यद्वये 'उपसि- 'क्षमाप-' इत्यत्रेत्यर्थः । सहदयानामिति । अत्र शास्त्रे तेषामेव मुख्यप्रमाणत्वेनोरीकारादिति भावः । अपि वस्थितिसमुचायकः । नन्वेवं वैलक्षण्यानापत्त्या भेदेनोक्त्यसंगत्यापत्तिरत आह-इदं पुनरिति । यदेकत्र शुद्धभावध्वनी । विशेषणस्याव्यावर्तकत्वाद्विशेष्यमात्रकृतचमत्काराच्चाह--अमर्षादित्वमेव वेति । अन्यत्र भावशान्त्यादिध्वनौ । इतिनिदानसमाप्तौ। ननु भावशान्त्यादिवद्रसशान्त्यादिः कुतो नोदाहृतोऽत आह-रसस्येति । असंभव इति । तत्त्वे स्थायित्वानपपत्तेरिति भावः । नन्वभिव्यक्तिनाशादिरेव प्रशमादिरत आह-संभवे वेति । रत्यादिलक्षणो रत्यादिस्वरूपः । समयेन कालेन । हेविति । विभावादिरत्यायेरित्यर्थः । प्रकरणस्य
For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१०७
स्यालक्षणादलक्ष्यक्रमो व्यपदिश्यते । यत्र तु विचारवेद्यं प्रकरणम्, उन्नेया वा विभावादयस्तत्र सामग्रीविलम्बाधीनं चमत्कृतेर्मान्धर्यमिति संलक्ष्यक्रमोऽप्येष भवति । यथा--'तल्पगतापि च सुतनुः' इति प्रागुदाहृते (१२ पृष्ठे) पद्ये 'संप्रति' इत्येतदर्थावगतिविलम्बेन । न खलु धर्मिग्राहकमानसिद्धं रत्यादिध्वनेरलक्ष्यक्रमव्यङ्गयत्वम् । अत एव लक्ष्यक्रमप्रसङ्गे--
___ "एवं वादिनि देवर्षों पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती ॥ इत्यत्र कुमारीस्वाभाव्यादप्यधोमुखत्वविशिष्टस्य लीलाकमलपत्रगणनस्योपपत्या मनाग्विलम्बन नारदकृतविवाहादिप्रसङ्गविज्ञानोत्तरं ब्रीडायाश्चमत्करणाल्लक्ष्यक्रमोऽयं ध्वनिः" इति प्राहुरानन्दवर्धनाचार्याः । "रसभावादिरों ध्वन्यमान एव, न वाच्यः । तथापि न सर्वो लक्ष्यक्रमस्य विषयः" इति चाभिनवगुप्तपादाचार्याः । स्यादेतत्, यद्ययं रसादिः संलक्ष्यक्रमस्य विषयः स्यात् । अनुरणनभेदगणनप्रस्तावे "अर्थशक्तिमूलस्य द्वादशभेदाः" इत्यभिनवगुप्तोक्तिः, "तेनायं द्वादशात्मकः” इति मम्मटोक्तिश्च न संगच्छेत । वस्त्वलंकारात्मना द्विविधेन वाच्येन स्वतःसंभवित्वकविप्रौढोक्तिनिष्पन्नत्वकविनिबद्धवक्तृप्रौढोक्तिनिष्पन्नत्वैस्त्रिभिरुपाधिभिस्त्रैविध्यमापन्नेन घडात्मना वस्त्वलंकारयोरिव रसादेरप्यभिव्यञ्जनादष्टादशत्वप्रसङ्गात् ।
अत्रोच्यते--प्रकटैर्विभावानुभावव्यभिचारिभिरलक्ष्यक्रमतयैव व्यज्यमानो रत्यादिः स्थायिभावो रसीभवति । न संलक्ष्यक्रमतया। रसीभावो हि नाम झगिति जायमानालौकिक चमत्कारविषयस्थायित्वम् । संलक्ष्यक्रमतया व्यज्यमानस्य रत्यादेस्तु वस्तुमात्रतैव, न रसादित्वमिति तेषामाश
स्फुटत्वेऽप्याह-उन्नेया वेति । अत एव तन्मात्रत्वाभावादेव । अस्योभयत्रान्वयः । देवर्षी नारदे । पितुहिमालयस्य । तथापि ध्वन्यमानत्वमात्रत्वेऽपि । अनुरणनभेदेति । ध्वनिभेदे त्यर्थः । तदेत्यादिः । रसीभवत्यरसो रसः संपद्यते । एवव्यवच्छेद्यमाह-न संलक्ष्येति । एवमग्रेऽपि । तेषामभिनवगुप्तादीनाम् । वर्णनेन । व्याख्याकारैरिति शेषः ।
For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
काव्यमाला।
यस्य वर्णनेन न तदुक्तीनां विरोधः । उपपत्तिस्त्वर्थेऽस्मिन्विचारणीया । रसभावादिरर्थ इत्यत्र रसादिशब्दो रत्यादिपरः । तदित्थं निरूपितस्यास्य रसादिध्वनिप्रपञ्चस्य पदवर्गरचनावाक्यप्रबन्धैः पदैकदेशैरवर्णात्मकै रागादिभिश्चाभिव्यक्तिमामनन्ति । तत्र वाक्यगतानां पदानां सर्वेषामपि स्वार्थोंपस्थितिद्वारा वाक्यार्थज्ञानोपायत्वे समानेऽपि कुर्वद्रूपतया चमत्कारायोगव्यवच्छिन्नत्वेन कस्यचिदेव ध्वनिव्यपदेशहेतुत्वम् । यथा 'मन्दमाक्षिपति' (१२ पृष्ठे) इत्यत्र मन्दमित्यस्य । रचनावर्णानां तु पदवाक्यान्तर्गतत्वेन व्यनकतावच्छेदककोटिप्रविष्टत्वमेव न तु व्यञ्जकत्वमिति यद्यपि सुवचम्, तथापि पदवाक्यविशिष्टरचनात्वेन, रचनाविशिष्टपदवाक्यत्वेन वा व्यञ्जकत्वमिति विनिगमनाविरहेण घटादौ दण्डचक्रादेः कारणत्वस्येव प्रत्येकमेव व्यञ्जकतायाः सिद्धिरिति प्रानः।।
वर्णरचनाविशेषाणां माधुर्यादिगुणाभिव्यञ्जकत्वमेव न रसाभिव्यञ्जकत्वम् । गौरवान्मानाभावाच्च । नहि गुण्यभिव्यञ्जनं विना गुणाभिव्यञ्जकत्वं
उपपत्तिस्त्वर्थे इति। विभावादिप्रतीते रसप्रतीतेश्च विद्यमानस्य सूक्ष्मकालान्तरत्वरूपस्य क्रमस्य सहृदयेनाकलने तस्य विगलितवेद्यान्तरत्वानापत्या रसत्वभङ्गापत्तिः । विगलितवेद्यान्तरत्वं च सकलसहृदयानुभवसाक्षिकमिति तत्रापि संमतमिति तदुपपत्तिर्योध्या । नव्यास्तु-वक्तवैशिष्टयप्रकरणादिज्ञानसहितस्यैव व्यअकत्वात्तत्सहितविभावादिज्ञानोत्तरं जायमानरसप्रतीतेर्विभावादिज्ञानापेक्षया विद्यमानक्रमालक्षणेन चालक्ष्यक्रमत्वम् । तच्च प्रकरणाद्विज्ञानविलम्बेन विभावादिज्ञानविलम्बेऽपि पर्वोदाहरणेऽक्षतमेव । नहि विभावादिज्ञानस्य तज्जनकस्य च क्रममादायालक्ष्यक्रमत्वम् । अपि तु तज्जन्यस्य । एतदेवाभिप्रेत्य 'अर्थशक्तिमूलस्य द्वादशभेदाः' इत्यभिनवगुप्तोक्तियत्किचिद्वाच्यार्थापेक्षया क्रमोऽपि ग्रह्यत इत्यभिप्रेत्य लक्ष्यक्रमत्वोक्तिर्यथाकथंचिन्नेया । नहि विभावादि प्रतीतिरहितयत्किचिद्वाच्यार्थमात्रप्रतीतौ विगलितवेद्यान्तरता सहृदयानुभवसाक्षिका । येन तत्क्रमग्रहणेऽपि रसत्वहानि: स्यादित्याहुः । रसभावादिरर्थ इत्यत्रेति । अभिनवगुप्तवाक्य इत्यर्थः । अन्यथा तदसंगतिः स्पष्टैवेति भावः । कस्यचिदेव पदस्य । यथेति । प्रतिपादितमधस्तात् । अभ्यहितत्वाद्रचनाशब्दस्य पूर्वनिपातः । कोटीति । रचनाविशिष्टपदत्वादिना व्यञ्जकत्वमिति भावः । इति इत्यत्र । घटादाविति । दण्डविशिष्टचक्रा. देश्चक्रादिविशिष्टदण्डादेा कारणत्वमित्यत्र विनिगमनाविरहेण यथा कारणतायाः प्रत्येकपर्याप्तिस्तथात्र व्यञ्जकताया इति भावः । नव्यमतमाह-वणेति । मन्नीति ।
For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
१०९ नास्तीत्यस्ति नियमः । इन्द्रियत्रये व्यभिचारात् । इत्थं च स्वस्वव्याकोपनीतानां गुणिनां गुणानामुदासीनानां च यथा परस्परोपश्लेषेणौदासीन्येन वा तत्तत्प्रमितिगोचरता तथा रसानां तद्गुणानां चाभिव्यक्तिविषयतेति तु नव्याः । उदाहरणं तु 'तां तमाल' इत्यादि प्रागुक्तमेव (६४ पृष्ठे) वाक्यस्य व्यञ्जकतायामपि 'आविर्भूता यदवधि' इत्यादि च (३४ पृष्ठे) । प्रबन्धस्य तु योगवासिष्ठरामायणे शान्तकरुणयोः, रत्नावल्यादीनि च शृङ्गारस्य व्यञ्जकत्वान्निदर्शनानि प्रसिद्धानि । मन्निर्मिताश्च पञ्च लहयों भावस्य । पदैकदेशस्य च 'निखिलमिदं जगदण्डकं वहामि' (४२ पृष्ठे) इति करूपतद्धितो वीररसस्य प्रागेवोदाहृतः। एवं रागादिभिरपि व्यङ्गयत्वे सहृदयहृदयमेव प्रमाणम् । एवमेषां रसादीनां प्राधान्येन निरूपितान्युदाहरणानि । गुणीभावे तु वक्ष्यन्ते नामानि च । तत्र प्राधान्य एवैषां रसादित्वम् । अन्यथा तु रत्यादित्वमेव । नामनि रसपदं तु रत्यादिपरमित्येके । अस्त्येव रसादित्वं किं तु न ध्वनिव्यपदेशहेतुत्वमित्यपरे ।
इति महोपाध्यायपदवाक्यप्रमाणपारावारपारीणश्रीपेरमभट्टस्य सूरेः सूनुना पण्डितराजजगन्नाथेन निर्मिते रसगङ्गाधरे
रसनिरूपणात्मकं पूर्वमाननम् ।
भावस्य तद्व्यङ्गयसंबन्धिप्रबन्धादिरूपव्य अकस्य । उदाहरणानीति शेषः । पदैकदेशस्य चेति । चस्त्वर्थे । उदाहरणमिति शेषः । वीररसस्येत्यस्य व्यअक इति शेषः । रागादिभिरपीति । रसस्येति शेषः । वक्ष्यन्ते इत्यत्र उदाहरणानीत्यस्यानुषङ्गः, तस्य चाग्रे नामानीति । रसवदित्यत्रेत्यर्थः ।
इति प्रथमाननप्रकाशः ।
For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
काव्यमाला।
द्वितीयमाननम् । अथ संलक्ष्यक्रमध्वनिर्निरूप्यतेस च तावहिविधः, शब्दशक्तिमूलोऽर्थशक्तिमूलश्च । तत्राद्यो द्विविधः, व्यङ्गयस्य वस्तुत्वालंकारत्वाभ्यां द्वैविध्यात् । द्वितीयोऽपि वस्त्वलंकारात्मना लोकसिद्धेन तथाभूतेनैव प्रतिभामात्रनिर्वर्तितेन च व्यञ्जकेनार्थेन चतुर्विधेन वस्त्वलंकारात्मनो द्विविधस्य व्यङ्गयस्य प्रत्येकं व्यञ्जनादष्टमूर्तिः। प्रतिभानिवर्तितत्वाविशेषाञ्च । कवितदुम्भितवक्तप्रौढोक्तिनिप्पन्नयोरर्थयोर्न टथग्भावेन गणनोचिता । उम्भितोम्भितादेरपि भेदान्तरप्रयोजकतापत्तेः । न च तस्यापि कम्युम्भितत्वानपायात्तत्प्रयोज्यभेदान्तर्गतत्वमेवेति वाच्यम् । प्रथमोम्भितस्यापि लोकोत्तरवर्णनानिपुणत्वलक्षणकवित्वानपायात्पृथग्भेदप्रयोजकतानुपपत्तेः । एवं साकल्येन दशभेदोऽयम् । तत्र केचिदाहुः-नानार्थस्य शब्दस्य सर्वेष्वर्थेषु संकेतग्रहस्य तुल्यत्वाच्छूतमात्र एव तस्मिन्सकलानामर्थानामुपस्थितौ, शब्दस्यास्य कस्मिन्नर्थे तात्पर्यमिति संदेहे च सति, प्रकरणादिकं तात्पर्यनिर्णायकं पर्यालोचयतः पुरुषस्य सति तन्निर्णये तदात्मकपदज्ञानजाया एकार्थमात्रविषयायाः पुनः पदार्थोपस्थितेरनन्तरमन्वयबोध इति नये द्वितीयायाः पदार्थोपस्थितेः प्राथमिक्या इव न कुतो नानार्थगोचरतेति प्रकरणादिज्ञानस्य तदधीनतात्पर्यनिर्णयस्य वा पदार्थोपस्थितौ प्रतिबन्धकत्वं वाच्यम् । अन्यथा शाब्दबुद्धेरपि नानार्थविषयत्वापत्तिः । अत एवोक्तम्-'अनवच्छेदे विशेषस्मृतिहेतवः' इति । अनवच्छेदे तात्पर्यसंदेहे । विशेषस्मृतिरेकार्थमात्रविषया स्मृतिः ।
तथाभूतेनैवेति । वस्त्वलंकारात्मनेत्यर्थः । अन्येषां भेदानी संग्रहायाह-प्रतिभेति । तदुम्भितेति । तन्निबद्धेत्यर्थः । तस्यापि उम्भितोम्भितस्यापि । प्रतिबन्धा समाधत्ते-प्रथमोम्भीति । पृथग्भेदेति । वृद्धोक्तिविषयाच्छिशूक्तिविषय इव कव्यु. क्तिविषयाकविनिबद्धोक्तिविषये चमत्काराधिक्यानुभविकत्वात्पृथगुक्तिः । ततः परं च प्रतिनिधानसाध्यप्रतीतिकतया चमत्कारस्थगनानोम्भितोम्भितादेः पृथग्गणनेति तु नव्याः । साकल्येन मिलित्वा । अयं संलक्ष्यक्रमध्वनिः । तन्निर्णये तात्पर्यनिर्णये । तदात्मकपदेति । तात्पर्यज्ञानात्मकपदेत्यर्थः । तस्य नष्टत्वादाह-तदधीनेति । द्विती.
For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
१११
इत्थं च सुरभिमांसं भक्षयतीत्यादेर्वाक्याज्जायमाना द्वितीया प्रतीतिर्गवाद्युपस्थितेरभावात्कथं स्यादिति तदुपस्थित्यर्थं व्यञ्जनव्यापारोऽभ्युपेयः । अथैकया शक्त्या प्राकरणिकार्योपस्थितेरनन्तरं द्वितीयया शक्त्या द्वितीयाथपस्थितिस्तथापि स्यादिति चेत्, न । स्यादेव, प्रकरणादिज्ञानस्य प्रतिबन्धकस्यानुपरमात् । अन्यथा प्राकरणिकार्थोपस्थितावेवाप्राकरणिकस्याप्यर्थस्य विषयत्वं स्यात् । न च प्रकरणादिज्ञानस्य तादृशपदजन्यार्थी - स्थितिसामान्य एव प्रतिबन्धकत्वाद्वयक्त्यापि कथमर्थान्तरोपस्थितिरिति शङ्कयम् । धर्मिग्राहकमानेनाप्राकरणिकोपस्थापकतयैव तादृशव्यक्तेरुल्लासात्तदजन्योपस्थिति प्रत्येव प्रकरणादिज्ञानस्य प्रतिबन्धकत्वकल्पनात् । व्यक्तिज्ञानस्योत्तेजकत्वकल्पनाद्वा । एतदेव सर्वमभिसंधायोक्तम् — 'अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकडचाष्टतिरञ्जनम् ॥'
यन्त्रणमपरार्थोपस्थापनप्रतिबन्ध इति । अपरे त्वाहुः नानार्थशब्दजशाब्दबुद्ध तात्पर्यनिर्णयहेतुताया अवश्यकल्प्यत्वात्प्रथमं नानार्थशब्दादनेकार्थोपस्थानेऽपि प्रकरणादिभिस्तात्पर्यनिर्णयहेतुभिरुत्पादिते तस्मिन्यत्र तात्पर्यनिर्णयस्तस्यैवार्थस्यान्वयबुद्धिर्जायते, नान्यस्येति स्मरणावाश्रीयमा - णायां नैकमात्रगोचरस्मृत्यपेक्षा, नाप्यपरार्थोपस्थानप्रतिबन्धकत्वकल्पनम् ।
येति । गवादिविषयेत्यर्थः । प्रतिबन्धकसत्त्वादिति भावः । तदाह - गवादीति । नानाशक्तिरिति मताभिप्रायेण शङ्कते - अथेति । तथापि प्रतिबन्धकसत्त्वेऽपि । तस्य पूर्वशक्त्या पुनरनुपस्थितौ चारितार्थ्यात् । तथा च व्यञ्जनाव्यापारो निष्फल इति भावः । ज्ञानस्येत्युपलक्षणं तात्पर्यनिर्णयस्यापि । एवमग्रेऽपि । अनुपरमादनाशात् । सत्त्वादिति यावत् । शक्तेर्नानात्वे न मानम्, सत्त्वेऽपि वा तत्संकोच एवेति भावः । अन्यथा तत्सत्त्वेऽपि । तदङ्गीकारे व्यञ्जनाङ्गीकारेऽप्यनिर्वाह इति शङ्कते न चेति । तादृशेति । द्वितीयेत्यर्थः । व्यक्त्यापि व्यञ्जनयापि । तादृशेति । अर्थान्तरोपस्थापकेत्यर्थः । तदजन्येति । व्यञ्जनाख्यवृत्त्यजन्येत्यर्थः । विनिगमनाविरहादाह-व्यक्तिज्ञानस्येति । बोधकताविशेषः शक्तिः, तद्विशेषो लक्षणा, तद्विशेष एव च व्यञ्जने - त्यालंकारिकसमयः | तज्ज्ञानं च शाब्दबोधे हेतुरित्यभिप्रायः । उक्तम् | काव्यप्रकाशकृतेति भावः । प्रथमं तात्पर्यनिर्णयात्पूर्वम् । तस्मिंस्तात्पर्यनिर्णये । इतिः पूर्वोक्तार्थस्या
For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
११२
एवं च प्रागुपदर्शितनानार्थस्थले प्रकरणादिज्ञानाधीनात्तात्पर्यनिर्णयात्प्राकरणिकार्थशाब्दबुद्ध जातायामतात्पर्यार्थविषयापि शाब्दबुद्धिस्तस्मादेव शब्दाज्जायमाना कस्य व्यापारस्य साध्यतामालम्बताम्, ऋते व्यञ्जनात् । न च शक्तिसाध्या सेति वाच्यम् । तदधीनबोधं प्रति तात्पर्य - निर्णयस्य हेतुत्वात् । व्यक्त्यधीनबोधस्तु नावश्यं तात्पर्यज्ञानमपेक्षते । नन्वेकमात्रगोचरस्मृतेस्तच्छाब्दबुद्धावनपेक्षितत्वे 'विशेषस्मृतिहेतवः' इति प्राचां ग्रन्थः कथं संगच्छते । कथं वा प्रकरणादिज्ञानस्यापरार्थो - पस्थानप्रतिबन्धकत्वविरहे संयोगाद्यैरनेकार्थस्य शब्दस्य वाचकताया नियन्त्रणोक्तिश्वेति चेत्, इत्थम् - स्मृतिशब्दस्य निश्वयपरतया विशेषस्मृतिशब्देन विशेषविषयस्तात्पर्यनिर्णय गृह्यते । संयोगाद्यैर्वाचकताया नियन्त्रणं चैकार्थमात्रविषयक तात्पर्यनिर्णयजननद्वारा शाब्दबुद्धयनुकूलत्वम् । अवाच्यार्थोऽतात्पर्यार्थः । एवं च न ग्रन्थासंग - तिरित्यपि वदन्ति । अथ प्राकरणिकार्थवोधानन्तरं तादृशपदज्ञानस्योपरमात्कथं व्यक्तिवादिनाप्यर्थान्तरधीः सूपपादेति चेत् । मैवम् । प्रथमार्थप्रतीतेर्व्यापारस्य सवाददोष इत्येके । अर्थप्रतीत शक्यतावच्छेदकस्येव पदस्यापि विशेषणतया भानात्प्राथमिकशक्यार्थबोधस्यैव पदज्ञानत्वादित्यपरे । आवृत्त्या पदज्ञानं सुलभमित्यपि कश्चित् । तदित्थं नानार्थस्थलेऽनुरणनीयं व्यञ्जनं शब्दशक्तिमूलम् । शव्दस्य परित्य सहत्वादिति ध्वनिकारानुयायिनो वर्णयन्ति । अन्ये त्व प्रत्यवतिष्ठन्ते । यत्तावदुक्तमेकार्थमात्रविषया पदार्थोपस्थितिस्तदन्वयबो
काव्यमाला
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
4
ग्रिमनिषेधद्वये हेतुत्वबोधकः । नावश्यमिति । न नियमेनेत्यर्थः । व्यङ्गयानेकस्थले वपेक्षैवेति भावः । तात्पर्यज्ञानमपेक्षते इति । धर्मिग्राहकमानेन तस्यास्तथैव सिद्धेरिति भावः । इतिरपरमतसमाप्तौ । उक्तिश्चेत्यस्य कथं संगच्छत इत्यस्यानुषङ्गः । इत्यपि वदन्तीति । अपरे इति भावः । तादृशेति । तात्पर्यज्ञानात्मकेत्यर्थः । सत्त्वादिति । तथा च तेन संबन्धेन तत्सत्त्वमिति भावः । पदस्यापीति । 'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाद्यते । अनुविद्धमित्र ज्ञानं सर्व शब्देन भासते ॥' इति हर्युक्तेरिति भावः । परिवृत्तीति । पर्यायान्तरेण बोधनादिति भावः । अत्र मतद्वये । तत्राद्यमते आह - यत्तावदिति । ननु तात्पर्यज्ञानस्य तत्रैवोपयोग इति
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
धेऽपेक्ष्यत इति तदसारम् । नानार्थादर्थद्वयोपस्थितावपि प्रकरणादिज्ञानाधीनतात्पर्यज्ञानमहिनैव विवक्षितार्थशाब्दबोधोपपत्तेः, एकार्थमात्रोपस्थित्यपेक्षायां मानाभावात् । अपरार्थोपस्थापकसामग्र्याः पदज्ञानस्य सत्त्वेन तदुपस्थितेरप्यौचित्याञ्च । न च प्रकरणादिज्ञानं तदधीनतात्पर्यज्ञानं वा पराीपस्थाने प्रतिबन्धकमिति शक्यं वक्तुम् । संस्कारतदुद्बोधकयोः सत्त्वे स्मृतेः प्रतिबन्धस्य क्वाप्यदृष्टत्वात् । अत्रैव स्मृतावयं प्रतिबध्यप्रतिबन्धकभावः कल्प्यते, न स्मृत्यन्तरे इत्यप्यहृदयंगमम् । तादृशकल्पनाया निप्फलत्वात्, अनुभवविरुद्धत्वाच्च । तथा हि नानार्थशक्तिविषयकदृढसंस्कारशालिनां प्रकरणज्ञानवतामपि पयो रमणीयमित्यादेर्वाक्यात्प्रथममर्थद्वयोपस्थितिरनुभवसिद्धा । अत एव पयो रमणीयमित्यादिवाक्यमकस्मादप्याकर्णितवद्भिः प्रकरणाद्यभिज्ञैरप्रकरणज्ञाः पांसुरपादा वक्तुस्तात्पर्य बोध्यन्ते। नूनमस्य दुग्धे तात्पर्य शब्दस्य, न तु जल इति । यदि च प्रकरणादिज्ञानं नानार्थशव्दाजायमानामप्राकरणिकार्थोपस्थिति प्रतिबध्नीयात्तत्कथमेते तदानीमनुपस्थितनलाः प्रकरणज्ञा जलतात्पर्य निषेधेयुरित्यहृदयंगम एवायमप्राकरणिकार्थीपस्थापनप्रतिबन्धकभावः प्रकरणादिज्ञानस्य । यदप्युच्यते प्रकरणादिज्ञानात्प्राकरणिकेऽर्थे तात्पर्यविषयतया निर्णीते तदीयशाब्दबोधानन्तरमतात्पर्यविषयीभूतार्थबोधो जायमानो व्यञ्जनव्यापारसाध्य इति । तत्र किमयं नानार्थस्थले सर्वत्रैव व्यञ्जनोल्लासः, आहोस्विक्वचिदेवेति संमतम् । नाद्यः । प्राकरणिकाप्राकरणिकयोरर्थयोः शाब्दबुद्धौ सर्वत्राभ्युपगम्यमानायां तात्पर्यज्ञानकारणतायाः कल्पनस्य नैरर्थक्यापत्तेः । न च शक्तिबोधे सा कल्प्यते । व्यक्तिजबोधस्तु तात्पर्यज्ञानं विनापि भवतीति तत्स्थाने शक्तिजबोधवारणाय तत्कल्पनमिति वाच्यम् ।
तदावश्यकत्वमत आह-अपरेति । तदुपस्थितेरपि अपरार्थोपस्थितेरपि । शङ्कतेअत्रैवेति । ननुपायस्योपायान्तरादूषकत्वात्साप्युचितात आह-अनुभवेति । प्रक. रणेति । प्रकरणादीत्यर्थः । अपिना तदज्ञानिसमुच्चयः । अत एव तस्या अनुभवसिद्धत्वादेव । विपक्षे बाधकमाह-यदि चेति । अनुपस्थितजला इति हेतुगर्भ विशेषणम् । तदुपस्थितरेवाभावादिति भावः । तत्स्थाने व्यक्तिजबोधस्थाने । तत्कल्पनं तात्पर्यज्ञानकारणताकल्पनम् । कार्यकारणभावानङ्गीकारे नियमभङ्गमाह -- अन्यथेति ।
For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
११४
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
अतात्पर्यार्थबोधस्य सार्वत्रिकत्वे तस्य शक्तिजतायामपि बाधकाभावात् । अथ नानार्थशब्दादर्थद्वयोपस्थितौ सत्यां प्रकरणादिना सत्येकस्मिन्नर्थे तात्पर्यनिर्णये तस्यैवार्थस्य प्रथमं शाब्दबुद्धिर्जायते, नापरस्यार्थस्येति नियमरक्षणाय शक्तिजतदर्थशाब्दबुद्धौ तदर्थतात्पर्यज्ञानं हेतुरिष्यते । अन्यथा तात्पर्यविषयतया निर्णीतस्यार्थस्येवातथाभूतस्यापरस्याप्यर्थस्य प्रथमं शाब्दधीः स्यात् । अनन्तरं तु तात्पर्यविषयार्थबोधादतात्पर्यविषयार्थविषयापि शाब्दधीरिष्यत इति तज्जन्यतावच्छेदककोटौ शक्तिमत्वं निवेश्यत इति चेत् । मैवम् । 'सोडव्यादिष्टभुजंगहारवलयस्त्वां सर्वदोमाधवः' इत्यादौ श्लेषकाव्य इव प्रकृतेऽपि प्रकृताप्रकृतयोरर्थयोर्बोधस्य स्वीकारे बाधकाभावात् । न च दृष्टान्तेऽर्थद्वयेऽपि प्रकरणसाम्यात्तात्पर्यज्ञानमस्तीति युगपद्वयोर्बोध उपपद्येत । दाष्टन्तिके त्वेकत्रैव प्रकरणादिवशात्तदिति न युगपदर्थद्वयबोधोपपत्तिरिति वाच्यम् । तात्पर्यज्ञानकारणताया एवासि द्धत्वेन युगपदर्थद्वयबोधानुपपत्तिवाचोयुक्तेररमणीयत्वात् । तादृशज्ञानहेतुतासिद्धौ तु शक्येतापीत्थं वक्तुम् । तर्हि तात्पर्यज्ञानस्य कुत्रोपयोग इति चेत् । अस्मिन्नर्थेऽयं शब्दः प्रमाणमयमर्थः प्रमाणवेद्य इत्यादिनिर्णये प्रवृत्त्याद्युपयोगिनीति गृहाण । इत्थं च नानार्थस्थलेऽपि तात्पर्यधियः कारणतायां शिथिलीभवन्त्यामतात्पर्यार्थविपयशाब्दबुद्धिसंपादनाय व्यक्तिस्वीकारोऽनुचित एव । शक्त्यैव बोधद्वयोपपत्तेः । नापि द्वितीयः । हेतोरभावात् । व्यङ्ग्यार्थविषयक कवितात्पर्यज्ञानं तथेति चेत् । न । व्यक्तिजबोधे तात्पर्यज्ञानकारणतायास्त्वयानभ्युपगमात् । यत्राश्लीलं दोषस्तत्राप्राकरणिकेऽर्थे सकलानुभवसिद्धे कवितात्पर्यस्य विरहात्तज्ज्ञानस्य तादृशत्रुद्धिहेतुताया व्यभिचारदूषितत्वाच्च । अथ श्रोतुः शक्तिविशेषो व्यक्तेरुल्ला
अतथाभूतस्यातात्पर्यविषयस्य । अनन्तरं त्विति । बोधादित्यग्रेऽन्वेति । युगपदिति शेषो बोधस्येत्यस्य बोध्यः । तत्तात्पर्यज्ञानम् । वाच इति । तद्रूपवाचोयुक्तेरित्यर्थः । द्वितीय इति । नानार्थस्यले कचिदेव व्यञ्जनोल्लास इतीत्यर्थः । शङ्कते – व्यङ्गयेति । तथा हेतुः । नन्वेवमपि फलबलात्स्वीक्रियतेऽत आह-यत्रेति । विरहादिति । दोषप्रतिपादने तात्पर्यादिति भावः । तज्ज्ञानस्य कवितात्पर्यज्ञानस्य । तादृशेति । व्यक्तिजेत्यर्थः । व्यभिचारेति । व्यतिरेकव्यभिचारेत्यर्थः । शक्तिविशेष इति । बुद्धिश
For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
११६
से हेतुः, स च फलबलाच्चमत्कारिण्येवाथै व्यक्तिमुल्लासयति नाचमत्कारिणीति सिद्ध व्यञ्जनोल्लासस्य क्वाचित्कत्वमिति चेत्। न। हन्तैवं स नियन्त्रितशक्तेरेवोल्लासकोऽस्त्विति कृतं नानार्थस्थले व्यक्तिकल्पनया । किं च 'उलास्य कालकरवालमहाम्बुवाहम्' इत्यादि नानार्थव्यञ्जकस्थलेऽगृहीतद्वितीयार्थशक्तिकस्य गृहीतविस्मृतद्वितीयार्थशक्तिकस्य वा पुंसः सर्वथैव व्यञ्जनया द्वितीयार्थबोधानुदयात्तत्र तया तदापत्तिस्तव दुर्वारा । न च येन शब्देन योऽथी व्यज्यते तस्य शब्दस्य तदर्थगतशक्तिज्ञानं तदर्थव्यक्तेरुल्लासे हेतुरिति वाच्यम् । 'निःशेषच्युत-' इत्यादौ रमणव्यक्त्यनापत्तेः । नह्यधमपदस्य कस्यचिद्रमणे शक्तिग्रहोऽस्ति । सति वा तस्मिस्तेनैवोप-' पत्तौ व्यक्तिकल्पनवैयर्थ्यापत्तेश्च । न च नानार्थव्यञ्जनस्थल एवैवंजातीयकः कार्यकारणभावः कल्प्यते । तत्र च शक्तनियन्त्रितत्वेन तद्ग्रहस्याप्रयोजकतया व्यक्तिकल्पनौचित्यादिति वाच्यम् । नवीनकार्यकरणाभावकल्पने गौरवप्रसङ्गात् । नियन्त्रणस्य पूर्वमेव दूषितत्वेन तद्धेतोरेव इति न्यायावताराच्च । अथास्त्वप्राकरणिकोऽप्यर्थः शक्तिवेद्य एवान्वयधीगोचरः, परंतु यत्र न बाधितः स्यात् । यत्र तु बाधितस्तत्र 'जैमिनीयमलं धत्ते रसनायामयं द्विजः' इत्यादौ जुगुप्सितोऽर्थः, वह्निना सिञ्चतीत्यादौ वह्निकरणकसेक इवाबोधोपहत एव स्यात् । बाधनिश्चयस्य तद्वत्ताज्ञानं प्रति प्रतिबन्धकतायाः सर्वजनसिद्धत्वात् । व्यक्तेस्तु बाधितार्थबोधकत्वं धर्मिग्राहकमानसिद्धमिति व्यक्तिवादिनामदोष इति । मैवम् । 'गामवतीर्णा सत्यं क्तिविशेष इत्यर्थः । सः शक्तिविशेषः । नियन्त्रितेत्यस्य प्रकरणादिनेत्यादिः । अभ्यपेत्याह-किं चेति । विनिगमनाविरहादाह-गृहीतेति । सर्वथैव सर्वप्रकारेणैव । सिद्धान्ते इत्यादिः । तयेति । व्यञ्जनयेत्यर्थः । तदापत्तिद्वितीयार्थबोधापत्तिः । एतद्दोषोद्धाराय शङ्कते--न चेति । रमणेति । नायककर्तकरतीत्यर्थः । सति वेति । नायके तच्छक्तिग्रहसत्त्वादिति भावः । तेनैवेति । शक्तिग्रहेणैव बोधोपपत्तावित्यर्थः । एवंजातीयको येन शब्देनेत्यायुक्तः । तथा च निःशेषेत्यादौ न दोष इति भावः । नन्व. न्यथानुपपत्त्या गौरवं सुसहमत आह-नियन्त्रणेति । तद्धेतोरिति । व्यक्त्यल्लास. हेतोस्तदर्थगतशक्तिज्ञानस्यैव तदर्थबोधजनकत्वमस्तु, किं व्यक्त्युलोसजनकत्वेनेत्यर्थः । अपि: प्राकरणिकार्थसमुच्चायकः । तत्रेत्यस्येत्पादा वित्यनेनान्वयः । जैमीति । जैमिनिप्रोक्तं पूर्वमीमांसाशास्त्रं अलं परिपूर्ण धत्ते इत्येकोऽर्थः । जैमिनिप्रोक्तशास्त्राध्येतृणां मलं विष्ठां धत्ते इत्यपरोऽर्थो निन्दितः । गामिति, सौधानामिति, च भिन्नपद्यार्धे ।
For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
सरस्वतीयं पतञ्जलिव्याजात् ।', 'सौधानां नगरस्यास्य मिलन्त्यर्केण मौलयः ।' इत्यादौ वाच्यार्थान्वयबोधोपपादनायानुसरणीयेन यत्नेन नानार्थस्थलेऽपि बाधितार्थबोधस्योपपत्तिः स्यात् । अन्यथा प्रायशः सर्वेष्वप्यलंकारेषु वाच्यार्थबोधोपपत्तये व्यञ्जनाङ्गीकरणीया स्यात् । तस्मान्नानार्थस्याप्राकरणिकेऽर्थे व्यञ्जनेति प्राचां सिद्धान्तः शिथिल एव । प्राकरणिकाप्राकरणिकयोरर्थयोरुपमायां तु सा कदाचित्स्यादपीत्यत्रास्माकं प्रतिभाति । एवमपि योगरूढिस्थले रूढिज्ञानेन योगापहरणस्य सकलतन्त्रसिद्धतया रूट्यनधिकरणस्य योगालिङ्गितस्यार्थान्तरस्य व्यक्ति विना प्रतीतिर्दुरुपपादा। यथा-- _ 'अबलानां श्रियं हृत्वा वारिवाहैः सहानिशम् ।
तिष्ठन्ति चपला यत्र स कालः समुपस्थितः ॥' अत्राशक्तानां द्रव्यमपहृत्य जलवाहकैः पुरुषैः सह पुंश्चल्यो रमन्त इत्यर्थान्तरं न तावदबलावारिवाहचपलाशब्दयोगरूढ्या शक्यते बोधयितुम् । मेघत्वविद्युत्त्वाद्यघटितस्यैव तस्यार्थस्य प्रतीतेः । अन्यथा चमत्कारो न स्यात् । अत एव न योगशक्त्यापि केवलया रूढ्यर्थासंवलितार्थबोधकत्वस्य तस्या रूढिसमानाधिकरणाया असंगतेः । पुश्चलीत्वादेः सर्वथैव तदविषयत्वात् । एवं यौगिकरूढिस्थलेऽपि बोध्यम् । गामित्यस्य यत इत्यादि । यत्नेनेति । बाधज्ञानं शाब्दज्ञाने न प्रतिबन्धकम् । अयो. ग्यतानिश्चयश्च । एवं योग्यताज्ञानमपि न कारणम् । आहार्यो वा बोध इत्यादि यत्नोऽग्रे मूल एव स्फुटः । अन्यथा तत्रैव यत्नानुसरणाभावे । सर्वविति । गामित्यत्र व्याजोक्तिः । सौधानामित्यत्र संबन्धातिशयोक्तिः । एवमन्यत्रापि बोध्यम् । नानार्थस्य शब्दस्य । सा व्यञ्जना । तथा चोपमा व्यङ्गयेति भावः । स्याद पीत्यसंदिग्धे संदिग्धव - चने । वेदाः प्रमाणं यदीतिवत् । तादृश द्वितीयाथैमादाय वाक्याथेस्यासंबद्धार्थकत्वं मा भूदिति कल्प्यमानोपमाया अर्थापत्तिवेद्यत्वस्यापि संभव इत्यत उक्तं कदाचिदिति । अपहरणं बाधः । योगार्थेति । योगशक्तीत्यर्थः । अबलेति । विद्युतो मेघैः सह नायिकानां शोभामपहत्य यत्र तिष्ठन्ति स काल: समागत इति वाच्यार्थः । तस्यार्थान्त. रस्य । अन्यथा तदप्रतीतौ । तदघटितस्यैव प्रतीताविति यावत्। अत एवेत्यस्यार्थमाहरूढयर्थेति । तस्या इति । योगशक्तरित्यर्थः । ननु फलबलात्तथा कल्प्यतेऽत आ
For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यथा वा-
www. kobatirth.org
रसगङ्गाधरः ।
Acharya Shri Kailassagarsuri Gyanmandir
'चाञ्चल्ययोगिनयनं तव जलजानां श्रियं हरतु । विपिनेऽतिचञ्चलानामपि च मृगाणां कथं हरति ॥'
अत्र नैवाश्रर्यकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणाधिकेन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकृत्तु हरिणानां तद्गुणयुक्तानां तस्याः स इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्त केवल योगमर्यादया मूर्खपुत्राणामत एव प्रमत्तानां नेतृभिवोराद्यैः श्रियो वनस्य हरणं सुशकम्, न तु गवेषकाणामत एवाप्रमत्तानामिति जलजनयनमृगशब्देभ्यः प्रतीयमानोऽर्थः कथं नाम व्यञ्जनाव्यापारं विनोपपादयितुं शक्यते । अत एव पङ्कजादिपदेभ्यः पङ्कजनिकर्तृत्वेन कुमुदाद्युपस्थितिर्लक्षयैवेति नैयायिका मन्यन्ते । अत एव च 'ईशानो भूतभव्यस्य स एवाद्यः स उ श्वः' इति वेदान्तवाक्ये किमैश्वर्यविशिष्टः कचिज्जीवोऽत्र प्रतिपाद्यत उतेश्वर इति संशये जीव एवेति पूर्वपक्षे च ' शब्दादेव प्रमितः ' इति सूत्रितमुत्तरमीमांसाकारैर्वादरायणचरणैः (ब्रह्मसूत्रे १ । ३ । २४ ) तस्मादर्थान्तरमिह न शक्तिवेद्यम् । अपि तु व्यक्तिवेद्यमेव । यथाश्रुतार्थस्यैवोपपत्तेर्बोधाभावेन लक्ष्यमित्यपि न शक्यं वक्तुम् । तात्पर्यार्थबोधस्तु तदर्थ
For Private And Personal Use Only
११७
ह - पुंश्चलीति । आदिना पुरुपत्वरतित्वपरिग्रहः । योगरूढस्योदाहरणान्तरमाह - यथा वेति । तद्गुणेति । चाञ्चल्यगुणाधिक्येत्यर्थः । तस्याः स इति । शोभायास्तिरस्कार इत्यर्थः । जलजनयनमृगेति । डलयोरैक्याज्जडजत्वेन मूर्खपुत्राणामित्यस्य, नयतीति नयनमित्यनेन नेतृत्वेन चौराद्यैरित्यस्य, मृगयन्तीति मृगा इत्यनेन गवेषकाणामित्यस्य लाभः | 'मृग अन्वेषणे' इत्यदन्ताचुरादेः पचाद्यच् । अत एव योगशक्त्या अलाभादेव । एवमग्रेऽपि । ईशान इत्यस्य 'अङ्गष्ठमात्रः पुरुषो ज्योतिरिवाधूमक:' इत्यादिः । कटवल्लीस्वमिदम् । (चतुर्थवली | १३) अद्य वर्तमानकाले स एवास्ति । वो भविष्यत्काले स एव भवितेत्यर्थः । जीव एवेति । 'अङ्गष्ठपरिमाणस्य लिङ्गस्य ब्रह्मण्यसंभवादिति भावः । सूत्रितमिति । सिद्धान्तार्थमिति शेषः । स चेत्यम् — परमात्मात्र प्रतिपाद्यः प्रमितः । कुतः । शब्दादेव | ईशानो भूतभव्यस्येत्यत्रेशानशब्दात् । नहि जीवे ईशानशब्द आञ्जसः । लिङ्गश्रुत्योर्विरोधे श्रुतेः प्राबल्यात् । एतत्सूचनार्थमेवैवकारः । अङ्गुष्ठमात्रलं तु अङ्गुष्टमात्र जीवानुवादेन ब्रह्माभेदप्रतिपादनादनुपपन्नमिति । ननु शक्त्यवेद्यत्वेऽप्यन्यत्र लक्षणावेद्यत्वमेवास्तामत आह-यथेति । तथा च मुख्यार्थबाधरूपलक्षणा बीजाभावान्न सेति भावः । नन्वेवं तथापि कथं निर्वा
ت
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
काव्यमाला। बोधोत्तरं बोध्यः । स एव तु कथं स्यादित्युपायोऽयं विचिन्त्यते । नापहर्तृव्यवहारो वक्त्रा विवक्षित इति श्रोतुबर्बोधे कश्चिदुपायोऽस्ति । ऋते सहृदयहृदयोन्मिषितादस्माद्व्यापारात् । एवमन्यत्राप्यूह्यम् । तादृशार्थप्रतिपत्तिरेव नास्तीति तु गाढतरशब्दार्थव्युत्पत्तिमसृणीकतान्तःकरणैर्न शक्यते वक्तुम् । तथा चेत्थं संग्रहः'योगरूढस्य शब्दस्य योगे रूट्या नियन्त्रिते ।
धियं योगस्टशोऽर्थस्य या सूते व्यञ्जनैव सा ॥' एवं स्थिते नानार्थस्थलेऽप्युपमायाः प्राकरणिकाप्राकरणिकार्थगतायाः प्रतिपत्तयेऽवश्यं वाच्यया व्यञ्जनयैवाप्राकरणिकस्याप्यर्थस्य प्रतिपत्तावलं क्लिष्टकल्पनयेत्याशयेन प्राचीनरुक्तं नानार्थव्यञ्जकत्वमपि न दुष्यति । तत्र नानार्थशक्तिनियमनाय तैः संयोगादयो निरूपिताः
'संयोगो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ।। सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' इति ।
तत्र
संयोगो नानार्थशब्दशक्यान्तरवृत्तितया अप्रसिद्धत्वे सति तच्छक्यत्तितया प्रसिद्धः संबन्धः ।
यथा--'सशङ्खचक्रो हरिः' इत्यत्र शङ्खचक्रयोः संयोगो भगवन्मात्रनिष्ठतया प्रसिद्धो भगवति हरिशब्दस्याभिधाया नियमेनावस्थापकः । न त्वायुधत्वेनायुधसामान्यसंयोगः, पाशाङ्कुशादिसंयोगो वा । दलद्वयाहोऽत आह-तात्पर्याथैति । ननु यत्र तद्वाक्येन तदर्थान्वयबोधात्प्राक्प्रकारान्तरेण तदर्थे वक्तुस्तात्पर्यग्रहस्तत्रास्तु नाम 'काकेभ्यो दधि रक्ष्यताम्' इत्यादी तात्पर्यानुपपत्त्या लक्षणा, प्रकृते तु न तथेत्याह-नयपहर्तृव्यवहार इति । अस्मान्य अनरूपात् । तादृशेति । अन्येत्यर्थः । अवश्यं वाच्ययेति । अर्थापत्तेः प्रमाणान्तरत्वे मानाभावादिति भावः । क्लिष्टोति । पूर्वोक्त्यर्थः । तत्र निरूपितायां व्यञ्जनायाम् । तैः प्राचीनैः। तत्र संयोगादीनां मध्ये । मात्रपदेन विशेषणदलसत्ता सूचिता । भगवति विष्णौ ।
For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। -
भावात् । न चासो लिङ्गान्तर्गत इति मन्तव्यम् । शक्यान्तरे नियमेनावृतेरेव प्रकृते लिङ्गत्वात् । शङ्खचक्रयोस्त्विन्द्रादिनापि कदाचिद्धारणसंभवात् । विप्रयोगो विश्लेषः।
यथा--'अशङ्खचक्रो हरिः' इत्यत्र तयोरेव विश्लेषस्तथा । अत्र हि विश्लेषनियतपूर्ववर्तिनः संश्लेषस्य प्रागुक्तदलद्वयाक्रान्तत्वमपेक्ष्यते । तेनायुधसामान्यविभागः, पाशाङ्कशादिविभागो वा न तथा । यद्यप्यत्र गुणतया वर्तमानस्तादृशसंयोग एवाभिधानियमनायालम्, तथापि गुणप्रधानयोः संनिपाते प्रधानानुरोध एव न्याय्य इत्याशयेन विप्रयोगस्य नियामकत्वमुक्तम् । यहा संयोगस्यैव केवलत्वेन, विश्लेषगुणीभूतत्वेन च दैविध्यप्रदर्शनाय तथोक्तम् ।
साहचर्यमेकस्मिन्कार्ये परस्परापेक्षितम् ।
यथा-'रामलक्ष्मणौ' इत्यत्र रामे लक्ष्मणसाहचर्य रामशब्दस्य । अथ किमिदं परस्परापेक्षित्वं यत्किचित्काय, सर्वेषु कार्येषु वा । नाद्यः । घटाद्यव्यावर्तनावटसाहचर्यस्यापि रामपदशक्तिनियामकतापत्तेः। न द्वितीयः । लक्ष्मणसाहचर्यस्यापि निवारणापत्तेः । पक्षद्वयेऽपि रामायोध्ये रघुरामावित्यत्रानियमापत्तेश्च । न च नानार्थपदसमभिव्याहृतपदान्तरार्थस्य प्रसिद्धः संबन्धस्तत् । स चैकजन्यत्वदांपत्यजन्यजनकभावस्वामिभृत्यभावस्वस्वामिभावादिरनेकविधः । तेन रामलक्ष्मणौ, सीतारामौ, रामदशरथौ, रामहनूक्रमेण दलद्वयकृत्यमाह-न त्वायुधति । असौ संयोगः । लिङ्गत्वात्तत्त्वेन ग्रहणात् । तथा च विशेषणदले नियमेनेति परणीयमिति भावः । तयोरेव शङ्खचक्रयोरेव । तथा अभिधानियामकः । एवमग्रेऽपि । अतिप्रसङ्गवारणायाह--अत्रेति । तेन संश्लेषपूर्वकस्यैव तस्य ग्रहणमिति नातिप्रसङ्गः । प्राग्वत्तत्कृत्यमाह-तेनेति । गुणतया प्रकारतया । तादृशति । दलद्वयाक्रान्तेत्यर्थः । अलं समर्थः । विश्लेषस्य नियामकत्वकल्पनजगौरवादाह-यद्वेति । केवलत्वेन शुद्धसंयोगत्वेन । रामशब्दस्य । राघवेऽभिधानियामकमिति शेषः । निवारणेति । सर्वकार्ये तदभावादिति भावः । पक्षद्वयेऽपीति । कार्यमात्रे तयोस्तदभावात् । आयेऽसंभवात्, अन्त्ये तदा रघोरसत्त्वादिति भावः । प्रसिद्ध इति। नानार्थपदार्थे इति शेषः । तत्साहचर्यम् । उक्तसंबन्धानां क्रमेणोदाहरणान्याह-ते.
For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
काव्यमाला।
मन्तौ, रामायोध्ये, इत्यादौ साहचर्यनियामकमिति वाच्यम् । लक्ष्मणादिसंबन्धापेक्षया चक्रादिसंबन्धस्याविशिष्टतया सशङ्खचक्र इत्यत्रापि साहचर्यस्यैव नियामकतापत्तेः । न च सशङ्खचक्र इत्यादौ यत्र संवन्धः संयोगरूपस्तत्राद्यस्य, यत्र च संबन्धान्तरं तत्र तृतीयस्यावकाश इति वाच्यम् । संयोगस्यैव पृथक्कारे बीजाभावात् । न च यत्र संयोगः शब्दोपात्तस्तत्र स एव नियामकः, यत्र तु संबन्धिमात्रं न तु संबन्धस्तत्र साहचर्यम्, अत एवं सशङ्खचक्र इति संयोगस्य, रामलक्ष्मणाविति च साहचर्यस्योदाहरणमिति वाच्यम् । सलक्ष्मणो रामो विलक्ष्मणो राम इत्यत्र संयोगविभागयोगुणयोरप्रतीत्या साहचर्योदाहरणतायां प्रसक्तायां सशङ्खचक्र इत्यादेरपि तदुदाहरणताया एवौचित्यादिति चेत् । उच्यते--संयोगशब्दस्य संवन्धसामान्यपरतया यत्र शब्दोपात्तं प्रसिद्ध संबन्धसामान्यं शक्तिनियामकं तदाद्यस्य, यत्र तु द्वन्द्वादिगतः संबन्ध्येव केवलस्तथा तत्साहचर्यस्योदाहरणमिति प्राचामाशयात् । इत्थं च सगाण्डिवोऽर्जुनः इति संयोगस्य, गाण्डिवार्जुनाविति साहचर्यस्योदाहरणम् । विरोधिता प्रसिद्धं वैरम् । सहानवस्थानं च ।
तत्राद्यस्य 'रामार्जुनौ' इत्युदाहरणं प्राञ्चो वदन्ति । यत्त्वप्पय्यदीक्षितो वृत्तिवार्तिके प्राचामुदाहरणं निराकुर्वन्नाह—'रामार्जुनपदयोर्वध्यघातकभावविरोधाद्भार्गवकार्तवीर्ययोरभिधा नियम्यत इत्येतदयुक्तम् । रामपदस्याभिधानियमने सति तद्विरोधप्रतिसंधानेनार्जुनपदस्य कार्तवीर्येऽभिधानियमनम्, तस्मिंश्च सति तद्विरोधप्रतिसंधानेन रामपदस्येत्यन्योन्याश्रयापत्तेः । तस्मादन्यतरपदस्य व्यवस्थितार्थत्व एव स्मृततद्विरोधप्रतिसंधानान्नानार्थनेति । यत्र सशङ्खचक्र इत्यादावित्यन्वयः। आद्यस्य संयोगस्य । यत्र च रामलक्ष्मणा. वित्यादौ । संबन्धान्तरमेकजनकजन्यत्वादिरूपम् । तृतीयस्य साहचर्यस्य । संबन्धिमात्रं शब्दोपात्तमित्यनुषज्यते । मात्रपदव्यवच्छेद्यमाह-न विति । गुणयोरप्रतीत्यति। असंभवादिति भावः । किं तु साहित्यतदभावयोः प्रतीत्येति शेष: । आद्यस्य संयोगस्य । संबन्ध्येवेति । द्वन्द्वादिघटकः केवल: संबन्ध्येव तथा प्रसिद्धः शब्दोपात्त इत्यर्थः । भावति । भावरूपविरोधादित्यर्थः । तत्परशुरामेत्यर्थः । तस्मिश्च सति कार्तवीर्यऽभिधा. नियमने सति । तत्कार्तवीर्येत्यर्थः । रामपदस्य परशुरामेऽभिधानियमनमिति शेषः । व्य. वस्थितेति । निश्चितेत्यर्थः । नियामकत्वस्येत्यस्योदाहरणमित्यत्रान्वयः । एवं स्थितेऽपि
For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
पदस्याभिधानियमनमिति रामरावणयोरित्युदाहरणं भवितुमर्हति' इति । तत्र तावद्रामरावणयोरिति व्यवस्थितार्थान्यतरपदकमुदाहरणं विरोधिताया नियामकत्वस्य न युक्तम् । रामलक्ष्मणयोरित्यत्रेवात्रापि साहचर्यस्यैव नियामकत्वात् । न च लक्ष्मणसाहचर्य रामस्य प्रसिद्धम्, न तु रावणसाहचर्यमिति वाच्यम् । प्रसिद्धतत्संबन्धकस्यैव तत्साहचर्यपदार्थत्वात् । पितृभ्रातृजायापत्यभृत्यनगरीणां संबन्धस्येव रिपोः संबन्धस्यापि लोकप्रसिद्वात् । एवं स्थितेऽपि विरोधितायाः पृथग्गणने मित्रत्वादेरपि तथागणनापत्तेः । तस्मात्प्राचीनोदाहरणमिव त्वदुक्तमुदाहरणमप्यशुद्धमेव । 'अन्यतरपदस्य व्यवस्थितार्थ एव' इत्याद्यप्यसंगतमेव । हरिनागस्येत्यादावुभयोरव्यवस्थार्थत्वेऽप्येकवद्भावाभिव्यक्तेन विरोधेन धर्मिविशेषाविशेपितेनापि युगपद्धर्मिविशेषद्वयेऽभिधाया नियन्तुं शक्यत्वात् । 'यदपि रामार्जुनगतिस्तयोरिति शब्दान्तरसंनिधेरुदाहरणम्' इति स एवाह । तदप्यसत् । त्वया निरूपिते शब्दान्तरसंनिधेरुदाहरणे 'निषधं पश्य भूभृतम्', 'नागो दानेन राजते', इत्यत्र चाभिधाया नियतविषयतां विनान्वयस्यैवानुपपत्त्या, प्रकृते च रामार्जुनगतिस्तयोरित्यत्रार्थान्तरविषयत्वेऽप्यन्वयानुपपत्तेरभावान्महति वैलक्षण्ये शब्दान्तरसंनिध्युदाहरणत्वायोगात् । एवमपि काव्यप्रकाशगतस्य रामार्जुनगतिस्तयोरिति विरोधितोदाहरणस्यासंगतिः स्थितैवेति चेत् । न । तयोः कयोश्चित्प्रसिद्धविरोधयो रामार्जुनगती रामार्जुनसटशी गतिराचरणमिति तदर्थवर्णने विरोधेन प्रस्ताववशात्प्रतीतेन युगपद्भार्गवकार्तवीर्ययो रामार्जुनशब्दाभिधाया नियमनस्योपपत्तेः । न च
साहचर्यस्य नियामकत्वसंभवेऽपि । तथा पृथक् । त्वदुक्तमप्पय्यदीक्षितोक्तम् । तत्सिद्धान्तं खण्डयति-अन्यतरेति । हरीति । येषां च विरोधः शाश्वतिकः' इति समाहारैकवद्भावः । अत एवाह-एकवद्भावाभीति । स एवाप्पय्यदीक्षित एव । भूभतमित्यत्रेति । निषधपदसांनिध्याद्भूभृत्पदस्य राज्ञि, दानपदसांनिध्यान्नागपदस्य गजेऽभिधानियमनम् । अर्थान्तरविषयत्वेऽपीति । रामार्जुनवत्पराक्रमशालित्वमित्या. द्यर्थान्तरम् । एवमपि दीक्षितोक्तसांगत्येऽपि । स्थितैवेति । दीक्षितोद्भावितान्योन्याश्रयस्यानुद्धारादिति भावः । तदर्थोत । उदाहरणार्थेत्यर्थः । प्रस्तावः प्रकरणम् । युगपदिति । तथा च नान्योन्याश्रय इति भावः । नियमाधाति । तनियमाश्रयस्य
१६
For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
काव्यमाला।
प्रकरणादविशेषः । विरोधस्य प्रक्रान्तत्वेऽपि भार्गवकार्तवीर्ययोः शक्तिनियमाधिकरणयोरप्रक्रान्तत्वात् । सहावस्थानलक्षणा विरोधिता तु छायातपावित्यादौ बोध्या।
अर्थः प्रयोजनम् । चतुर्थ्याद्यभिधेयम् ।
यथा—'स्थाणुं भज भवच्छिदे' इत्यादौ भवच्छेदनादि स्थाणुपदस्य भवे । नन्वर्थस्य लिङ्गात्को भेदः । न च लिङ्गमनन्यसाधारणस्तद्धर्मः, अर्थस्तु तद्भजनादेः कार्यम्, न तु तद्गतो धर्म इति स्फुट एव भेद इति वाच्यम् । भवच्छेदजनकभजनकर्मत्वस्य काष्ठात्तिभवधर्मत्वादिति चेत् । अत्राहुः--उक्तस्य विशिष्टधर्मस्य शाब्दबोधोत्तरभाविमानसबोधविषयत्वेन प्रकृतशाब्दबोधाविषयत्वाल्लिङ्गतो वैलक्षण्योपपत्तिरिति लिङ्गं त्वेकपदार्थः । कोपादिरनन्वित एव यः पदार्थान्तरेण प्रकृतशक्यधर्मतां शक्यान्तरव्यायत्ततां च भजते । उक्तधर्मस्तु न तथेत्यपि केचित् ।
प्रकरणं वक्तृश्रोतबुद्धिस्थता ।
यथा-राजानं संबोध्य केनचिढत्येनोक्तम् 'सबै जानाति देवः' इति वाक्ये देवपदस्य युष्मदर्थे ।
लिङ्ग नानार्थपदशक्यान्तरात्तिरेकशक्यगतः साक्षाच्छब्दवेद्यो धर्मः। __ यथा-'कुपितो मकरध्वजः' इत्यत्र कोपो मकरध्वजपदस्य ।
प्रक्रान्तत्वे एव प्रकरणस्य नियामकत्वमिति भावः । द्वितीयविरोधितोदाहरणमाह-स. होत । आदिना तुमुनादिपरिग्रहः । छेदनादीत्यस्य प्रयोजनमिति शेषः । भवे । अभि. धानियामकमिति शेषः । अत्र तच्छब्दाः शिवपराः । काष्ठावृत्तीत्यनेनानन्यसाधारणत्वं सूचितम् । उक्तस्य भवच्छेदजनकभजनकर्मत्वस्य । शाब्दति । भवच्छेदफलकचैत्रा. भिन्नकर्तकस्थाणुकर्मकभजनमित्यस्यैव शाब्दबोधत्वादिति भावः । प्राचीनाशयसूचकं मतान्तरमाह-लिङ्गं त्विति । एकपदार्थ इत्यस्य विवरणं पदार्थान्तरेणानन्वित एवेति । एवं चासमस्ताखण्डेकपदार्थो लिङ्ग मिति फलितम् । भवच्छेदनादिकं च भजनादिरूपभिन्नपदार्थान्वितमेव भवधर्म इति भावः । कोपादिरिति । कुपितो मकरध्वज इत्यादौ । उत्तेति । भवच्छेदजनकभजनकर्मत्वरूपस्तु भजनादिरूपभिन्नपदार्थान्वित एव भवधर्मो नानन्वित इत्यर्थः । अत्रारुचिः स्फुटीभविष्यत्यनुपदमेव । युष्मदर्थे । शक्ति
For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
शब्दस्यान्यस्य संनिधिर्नानार्थपदैकार्थमात्रं संसर्ग्यर्थान्तरवाचक
पदसमभिव्याहारः ।
यथा - 'करेण राजते नागः' इत्यत्र करपदस्य नागपदमादाय, नागपदस्य च करपदमादाय शुण्डायां गजे च । न चात्रैकशब्दशक्तिनियमनमपरशब्दशक्तिनियमो ऽपेक्षते, येनान्योन्याश्रयः स्यात् । किं तु करनागशब्दयोरर्थान्तरग्रहणेऽन्वयानुपपत्त्या युगपदेव शक्तिर्नियम्यते । देवस्य पुरारातेरिति प्राचामुदाहरणे सुरत्वभूपत्वाभ्यां देवपदान्नगरारित्वासुरविशेषारित्वाभ्यां पुरारातिपदाच्चोपस्थितेरुभयोरपि नानार्थत्वादर्थान्तरस्वीकारेstarवयोपपत्तेश्च कथं शक्तेर्नियमः स्यात् । न च पुरारातिपदं योगरूढम् । तथा च रूढेर्योगापहारितया शिवत्वेनैव तस्य बोधकत्वाद्देवपदशक्तिनियामकतेति वाच्यम् । पुरारातिपदस्य रूढौ मानाभावात् । अथ 'देवस्य त्रिपुरारातेः' इति पाठस्तथापि पदान्तरोपस्थापितस्य त्रिपुरासुर वैरित्वस्य लिङ्गतया लिङ्गोदाहरणत्वमेवास्य स्यात् । न तु शब्दान्तरसंनिध्युदाहरणत्वमिति वदन्ति । तत्रैकपदार्थः कोपादिः पदार्थान्तरेणानन्वित एव यः प्रकृतशक्यधर्मताम्, शक्यान्तरव्यावृत्ततां च भजते स लिङ्गपदेनात्रोक्त इति प्राचामाशये तु नोक्तदोषः । यत्तु 'शब्दस्याव्यभिचरितस्य संनिधिः सामानाधिकरण्यम्' इति काव्यप्रकाशटीकाकारैरुक्तम् । ' तत्तु करेण राजते नागः' इत्यादावव्यापनात्तन्नियामकान्तरस्य गवेषणे गौरवात्, 'कुपितो मकरध्वजः' इति तन्मूलोक्ते लिङ्गोदाहरणेऽतिव्यापनाच्चोपेक्ष्यम् ।
१२३
For Private And Personal Use Only
!
नियमनमिति शेषः । एवमग्रे सर्वत्र । न चेति । नहीत्यर्थः । अर्थान्तरेति । हस्तसर्पेत्यर्थः। प्राचोक्तं खण्डयति–देवस्येत्यादि । वदन्तीत्यन्तेन । अर्थान्तरेति । भूपनगरादिरूपेत्यर्थः । तस्य पुरारातिपदस्य | देवेति । पुरेत्यादिः । पदान्तरेति । · त्रिपुरारातेरितीत्यर्थः । अस्य देवस्य । त्रिपुरारातेरित्यस्य । वदन्तीति सूचितामरुचिमाह--तत्रेति । 'देवस्य त्रिपुराराते:' इति पाठे इत्यर्थः । प्रकृते च वैरित्वं त्रिपुरासुरान्वितमेव शक्यान्तरव्यावृत्तमतो न दोष इति भावः । वस्तुतस्तु त्रिपुरारातिपदस्य योगरूढत्वेन रूढ्यर्थान्वितत्रिपुरासुरवैरित्वस्य तत्पीड्यमानभूभृत्स्वपि सत्त्वेन शक्यान्तरव्यावृत्तत्वाभावाच्च । एवं चैकपदार्थ इत्यस्य यथाश्रुतत्वमेवास्त्विति बोध्यम् । नोक्तदोष इति । शब्दान्तरसंनिध्युदाहरणत्वाभावरूपदोषो नेत्यर्थः । अव्यभिचरितस्यार्थान्तराप्र
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
काव्यमाला। सामर्थ्य कारणता।
यथा-'मधुना मत्तः कोकिलः' इत्यत्र कोकिलमदजनकता मधुशब्दस्य वसन्ते । अत्र कोकिलमादने मधोरेव शक्तिर्न तु मधुनः । मादकत्वं मधुन्यपीति न लिङ्गमिति वदन्ति । तत्र सामर्थ्य लिङ्गान्तर्गतमेव कुतो न स्यात्, इति शङ्कायाः कथमेतदुत्तरं संगच्छते। न च मादनसाम
र्थ्यस्य सुरावृत्तितया नासाधारणधर्मतारूपं लिङ्गत्वमिति वाच्यम् । मादनसामर्थ्यस्य मुरारत्तित्वेऽपि कोकिलमादनसामर्थ्यस्य वसन्तासाधारणतया लिङ्गस्य दुर्वारत्वात् । न च प्राणिमात्रमादनसामर्थ्यस्य मधुनः कोकिलमादनसामर्थ्यमप्यस्तीति वाच्यम् । एवं सति सामर्थ्यस्य वाचकतानियामकत्वमसंगतं स्यात् । न तु मधुन इति स्वोक्तिविरोधश्च भवेत् । प्रसिद्ध्याश्रये पुनर्लिङ्गत्वमप्रच्युतम् । शाब्दत्वाशाब्दत्वाभ्यामेकानेकपदार्थत्वाभ्यां वा विशेषस्तु स्यात् ।
औचिती योग्यता।
यथा-'पातु वो दयितामुखम्' इत्यत्र दयितामुखकर्तृकरक्षणकर्मत्वाक्षिप्तकामार्तानां संबोध्यपुरुषाणां त्राणं हि तस्याः सांमुख्येनैव भवति । न तु मुखमात्रेण । वैमुख्ये तेन त्राणायोगात् । अतस्त्राणाहत्वं वदनसांमुख्योभयप्रत्यायकस्य मुखशब्दस्य ।
देशो नगरादिः।
यथा-'भात्यत्र परमेश्वरः' इत्यादौ परमेश्वरादिशब्दस्य राजादौ । तस्य नगरादिसंबन्धतदभावयोः संभवेनाभावव्यावृत्त्यर्थमधिकरणकीर्तनस्य त्यायकस्य । गवेषणेऽन्वेषणे । तन्मूलोक्ते प्रकाशकारोक्ते। मधुनो मद्यस्य । वदन्तीतिसू. चितामरुचिमाह-तत्रेति । मधुनेत्युदाहरणविषयभूतमित्यर्थः । मादने करणे ल्युट । वाचकतेति । शक्तीत्यर्थः । असाधारणत्वाभावादिति भावः । इष्टापत्तावाह-न त्विति । अप्रच्युतमिति । कोकिलमादनसामर्थ्यस्य वसन्त एव प्रसिद्धेरिति भावः। शाब्दत्वाशाब्दत्वाभ्यामिति । मधुकरणकमदाश्रयः कोकिल इति हि तत्र बोधः शाब्दः । कुपितो मकरध्वज इत्यत्र तु कोपाश्रयाभिन्नः इत्येव तथेति भावः । एवं भेदस्य प्रागनुक्तत्वात्तत्रापि कोपसाधनोल्लेखस्य सुवचत्वाच्चाह-एकानेकति । आक्षिप्तति । विशेषरूपेण क्षिप्तेत्यर्थः । सांमुख्येन संमुखत्वेन । तेन मुखेन। तदुक्तीति।
For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
_१२५ सार्थक्यात् । परमात्मनस्तु सर्वगस्य व्यावाभावात्तदुक्तिवैयर्थ्यापत्तेः । एवं 'वैकुण्ठे हरिर्वसति' इत्यत्रापि बोध्यम् । एकत्रार्थान्तरोपग्रहेऽधिकरणोक्तिवैयर्थ्यम्, अपरत्र तु तदधिकरणत्वाप्रसिद्धिरिति विशेषः ।
कालो दिवसादिः। 'चित्रभानुर्दिने भाति' इत्यादौ चित्रभान्वादिपदानां सूर्यादिषु । एवं 'चातुर्मास्ये हरिः शेते'।
व्यक्तिः स्त्रीपुंनपुंसकलिङ्गानि ।
यथा-'मित्रो भाति', 'मित्रं भाति' इत्यत्र मित्रशब्दस्य पुनपुंसके सुहृत्सूर्ययोः । एवं 'नभो भाति', 'नभा भाति' इत्यत्रापि ।
स्वर उदात्तादिः।
यथा-'इन्द्रशत्रुः' इत्यत्र समासान्तोदात्तत्वमिन्द्रशत्रुशब्दस्येन्द्रस्य शत्रौ । पूर्वपदप्रकृतिस्वरप्राप्तमायुदात्तत्वं विन्द्रशत्रुके । आदिना भयादिपरिग्रहः । यथा-'ए।हमेत्तत्थणिआ' इत्यादौ । इहार्थसामौचितीनामुदाहरणेषु चतुर्थ्यायैस्तृतीयाद्यैरर्थसामर्थ्येन च बोध्यमानकार्यकारणभाव एव नियामकः । न तु वस्त्वन्तरम् । बोधकवैचिघ्याच्च नियामकस्य वैचित्र्येणोक्तिः प्राचाम् । वस्तुतस्तु संयोगादीनामान्तरसाधारणत्वे नानार्थशब्दस्यार्थविशेषे शक्तः संकोच एव न संभवति । नियामकानामसंकुचितत्वात् । अथ प्रसिद्धत्वादिना तेषामसाधारणताबुद्धिर्य
अधिकरणोक्तीत्यर्थः । एकत्र आये । अर्थान्तरेति । परमात्मवानरादीत्यर्थः । आदिभ्यां रात्रिवत्यादि परिग्रहः । शेते इत्यस्येत्यत्रापि बोध्यमिति शेषः । पुनपंसके पंन. पुंसकत्वे । सुहृत्सूर्ययोरिति । सूर्यसुहृदोरिति क्रमो बोध्यः । पाठ एव वेत्थम् । नभाः श्रावणः । एद्दहेति । 'एहमेत्तत्यणिआ एद्द हमेत्तेहिं अच्छिवत्तेहिं । एद्दहमेत्तावत्था एद्दहमेत्तोहैं दिअएहि ॥' 'एतावन्मात्रस्तनिका एतावन्मात्रैर क्षिपत्रैः । एतावन्मात्रावस्था एतावन्मात्रैदिवसः ॥' [इति च्छाया ।] अर्थसामर्थ्येन अर्थयोग्यतया । यथासंख्यमन्वयः । बोधकवैचित्र्येऽपि पदार्थयोर्यः कार्यकारणभावस्तद्बोधकेत्यर्थः । नियामकस्य अर्थादेः । वैचित्र्येण भेदेन । प्राचामिति सूचितामरुचिमाह-वस्तुत. स्त्विति । साधारणत्वे सतीति शेषः । स्वारसिकत्वाभावादाह-यथाकथंचिदिति । प्रागुक्तरीत्यार्थीदीनामसंग्रहादाह-प्रायश इति। तेषामप्यन्तर्भावसंभवा.
For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
काव्यमाला। थाकथंचिदुपपाद्यते, तदा प्रायशो लिङ्गभेद एव । एतेन तु सर्वथैव ततः स्वतन्त्रा इति बोध्यम् । तत्र शब्दशक्तिमूलालंकारस्य ध्वनिर्यथा
'करतलनिर्गलदविरलदानजलोल्लासितावनीवलयः ।
धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम् ॥ अत्र राजप्रकरण करदानधनदसार्वभौमशब्दानां शक्तौ संकोचितायामपि तन्मूलकेन ध्वननेन प्रतीयमानस्यार्थान्तरस्याप्रस्तुतस्याभिधानं मा भूदिति प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कल्प्यत इत्युपमालंकारध्वनिः । अथ श्लिष्टविशेषणायां समासोक्तौ व्यङ्ग्यस्याप्यप्रकृतव्यवहारस्य प्रस्तधर्मिण्यारोप्यमाणस्य प्रकतोपस्कारकतया यथा गुणीभूतव्यङ्गचत्वमेवमिहाप्युचितम् । न चोपमा प्रकृतार्थोपस्कारिका न भवतीति शक्यं वदितुम् । 'उल्लास्य कालकरवालमहाम्बुवाहम्', 'भद्रात्मनो दुरधिरोहतनोः, इत्यादौ प्राचीनानां पद्ये 'करतल-' इत्यादि प्रागुदाहृतपद्ये च व्यङ्गयोपमया प्रकृतस्य राज्ञः प्रकर्षस्य सकलानुभवसिद्धत्वात् । अनुभवापलापे तु समासोक्तावप्यप्रकृतव्यवहारस्य प्रकृतोपस्कारकत्वं नेति सुवचत्वात् । ननु समासोक्तावत्र चास्ति विशेषः । यत्तत्र व्यवहारिणो नानार्थशब्दानुपस्थाप्यत्वम्, इह तु तदुपस्थाप्यत्वम्, इति चेत्, किं चातो नहि व्यवहारिणो नानार्थशब्दोपस्थाप्यतामात्रेणाप्रकृतधर्मिनिरू
दाह-सर्वथैवेति । ततः लिङ्गात् । तत्र त्रयोदशभेदानां मध्ये । अलंकारस्येत्यस्योपमेत्यादिः । अविरलेति । संततेत्यर्थः । अवनीवलयः भूमण्डलः । धनदानामग्रे आदौ महिता पूजिता मूर्तिर्यस्य सः । अत्रेति । हस्तवितरणदातजनभुपेष्विति भावः । तन्मलकेन शब्दशक्तिमूलकेन । अर्थान्तरेति । इन्द्रवृत्तान्तेत्यर्थः । षष्टयर्थे बहुव्रीहिद्वयम् । करतलमैरावतशुण्डागण्डस्थलम् । धनदः कुवेरः । अप्रस्तुतस्यासंबद्धस्य । श्लिष्टेति । अयमैन्द्रीमुखं पश्य' इत्यादौ । व्यवहारस्य मुखचुम्बनादिरूपस्य । आरोप्येति । अन्यथा असंबद्धाभिधानं स्यादिति भावः । इहापि करतलेत्यादावपि । तथा च मध्यमकाव्यत्वम्, नोत्तमकाव्यत्वमिति भावः । व्यङ्ग-योपमेति । व्यङ्गयरू. पोपमयेत्यर्थः । समासोक्तावपि उक्तरूपायाम् । अत्र च करतलेत्यादौ । एवमग्रेऽपि । व्य. वहारिणों जारादेः । तदुपेति । सार्वभौमति । नानार्थपदोपेत्यर्थः । स्वभावसुन्द
For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
१२७ पिताया उपमायाः प्रकृतधर्म्युपकारकत्वं वार्यते । येन गुणीभूतव्यझ्यत्वं न स्यात् । न चात्रोपमादीनामलंकाराणां स्वभावतः सुन्दरत्वात्काव्यप्रवृत्त्युद्देश्यतया च वस्तुमात्रे गुणीभावो न संभवति । यथा वस्तुमात्रेणाभिव्यक्तानामलंकाराणाम् । तुल्यन्यायत्वात् । अप्रकृतव्यवहारस्य तु समासोक्त्यवयवस्य निरलंकारतया वस्तुन्युपस्कारकत्वं समासोक्तावविरुद्धमिति वाच्यम् । एवमपि 'बाधेऽदृढेऽन्यसाम्यात्कि दृढेऽन्यदपि बाध्यताम्' इति न्यायेनोक्तयुक्तेः शिथिलत्वात्, अपराङ्गताया दुरपह्नवात् । अथोच्यते-उपमानमुपमेयं साधारणो धर्म इति ह्युपमाशरीरघटकम् । न तु ततः पृथग्भूतम् । तेविना तस्या अनिष्पत्तेः । इत्थं चोपमेयस्य साहश्यांशेनोपस्कारेऽप्युपमाया नापराङ्गत्वम् । उपमेयस्यापरत्वाभावात् । यथा समासोक्तावप्रकृतव्यवहारेण प्रकृतस्योपस्करणेऽपि न समासोक्तेरपराङ्गत्वम् । प्रकृताप्रकृतघटितत्वात् । एवमिहापि स्यादिति । तथापि समासोक्तरिवास्यापि प्रभेदस्य गुणीभूतव्यङ्गयत्वापत्तेः, अस्यैव वा समासो
रस्यापि शृङ्गारादेः क्वचिद्गणभावदर्शनादाह-काव्यप्रवत्त्युहेश्यतया चेति । अन्यथा नानार्थशब्दघटितकाव्यकरणरूपकविप्रयासानर्थक्यापत्तिरिति भावः । वस्तुमात्रे प्रकृतार्थे । यथा वस्तुमात्रेति । 'वीररुभटान्दृष्ट्वा जयलक्ष्मीसमावृतान् । रणे कर्षन्त्यरिवधूकेशांस्ते कण्टकिद्रुमाः ॥' इत्यादाविति भावः । तुल्येति । उक्तहेतोस्तुल्य. त्वादित्यर्थः । अनलंकारत्वेऽवयवत्वं हेतु: । अदृढे इति च्छेदः । सादृश्यांशेन तद्रूपोपमालेनोपमानेन । उक्तमेवार्थ विशदयति- यथेति । गुणीभूतव्यङ्गत्वापत्तेरिति । अयं भावः- विशिष्टस्योपमाशरीरत्वेऽपि उपमेयांशस्य न व्यङ्गयत्वम् । शक्त्यैव तल्लाभात् । एवं च तद्धटकव्यङ्गयांशस्य तदघटकवाच्यादनतिशायित्वेन गुणीभूतव्यङ्गयत्वं दुर्वार. मिति । अत्र वदन्ति–अलंकाराणामुद्दीपनविधया रसाद्यपयोगित्वेनालम्बनोपेक्षयोद्दीपनेऽधिकचमत्कारित्वस्य सर्वानुभवसिद्धतया करतलेतिपदवाच्यालम्बनविभावापेक्षयातिशायित्वाद्धनित्वमव्याहतमेव । रसाद्यपेक्षया गुणीभूतव्यङ्गत्वं त्विष्टमेव । समासोक्तो तु 'आगत्य संप्रति वियोगविसंगुलाङ्गीम्' इति सखीशिक्षावाक्येऽप्रकृतनायकवृत्तान्ताध्यारोपं विना तदनुपपत्तेर्गुणीभूतव्यङ्गयत्वं स्पष्टमेव । यत्र तु तस्यापि रसायुपस्कारकतया वाध्यादतिशयितत्वं प्रागुक्तरीत्या तत्रास्तु नाम ध्वनित्वं तस्याः । न चैवमप्युपमाकृतोत्कर्षमादायास्तु ध्वनित्वम्, अलंकारध्वनिरिति तु कथमिति वाच्यम् । अलंकारकृतोत्कर्षध्वनावेवालंकारध्वनिरिति व्यवहारादिति विनिगमनाविरहात् । अस्यैव वेति । प्रभेदस्यैवे
For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
काव्यमाला।
तेरपि ध्वनिव्यपदेश्यत्वापत्तेः । अन्यच्च-श्लेषे हि श्लेषभित्तिकमभेदा. ध्यवसानं द्वयोरर्थयोरिति सकलालंकारिकनिबद्धम्, अनुभवसिद्धं च । तत्र मूलान्वेषणे विधीयमाने एकपदोपात्तत्वान्न शक्यते मूलमन्यन्निवक्तुम् । एकपदोपात्तो ह्यनेकोऽप्यर्थोऽभिन्नतयैव भासते । इत्थं च 'उल्लास्य कालकरवाल-' इत्यादावप्येकपदोपात्ततया द्वयोरर्थयोरभेदाध्यवसानस्य युक्तत्वेनाभेदस्यैव व्यङ्गयत्वमुचितम्, नोपमायाः। श्लेपे द्वयोरर्थयोर्वाच्यत्वम्, एककालत्वं च । इह त्वेकस्य वाच्यत्वम्, अपरस्य व्यङ्गयत्वम्, भिन्नकालत्वं चेति । एतावन्मात्रेणैवैकपदोपात्तत्वप्रयुक्तमभेदाध्यवसानं न शक्यं त्यक्तुम् । व्यङ्गताया भिन्नकालत्वस्य चाभेदप्रतिपत्तावबाधकत्वात् । एतेन 'रूपकस्योपमाज्ञानाधीनज्ञानत्वेन प्रथमोपस्थिततया तस्या एव संबन्धत्वं कल्प्यम्' इति काव्यप्रकाशटीकाकारैरुक्तं नातीव. श्रद्धेयमिति । प्रकृतमनुसरामः । ___ एवमलंकारान्तरमपि शब्दशक्तिमूलानुरणनस्य विषयः । यथा यमुनावर्णने—'रविकुलप्रीतिमावहन्ती नरविकुलप्रीतिमावहति । अवारितप्रवाहा सुवारितप्रवाहा ।' इह नराणां वीनां च कुलस्य प्रीतिमावहतीति प्रकृते. ऽथै सिद्धे रविकुलप्रीतिं नावहतीति द्वितीयोऽप्रकृतोऽर्थः, विरोधश्च । एवमन्यत्रापि । यदि तु रविकुलप्रीतिमावहन्त्यपि न रविकुलप्रीतिमावहति । अवारितप्रवाहापि सुवारितप्रवाहा इत्यपिरन्तर्भाव्यते तदा विरोधांशस्यापिनोक्तत्वाहितीयार्थस्य च तदाक्षिप्तत्वान्न ध्वनित्वम् । निपातानां द्योतकतानयेऽपि स्फुटद्योतितस्य तदाक्षिप्तस्य च वाच्यकल्पत्वान्न तथात्वम् । त्यर्थः। प्राचोक्तमुपमालंकारध्वन्युदाहरणं खण्डयति-अन्यञ्चेति । किं चेत्यर्थः । श्लेषभित्तिकं तन्मूलकम्। विधीयमान इति । क्रियमाणा इत्यर्थः । एकपदोपात्तत्वादन्यदित्यन्वयः । इह तु 'उल्लास्य-' इत्यादौ तु । इतिः पूर्वग्रन्थसमाप्तौ । अलंकारान्तरमिति । उपमातिरिक्तमपोत्यर्थः । रवीति । सूर्यवंशप्रीतिं मनुष्यपक्ष्युभयसमूहप्रीतिं च । अवारीति । अप्रतिबद्धप्रवाहा । शोभनं वाजलं तत्संजातं यस्य तादृशः प्रवाहो यस्याः सा । विरोधश्चेति । अलंकारो ध्वन्यत इति शेषः । द्वितीयार्थस्य चाप्रकृतार्थस्य च । तदेति । अपिबोध्यविरोधेत्यर्थः । ननु निपातानां द्योतकत्वेनोक्तत्वाभावावनित्वमेवात आह-निपातानामिति । तथा च द्योतकत्वं विलक्षणमिति भावः । न तथात्वं न ध्वनित्वम् । प्राचीनोदाहरणे शङ्कते- नन्विति।
For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
१२९
ननु 'मृणालवलयादि दवदहनराशिः' इत्यत्र विरोधाभासस्य कथं वाच्यालंकारत्वम् । विरोधांशस्य शब्दवाच्यताविरहेण व्यङ्ग्यताया एवाभ्युपगन्तव्यत्वात् । न च विरोधविशिष्टाभेदस्य संसर्गत्वाद्वाच्यार्थबोधविषयतया विरोधस्य वाच्यत्वमिति वाच्यम् । विरोधाभेदयोः परस्परविरु द्धत्वेनैककालावच्छेदेनैकसंसर्गत्वस्यानुपपत्तेः । नानार्थयोरभेदस्यैव संसर्गतया विरोधस्यापि संसर्गत्वे मानाभावाच्च । पर्यन्ते दवदहनराशिपदस्य सदृशलाक्षणिकतया विरोधांशस्य तिरोधानाच्च । मैवम् । उक्तपद्यस्य विरोधोदाहरणतामात्रे तात्प
र्यात् । व्यङ्गयत्वेऽपि तथात्वस्यानपायात् । वाच्यविरोधोदाहरणतायां त्वपिरन्तर्भाव्यः। केचित्तु—'विरोधांशस्य व्यङ्गयत्वेऽपि विरोधिद्वयस्य वाच्यतामात्रेण विरोधाभासस्य वाच्यालंकारव्यपदेशोपपत्तिः । इत्थमेव चांशान्तरस्य व्यङ्गयत्वेऽप्येकांशमादाय समासोक्त्यादीनामपि वाच्यालंकारव्यपदेशः' इत्याहुः । यथा वा--
'कृष्णपक्षाधिकरुचिः सदासंपूर्णमण्डलः ।
भूयोऽयं निष्कलङ्कात्मा मोदते वसुधातले ।' अत्र भगवत्पक्षाधिकप्रीत्यादिलक्षणे प्रकृतभूपोपयोगित्वात्प्रकृतेऽर्थे शक्त्या प्रतीतिपथमवतीर्ण द्वितीयोऽर्थोऽप्रकृतो वैधात्मा तत्प्रयुक्तो व्यतिरेकश्च । न चात्र व्यतिरेकस्य कविगतराजविषयकरतिभावोत्कर्षकतया गुणीभूतस्य कथं ध्वनिव्यपदेशहेतुत्वम्, प्रधानस्यैव ध्वनिव्यपदेशहेतुत्वादिति वाननु तादात्म्यवदुपपत्तिः स्यादत आह-नानार्थयोरिति । संसर्गत्वे तद्धटकत्वे । तादात्म्यस्य संसर्गत्वं तु तन्त्रान्तरे प्रसिद्धमिति भावः । ननु प्रतीत न्यथानुपपत्तिरेव मानमत आह-पर्यन्त इति । पर्यवसान इत्यर्थः । मात्रपदेन वाच्यत्वनिरासः । अन्तर्भाव्यः मृणालेत्यादौ । शब्दशक्तिमलालंकारान्तरध्वनिमुदाहरति-यथा वेति । भगवत्पक्षेऽधिका प्रीतिर्यस्य । सद्भिरा समन्तात्परिपूर्ण मण्डलं यस्य । निष्कलङ्कः प. वित्र आत्मा यस्य सोऽयं भूपो भुवि मोदत इति प्रकृतोऽर्थः । कृष्णपक्षेऽसितपक्षेऽधि. करुचिः । सदा सर्वकाले संपूर्णमण्डल: । निष्कलङ्कः कलङ्कशून्य आत्मा यस्य सोऽयं भवि मोदत इति चन्द्रवैधात्माप्रकृतोऽर्थः । यद्वा कृष्णपक्षे पापकर्मण्यधिकरुचिः । सदा सं(?) यथा तथा पूर्ण मण्डलं यस्य । निष्कलकोऽत्यन्तकलङ्क आत्मा यस्य सोऽयमित्यप्रकृतोऽर्थः । तत्प्रेति । अप्रकृतार्थप्रयुक्तव्यतिरेकालंकार इत्यर्थः । व्यज्यत इति
For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
काव्यमाला ।
च्यम् । उदासीने वक्तरि तत्त्वार्थकथनपरस्यास्य पद्यस्य वक्तृगतरतिव्यञ्जकत्वासंगतेः, गुणीभूतस्यार्थस्य वाच्यार्थापेक्षया प्रधानतया ध्वनिव्यपदेशहेतुतायाः प्राचीनैः स्वीकाराच्च । अन्यथा
'निरुपादानसंभारमभित्तावेव तन्वते ।
जगच्चित्रं नमस्तस्मै कलाश्वाध्याय शूलिने ॥ इत्यत्र व्यतिरेकध्वनित्वं तैरुक्तमसंगतं स्यात् । व्यतिरेकस्य भगवद्विषयकरतिभावाङ्गताया अनुभवसिद्धत्वात् । शब्दशक्तिमूलवस्तुध्वनिर्यथा_ 'राज्ञो मत्प्रतिकूलान्मे महद्भयमुपस्थितम् ।
बाले वारय पान्थस्य वासदानविधानतः ॥' अत्रोपभोगं देहीति वस्तु राजपदशक्तिमूलानुरणनविपयः । राजपदाचन्द्रोपस्थितावेव चन्द्रजनितभयवारणकारणत्वेनोपभोगस्याभिव्यक्तेः । न चात्र नृपचन्द्रयोरुपमानोपमेयभावः, भेदापोहरूपं रूपकं वा तथास्त्विति वाच्यम् । इह नृपरूपस्यार्थस्य चन्द्ररूपार्थगोपनमात्रार्थमुपात्तत्वेन युगपदुल्लसितोपमानोपमेयकयोरुपमारू पकयोस्तात्पर्यविषयताया अयोगात् । न चासंसृष्टार्थद्वयबोधने वाक्यभेद इति वाच्यम् । तुल्यकक्षतया द्वयोरसंसृष्टयोरर्थयोः प्रतिपिपादयिषितत्व एव तस्याभ्युपगमात् । इह त्वाच्छादकप्रतीतिसमये आच्छाद्याप्रतीतिः, आच्छाद्यप्रतीतो चाच्छादकन्यग्भाव एवेति नास्ति तुल्यकक्षता । शेषः । उदासीने रतिरोषोभयानाविष्टे । सतीति शेपः । अन्यथा तथानङ्गीकारे। निकपेति । उपादानसंभार उपकरणसमूहस्तूलिकादिकं तद्रहितं यथा स्यात्तथा अभित्तावेव शन्य एव चित्रं नानाकारं जगत्तन्वते तस्मै अनिर्वचनीयस्वरूपाय, कला चन्द्रस्य घोडशो भागस्तेन श्लाध्याय शूलिने महादेवाय नमः । पक्ष चित्रमालेख्यम् । कला आलेख्यक्रिया कौशलं च । तैः प्राचीनः । राक्ष इति । हे बाले, त्वं मत्प्रतिकूलाद्राज्ञः सकाशादुपस्थितं महत्पान्थस्य मम भयं वासदानविधानतो वारयेत्यन्वयः । वासश्च दानं चेत्यर्थः । भेदापोहति । अभेदेत्यर्थः । तथास्तु अनुरणनविषयोऽस्तु । तथा च तादृशालंकारध्वनेरे. वोदाहरणम्, न वस्तुध्वनेरिति भावः । युगपदुल्लसिते उपमानोपमेये ययोस्तयोरित्यर्थः । तस्य वाक्यभेदस्य । आच्छादकेति । नपरूपार्थेत्यर्थः । आच्छादोति । चन्द्ररूपार्थत्यर्थः । शक्तिनियमेनेति भावः । अत्र वाले इति पदेन व्याघस्य वाच्यादुपमानताकर.
For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१३१
काव्यप्रकाशे तु-शनिरशनिश्च तमुच्चैः' इत्यादिकमुदाहृत्य 'अत्र विरुद्वौ द्वावपि त्वदनुवर्तनार्थमेकं कार्य कुरुत इति ध्वन्यते' इत्युक्तम् । तञ्च 'द्वौ शन्यशनी उदारानुदारौ चैकं कार्य हननं भानं च' इति व्याख्यातृभिर्व्याख्यातम् । तत्र शन्यशन्योर्हननक्रियाकर्तृत्वान्वयेऽप्युदारानुदारयो नकर्तृतत्पदार्थविशेषणयोस्तत्प्रकारविशेषणयोर्वा साक्षादानकर्तृत्वान्वयाभावात्कथमेककार्यकारित्वं संगतं स्यात् । अतो विरुद्धौ द्वावित्यादि प्रथमाविषयम् । द्वितीयाधे तु विरोधाभास एव । कर्तर्यभेदेनान्वयमात्रेण कुरुत इत्यस्योपपत्तिश्चेत्, अस्तु । द्वितीयार्धेऽपि विरुद्धौ द्वावित्यादि वस्तु व्यङ्ग्यम् । परं त्वर्धद्वयेऽपि विरोधाभासालंकारशबलितमेव । शत्रुविरुद्धस्य शत्रुत्वासंभवादेकस्य शन्यशनिकर्तृकहननकर्मत्वायोगेनाद्याथै, उदारत्वानुदारत्वयोरेकाधिकरणवृत्तित्वायोगाहितीयार्धे च विरोधस्य स्फुटत्वात् । अर्थशक्तिमूलानुरणनं यथा
'गुञ्जन्ति मञ्ज परितो गत्वा धावन्ति संमुखम् ।
आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥' अत्र मधुव्रतकर्तृकम गुञ्जनाद्यैर्वस्तुभिः कविकल्पितत्वविरहेण स्वतः णादयोग्यमेतत् । शनिरिति । शनिम्रहः, अशनिर्वनं च । पुनस्त्वर्थे । उदार उद्भटः । अनुदार अनुगतदारः । नृपदत्तैश्वर्येणाप्रवासात् । न उदारो यस्मादिति वा । पक्षे. ऽशनिः शनिविरोधी । नत्रो असुरादाविव विरोध्यर्थकत्वात् । अनुदार उदारादन्यः । शवलितमेव । उक्तवस्तुव्यङ्गमित्यनुपङ्गः । तदलंकारसत्त्वे हेतुमाह--शत्रविरुद्धस्योति । विरोधिशत्रोविरोध्यन्तरमित्रत्वादे कस्य विरोधिद्वयकर्तकहननकर्मत्वायो. गेन तादृशहननकर्मत्वयोरपि विरोधादिति भावः । राज्ञो विहताशत्वमादाय कोपस्याति. शयितत्वमादाय वा तत्परिहारः । अश निरित्यत्र न विरुद्धार्थक इत्युक्तम् । न चैवं विरोधेऽस्य कथं व्यङ्ग्यता । तन्मूलकहननकर्मत्वयोर्विरोधस्य व्यङ्गयत्वेनाक्षतेः । तमादायैव च विरोधाभासाः । तस्यैव समाधानात् । न वनयोविरोधस्यास्य समाधानमस्ति । एते. नैकर्मिगतत्वे एव विरोधस्यालंकारत्वान्नात्र विरोधालंकार इति परास्तम् । तादृशकमत्वयोरेकधार्मिगतत्वस्य स्पष्टत्वात् । अन्ये तु विरोधिनोरप्येकशत्रुसंभवान तादृशहननक. मत्वयोविरोध इत्याहुः । द्वितीयार्धे चानुगतदार इत्यर्थेन तत्परिहार उक्त एवेति दिक । रणनं यथेति । स्वतः संभविवस्तुना वस्तुध्वनिर्यथेत्यर्थः । संमुखमिति । सरस्या
For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
काव्यमाला।
संभविभिरासन्नसरसिजोत्पत्तिध्वननद्वारा शरदागमनैकव्यरूपं वस्तु व्यज्यते । काव्यप्रकाशे तु–'अरससिरोमणि धुत्ताणं अग्गिम-'इत्याद्युदाहृत्य 'ममैवोपभोग्य इति वस्तु व्यज्यते' इत्युक्तम् । तत्र केन वस्तुनेदं वस्तु व्यज्यते । न तावदलसशिरोमणित्वादिकान्तविशेषणैः । तेषां धात्र्यादिद्धस्त्रीनिरूपितत्वेन तवैवोपभोग्य इत्यादिरूपेणैव व्यङ्गयस्य वक्तव्यतापत्तेः। विशेषणानां कामिनीनिरूपितत्वे तु ममैवेत्यादि व्यङ्गचाकारः स्यात् । नापि परिफुल्लविलोचनत्वेन । तस्य हर्षभावानुभावत्वेन हपव्यञ्जकताया एव क्लृप्तत्वात् । मदुपभोग्यत्वं हि हर्षभावस्य विभावः । नानुभावैर्भावो व्यज्यत इति तद्विभावव्यञ्जनं शक्यं वक्तुम् । केवलस्य परिफुल्लविलोचनत्वस्य ममैवेत्यादि व्यङ्गयव्यञ्जने सामर्थ्याभावात् । पु. त्रागमनधनप्राप्त्यादिविभावकेऽपि हर्षभावे परिफुल्लविलोचनताया अनैकान्तिकत्वादिति । सत्यम् । इयमणिम्मि' इत्याद्यर्थवशप्रापितालसशि
इति भावः । आसन्नेति । शीघ्रभाविनी या कमलानामुत्पत्तिस्तद्वय अनेत्यर्थः । अर. सेति । 'अलसशिरोमणिर्धानामग्रणी: पुत्रि धनसमृद्धिमयः । इति जल्पितेन नताङ्गी प्रफल विलोचना जाता। पतिवरां प्रति धान्याः प्ररोचनोक्तिः पूर्वार्धम् । उत्तरार्ध तु कविवाक्यम्। हे पुत्रि, अयं वर: निरुद्योगिश्रेष्ठो धर्तश्रेष्ठः प्रचुरधनसमृद्धिः, इति भाषि. तेन लज्जा नताही काचित्कन्या हर्षविकसितलोचना जातेत्यर्थः । अत्रालसत्वेन नायिकान्तरागमनं सूच्यते । धर्तत्वेन रतेष्वनादृतगुणत्वम्, धनिकत्वेन कृपणतयादातत्वं च सूचितं सत् अन्यासामनाकर्षणोयत्वं मदुपभोग्यत्वं च व्यनक्ति । तद्विषयकं च कुमार्या ज्ञानं प्रफुल्लनयनत्ववत्वेन वस्तुना स्वहेतुपव्य अनद्वारेण तत्कारणीभूतं सामाजिकेषु व्य. ज्यते । केचित्तु-'अलसत्वेन धनिकत्वेन चाप्रवासित्वम् , तत्वेन संभोगेष्वतप्तत्वम्, धनि. कल्वेन नानाधनदातृत्वमपि नताङ्गित्वेन नमस्कार: तेन स्वस्याप्यमानिनीत्वम् , प्रफुल्लनयनत्वेन हर्पः तेन ममैवोपभोग्यो नाविदग्धाया इति वस्तुव्यञ्जनम्' इत्याहुः। तेषां विशेषणानां निरूपितत्वेन कथितत्वेन । एवमग्रेऽपि । परीति । अस्य कामिनीनिष्टत्वादिति भावः । तस्योति । परिफुल्लविलोचनात्वस्य हर्षाख्यव्यभिचारिभावकार्यत्वेनेत्यर्थः । कार्यण का. रणानुमानस्य प्रसिद्धत्वादिति भावः । विभाव: कारणम् । तत्सत्त्व एव हर्षोदयात् । न. हीत्यस्य वक्तुं शक्यमित्यत्रान्वयः । तद्विभावेति । भावविभावत्यर्थः । हिसूचितमश. क्यत्वे हेतुमाह-केवलस्येति । विशिष्टस्य तत्त्वस्य सिद्धान्ते वक्ष्यमाणत्वादिदं विशेघणम् । विलोचनताया इति । सत्त्वेन तस्या इति शेषः । अनैकान्तिकत्वाद्ध्यभिचरितत्वात् । इयभणीति । इति भणितेनेत्याद्युत्तरार्धस्य योऽर्थस्तदुद्देशेन प्रापितो
For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
रोमणित्वादि विशेषणश्रवणविशिष्टप्रफुल्लविलोचनत्वेन मदुपभोग्यत्वलक्षणविभावाभिव्यक्तिद्वारा हर्षभावोऽभिव्यज्यते । तत्र द्वारीभूतविभावाभिव्यक्तिमादाय काव्यप्रकाशग्रन्थसंगतिः । न च भावध्वनेः संलक्ष्यक्रमत्वापत्तिः, द्वारस्य संलक्ष्यक्रमत्वादिति वाच्यम् । इष्टापत्तेः । न चापसिद्वान्तः । तस्य प्रागेवोद्वारात् ।
'मृद्दीका रसिता सिता समशिता स्फीतं निपीतं पयः ___ स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः । तत्त्वं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता
कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥' । अत्र निकृष्टजीवसंबोध्यकपरिदृश्यमानस्थूलदेहेन्द्रियादिचेतनाचेतनसंघातात्मकास्मत्पदवोध्यकर्तृकत्रश्नविषयेणार्थेन वस्तुना तथाभूतेन भगवन्नानोऽनेकजन्मत्तान्ताध्यक्षीकरणकारणयोगसिद्धिविशेषतादात्म्याध्यवसायरूपातिशयोक्तिय॑ज्यते । अथ प्रश्नविषयस्यात्र नानाजन्मगतष्टत्तान्तरूपतया तज्ज्ञं प्रत्येव प्रष्टुमौचित्येनानभिज्ञं स्वजीवं प्रति प्रष्टुमयोग्यत्वात्प्रश्नान्यथानुपपत्त्या आक्षिप्ता वाच्यसिद्धयङ्गत्वेन गुणीभूतव्यङ्गयरूपा वा प्रागुक्तातिशयोक्तिरिह कथं ध्वनिव्यपदेशहेतुः स्यात् । इत्थमेव च 'तदप्राप्तिमहादुःख-' इत्यत्राप्यतिशयोक्तेरापत्तिविषयत्वं गुणीभूतयस्तादृशपरिफुल्लविलोचनीत्वरूपो धर्मस्तेने न्यर्थः । तस्यैकपदाबोध्यत्वादर्थवशप्रापितेत्यु. क्तम् । विभावेति। हर्षभावविभावेत्यर्थः । भावध्वनेहर्षभावध्वनेः । द्वारस्य तद्विनाभावाभिव्यक्तिरूपस्य । तस्यति । अपसिद्धान्तत्वस्येत्यर्थः । तथा च सिद्धान्त एवायमिति भावः । मृद्वीति । स्वतः संभविवस्तुनालंकारध्वनिर्यथेत्यादिः । मृद्वीका द्राक्षा । सिता खण्डं शर्करा । स्वर्यातेन स्वर्ग प्रति गतेन । अपे: समुच्चेयमाह -रम्भेति । भूयः पुनः । अयं सांप्रतमनुभयमानः । निकृष्टेति । परिदृश्यमानैतच्छरीरादि पृथकृतेत्यर्थः । तत्त्वं च तस्य भवता मदीयेत्याभ्यामाविष्कृतम् । अर्थेन मधुरिमोद्गारलक्षणरूपेण तथाभतेन स्वत: संभविना । नाम्न इत्यस्य तादात्म्याध्यवसायेत्यत्रान्वयः । अनेकजन्मस्ववृत्तान्तप्रत्यक्षीकरणे कारणभतो यो योगाभ्यासजन्यसिद्धिविशेष इत्यर्थः । अर्थापत्तेर्मानान्तरत्वाभावादाह-वाच्येति । तदेति । 'तंदप्राप्तिमहादुःखविलीनाशे.
१. श्लोकद्वयं विष्णुपुराणे पञ्चमांशे त्रयोदशेऽध्याये (२१।२२) वर्तते. उदाहृतं च काव्यप्रकाशे चतुर्थोल्लासे.
For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
व्यङ्गयत्वं वा युक्तम् । अनेकजन्मोपभोग्यदुःखसुखराशिभ्यां तदप्राप्तिमहादुःखतच्चिन्ताविपुलाहादयोरनिगरणेऽशेषपापपुण्यपुञ्जनाशकताया अनुपपत्तेः । तत्तदुःखसुखानां स्वस्वफलोपहितपापपुण्यनाशकताया एवान्यत्र क्लृप्तत्वात् । निगरणे तु तयोस्तन्नाशकताबुद्धयुपपत्तिः । न च वस्तुमात्राभिव्यक्तस्यालंकारस्य न गुणीभूतव्यङ्गचत्वम् ।
'व्यज्यन्ते वस्तुमात्रेण यदालंकृतयस्तया ।।
ध्रुवं ध्वन्यङ्गता तासां काव्यसत्तेस्तदाश्रयात् ॥' इति सिद्धान्तादिति वाच्यम् । बाधके इंढे सिद्धान्तमात्रेणात्र ध्वनित्वस्य स्थापयितुमशक्यत्वादिति चेत् । सत्यम् । यादृशव्यङ्ग्यप्रतिपत्ति विना यत्र वाच्यस्य सर्वथाप्यनुपपत्तिस्तत्र तहाच्यसिद्रियङ्गम् । यत्र च प्रकारान्तरेणापि तस्योपपनिः शक्या कर्तुं न तत्र तथा । अन्यथा हि 'निःशेषच्युतचन्दनं स्तनतटम्' इत्यत्राधमत्वसिद्ध्यङ्गत्वाइतीरमणस्य वाच्यसिद्ध्यङ्गगुणीभूतव्यङ्गचत्वापत्तेः । प्रकृते च भगवन्नाम्नि योगसिद्धितादाम्याध्यवसायरूपामतिशयोक्ति विनापि भगवन्नामोच्चारणमाहात्म्यप्राप्तसार्वज्ञबुद्ध्यापि प्रश्नोपपत्तेर्न गुणीभूतव्यङ्गचत्वम् । एतेनासंबन्धे संबन्धरूपातिशयोक्तिनीमोच्चारणमाहात्म्यप्रभवसार्वज्ञाध्यवसायेऽपि स्थितेति स दोषस्तदवस्थ इति परास्तम् । भगवन्नामोच्चारणस्याचिन्त्यमाहात्म्यतायाः पुराणप्रसिद्धत्वात् । अथ वा मास्तु प्रागुक्तमुदाहरणं वस्तुनोऽलंकारव्यञ्जकतायाः, इदं तु भविष्यति-- षपातका । तचिन्ताविपुलाह्लादक्षीणपुग्यचया तथा ॥ चिन्तयन्ती जगत्सूति परब्रह्मस्वरूपिणम् । निरुच्छासतया मुक्ति गतान्या गोपकन्यका । जगत्सूति श्रीकृष्णम् । तत्संभोगाप्राप्त्या महादुःखम् । तच्चिन्तया विपुलाहादः । नास्य 'प्राणाः समक्रान्ति अत्रैव समवलीयन्ते' इति श्रुतेक्षिकाले निरुद्यासता । चयशव्दार्थमाह-पुजेति। स्वस्वेति । तत्तहःखसुखरूपफलजनकेत्यर्थः । तासामलंकृतीनाम् । अत्र प्रकृतलक्ष्ये । तथा च सिद्धान्तोऽन्यविषयक इति भावः । तथा वाच्यसिद्ध्यङ्गम् । वाच्यति । वाच्यसिद्ध्यङ्गरूपं यद्गुणीभतव्यङ्गयं तत्त्वापत्तेरित्यर्थः । यथा चात्र प्रकारान्तरेणाधर्मत्वसिद्धिस्तथा स्पष्टमधस्तात् । सावति । सर्वज्ञतेत्यर्थः । स्थितेति । सर्वज्ञत्वासंबन्धे तकल्पनादिति भावः । स दोषो गुणीभूतव्यङ्गयत्वापत्तिरूपदोषः । पुराणेत्युपलक्षणं श्रु. त्यादेरपि । तथा च वस्तुतस्तत्सत्तैव, न कल्पनमिति। न संबन्धातिशयोक्तिरिति भावः । अभ्युपेत्याप्याह-अथवेति । अनुगमः संबन्धः । पाण्डुभावः पाण्डुत्वम् । उपचीयते
For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
'न मनागपि राहुरोपशङ्का न कलङ्कानुगमो न पाण्डुभावः । उपचीयत एव कापि शोभा परितो भामिनि ते मुखस्य नित्यम् ॥' अत्र राहुरोषशङ्काभावादिभिर्निरपेक्षैर्वस्तुभिर्व्यतिरेकालंकारो व्यज्यते । 'नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः पठन्ति विरुदावली महितमन्दिरे वन्दिनः । इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणद्युतिः ॥' अत्र युगान्तदहनोपमया यदैव तव कोपोदयस्तदेव रिपूणां संपदो भस्मसाद्भविष्यन्तीति वस्तु व्यज्यमानं राजविषयकरतिभावेऽङ्गमपि वाच्यापेक्षया सुन्दरत्वावनिव्यपदेशहेतुः । न च भस्मीकरणपटुत्वरूपस्य साधारणधर्मस्योपमानिष्पादकत्वाद्वयङ्गयस्य वाच्यसिद्ध्यङ्गत्वं शङ्कयम् । उपात्तशोणत्वरूपसाधारणधर्मेणापि तन्निष्पत्तेः संभवात् । उपमेयीभूतशोणद्युतिगतस्य भस्मीकरणपटुत्वरूपसाधारणधर्मस्योपमानिष्पादकत्वेऽप्युपमेयव्यङ्ग्यको पगतभस्मीकरणपटुत्वस्यातथात्वाच्च ।
१३५
यथा वा
'निर्भिद्य क्ष्मारुहाणामतिधनमुदरं येषु गोत्रां गतेषु द्राविष्टस्वर्णदण्डभ्रमभूतमनसो हन्त धित्सन्ति पादान् । यैः संभिने दलाप्रचलहिमकणे दाडिमबीजबुद्ध्या चञ्चचाञ्चल्यमश्चन्ति च शुकशिशवस्तेंऽशवः पान्तु भानोः ॥'
For Private And Personal Use Only
वर्धते । नदन्तीति । स्वतः संभव्यलंकारेण वस्तुनो यथेत्यादिः । मदशब्दे अर्शआयच् । बिरुदावलीं स्तुतिपरम्पराम् | अहितमन्दिरे शत्रुगृहे । तदवधि तावत्पर्यन्तम् । एवमग्रेऽपि । उपमयेति । वाच्ययेति शेषः । व्यङ्गयस्येति । तच्छरीरनिविष्टत्वादिति भावः । तन्निष्पत्तेरुपमानिष्पत्तेः । विनिगमनाविरहेऽप्याह - उपमेयीभूतेति । उपमाया वाच्यत्वेन तदवस्थायां यदुपमेयं तद्गतधर्मस्यैव तन्निष्पादकत्वम् । न तूपमेयभूतोपमाव्यङ्गरूपको पगतस्य तद्धर्मस्य । तदा तस्यानुपस्थितेः । तथा च यस्य तन्निष्पादकत्वं न तस्य व्यङ्गघत्वम्, यस्य तत्त्वं न तस्य तत्त्वम् । सोऽनुपात्त इत्यन्यदस्योदाहरणान्तरमाह - यथा वेति । ते रविकिरणा युष्मान्पान्तु । के । येषु तरूणामतिनिबिअमन्तःप्रदेशं विदार्य भूमिं गतेष्वतिदीर्घसुवर्णदण्डसंबन्धि भ्रमेण भृतं पोषितं मनो येषां
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
काव्यमाला।
अत्र भ्रान्तिभृतां तिरश्चामप्येवमानन्दं जनयतीति जगदानन्दहेतुर्भगवानिति व्यज्यते । एवंरूपाया भ्रान्तोकेऽपि संभवात्स्वतः संभवित्वम् ।
'उदितं मण्डलमिन्दोरुदितं सद्यो वियोगिवर्गेण ।
मुदितं च सकलललनाचूडामणिशासनेन मदनेन ।' अत्र समुच्चयेन क्रियायोगपद्यात्मना कार्यकारणपौर्वापर्यविपर्ययात्मिकातिशयोक्तिः । एषु स्वतः संभवी व्यञ्जकः । 'तदवधि कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकः । यदवधि न पदं दधाति चित्ते हरिणकिशोरटशो दृशोविलासः ॥'
अत्र कामिनीदग्विलासे चेतसि पदमर्पितवति विवेकस्य नास्ति कुशलमिति वस्तुना दृग्विलासकर्तृकपदार्पणस्य लोकसिद्धत्वाभावात्कविप्रौढोक्तिनिप्पन्नत्वेन सुनिषण्णे तस्मिन्का कुशलचर्चा विवेकस्येति वस्तु व्यज्यते ।
'कस्मै हन्त फलाय सज्जन गुणग्रामार्जने मज्जसि ___खात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय । ये भावा हृदयं हरन्ति नितरां शोभाभरैः संभृता
स्तैरेवास्य कलेः कलेवरपुषो दैनंदिनं वर्तनम् ॥' इह यद्यपि रमणीयाः पदार्थाः कलेनित्यमदनीया इति वस्तुना प्रौढोक्तिसिद्धेन मर्तु कामयसे चेद्गुणप्राप्तौ यतस्वेति वस्तु व्यज्यते, तथापि तस्य पर्यायोक्तात्मनो वाच्यापेक्षया सुन्दरताविरहाद्गुणीभूतत्वमेव । अलं
ते जनाः । हन्तत्याश्चर्यम् । पादान्किरणान्धित्सन्ति धर्तुमिच्छन्ति । किं च शुकबालका यैः संभिन्ने मिश्रिते तरुपत्राग्रनिष्ट चञ्चलाहिमकणे या दाडिमीबीजस्य बुद्धिस्तया चश्वा चाञ्चल्यं ग्रहणार्थ व्यापारमञ्चन्ति । कुर्वन्तीत्यर्थः । अत्र भ्रान्तिमानलंकारः । न व्यङ्गथमाह-अत्रेति । अपिना अतिरश्चाम् । उदितमिति । तादृशालंकारेणालंकारस्य यथेत्यादिः । तदवधीति । कविप्रोटोक्तिनिष्पन्नवस्तुना वस्तुनो यथेत्यादिः । तदवधि तावत्पर्यन्तम् । एवमग्रेऽपि। निष्पन्नेन वस्तुनेत्यन्वयः। व्यङ्गयमाह-सुनीति। दृग्विलासे सुस्थित इत्यर्थः । अस्योदाहरणाभासं खण्डयति-कस्मा इति । उपस्करणाय भूषणाय । भावाः पदार्थाः । वर्तनं वृत्तिः। जीवनमिति यावत् । उत्तरार्धार्थमाहरमेति । अदनीया भक्षणीयाः । अस्य नियमेन लोकसिद्धत्वाभावादाह-प्रौढोक्तीति । कवीत्यादिः । गुणेति । सज्जनेत्यादिः । तस्य व्यङ्गयभूतवस्तुन: । पर्या
For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
१३७
कारा हि वाच्यसौन्दर्यसाराः प्रायशः स्वान्तर्गतं प्रतीयमानं पृष्ठतः कु
र्वन्ति ।
Acharya Shri Kailassagarsuri Gyanmandir
'देवा के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्तादेवं जल्पन्ति तावत्प्रतिभटष्टतनावर्तिनः क्षत्रवीराः । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमृर्ते
मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंगः ||' अत्र कविप्रौढोक्तिसिद्धेन रूपकेण त्वय्युद्यतकरवाले सति का परेषां जीवनस्याशेति वस्तु व्यज्यते ।
'साहंकारसुरासुरावलिकराकष्टभ्रमन्मन्दरक्षुभ्यत्क्षीरधिवल्गुवीचिवलय श्रीगर्वसर्वकषाः । तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता
भूमीभूषण भूपयन्ति भुवनाभोगं भवत्कीर्तयः ॥ ' अत्र कीर्तेः सानन्दालोकनेन वस्तुना कविकल्पितेन दुग्धभ्रान्तिस्तापसगता व्यज्यते । न च सानन्दालोकनस्यैव चाक्षुषभ्रान्तिरूपतया व्यङ्गयव्यञ्जकयोरविवेको व्यङ्गयत्वानुपपत्तिश्चेति वाच्यम् । वस्तुन एकत्वेऽपि कीर्तिरूपविशेष्यावृत्तिदुग्धप्रकारकत्वात्मक भ्रान्तित्वेन सानन्दावलोकनत्वेन च व्यङ्ग्यव्यञ्जकविवेकस्य व्यङ्गयतावच्छेदकरूपेण वाच्यताया अभावाद्व्यङ्ग्यत्वस्य चोपपत्तेः । तथा चाहु: - 'यदेवोच्यते तदेव व्यङ्ग्यम् । यथा तु व्यङ्ग्यं न तथोच्यते' इति ।
१८
योक्तेति । 'पर्यायोक्तं तु गम्यस्य वचो भङ्गयन्तराश्रयम् । इत्युक्तेरिति भावः । हि यतः । देवा इति । कविप्रौढोक्तिनिष्पन्नालंकारेण वस्तुनो यथेत्यादिः । के इति म ध्यमणिन्यायेनान्वेति । पूर्वदेवा असुराः । समिति सङ्ग्रामे । मम पुरस्तादित्यन्वयः । नर इति सन्तम् । मुग्धेति । मुग्धरूपशत्रु संबन्धिप्राणरूपदुग्धभोजन कृत स्निग्धकान्तिरित्यर्थः । रूपकेण खड्गसर्परूपकेण । साहंकारेति । कविप्रौढोक्तिनिष्पन्नवस्तुना अलंकारस्य यथेत्यादिः । व्याख्यातमिदमधस्तात् | अविवेकोऽभेदः । इदं च व्यङ्गयत्वमभ्युपेत्य वस्तुनस्तदेव नेत्याह-व्यङ्ग्यत्वेति । वाच्यत्वात्तस्येति भावः । कीर्तीति । यथासंख्यमन्वयः । उपपत्तेरिति । 'शयिता सविधे -' इत्यत्र । 'व्यङ्गचतावच्छेदकेच्छात्वरूपजातिरूप' इति पाठः । तेन रूपेणैव मनोरथपदेन बोधनान्न पूर्वग्रन्थविरोधः ।
For Private And Personal Use Only
-
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
काव्यमाला।
'दयिते रदनत्विषां मिषादयि तेऽमी विलसन्ति केसराः ।
अपि चालकवेषधारिणो मकरन्दस्टहयालवोऽलयः ॥' अत्र पूर्वोत्तरार्धवर्तिनीभ्यामपझुतिभ्यां न त्वं नारी किं तु नलिनीति तृतीयापह्नुतिर्व्यज्यते । एषु प्रौढोक्तिनिष्पन्नो व्यञ्जकः । ___ यद्यपि शब्दशक्तिमूलकत्वमर्थशक्तिमूलकत्वं चेत्युभयमपि सकलव्यनयसाधारणम्, शब्दार्थयोरनुसंधानं विना व्यङ्गयस्यैवानुल्लासात्, तथापि परिवृत्त्यसहिष्णूनां शब्दानां प्राचुर्ये तत्प्रयुक्तात्प्राधान्यात्सत्या अप्यर्थशक्तेरप्राधान्याञ्च व्यङ्गयस्य शब्दशक्तिमूलकत्वेनैव व्यपदेशः । परिवृत्तिसहिष्णूनां तु प्राचुर्येऽर्थशक्तेरेव प्राधान्यात्सत्या अपि शब्दशक्तेः प्रधानानुगुण्यार्थतया मल्लग्रामादिवत्प्रधानेनैव व्यपदेशः । यत्र तु काव्ये परित्ति सहमानानामसहमानानां च शब्दानां नैकजातीयप्राचुर्यम्, अपि तु साम्यमेव । तत्र शब्दार्थोभयशक्तिमूलकस्य व्यङ्ग्यस्य स्थितिरिति द्वयुत्थो ध्वनिः । न चायं शब्दशक्तिमूलकतयैवार्थशक्तिमूलकतयैव वा व्यपदेष्टुं शक्यः । विनिगमकाभावात् । नापि शब्दशक्तिमूलकार्थशक्तिमूलकयोः संकरेण गतार्थयितुम् । व्यङ्गयभेद एव संकरस्येष्टेः । इह तु व्यङ्गयस्यैक्येन तस्यानुत्थानात् । उदाहरणम्
'रम्यहासा रसोल्लासा रसिकालिनिषेविता ।
सर्वाङ्गशोभासंभारा पद्मिनी कस्य न प्रिया ॥' अयं च वाक्यमात्रे । पदसमूहश्च वाक्यम् । तेनास्य नानार्थानानार्थमनोरथत्वेच्छात्वयोर्घटत्वकलशत्ववदेकत्वात् । इह तु भ्रान्तित्वसानन्दावलोकनत्वयो. याप्यव्यापकभावेन भेदादिति बोध्यम् । यथा तु येन रूपेण । एवमग्रेऽपि । दयि. तेति । कविप्रौढौक्तिनिष्पन्नालंकारेणालंकारस्य यथेत्यादिः । पूर्वोत्तरेति । लोकसिद्धत्वाभावेन कविप्रौढोक्तिनिष्पन्नाभ्यामित्यादिः । अनुसंधानं ज्ञानम् । तत्प्रयुक्तात्तदसहिष्णुशब्दप्राचुर्यप्रयुक्तात् । प्रधानेति । तदुपकारकतयेत्यर्थः । च शब्दानामिति निर्धारणे षष्ठी । अयं द्वगुत्थो ध्वनिः। एवमग्रेऽपि । विनिगमनाविरहादाह -अर्थेति । गतार्थयितु. मिति शक्योऽयमित्यस्यानुषङ्गः । उदेति । द्वयुत्थध्वनेरित्यादिः। अत्र हासरसालिपद्मिनी. शब्दास्तदसहाः, अन्ये तत्सहाइति साम्यम् । तेन पदसमहरूपवाक्यनिष्ठवेन । अस्य द्वयुत्थ
For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
१३९
घटितसमासविषयत्वेऽपि न विरोधः । न तु शुद्धैकपदे तस्मिन्नानार्थाना - नार्थयोरसमावेशात् । अन्ये तु — 'अर्थशक्तिमूलकत्वव्यपदेशे नानार्थप्रकाशकशब्दशक्त्युल्लास्यत्वसामान्यशून्यत्वं तन्त्रम् । विषयप्राचुर्यात् । शब्दशक्तिमूलकत्वव्यपदेशे तु नार्थशक्त्युछास्यत्वसामान्यशून्यत्वं तथा । विषयदौर्लभ्यापत्तेः । नहि नानार्थशब्दमात्रघटितं पद्यं प्रचुरविषयम् । अतः शब्दशक्तिमूलकत्वेनैवायं शक्यव्यपदेशो ध्वनिः' इत्यप्याहुः । इत्थमभिधामूलस्त्रिविधोऽपि संक्षेपेण निरूपितो ध्वनिः । निरूपयिष्यते चांशतो यथावसरम् । लक्षणामूलस्तु निरूप्यते—
तत्र वक्ष्यमाणलक्षणायां लक्षणायां प्रयोजनवत्याः षड्विधायाः सारो - पसाध्यवसानाभ्यां गौणीशुद्धाभ्यां च विभक्तानां भेदानां चतुर्णामलंकारात्मना परिणतत्वाद्वौ भेदौ ध्वन्याश्रयतया स्थितौ, जहत्स्वार्थी अजहंत्स्वार्था चेति । तन्मूलौ च द्वौ ध्वनेः प्रभेदौ ।
तयोर्जहत्स्वार्थामूलो यथा -
'कृतं त्वयोन्नतं कृत्यमर्जितं चामलं यशः । यावज्जीवं सखे तुभ्यं दास्यामो विपुलाशिषः ॥'
इयं कस्यचिदपकारिणं प्रत्युक्तिः । त्वया कृतेऽप्यपकारे परमखेदतो मधुरमेव यो भाषे, न परुषं तस्मिन्नेवंजातीयके मयि पापमाचरतस्तव पापिष्ठत्वं कथं शक्यते वक्तुमिति व्यङ्ग्यम् ।
ध्वनेः । न विरोध इति । तस्याप्यवान्तरपदत्वमादाय पदसमूहत्वादिति भावः । मापदव्यावर्त्यमाह - न त्विति । सामान्यशून्यत्वमिति । सामान्याभाव इत्यर्थः । तथा तन्त्रम् । कारणमिति तदर्थः । अत इति । तथा वक्तुमशक्यत्वेन । तद्भिन्नत्व एव तत्त्वस्यावश्यवक्तव्यत्वादित्यर्थः । अयं द्वयुत्थो ध्वनिः । उक्तरीत्या भेदसंभव एवात्रारुचिः । उपसंहरति-- इत्थमिति । तत्र निरूपणीये तस्मिन् । वक्ष्यमाणेति । वक्ष्यमाणं लक्षणं यस्यास्तस्यामित्यर्थः । सत्यामिति शेषः । अलंकारात्मनेति । रूपकातिशयोक्तिहेत्वलंकारात्मनेत्यर्थः । जहत्स्वार्था अजहत्स्वार्था चेति । अनयोरेवोपादानलक्षलक्षणेति व्यवहारः कथं कीदृशम् । अत्रोन्नतादिपदानां स्वार्थत्यागेनाधमादौ लक्षणा ।
For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
काव्यमाला। अपरामूलो यथा'वधान द्वागेव द्रढिमरमणीयं परिकर
किरीटे बालेन्दु नियमय पुनः पन्नगगणैः । न कुर्यास्त्वं हेलामितरजनसाधारणधिया
जगन्नाथस्यायं सुरधुनि समुद्धारसमयः ॥' । अत्र जगन्नाथस्येत्यनेन शक्य एवानेकपापविशिष्टत्वेन लक्ष्यते । पापानां पदान्तरेणानिर्वाच्यत्वं व्यङ्ग्यम् । कुन्ताः प्रविशन्तीत्यादौ वाच्यगततैक्ष्ण्यादिलक्ष्ये । तदेवमेते प्रागुक्ता द्वयुत्थातिरिक्ताः सर्वेऽपि ध्वनय एकस्मिन्वाक्ये यद्येकपदमात्रगतास्तदा पदध्वनितया व्यपदिश्यन्ते । नानापदगततायां तु वाक्यध्वनितयेति ।
अथ केयमभिधानाम । यन्मूलः प्रथमं निरूपितोऽयं ध्वनिप्रपञ्चः । उच्यते_ शक्त्याख्योऽर्थस्य शब्दगतः, शब्दस्यार्थगतो वा संबन्धविशेषोऽभिधा॥
सा च पदार्थान्तरमिति केचित् । 'अस्माच्छब्दादयमर्थोऽवगन्तव्य इत्याकारेश्वरेच्छैवाभिधा । तस्याश्च विषयतया सर्वत्र सत्त्वात्पटादीनामपि घटादिपदवाच्यता स्यात् । अतो व्यक्तिविशेषोपधानेन घटादिपदाभिधात्वं वाच्यम्' इत्यपरे । 'एवमपीश्वरज्ञानादिना विनिगमनाविरहः स्यात्, अतः प्रथममतमेव ज्यायः' इत्यपि वदन्ति । यत्तु पत्तिवार्तिके-'शक्त्या प्रतिपादकत्वमभिधा' इत्यप्पदीक्षितैरुक्तं तत्तुच्छम् । उपपत्तिविरोधात् । तथाहि-इह शब्दाजायमानायामर्थोपस्थितौ कारणीभूतं यदीयज्ञानं सा शब्दवृत्तिरभिधाख्या । लक्ष्यतया च प्रस्तुताप्रतिपादकत्वस्य प्रतिपत्तिहेतुत्वरूपस्य शब्दगतस्य न ज्ञानं प्रतिपत्तौ करणम् । अतः कथं अपरेति । अजहत्स्वार्थेत्यर्थः । द्रढिमेति तृतीयातत्पुरुषः । नियमय बधान । शक्य एवेति । जगन्नाथत्वेनेति शेषः । अनेनाजहत्स्वार्थत्वं प्रकटितम् । पदान्तरेण जगनाथपदातिरिक्तेन । तैक्ष्ण्यादिलक्ष्य इति । वाच्यार्थगतं यत्तैक्ष्ण्यादि तल्लक्ष्यवृत्तितया व्यङ्गयमित्यर्थः । उपसंहरति--तदेवमिति । विनिगमनाविरहादाह-शब्दस्येति । केचित्, वैयाकरणमीमांसकादयः । अपरे, नैयायिकाः । एवमपि उक्तरी
For Private And Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१४१ नाम प्रतिपादकत्वमभिधेत्युच्यते । अथ प्रतिपादकत्वं प्रतिपत्त्यनुकूलव्यापाररूपं ज्ञातं सदेवोपयुज्यते प्रतिपत्तौ, इत्युच्येत, एवमपि शक्त्येत्यनेन शब्दगतार्थगता वा काचिच्छक्तिः प्रतिपत्तिहेतुतया विवक्षिता। सैवाभिधेति 'अभिधया प्रतिपादकत्वमभिधा' इति लक्षणं पर्यवसन्नम् । तथा च स्फुटैवासंगतिरात्माश्रयश्च । न चाभिघातः शक्तिरतिरिक्ता शब्दजन्यप्रतिपत्तिप्रयोजिका काचिदस्तीत्यत्र प्रमाणमस्ति ।
सेयमभिधा त्रिविधा केवलसमुदायशक्तिः, केवलावयवशक्तिः, समुदायावयवशक्तिसंकरश्चेति । आद्याया डित्थादिरुदाहरणम् । तत्रावयवशक्तेरभावात् । द्वितीयायास्तु पाचकपाठकादिः । तत्र धातुप्रत्ययशक्तिबोध्ययोरर्थयोरन्वयेनोल्लसितात्पाककर्तृरूपादर्थाढतेऽर्थान्तरस्यानवभासेन समुदायशक्तेरभावात् । तृतीयायाः पङ्कजादिः । इह धातूपदप्रत्ययरूपावयवशक्तिवेद्यानां पङ्कजननकर्तृणामाकाङ्क्षादिवशादन्वये प्रकाशमानात्पङ्कजानिकर्तृरूपादर्थादतिरिक्तस्य पद्मत्वविशिष्टस्य प्रत्ययेन तदर्थसमुदायशक्तेरपि कल्पनादुभयोः संकरः । एता एव विधा रूढि-योग-यो. गरूढिशब्दैर्व्यपदिश्यन्ते । यत्तु 'अखण्डशक्तिमात्रेणैकार्थप्रतिपादकत्वं रूढिः । अवयवशक्तिमात्रसापेक्षं पदस्यैकार्थप्रतिपादकत्वं योगः । उभयशक्तिसापेक्षमेकार्थप्रतिपादकत्वं योगरूढिः ।' इति वृत्तिवार्तिकेऽप्पदीक्षितैरुक्तम्, तन्न । अभिधालक्षणोक्तदूषणानामिहापि दुर्वारत्वात् । अथ अश्वगन्धा-अश्वकर्ण-मण्डप-निशान्त-कुवलयादिशब्देषु का शक्तिरिति । अत्र केचित् 'अश्वगन्धारसं पिबेत्' इत्यादिषु विषयविशेषे केवलसमुदायशक्तिः । अश्वगन्धा वाजिशाला, इत्यादिषु तु केवलयोगशक्तिः। समुदायावयवशक्त्योरुभयोरेकशब्दाश्रयत्वे कथं केवलत्वविशेषितत्यातिप्रसङ्गवारणेऽपि । विवक्षितेति । शक्त्येति । तृतीयाश्रुतेरिति भावः । स्वज्ञाने स्वज्ञानापेक्षत्वेनात्माश्रयस्य स्पष्टत्वादसंगतिमुपपादयति-न चेति । नहीत्यर्थः । प्रमाणमस्तीति । प्रकृत्यादित्वाद्धान्येन धनवानित्यादिवत्ततीयाया अभेदार्थकत्वेन न कश्चिद्दोष इति चिन्त्यमेतत्सर्वम् । निरूपिताभिधां विभजते-सेयमिति । धातूपेति पङ्कादिभिर्यथासंख्येनान्वयः । उभयोः समुदायावयवशक्त्योः । विधाः प्रकाराः । दूषणानां प्रतिपादकत्वनिष्ठत्वात्संभवासंगतिरात्माश्रयाणाम् । विषयविशेष इति । ओषधीरूपेत्यर्थः । शङ्कते-समुदेति । अनन्वयेन मिथ इत्यादि । पदान्वयायोग्येति । एवं च
For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
१४२
काव्यमाला।
योराद्यद्वितीयभेदयोः प्रसक्तिरिति तु न शङ्कयम् । समुदायावयवशक्तिवेद्ययोरर्थयोरनन्वयेन तादृशशक्त्योः कैवल्यस्य साम्राज्यात् । इदमेव हि केवलत्वमिह विवक्षितम्, यदन्वयायोग्यार्थबोधकत्वम् । संकरस्त्वन्वययोग्यार्थबोधकयोरेवेति न तस्यात्र प्रसक्तिः' इत्याहुः । अन्ये तु-'अश्वकर्णादिशब्देषु नाभिधायाः प्रथमद्वितीययोर्विधयोः प्रसक्तिः । कैवल्यविरहात् । परंतु संकरस्य द्वौ भेदौ-योगरूढियोगिकरूढिश्चेति । तत्राद्यस्योदाहरणं पङ्कजादिशब्दाः। द्वितीयस्य त्वश्वकर्णादयः' इत्याहुः । 'चतुर्थ एवायमभिधाया भेदः' इत्यप्यन्ये । 'अखण्डा एव हि शब्दाः । तत्र समासेषु पदानां कृत्तद्विततिङन्तेषु च प्रकृतिप्रत्ययानां विभागः काल्पनिक एवेति कुत्रास्ति योगशक्तिः । विशिष्टस्य विशिष्टार्थे रूढेरेवाभ्युपगमात्' इत्यपि वदन्ति ।
अथ
'गीष्पतिरप्याङ्गिरसो गदितुं ते गुणगणान्सगौं न । ___ इन्द्रः सहस्त्रनयनोऽप्यद्भुतरूपं परिच्छेत्तुम् ॥' इत्यादौ रूढ्यर्थमादाय पुनरुक्त्यापत्तिः । न चैवंविधपदद्वयसमभिव्याहारस्थले योगरूढपदस्यावयवार्थमात्रबोधकत्वम् । तावन्मात्रस्यैव प्रकृतोपयोग्यतिशयविशेषसमर्पकत्वात्, इति वाच्यम् । एवमपि योगरूढपदस्य रूढिशक्तरनियन्त्रणेन योगार्थमात्रप्रतिपादकताया अनुपपादनादुक्तदोषस्यानुवृत्तेः । एकेनैव पदेन योगार्थरूद्ध्यर्थयोरुभयोरप्यावश्ययोगबोध्यार्थान्वयायोग्यार्थप्रतिपादकत्वं रूढे: केवलत्वम् । रूढिबोध्यार्थान्वया योग्यार्थप्रतिपादकत्वं योगस्य केवलत्वम् । परस्परप्रतिपाद्ययोरन्वययोग्यत्वे संकर इति फलितम् । बोधकयोरवेतीति । भेदयोरित्यर्थः । तादृशकैवल्यविवक्षायां मानाभावादाह-अन्ये त्विति । संकरस्य योगरूढिशब्देनैव प्रसिद्धर्मतान्तरमाहचतुर्थ एवेति । एवेनाभिधापदसंबद्धन संकरभेदनिरासः । तथा चाभिधा चतुर्विधेति भावः । सिद्धान्तमाह-अखण्डा इति। हिस्त्वर्थे । तत्र अखण्डानां मध्ये । तथा चाभिधाया रूल्याख्य एक एव भेद इति भावः । अत्र शङ्कते-अथेति । गीष्पति. रिति । राजवर्णनमिदम् । अतिशयेति । राजनिष्ठगुणाद्यतिशयेत्यर्थः । अनियन्त्रणेन असंकोचेन । प्रकरणादिसंकोचकाभावादिति भावः। प्रकरणादिसत्त्वे आह-एकेन
For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१४३
कयोरर्थयोरुपस्थितिसंभवेन द्वितीयपदप्रयोगस्य नैरर्थक्यापत्तेश्च, इति चेत्, अत्राहुः--'एकपदोपात्तत्वादन्तरङ्गाकाङ्क्षावशेन प्रथमं योगार्थरूव्यर्थयोरन्वये सति समुल्लसितस्य विशिष्टार्थस्यैव पदान्तरार्थेनान्वयः । न तु तयोरेव विशकलितयोरिति यद्यपि न्यायसिद्धोऽर्थः, तथापि शक्त्यार्थस्य प्रतिपादने स्यादेवम् । लक्षणायां तु योगरूढेन योगार्थमात्रप्रतिपादनेन न किंचिद्वाधकमस्ति । नापि द्वितीयपदप्रयोगस्य नैरर्थक्यम् । तथा सति रूट्यर्थबोधनेन गतार्थेन योगरूढशब्देन प्रतिपाद्यमानस्य योगार्थस्य पङ्कजाक्षीत्यादाविव नान्तरीयकत्वशङ्कया कुर्वद्रूपताया अपहतौ प्रकृतोपयोग्यतिशयविशेषव्यञ्जनस्य पाक्षिकत्वापत्तेः । द्वितीयपदयोगे तु तेनैव सूट्यर्थप्रतिपादने सिद्धे योगरूढपदप्रतिपाद्यस्य योगार्थस्य नान्तरीयकत्वशङ्काया अयोगात्कुर्वद्रूपत्वेन व्यङ्ग्यविशेषव्यञ्जकत्वं नियमेन सिद्ध्यति । एषा पदद्वयोपादानस्थले गतिरुक्ता । यत्र तु 'पुष्पधन्वा विजयते जगत्त्वत्करुणावशात्' इत्यादावेकेनैव पदेन रूट्यर्थोपस्थितियोगार्थद्वारा निःसारत्वाद्यवगमश्च भवति, तत्र कविकृतमन्मथरूढपदान्तरानुपादानपूर्वकपुष्पधन्वपदोपादानप्रतिसंधानेन तदीययोगाथै कुर्वद्रूपताधानं बोध्यम् । तदित्थं द्वितीयपदस्योपादानेऽनुपादाने वा न क्षतिः । एवं जात्यन्तरविशिष्टवाचकपदसमभिव्याहारेऽपि । 'दिशि दिशि जलजानि सन्ति कुमुदानि' इत्यत्रापि जलजादिपदानां लक्षणया योगार्थमात्रबोधकत्वम् । योगशक्त्युल्लासितस्य तु तादृशार्थस्य रूढ्यथोपश्लिष्टत्वेन स्वातन्त्र्येण कुमुदादावन्वयायोगात् । इत्थमभिधा निरूपिता।
अनया यः शब्दो यमर्थ बोधयति स तस्य वाचकः । इयं च यस्य वेति । आवश्यकयोरिति । पदद्वयोल्लेखेनोक्तातिशयव्य जनार्थमिति भावः । एकपदोपेति । अन्तरङ्गत्वादी हेतुरयम् । तयोः योगार्थरूट्यर्थयोः । विशकलितेति । पदान्तरार्थेनान्वय इत्यस्यानुषङ्गः । एवं योगार्थमात्रबोधकत्वानुपपादनमाद्यदोषमुद्धत्य द्विती. यदोषमुद्धरति-नापीति । तथा सति द्वितीयपदानुपादाने सति । नान्तरीयकत्वे ति । मुख्यतात्पर्यो विषयत्वेत्यर्थः । शङ्काया अभावे त्विष्टार्थसिद्धिरत आह-पाक्षिकेति । अत एवाग्रे नियमेनेति वक्ष्यति । जगत् कर्म । कविकृतत्वमुपादानेऽन्वेति । प्रतिसंधानेन श्रोतुरिति शेषः । इत्यत्रापि इत्यादावपि । शक्त्या न निर्वाह इत्याह
For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
काव्यमाला।
शब्दस्य यस्मिन्नर्थेऽस्ति तस्य सोऽर्थोऽभिधेयः । स च जातिगुणक्रियाया यादृच्छिकात्मकः । तत्र जाति!त्वादिः संस्थानविशेषाभिव्यङ्गया प्रत्यक्षसिद्धा गवादिपदानामभिधेया। अनुमानसिद्धा च घ्राणारसनत्वादिर्घाणरसनादिपदानाम् । आनन्त्याद्वयभिचाराच्च व्यक्तीनामभिधेयताया अकल्पनात् । न च ज्ञातगोत्वादिरूपया गोत्वादिज्ञानरूपया वा प्रत्यासत्या प्रत्यक्षेण परिकलितासु सकलतदीयव्यक्तिप्वभिधायाः कल्पने नास्ति दोष इति वाच्यम् । सामान्यप्रत्यासत्तेनिराकरणात् । गौरवदोषस्यानुद्वाराच्च । एतेन शक्तिग्रहपदार्थोपस्थितिशाब्दबोधानां समानप्रकारकतयैव हेतुहेतुमद्भावादगृहीतसंकेतानामपि व्यक्तिविशेषाणामन्वयबोधविषयताया उपपादनेऽपि न निस्तारः । व्यक्तीनां प्रत्ययस्त्वाक्षेपाल्लक्षणया वेत्यन्यदेतत् । अयं च जातिरूपः शब्दार्थप्राणद इत्युच्यते । प्राणं व्यवहारयोग्यतां ददाति संपादयतीति व्युत्पत्तेः । तदुक्तम्-'गौः स्वरूपेण न गौ प्यगौः, गोत्वाभिसंबन्धाद्गौः' इति । अस्यार्थः-गौः सास्नादिमान्धर्मी स्वरूपेण अज्ञातगोत्वकेन धर्मिस्वरूपमात्रेण न गौः । न गोव्यवहारनिर्वाहकः । नाप्यगौः नापि गोभिन्न इति व्यवहारस्य निर्वाहकः । तथा सति दूरादनभिव्यक्तसंस्थानतया गोत्वाग्रहदशायां गवि गौरिति गोभिन्न इति वा व्यवहारः स्यात् । स्वरूपस्याविशेषावटे गौरिति गवि चागौरिति वा व्यवहारः स्यादिति भावः । गोत्वाभिसंबन्धागोत्ववत्तया ज्ञानाद्गौौशब्दव्यवहार्य इति । योगेति । प्रत्यक्षेति । गवादीनां प्रत्यक्षत्वादिति भावः । अनुमानति । घ्राणेन्द्रियादीनामतीन्द्रियत्वादिति भावः । आनन्त्यादिति । अनन्तशक्तिकल्पनजगौरवादित्यर्थः । ज्ञायमानं सामान्यं प्रत्यासत्तिरितिमतेनाह–ज्ञातगोत्वादीति । सामान्यज्ञानं प्रत्यासत्तिरितिमतेनाह-गोत्वादिज्ञानेति । प्रत्यक्षेण अलौकिकेन । गौरवदोषस्यति । द्वितीयदोषोद्धारेऽप्याद्यदोषस्येत्यर्थः । एतेन गौरवदोषानुद्धारेण । एवकारेण समानविशेष्यकत्वादिव्यवच्छेद: । तदुक्तमिति । प्रकाशकृतेति शेषः । एवमग्रेऽपि । तथा सति धमिस्वरूपमात्रेण व्यवहारनिर्वाहकत्वाङ्गीकारे । गौरिति व्यवहारे इष्टापत्त्या आह-गोभिन्न इतीति । अविशेषादिति । व्यक्तिस्वरूपाणां स्वतोऽव्यावृत्तत्वादिति भावः । गौरित्यत्र विशेषणज्ञानविधया तस्योपयोगेऽपि नाप्यगौरित्यनेन व्यवहारमात्रं धर्मज्ञानसाध्यमित्युच्यते । अभावज्ञानेऽपि
For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
गुणः शुक्लादिः शुक्लादिपदानामभिधेयः । क्रिया चलनादिश्वलादिशब्दानाम् | शुक्लादीनां चलनादीनां च प्रतिव्यक्तिभेददर्शनादानन्त्यव्यभिचाराभ्यां व्यक्तिशक्तिवाददोषाभ्यामिहापि कलुषीकरणमिति चेत्, तेषां लाघवात्प्रत्यभिज्ञाबलाच्चैकताया अभ्युपगमात् । तदुक्तम्- 'गुणक्रियायदृच्छानां वस्तुत एकरूपाणामाश्रयभेदाद्वेद इव लक्ष्यते' इति । तथा च भेदप्रतीतिभ्रम एवेति भावः । इदमुपलक्षणम् । उत्पत्तिविनाशप्रतीतिरपि तथैव । वर्णनित्यतावादे गकाराद्युत्पत्तिविनाशप्रतीतेभ्रमत्वस्य स्वीकारात् । यादृच्छिकस्तु वा स्वेच्छया डित्थादिशब्दानां प्रवृत्तिनिमित्तत्वे संनिवेशितो धर्मः । स च 'परम्परया व्यक्तिगतश्चरमवर्णाभिव्यङ्गचोऽखण्डः स्फोटः' इत्येके । ‘आनुपूर्व्यवच्छिन्नो वर्णसमुदायः' इत्यपरे । 'केवला व्यक्तिरेव' इतीतरे । तत्राद्यमतद्वये विशेषणज्ञानाद्विशिष्टप्रत्ययः । तृतीयमते च निर्विकल्पकात्मकः प्रत्ययः । तदित्थं चतुष्टयी शब्दानां प्रवृत्तिरिति दर्शनं व्यवस्थितम् । सर्वेषां शब्दानां जातिरेवार्थः । गुणक्रियाशब्दानां गुणक्रियागतायाः, यदृच्छाशब्दानां च बालवृद्धशुकाद्युदीरिततत्तच्छब्दवृत्तेस्तत्तत्समयभेदभिन्नार्थवृत्तेर्वा जातेरेवाभिधेयतासंभवात् । इति जातिशक्तिदर्शनम् ।
१४५
अथ केयं लक्षणा, यन्मूलश्वरमं निरूपितो ध्वनिः । उच्यते-शक्यसंबन्धो लक्षणा ।
१९
तस्याश्चार्थोपस्थापकत्वे मुख्यार्थतावच्छेदके तात्पर्यविषयान्वयितावच्छेदकताया अभावो न तन्त्रम् । शक्यतावच्छेदकरूपेण लक्ष्यमानस्य स्वीकारात् । किं तु तात्पर्यविषयान्वये मुख्यार्थतावच्छेदकरूपेण मुख्या1 र्थप्रतियोगिकताया अभावो रूढिप्रयोजनयोरन्यतरच्च तन्त्रम् । मुख्या
प्रतियोगितावच्छेदकविशिष्टज्ञानस्य प्रतियोगितावच्छेदकज्ञानस्य वा हेतुत्वादित्याहुः । शङ्कते - शुक्लादीनामिति । इहापि गुणक्रिययोरभिधेयत्वेऽपि । चेदित्यस्य तत्रेति शेषः । एकताया इति । तथा च नित्यत्वमपि सिद्धमिति भावः । तथैव भ्रम एव । व्यक्तिगतोऽर्थव्यक्तिगतः । अतिरिक्तस्फोटाङ्गीकारे फलाभावादाह-आनुपूर्व्येति । वर्णानां जन्यत्वेन समुदायासंभवादाह - केवलेति । दर्शनं मतम् । मतान्तरमाह -- सर्वेषामिति । जातिगुणक्रियायदृच्छाशब्दानामित्यर्थः । शब्दवृत्तेः परम्परया तन्निष्ठत्वकल्पने गौरवादाह - तत्तत्समयेति । बालवयुवत्व वृद्धत्वरूपे
1
For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
१४६
www. kobatirth.org काव्यमाला।
र्थान्वयानुपपत्तेः । तन्त्रत्वे तु 'काकेभ्यो दधि रक्ष्यताम्' इत्यत्र लक्षणोत्थानं न स्यात् । 'गङ्गायां घोषः' इत्यत्र सामीप्यम्, 'मुखचन्द्रः' इत्यादौ सादृश्यं व्यतिरेकलक्षणायां विरोधः । 'आयुर्घतम्' इत्यादी कारणत्वादयश्च सबन्धा यथायोगं लक्षणाशरीराणि ।
इयं तावहिविधा, निरूढा प्रयोजनवती च । तत्रापि द्वितीया द्विविधा, गौणी शुद्धा च । तत्राद्या सारोपा साध्यवसाना चेति द्विविधा । अन्त्या चतुर्विधा—जहत्स्वार्था, अजहत्स्वार्था, सारोपा, साध्यवसाना चेति प्रयोजनवती पविधा संपद्यते । तत्र निरूढलक्षणाया अनुकूलप्रतिकूलानुलोमप्रतिलोमलावण्यादय उदाहरणम् । नीलादयश्च धर्मस्य । 'अयमनुकूलः' इत्यादौ मुख्यार्थस्य कुलानुगतत्वादेवांधात् । अनादिप्रयोगप्रवाहवशादेकवस्तुप्रवणत्वात्मना कूलानुगतादिरूपशक्यस्य सादृश्येन संबन्धेनानुकूलादिशब्दैरनुगुणादयो लक्ष्यन्ते । एवं नीलादिपदानां लाघवाद्गुणगतजातेरेव शक्यतावच्छेदकतया गुणद्रव्ययोः 'नीलो घटः' इत्यादौ सामानाधिकरण्येनान्वयस्यानुपपत्तेः । समवायात्मना गुणरूपशक्यस्य संबन्धेन नीलादिशब्दैर्गुणिनो लक्ष्यन्ते । तत्राद्यवर्ग साहश्यसंबन्धेन द्वितीयवर्ग च तदितरसंबन्धेन लक्षणायाः प्रत्तेः । निरूढायामपि गौणीत्वशुद्धत्वाभ्यां दैविध्यमामनन्ति । विषयविषयिणोः एथनिदिष्टयोरभेद आरोपः । अष्टथनिर्दिष्टे विषये विषय्यभेदोऽध्यवसानम् । तत्राद्येन सहिता सारोपा । द्वितीयेन तु साध्यवसाना । उदाहरणानि च 'मुखं चन्द्रः' इत्यादीनि । गौण्याः सारोपायाः 'पुरेऽस्मिन्सौधशिखरे च. न्द्रराजी विराजते' इत्यादीनि च तस्याः साध्यवसानायाः । अत्राद्यायां विषयिप्रतिपादकैश्चन्द्रादिशब्दैर्लक्षणयोपस्थापितानां चन्द्रादिसदृशानामत्यर्थः । तन्त्रं कारणम् । व्यतिरेकलेक्षणति । 'उपकृतं बहु नाम-' इत्यादौ । यथायोगं यथासंभवम् । लक्षणाशरीराणीति । लक्षणाज्ञानकार्यतावच्छेदकं च ता. दृशशक्यसंबन्धप्रकारकलक्ष्यविशेष्यकशाब्दबुद्धित्वमिति प्राचीनालंकारिकमतम् । तदनन्तरं व्यञ्जनया तादृशशक्यतावच्छेदकप्रकारकलक्ष्यबोध इति च । एकप्रवणत्वं तदेकसक्तत्वम् । विषयविषयिणोरिति । उपमेयोपमानयोरित्यर्थः । आयेनारोपेण । द्वितीयेन विति। अध्यवसानेत्यर्थः । सहितेत्यस्यानुषङ्गः । तस्या इति । गोण्या इत्यर्थः।
For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४७
रसगङ्गाधरः। भेदसंसर्गेण मुखादिशब्दोपस्थापितैर्मुखत्वादिविशिष्टर्मुखादिभिरन्वयः । सादृश्यरूपधर्मलक्षणायां तु तेन सह मुखादीनामन्वयो न स्यात् । नामार्थयोरभेदातिरिक्तसंसर्गेण विशेष्यविशेषणभावस्थानुपपत्तेः । नन्वेवं सति बोधावैलक्षण्याञ्चन्द्रसढशं मुखमित्युपमातो मुखं चन्द्र इति रूपकस्य कथं भेदः । न च सदृशविशेषणचन्द्रसंबन्धिसंबन्धाभ्यामिति वाच्यम् । बोधस्य वैलक्षण्यमात्रेण पृथगलंकारताया असिद्धेः । अन्यथा मुखं चन्द्र इवेत्यत्र चन्द्रसदृशमित्येतद्गतात्प्टथगलंकारतापत्तिरिति चेत्, अत्र केचित्-"रूपकस्योपमातः स्वरूपसंवेदनांशमादायावैलक्षण्येऽपि लक्षणाफलीभूतताद्रूप्यसंवेदनमादाय वैलक्षण्यं निर्बाधम् । ताद्रूप्यसंवेदनं च विपये मुखादौ विषयितावच्छेदकस्य चन्द्रत्वादेः संप्रत्ययः । ननु लक्षणाप्रयोज्यादपि तत्सदृशबोधात्कथं नाम ताप्यप्रत्ययः स्यात् । उपायस्याभावाद्वेदज्ञानेन प्रतिबन्धाच्च । अन्यथा चन्द्रसदृशं मुखमित्यत्रापि ताद्रूप्यननु गौरवात्सदृशरूपधर्मिलक्षणा न युक्ता अत आह-सादृश्येति । तेन सादृश्येन । न स्यात्कथमपि न स्यात् । अतिरिक्तेति । अभेदेन तु बाधान्नेति भावः । एवं सति धर्मिलक्षणयाभेदनान्वयाङ्गीकारे सति । धर्मलक्षणया व्युत्पत्तिसंकोचमङ्गीकृत्य भेदान्वये तु स्याद्वैलक्षण्यमिति भावः । बोधावैलेति । उपमायामप्यभेदेनैव बोधादिति भावः । सदृशविशेषणचन्द्रसंबन्धिसंबन्धाभ्यामिति । सदृशे विशेषणभूतो यश्चन्द्रस्तत्संबन्धतदसंबन्धाभ्यां संसर्गतया भासमानाभ्यामित्यर्थः । बोधवलक्षण्यमिति शेषः । मुखं चन्द्र इत्यत्र चन्द्र पदस्य तत्सदृशे लाक्षणिकत्वेन तस्यैकपदार्थत्वात्संसर्गस्यापि लक्ष्यघटकतया चन्द्रसदृशयोः संबन्धस्य संसर्गविधयाभानम् । चन्द्रसदृशमित्यत्र तु तयोभिन्नपदार्थत्वेन संसर्गस्य तत्त्वेन भानमावश्यकमेवेति भावः । अन्यथा बोधवलक्षण्यमात्रेणालंकारभेदाङ्गीकारे । मुखं चन्द्र इवेत्यति । इत्यस्यामुपमायामित्यर्थः । इवस्य द्योतकत्वेन रूपकरीत्या संसर्गस्य तत्त्वेनाभानात् । तादृश्यवाचकत्वेऽपि तेन सह प्रतियोगित्वं संबन्धः । चन्द्रसदृशभित्यत्र तु तत्प्रतियोगिकाश्रये लाक्षणिकतया अभेदस्य संबन्धत्वमिति स्पष्टं वैलक्षण्यम् । सदृशवाचकत्वेऽपि स्वप्रतियोगिकाश्रयत्वम् । चन्द्र इ. वेत्यत्र संबन्धः, तत्र तु स एवेति स्पष्टो भेद इति भावः । एतद्गतादिति । उपमालं. कारादिति शेषः । ताद्रप्यसंवेदनमिति । ताद्रूप्यमात्रसंवेदनमित्यर्थः । एतेन भेदाभेदोभयप्रधानोपमा असाधारणरूपेणोपमानोपमेययोर्भेदः । साधारणरूपेण त्वभेद इत्यलंकारसर्वस्वकृद्गन्थविरोध इत्यपास्तम् । उपायस्येति । शक्तिलक्षणान्यतरस्येत्यर्थः । तत्रापि लक्षणास्तु, अत आह-भेदेति । अन्यथा तस्याप्रतिबन्धकत्वे । इत्यत्रापीति। उपमायामपि । ताप्यति । ताद्रूप्यमात्रेत्यर्थः । एवमुपायमुक्त्वा द्वितीयहेतु खण्ड
For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
काव्यमाला।
प्रत्ययप्रसङ्गः इति चेत्, मैवम् । श्लेषस्थल इवात्राप्येकशब्दोपादानोत्थस्य व्यञ्जनस्योपायत्वाद्वैयञ्जनिकबोधस्य बाधबुद्धयप्रतिवध्यत्वाच्च । अथ चन्द्रतत्सदृशयोरेवैकपदोपात्तत्वाच्चन्द्रसहशे चन्द्रताद्रूप्यस्य प्रत्ययो यथाकथंचिदस्तु । न तु मुखत्वविशिष्टे मुखे । अनुभवसिद्धश्च सर्वेषाम् 'वके चन्द्रमसि स्थिते किमपरः शीतांशुरुज्जृम्भते' इत्यादी विषये विषयिताद्रूप्यस्य प्रत्यय इति । सत्यम् । स्वताद्रूप्यवदभेदबुद्ध्या स्वताद्रूप्यस्य सुबोधतया तस्मिन्नपि तस्य सिद्धेः” इत्याहुः । अन्ये तु—"चन्द्रादिपदेभ्यो लक्षणया चन्द्रसदृशत्वेनापि रूपेणोपस्थितानां मुखादीनां चन्द्रत्वेन रूपेणैव मुखादिपदोपस्थापितैः सहाभेदान्वयबोधो जायते । तत्तत्पदलक्षणाज्ञानस्य तत्तत्पदशक्यतावच्छेदकप्रकारकलक्ष्यान्वयबोधत्वावच्छिन्नं प्रति हेतुतायाः पदार्थोपस्थितिशाब्दबोधयोः समानाकारत्वस्यानुभवसाक्षिकवैलक्षण्यकलाक्षणिकबोधातिरिक्तविषयतायाश्च कल्पनात् । अत एव गझायां घोष इत्यत्र तटत्वेनाप्युपस्थितस्य तटस्य गङ्गात्वेनान्वयबोधस्तत्प्रयोज्यः शैत्यपावनत्वादिप्रत्ययश्च संगच्छते । प्रकृते तु विषयिचन्द्रादिनिष्ठासाधारणगुणवत्त्वप्रत्ययः फलम् । नहि चन्द्रत्वप्रतीति विना मुखे चन्द्रत्वनियतगुणवत्त्वधीः शक्योपपादयितुम् । ताप्यपदेन तदसाधारणगुणवत्त्वमेव प्राचीनरुक्तम् । इत्थं च स्वरूपसंवित्तिकृतः फलीभूतसंवियति-वैयञ्जनीति । एतेन मुखत्वविशिष्टमुखव्यवच्छेदः । तदेवाह-न त्विति । रूपान्तरेण मुखोपस्थितेः सत्त्वादाह-मुखत्वेति । इष्टापत्ति खण्डयति-अनुभवश्चेति । स्वताद्रूप्यवदिति । चन्द्रताद्रप्यवत्सदृशाभेदेत्यर्थः । तस्मिन्विषये । तस्य तादूप्यप्रत्ययस्य । केचिदित्यनेनारुचिः सूचिता । तद्बीजं तु स्वरूपसंवेदनकृतवैलक्षण्यस्यापि संभवेन तावत्पर्यन्तगमनं व्यर्थमिति । अत एव मतान्तरमाह-अन्ये विति । अ. पिर्मुखत्वसमुच्चायकः । रूपेणैवेत्यस्याभेदान्वयेत्यत्रान्वयः । उपस्थापितैरित्यस्य मुखत्वा. नामुखत्वादिभिरिति शेषः । ननु लक्षणाज्ञानकार्यतावच्छेदकं प्राचीनसंमतं प्रागुक्तमिति कथं तथा बोधोऽत आह-तत्पदेति । नन्वेवमपि तदुपस्थितिबोधयोः समानप्रकारत्वनियमभङ्गोऽत आह—पदार्थोपेति । कल्पनाया आवश्यकतामाह-अत एवेति। अपिना समीपत्वसमुच्चयः । ननु प्रकृते फलाभावोऽत आह-प्रकृते त्विति । नन्वेवं प्राचीनविरोधः । ताप्यसंवेदनस्य फलत्वस्य तैरक्तत्वादत आह-ताद्रप्यति । नदसाधारणति । विजातीयालादकरवेत्यर्थः । इत्थं चेति। रूपके तथा बोधे तथा फ
For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१४९ त्तिकृतश्वोपमातो रूपकस्य भेदः स्फुट एव" इति वदन्ति । अपरे तु"भेदकरम्बितं सादृश्यमुपमाजीवातुभूतम्, भेदाकरम्बितं च गौणसारोपलक्षणाया इति स्फुटे भेदे कृतं फलकृतवैलक्षण्यपर्यन्तानुधावनेन । पक्षेऽस्मिन्भेदगर्भसादृश्यप्रतिपत्तेस्ताद्रूप्यप्रतीतिः कथं नाम फलं भवितु. मीष्टे, इत्यनुपपत्तिं परिहर्तुमायासोऽपि नापततीत्यपरमनुकूलम्" इत्यप्याहुः । तदित्थं प्राचामाशयो मतभेदेन वर्णितः।
नव्यास्तु-- "मुखं चन्द्रः, बाहीको गौः, इत्यादौ चन्द्रादीनां मुखादि. भिः सह संभवति लक्षणां विनैवाभेदसंसर्गेणान्वयबोधः । बाधनिश्चयप्रतिबध्यतावच्छेदककोटावनाहार्यत्वस्येव शाब्दान्यत्वस्यापि निवेश्यत्वात् । अत एव 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' इति प्राचां प्रवादोऽपि संगच्छते । न च वह्निना सिञ्चति इत्यतो वाक्यादपि शाब्दबोधापत्तिः । योग्यताज्ञानविरहात् । मुखं चन्द्रः, गौर्बाहीकः, इत्यादौ त्विष्टचमत्कारप्रयोजकताज्ञानाधीनाया इच्छायाः सत्वादाहार्ययोग्यताज्ञानसाम्राज्यम् । अत एव शाब्दबोधे योग्यताज्ञानस्य कारणत्वोक्तिप्राचां संगच्छते । आहार्य एव वा भेदान्वयबोधोऽस्तु । मास्तु बाधबुद्धिप्रतिबध्यतावच्छेदककोटौ शाब्दान्यत्वम् । मा चास्तु शाब्दबुद्धौ योग्यताज्ञानस्य कारणत्वम् । आहार्य प्रात्यक्षिकमेवेति नियमश्चावश्यं मुख: लेऽङ्गीक्रियमाणे चेत्यर्थः । उपमातो रूपकस्येति । उपमायां तथा बोधाभावात्सा. धारणस्यैव गुणस्य प्रतीतेश्चेति भावः । अत्रापि पक्षेऽरुचिं सूचयन्मतान्तरमाह-अपरे त्विति । करम्बितं विशिष्टम् । सादृश्यस्य धर्मरूपत्वेऽतिरिक्तत्वे च भेदागर्भत्वादिति भावः । जीवातुर्जीवनौषधम् । स्फुटे भेद इति । उपमायां चन्द्रभिन्नं चन्द्रसदृशमिति बोधः । रूपके तु चन्द्रसदृश मित्येवेति भावः । पक्षेऽस्मिन्नित्यस्यापरमित्यनेनान्वयः । ननु मुखं न चन्द्र इत्यादि बाधज्ञानसत्त्वेन कथं तथाबोधोऽत आह-बाधेति । अनाहाति । तत्सत्त्वेपीच्छारूपात्तेजकवशादा हार्यस्य जायमानत्वादिति भावः। न चेत्यस्यैवमिति शेषः । शाब्दान्यत्वनिवेशे इति तदर्थः । नन्वेवं प्रकृतेऽपि योग्यताज्ञानाभावात्कथं बोधोऽत आह-मुखमिति । अत एवाहार्ययोग्यताज्ञानसत्त्वादेव । शाब्दबोधे शाब्दबोधत्वावच्छिन्ने। लाघवान्मतान्तरमाह-आहार्य एव वेति । मा चास्त्विति। वह्निना सिञ्चतीत्यादावप्याहार्यज्ञानस्येष्टत्वादिति भावः । अस्योभयत्रान्वयः । उक्तं द्रढयति-अवश्यं चेत्यादिना । अभेदेत्यस्याहार्येत्यादिः । एवव्यवच्छेद्यमाह-न
For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
काव्यमाला ।
चन्द्र इत्यादौ पराभिमतसारोपलक्षणोदाहरणे वाच्यार्थयोरेवाभेदान्वयोSभ्युपगन्तव्यः । न तु वाच्यलक्ष्ययोः । अन्यथा ' राजनारायण लक्ष्मीस्त्वामालिङ्गति निर्भरम्', 'पादाम्बुजं भवतु मे विजयाय मजुमञ्जीरशिञ्जितमनोहरमम्बिकायाः' इत्यादौ क्रमेणोपमारूपकयोरुपमितविशेषणसमासाधीनयोर्लक्ष्मीकर्तृकालिङ्गनमञ्जुमञ्जीरशिञ्जितमनोहरत्वयोरनुपपत्तिनिर्णायिका रूपकोपमयोः प्राचीनैस्तत्र तत्रोपनिबद्धा विरुद्धा स्यात् । आद्यपद्ये उपमाया इव रूपकस्यापि स्वीकारे बाधकस्य तुल्यतया तन्निर्णायकताया असंगतेः । द्वितीयपद्ये रूपकस्यापि स्वीकारे बाधकाभावेन तन्निवर्तकताया अयोगात् । न च मुखचन्द्रादौ समासे क्वचिदस्तु नाम प्रागुक्तरीत्या लक्षणां विनापि बोधोपपत्तिः, व्यासे तु लक्षणाया नास्ति बाधकमिति वाच्यम् । 'कृपया सुधया सिञ्च हरे मां तापमूर्च्छितम्' इत्यादौ व्यासेऽप्यनुपपत्तेः । न च सिञ्चतेरपि विषयीकरणे लक्षणया नानुपपत्तिः । उत्प्रेक्षाद्यतिरिक्तातिशयोक्त्यपह्नवादिष्विवाहार्यज्ञानेनोपपत्तौ लक्षणायां बीजाभावादनुभवविरोधाच्च । अपि चोपमानवाचकस्य चन्द्रादिपदस्य रूपके उपमानसदृशे लक्षणा इति हि प्राचां समयः । तत्र च लक्ष्यतावच्छेदकं सादृश्यत्वम् । तच्च समानधर्मरूपम् । स च लक्ष्यांशे सुन्दरत्वादिना विशेषरूपेण प्रतीयते, उताहो सामान्यरूपेण । नाद्यः । सुन्दरं मुखं चन्द्र इत्यादौ पौनरुक्त्यापत्तेः । न चैवमादावुपात्तधर्मके रूपके तद्धर्मातिरिक्तो धर्म एवं लक्ष्यतावच्छेदकीभूतसादृश्यरूप इति वाच्यम् । अनुभवविरोधात् ।
त्विति । अन्यथा वैपरीत्याङ्गीकारे । विरुद्धेत्यत्रास्यान्वयः । उपमितविशेषणेति । ‘उपमितं व्याघ्रादिभिः' । ‘मयूरव्यंसकादयश्च' इतीत्यर्थः । तत्र तयोः स्वीकारे या तदनुपपत्तिः सा वैपरीत्ये निर्णायकेत्यखण्डार्थः (?) | बाधकस्य तत्कर्तृकालिङ्गनासंभवस्य । बाधकाभावेन तादृशामनोहरत्वासंभवाभावेन । प्रागुक्तेति । प्राचीनोक्तेत्यर्थः । नास्ति बाधकमिति । प्राचानुक्तत्वादिति भावः । सिञ्चतेरिति । अपिरेवार्थः । उत्प्रेक्षेति । अत्र तु यथा त्वलक्षणा तथा स्फुटीभविष्यति । विनिगमनाविरहादाहअनुभवेति । तत्र विसंवादादाह –— अपि चेति । स च समानधर्मश्च । एवमादौ इत्यादावित्यर्थः । अत्रादिशब्दस्य प्रकारार्थत्वात्तत्प्रयोजकधर्ममाह - उपात्तति । तद्ध
For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
'अङ्कितान्यक्षसंघातैः सरोगाणि सदैव हि ।
शरीरिणां शरीराणि कमलानि न संशयः ॥' इत्यादौ श्लेषभित्तिकाभेदाध्यवसितधर्म विना धर्मान्तरस्य सर्वथैवास्फूतेश्च । नान्त्यः । सादृश्यस्य शब्दोपात्तत्वेनोपमात्वापत्तेः । न च सादृश्यस्य वाच्यतायामेवोपमाव्यपदेशः । 'नलिनप्रतिपक्षमाननम्' इत्यादी तदभावापत्तेः । किं च विद्वन्मानसहंस-' इत्यादौ श्लिष्टपरम्परितरूपके श्लेषनिष्पत्तौ श्लेषभित्तिकाभेदाध्यवसानेन मानसवासित्वरूपे भूपहंसयोः सादृश्ये सिद्धे सदृशलक्षणामूलस्य भूपे हंसरूपकस्य सिद्धिः । तस्यां च सत्यां सरोमनोरूपार्थद्वयाभिधानलक्षणस्य श्लेषस्य निष्पत्तिरिति परस्पराश्रयः । नहि रूपकास्फूर्ती सरोरूपेऽर्थे मानसशब्दस्य तात्पर्य वेदयितुं किंचित्प्रमाणमवतरति । स्फुरिते तु रूपके तखटकसादृश्यान्यथानुपपत्तिरूपेण प्रमाणेनार्थद्वयादबोधफलकस्य तदुभयप्रतिपादनात्मनः श्लेपस्य निष्पत्तिः । अतो नामार्थयोरभेदान्वयसरणिरेव रूपकस्थले रमणीया । सदृशलक्षणायाः फलं रूपके ताप्यप्रत्यय इत्यपि न हृदयंगमम् । तत्सदृश इति शब्दात्सादृश्यप्रत्यये सत्यपि ताद्रूप्यप्रत्ययापत्तेः” इत्याहुः।
मेति। उपात्तधर्मान्याहादकत्वादिरित्यर्थः । तथानुभवे विसंवादादाह-अङ्कितानीति। अक्षाणीन्द्रियाणि । अक्षाः पद्माक्षाश्च । तत्समूहैाप्तानि । रोगसहितानि, सरोगामीनीत्यर्थः । श्लेषेति । शब्दश्लेषनिमित्तको यो विशेषणार्थयोरभेदाध्यवसायस्तद्विषयीभूतो यो धर्मस्तद्व्याप्तवसरोगत्वरूपस्तमित्यर्थः । एवमग्रेऽपि । एवं चात्र पौनरुक्त्यं दृढमिति भावः । शब्दोपात्तेति । लक्षणयेति भावः । तथा च रूपकोच्छेदापत्ति. रिति भावः । वाच्यतायामेवेति । शक्त्येति भावः । तदभावेति । प्रतिपक्षशब्दस्य न सादृश्ये शक्तिः । किं तु लक्षणेति भावः । इष्टापत्तावाह-किं चेति । वि. द्वदिति । 'विद्वन्मानसहंस वैरिकमलासंकोचशीतयुते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष विजयप्राग्भारभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ॥' इत्यादावित्यर्थः । अत्र मानसमेव मानसमित्यादिश्लेषः । तस्यां रूपकसिद्धौ । तद्बटकेति । लक्ष्यतावच्छेदकेत्यर्थः । अर्थद्वयेति । सरोमनोरू. पेत्यादिः । प्राचोक्तमन्यत्खण्डयति--सदृशेति । नास्ति लक्षणेतीति। मास्तु लक्षणा।
For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१५२
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
अत्रेदं विचार्यते — यत्तावदुच्यते नामार्थयोरभेदान्वयबोधेनैवोपपत्तौ रूपके नास्ति लक्षणेति तत्र चमत्कारिसाधारणधर्मानुपस्थितिदशायामुपमालंकारस्येव रूपकालंकारस्यापि नास्ति निष्पत्तिश्चमत्कारो वेति सकलहृदयसिद्धम् । कथमन्यथा 'भारतं नाकमण्डलम्', 'नगरं विधुमण्डलम् ' इत्यादिवाक्यश्रवणानन्तरमनुन्मिषन्त्या रूपकप्रतिपत्तेः सुपर्वालंकृतसकलकलादिशब्दश्रवणोत्तरमेव समुन्मेषः सर्वेषाम् । इत्थमेव च मुखं चन्द्र इत्यादिप्रसिद्धोदाहरणेऽपि । इयांस्तु विशेष: यदेकत्र साधारणो धर्मः प्रसिद्धतया नियमतः स्वबोधकश्रुति नापेक्षते । इतरत्र त्वप्रसिद्धतया तथा । एवं स्थिते साधारणधर्मवत्त्वरूपं सादृश्यं यदि रूपकमध्यं न प्रविशेत्तदा कथमिव धर्मविशेषानुपस्थितिदशायां रूपकं न पर्यवस्येत् । चमत्कारं वा न जनयेत् । उपमानोपमेययोराहायभेदवडेरनन्यापेक्षपर्यवसानायाः साम्राज्यात् । न चाहार्य पदार्थद्वयाभेदबुद्धौ चमत्कारे वा साधारणधर्मविशेषज्ञानं प्रयोजकमिति शक्यं वक्तुम् |
'यद्यनुष्णो भवेद्वह्निर्यद्यशीतं भवेज्जलम् ।
मन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक् ॥'
इत्यादौ साधारणधर्मस्याप्रत्ययेऽपि वचनुष्णादीनामभेदप्रत्ययोपगतेः । न चोपमानोपमेयस्थल एवायं नवीनो विशेष इति वाच्यम् । ईदृशविशे
नामार्थयोश्चाभेदान्वय एवास्तु । न च बाधज्ञानं प्रतिबन्धकम् । सादृश्यज्ञानरूपदोषस्योत्तेजकत्वात् । एतज्ज्ञानं च प्रसिद्धसादृश्यकस्थले साधारणधर्मानुपादाने एकसंबन्धिज्ञानादपरसंबन्धिस्मरणन्यायेन । साधारणधर्मस्मृतौ दोषविशेषसहकारेण शब्दादभेदप्रत्ययशङ्ख पीतत्वाभावनिश्चये काचकामलादिदोषेण तत्पीतत्वप्रत्यक्षवत् । रूपके आहार्यबुद्धिः रिति प्राचीनव्यवहारे बाधबुद्धिकालिकाकालिकत्वमात्रे आहार्यपदं लाक्षणिकम् । इवशब्दादिसमभिव्याहारे तु तेन भेदगर्भसादृश्यस्यैवोपस्थापनान्नाभेदप्रतीतिरिति मम प्रतिभाति । तत्र दोषं वक्तुमाह - तत्रेत्यादिना | चमत्कारी यः साधारणधर्मस्तदनुपेत्यर्थः । उभयत्र क्रमेण साधारणधर्ममाह - सुपर्वेति । देवालंकृतत्वं पण्डितालंकृतत्वं सकलकलात्वं चेत्यर्थः । कला षोडशो भागः कौशलं च । एकत्र प्रसिद्धोदाहरणे । इतरत्राप्रसिद्धोदाहरणे तु । तथेति । नियमेन स्वबोधकश्रुतिमपेक्षत इत्यर्थः । कथमित्र कथमपि । अनन्यापेक्षेति । रूपकस्य तु धर्मविशेषोपस्थित्यपेक्षं पर्यवसानमिति भावः । विशेषज्ञानमिति । तथा च तदभावादभेदबुद्धिरपि न स्यादिति भावः । वह्ननुष्णेति । वहयादावनुष्णाद्यभेदप्रतीतेरित्यर्थः । न चोपमेति । वह्नयनुष्णा
For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
११३
षकल्पने मानाभावात् । साधारणधर्मानुपस्थितिदशायामपि मुखं यदि चन्द्रः स्यात्तदा भूम्यवस्थितं न स्यात्' इत्यादौ तादृशप्रतीत्युपगमाच्च । ननु रूपकप्रतीतेरुपमानाभेदविषयत्वविरहे 'सिंहेन सदृशो नायं किं तु सिंहो नराधिपः' इत्यादौ निषेध्यविधेययोरसंगतिरिति चेत्, न । अनुपदमेव प्राचीनमतद्वयेऽपि रूपके ताद्रूष्यप्रतिपत्तेः स्वीकारस्य प्रतिपादनात् ।
अथ विधेयको प्राचां मते सादृश्यस्यापि प्रविष्टतया तन्निषेधानुपपत्तिस्तथापि स्थितैवेति चेत्, भेदघटितसादृश्यरूपाया उपमाया एव निषेध्यत्वात् तिरोभूतभेदसादृश्यलक्षणस्य रूपकस्य विधेयत्वाच्च नानुपपत्तिः । यदप्युक्तं रूपके लक्षणास्वीकारे 'राजनारायणम्' इत्यत्र 'पादाम्बुजम्' इत्यत्र चोपमारूपकयोर्वाधिकतया रूपकोपमयोर्निर्णायकतया च लक्ष्मीकर्तृकालिङ्गनमञ्जुमञ्जीर शिञ्जितत्वयोरनुपपत्तिः प्राचीनैरुक्ता विरु -
स्यादित्यादि, तदपि न । रूपके उपमानतावच्छेदकरूपेण तत्सदृशप्रत्ययस्योपपादितत्त्वेन 'राजनारायणम्' इत्यादौ विशेषणसमासायत्तस्य रूपकस्य स्वीकारे प्रधानीभृतोत्तरपदार्थस्य नारायणसदृशस्यापि नारायणत्वेनैव प्रतीतेर्लक्ष्मीकर्तृकालिङ्गनकर्मताया अनुपपत्तेरभावात् । उपमाया उपमितसमासायत्तायाः स्वीकारे तु प्रधानीभूतपूर्वपदार्थस्य राज्ञो राजत्वेनैव प्रत्ययात्तादृशकर्मताया अनुपपत्तेः । ' पादाम्बुजम्' इत्यादावपि रूपकस्य स्वीकारे प्रधानीभूतोत्तरपदार्थस्याम्बुजसदृशस्याम्बुजत्वेनैव प्रतीते
atri तु नोपमानोपमेयत्वम् । अत एव तत्र रूपकादिकं न । अभेदबुद्धिस्तु तत्रास्तीति भावः । न त्वन्यथानुपपत्तिरेव मानं तत्राह - साधारणेति । तादृशेति । उपमानोपमेययोश्चन्द्रमुखयो रूपकसत्त्वेनाभेदप्रतीत्यङ्गीकारादित्यर्थः । तस्मादभेदबुद्धौ तस्य प्रयोजकत्वस्य दुर्वचतया सैव स्यात् । रूपकं न पर्यवस्येत् । अतस्तदुपस्थित्यर्थं लक्षणावश्यमाश्रयणीयेति भावः । तत्र शङ्कते -- ननु रूपकेति । विरहे इति । नामार्थयोरभेदान्वय इति सरण्यनङ्गीकारे इत्यर्थः । विधेयकोटाविति । 'सिंहो नराधिपः' इत्यादावित्यर्थः । तथापि ताद्रूप्यप्रतिपत्त्यङ्गीकारेऽपि । एवेन सादृश्यस्य विधिनिषेधव्यावृत्तिः । तिरोभूतभेदेति बहुव्रीहिः । सादृश्येति । सादृश्यरूपस्येत्यर्थः । विशेषणसमासेति । मयूरव्यंसक इति समासेत्यर्थः । उपमितसमासेति । 'उपमितं व्याघ्रादि-' इति समासेत्यर्थः । तादृशेति । लक्ष्मीकर्तृकालिङ्गनेत्यर्थः । तस्या इति । मञ्जुमञ्जीर शिञ्जितम
२०
For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१९४
काव्यमाला |
मञ्जुमञ्जीरशिञ्जितमनोहरताया अनुपपत्तेः । उपमितसमासायत्तोपमायां तु प्रधानस्य पादस्य पादत्वेनैव प्रतीतस्य नास्ति तस्या अनुपपत्तिरिति न कोऽपि दोषः । न चोपमितसमासे पूर्वपदार्थस्योपमेयस्योपमेयतावच्छेदकतयैव प्रतीतिरिति न युक्तम् । 'वक्रे चन्द्रमसि' इति प्रागुक्तरूपक इवोपमानताद्रूप्यावदभेदबुद्ध्या तत्ताद्रूप्यस्यात्रापि प्रतिपत्तुं शक्यत्वालक्षणायास्तुल्यत्वादिति वाच्यम् । उपमितसमासे भेदघटितसादृश्यस्य लक्ष्यकोटिप्रविष्टतया वैलक्षण्यस्य वक्ष्यमाणत्वात् । यदप्युक्तं सादृश्यस्य शब्देनोपादानादुपमात्वापत्तिरिति, तदपि न । भेदाकरम्बितसादृश्यविशिष्टस्य रूपके लक्ष्यत्वादुपमाव्यपदेशस्याप्रसक्तेः । ' सादृश्यमुपमा भेदे ' इति तत्सिद्धान्तात् । ननु यत्र भेदघटितसादृश्यवति वक्रा लक्षणया मुखं चन्द्र इति प्रयुक्तं तत्र तथाप्युपमालंकारापत्तिः स्थितैवेति चेत्, भेदघटितसादृश्यप्रतिपिपादयिषाकाले लक्षणया तद्वति शब्दप्रयोगस्य विरुद्धत्वात् । लक्षणायास्ताद्रूप्यप्रतिपिपादयिषाधीनत्वात् । नहि प्रयोजन - मनुद्दिश्य रूढिव्यतिरिक्तया लक्षणयार्थ प्रतिपादयन्त्यार्याः । भेदताद्रप्ययोर्विप्रतिषिद्धत्वेन युगपत्प्रतिपत्तृबुद्ध पारोहासंभवाच्च । अथोपमितसमासे पुरुषव्याघ्र इत्यादावुत्तरपदस्य स्वार्थसदृशे लक्षणैवोपगन्तव्या । अन्यथा बोधकाभावेन समासे सादृश्यप्रत्ययो न स्यात् । न च व्याघ्र इतीवशब्दस्तद्बोधक इति वाच्यम् । तस्य समासे संबन्धाभावात् । सति च संबन्धे तन्निवृत्तेरयोगात् । निवर्तकशास्त्रस्याभावात् । विग्रहवाक्यगतस्त्विवशब्दः स्वघटितवाक्यस्योपमाप्रतिपादकत्वं संपादयितुमीष्टे, न वाक्यान्तरस्य । तस्य विवरणत्वानुपपत्तेश्च । नहि विवरणीयवाक्यगतशनोहरताया इत्यर्थः । उपमानतादूप्येति । उपमानसदृशयेोरेकपदोपात्तत्वेनोपमानताद्रूप्यवत्सदृशाभेदबुद्ध्या उपमेये उपमानताद्रूप्यस्योपमायामपि ज्ञातुं शक्यत्वादित्यर्थः । तत्र हेतुमाह - लक्षणेति । रूपके इवोपमितसमासे वाचकेवशब्दस्याभावेन लक्षणासत्त्वेन तस्याः समत्वादित्यर्थः । भेदाकरम्वीति । भेदाविशिष्टेत्यर्थः । दोषान्तरमाहभेदेति । संबन्धाभावादिति । द्वयोरेव पदयोः समासादिति भावः । अभ्युपेत्याह-सति चेति । उपमाप्रतीति । उपमालंकारप्रतीत्यर्थः । वाक्यान्तरस्य समासवाक्यस्य । ननु समासे मास्तु सादृश्यप्रतीतिरत आह- तस्येति । विग्रहवाक्यस्येत्यर्थः । इत्थं च
1
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
ब्दाप्रतिपाद्यस्यार्थस्य विवरणं युज्यते । इत्थं च लक्षणाया एवाभ्युपगम्यतया सत्यां च तत्प्रयोजनीभूतताद्रूप्यप्रतिपत्तौ कथमुपमा द्विलुप्ता तत्र प्राचीनरुक्तेति चेत्, अत्रोच्यते-उपमितसमासस्य भेदघटितोपमानसादृश्यविशिष्टोपमेये शक्तेस्तद्धटकीभूतोपमानशब्दस्य भेदघटितसादृश्यविशिष्टे निरूढलक्षणाया वा स्वीकाराददोषः । इयमेव निपातानामिवादीनां द्योतकतानये मुखं चन्द्र इवेत्यादौ वाचकलुप्तायामुपमायां च गतिरनुसरणीया । वाचकलोपस्तूपमानाद्यकरम्बितसादृश्यतद्विशिष्टान्यतरप्रतिपादकशब्दशून्यत्वादुपपादनीयः । यच्च 'विद्वन्मानस-' इत्यत्र दूषणमभिहितं तद्रूपकप्रकरणे परिहरिप्यते । यदप्युक्तं रूपके सदृशलक्षणायाः फलं ताद्रूप्यप्रत्ययो न युज्यते । तत्सदृश इतिशब्दजबोधानन्तरमपि तथा प्रत्ययापत्तेरिति, तन्न । तत्सदृश इत्यत्र लक्षणाया अभावेन ताद्रूप्यप्रत्ययस्यापादानायोगात् । ताद्रूप्यप्रत्ययो लक्षणायाः फलमिति प्राचां समयः । महाभाष्यादिग्रन्थानामस्मिन्नेवानुकूलत्वाच्च । नव्यनये तु तेषामाकुलीभावः स्यादिति दिक् । उक्तदोषे चेत्यर्थः । द्विलुप्तेति । उक्तरीत्या धर्मवाचकयोः सत्त्वेन कथं धर्मवाचकलुप्तोक्तेत्यर्थः । विशिष्टशक्तो गौरवादाह -तद्बटकीति । भेदघटितेति। तथा च साधारणधर्माभानाद्धर्मलुप्तत्वं सुस्थम् । नन्वेवमपि ताद्रप्यप्रतीत्या कथं धर्मलुप्तत्वमत आहनिरूढलक्षणेति। इयमेवेति । उक्तैव गतिरित्यर्थः । धर्मलुप्तोदाहरणमाह-मुखं चन्द्र इवेति । वाचकलुप्तायामिति। तडिगौरीत्यादावित्यर्थः। नन्वेवमपि सादृश्यवाचकस्योपमानशब्दस्यैव सत्त्वात्कथं वाचकलुप्तत्वमत आह-वाचकेति । वाक्ये इवानुपादाने वाचकलुप्तत्वायदश्येति (?) । समसदृशाद्यप्रयोगे तत्त्वायाह—तद्विशिष्टेति । सादृश्याविशिष्टेत्यर्थः । परिहरिष्यत इति । अयं भावः-उपमेयोपमानयोरभेद एव रूपकमिति मते सादृश्यज्ञानमूलकाभेदप्रतीतिविषय एव सः । एवं च 'पौरुषाब्धेस्तरङ्गः । प्रत्यर्थिवंशोल्बणविजयकरिप्रौढदानाम्बुपट्टः खगो मालवस्य' इत्यादौ खड्गशब्दात्प्रतीयमानदानाम्बुपट्टाभेदे प्राथषु वंशाभेदप्रतीतिमूलकतज्जातिसंबन्धित्वरूपं साधर्म्य म. लम् । प्रत्यर्थिषु वंशाभेदे च खड़े दानाम्बुपट्टाभेदप्रतीतिमूलकतद्भज्यमानत्वम् । तस्मादवश्यं रूपके लक्षणा। तथेति । ताद्र प्येत्यर्थः । रूपके लक्षणा । अत्र युक्तयन्तरमाहमहाभाष्यादीति । तथा च 'पुंयोगादाख्यायाम्' इति सूत्रे भाष्यम् --- भिनानामभेदाभावात् । 'कथं पुनरतस्मिन् स इत्येतद्भवति' । चतुर्भिः प्रकारैस्ताद्रूप्यमारोप्यते, न तु मुख्यम्।तात्स्थ्यातू, ताद्धातू, तत्सामीप्यातू, तत्साहचर्यात्, इति । तात्स्थ्याद्यथा
For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६
काव्यमाला। "साध्यवसानायां च 'चन्द्रराजी विराजते' इत्यादौ चन्द्रादिशब्दैलक्षणया मुखत्वेनोपस्थापितस्यापि मुखादेः शाब्दबोधश्चन्द्रत्वादिना भवति, लक्षणाज्ञानस्यैव माहात्म्यात्" इत्येके । “लक्षणया मुखत्वेन मुखादेः शाब्दबोधे वृत्ते व्यञ्जनयैकशब्दोपात्तत्वप्रादुर्भूतया चन्द्रत्वेन बोधः" इत्यपरे । मतद्वयेऽप्यस्मिन्मुखादौ चन्द्रत्वभानसामग्र्या मुखत्वादेः स्वधमस्य भानं न निवार्यते । इत्थं चैकस्मिन्धर्मिणि चन्द्रत्वादीनां मुखत्वादीनां च साक्षादानमेव सारोपातोऽस्या विच्छेदकम् । अपरे तु "निवार्यत एव विरुद्धभानसामग्र्या स्वधर्मस्य भानम् । रजतत्वभानसामग्र्यां शुक्तित्वस्यामानात्" इति वदन्ति । मतेऽस्मिन्विषयतावच्छेदका स्फूर्तिस्तथा । वस्तुतस्तु साध्यवसानायां विषयतावच्छेदकधर्मभानं यदि सहृदयहृद्यप्रमाणकं तदा तद्वारणाय कारणकल्पनानुचितैव । शुक्तिरजतभानस्थले तु शुक्तित्वेन भाते पुरोवर्तिनि रजतत्वभानस्य सर्वथैव विरुद्धत्वाद्नतत्वमानसमये शुक्तित्वभाननिवारणमावश्यकम् । न चेहापि तथा । अनुभवविरुद्वत्वात् । यदि तु तन्न प्रामाणिकं तदा सोचितैव । ___ अथास्य प्रागभिहितलक्षणस्य काव्यात्मनो व्यङ्गयस्य रमणीयताप्रयोजका अलंकारा निरूप्यन्ते--- मञ्चा हसन्ति । ताद्धाद्यथा--जटी ब्रह्मदत्तः । ब्रह्मदत्ते यानि कार्याणि जटिन्यपि तानि क्रियन्ते। तत्सामीप्याद्यथा-गङ्गायां घोषः । तत्साहचर्याद्यथा कुन्तान्प्रवेशय' इति । लक्षणाभाववादिनापि कथमन्योन्याश्रयः परिहार्यः । किमर्थ वा शिष्टपर्यन्तानुधावनं नवीनैर्दीक्षितैः कृतमिति चिन्त्यमिति । अयमेव दिगर्थ इति बोध्यम् । माहात्स्यादिति । समानप्रकारकत्वनियमस्य लाक्षणिकबोधान्यबोधविषयकत्वस्य प्रागुक्त. त्वादिति भावः । नियमाङ्गीकर्तमतमाह-लक्षणेति । इदमपि प्रागुक्तम् । मुखत्वा. दीनां चेति । एकपदोपस्थाप्यानामिति बोध्यम् । साक्षादिति । सारोपायां तु चन्द्रत्वस्य चन्द्रसदृशे भानद्वारा तत्र भानमिति परम्परया तद्भानमिति भावः । अस्या इति। साध्यवसानाया भेदकमित्यर्थः । एकधर्माधिकरणकोभयभानं तु समानमिति भावः । विषयतावच्छेदकेति । लक्ष्यतावच्छेदकेत्यर्थः । क्वचित्तथैव पाठः । लक्ष्यतावच्छे. दकं च साधारणधर्मरूपमाहादकत्वाद्येवैतन्मते बोध्यम् । तथेति । ततो भेदिकेत्यर्थः । अथोपमा-काव्यात्मन इति । भेदे षष्ठीयम् । काव्यात्मनो यद्व्यङ्ग्यं तस्येत्यर्थः । यद्वा काव्यात्मन इत्यलंकारा इत्यनेनान्वेति । तत्सामान्यलक्षणमाह-व्ययस्य रमणीय.
For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
1
तत्रापि विपुलालंकारान्तवर्तिन्युपमा तावद्विचार्यते— सादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुपमालंकृतिः । सौन्दर्य च चमत्कृत्याधायकत्वम् । चमत्कृतिरानन्दविशेषः सहृदय - हृदयप्रमाणकः । अनन्वये च 'गगनं गगनाकारम्' इत्यादौ सादृश्यस्य द्वितीयसब्रह्मचारिनिवर्तनमात्रार्थमुपात्तत्वेन स्वयमप्रतिष्ठानादचमत्कारितैव । अत एव तस्यान्वयाभावादन्वयं तमाहुः । व्यतिरेके ' तवाननस्य तुलनां दधातु जलजं कथम्' इत्यादौ चमत्कारिणो निषेवस्य निरूपणाय प्रतियोगिनः सादृश्यस्य निरूपणमचमत्कारकमेव । एवमभेदप्रधानेष्वपि रूपकापह्नुतिपरिणामभ्रान्तिमदुल्लेखादिषु भेदप्रधानेषु दृष्टान्तप्रतिवस्तूपमादीपकतुल्ययोगितादिषु चमत्कारिषु तत्तन्निष्पादकतयावस्थितस्यापि सादृश्यस्य चमत्कारिताविरहेण नास्त्युपमालंकृतित्वम् । मुखमिव चन्द्र इति प्रतीपे, चन्द्र इव मुखं मुख इव चन्द्र इत्युपमेयोपमायां च सादृश्यस्य चमत्कारित्वान्नातिप्रसङ्गः शङ्कनीयः । तयोः संग्राह्यत्वात् । ननु
१५७
For Private And Personal Use Only
तेत्यादि । तत्रापि तेष्वपि । विपुलेति । बह्नित्यर्थः । वाक्यार्थोपस्कारकमित्यलंकारस्य । सुन्दरमित्यस्य व्यावर्त्यमाह - अनन्वये चेति । सामान्यलक्षणप्राप्तम् । सब्रह्मचारीति । सदृशेत्यर्थः । स्वयमिति । स्वस्यापर्यवसानादित्यर्थः । अत एव स्वार्थबोध तात्पर्याभावादेव । तस्य सादृश्यस्य । द्वितीयं तदाह-व्यतिरेक इति । अन्यदपि तदाह - एवमिति । अनन्वयव्यतिरेकयोरिवेत्यर्थः । तत्तन्निष्पादकेति । अभेदापह्नवादिनिष्पादकेत्यर्थः । तयोस्तादृशप्रतीपोपमेयोपमानयोः । संग्राह्यत्वादिति । चित्रमीमांसोत्तोपमालक्षणदूषणावसरे इति भावः । नव्यास्तु " यत्र चन्द्राद्युपमानप्रतियोगिकत्वसादृश्यानुयोगिकत्ववुद्धिकृत चमत्कारस्तत्रोपमालंकारत्वम् । अनन्वये तु न स्वसादृश्यबुद्धिकृतः सः, किं तु निरुपमत्वबुद्धिकृत इति नोपमात्वम् । उपमेयोपमाया पेन परस्परसादृश्यबुद्धिकृतः सः किं त्वनयोरेव साम्यं न तृतीय एतत्सदृश इति बुद्धिकृत इति तस्यामपि न तत्त्वम् । मुखमिव चन्द्र इति प्रतोपेऽपि मुखादौ सादृश्यप्रतियोगित्वबुद्धिकृत एव सः न तदनुयोगिकत्वबुद्धिकृत इति तत्रापि न तत्त्वम् । 'अहमेव गुरु: -' इति प्रतीपेऽपि उपमानतिरस्कृतत्वकृत एव सः न तु सादृश्यबुद्धिकृत इति न तत्रापि तत्त्वम् । अलंकारभेदे च चमत्कार निदानभेद एव निदानम् । रूपकोत्प्रेक्षादी तथा कृतत्वात्, सहृदयानुभवसाक्षिकत्वाच्च । एतेन सादृश्यस्याप्रतिष्ठाने यदि सादृश्याप्रतीतिस्तर्ह्यनुभवविरोधः । यदि भेदगर्भे तदप्रतीतिस्तदा भेदांशनिवेशेन तद्विवरणे किं फलम् । उपमेयोपमावत्तस्याप्यवस्तूपमात्वमित्यपास्तम्" इत्याहुः । उपमा
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
काव्यमाला। 'त्वयि कोपोपमा भाति सुधांशाविव पावकः' इत्यादावुपमानस्यात्यन्तमसंभावितत्वात्सादृश्यमेव न तावत्प्रतिपत्तुं शक्यम्, चमत्कारस्तु पुनः केन स्यादिति चेत्, कविना हि खण्डशः पदार्थोपस्थितिमता स्वेच्छया संभावितत्वेनाकारेण चन्द्राधिकरणकमनलं प्रकल्प्य तेन सह साम्यस्यापि कल्पने बाधकाभावात् । कल्पितमसत्सादृश्यं कथं चमत्कारजनकमिति तु न वाच्यम् । परमसुकुमारीभवत्कनकनिर्मिताङ्गया मणिमयदशनकान्तिनिर्वासितध्वान्तायाः कान्ताया भावनया पुरोऽवस्थापिताया आलिङ्गनस्याहादजनकत्वदर्शनात् । उपमानोपमेययोः समत्वस्य लक्षणे प्रवेशाभावान्नात्र दोषलेशोऽपि । अत एव
'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः ।
शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ।।' इत्यादावपि नानुपपत्तिः । परे तु अस्याः कल्पितोपमाया उपमानान्तराभावफलकत्वेनालंकारान्तरतामाहुः । तन्न । सादृश्यस्य चमत्कारितयोपमान्तर्भावस्यैवोचितत्वात् । संनिरूपितत्वस्य लक्षणे प्रवेशाभावात् । उपमानान्तराभावफलकत्वं ह्युपमाविशेषत्वे साधकम् । न तूपमाबहिर्भावे । __ अथ
'विलसत्याननं तस्या नासाग्रस्थितमौक्तिकम् ।
आलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम् ॥' इत्यादौ साधारणधर्मस्याभावात्कथमुपमानिष्पत्तिः । बुधमौक्तिकयोरेकैकमात्रवृत्तित्वात् । न चात्र यदि नासाग्रस्थितमौक्तिकं तस्या आनननस्य चन्द्राधिकरणकानलस्य । असंभावितत्वेन न तु सत्येन रूपेणेति भावः । कल्पितमिति । यतः कल्पितमत एवासदित्यर्थः । नन्वेवं भवतु तादृशस्यापि सादृश्यस्य चमत्कृतिजनकत्वं तथापि लक्षणे उपमानोपमेययोनिवेशेन तयोः सत्यत्वस्यापेक्षितत्वेन कथमुक्तस्थले निर्वाहोऽत आह-उपमानोपेति। भावफलकत्वमिति । उपमानान्त. राभावस्य फलत्वेऽपि कविकल्पितसादृश्यकृत एव चमत्कार इति नव्यमतेऽपि दोषः । आलक्षितेति । आलक्षिताश्लिष्टबुधमित्यर्थः। तथा पाठस्तूचितः। अत एव वक्ष्यतिबुधमौक्तिकयोरिति। कथमिति।तद्धर्मोपस्थितेः कारणत्वस्य तत्र प्रागभिहितत्वादिति
For Private And Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
१९९
मालक्षितबुधाश्लेषं राकेन्दोर्मण्डलमिव विलसतीति तादृशरा केन्दुमण्डलनिरूपितसादृश्यप्रयोजकविलासाश्रयस्तादृशमाननमिति तात्पर्य तदा विपूर्वक लसत्यर्थशोभाविशेष एव समानो धर्मः । यदि च तादृशमिन्दुमण्डलमिव यत्तादृशमाननं तद्विलसतीति तादृशसादृश्यावच्छिन्नमाननमुद्दिश्य विलासाश्रयत्वं विधेयतया विवक्ष्यते तदास्या लुप्तोपमात्वात्पद्ममिव मुखमित्यादाविव आह्लादकत्वादिधर्म उन्नेय इति वाच्यम् । उपमानोपमेयशोभयोरपि वस्तुतोऽसाधारणत्वात् ।
'कोमलातपशोणाभ्रसंध्याकालसहोदरः । कषायवसनो याति कुङ्कुमालेपनो यतिः ॥' इत्यादौ धर्मान्तरस्यापि प्रतिभानादसुन्दरत्वाच्च कोमलातपादीनामसा - धारणत्वात्कथमुपमेति चेत्, अत्राहुः — उपमेयगतानामुपमानगतानां चासाधारणानामपि धर्माणां सादृश्यमुलेनाभेदाध्यवसायेन साधारणत्वकल्पनादुपमासिद्धिः । न च भ्रमात्मकेनाहार्याभेदबोधेन कथं नाम कुङ्कुमालेपकोमलातपादीनां वस्तुतो भिन्नानां साधारणत्वसिद्धयेऽत्यन्तमसन्नभेदः सेहुं शक्नुयात्, भ्रमेणार्थसिद्धेरभावादिति वाच्यम् । प्रागुक्तेऽपि 'कोपोपमा भाति सुधांशाविव पावकः' इत्यादावुपमानोपमेययोरत्यन्तासत्यत्वेऽपि कल्पनामा - तो यथा निष्पत्तिस्तथैव प्रकृते साधारणधर्मस्यापीति व्यक्तमुपपादयिप्यामः । अयमेव बिम्बप्रतिबिम्बभाव इति प्राचीनैरभिधीयते ।
भावः । तादृशराकेन्दुमण्डलेति । तद्विशिष्टरा केन्द्वित्यर्थः । एवमग्रेऽपि । तथा वक्तुं तु युक्तम् । आद्ये दूषणमाह-- उपमानोपेति । द्वितीयरीत्योक्तप्रसिद्धोदाहरणे निर्वाहेऽप्यप्रसिद्धोदाहरणे दोषमासाद्य साधारणमाह - कोमलति । कोमलातपत्वं शोणा भ्रत्वं च बहुव्रीहिणा संध्याकालविशेषणम् । अत एव कोमलातपादीनामिति वक्ष्यति । अभेदाध्यवसायेनेति । न चैकधर्मवत्त्वमिवोपमानवृत्तिधर्मसदृशधर्मवत्त्वमप्युपमाप्रयोजकमस्तु किममुना भेदाध्यवसायेनेति वाच्यम् । साधारणधर्मेणोपमानोपमेययोरभेदप्रतीतिकृतचमत्कारस्योपमायामिष्टस्य धर्मयोरभेदाध्यवसानं विनानुपपत्तेः । तथा चोक्तमलंकार सर्वस्वकृता- 'भेदाभेदप्रधानोपमेतीति बोध्यम्' । प्रागुक्त इति । यत इत्यादिः । अयमेव सादृश्यमूलाभेदाध्यवसाय एव । प्राचीनैर्बिम्बप्रतिबिम्बभाव इत्यभिधीयत इत्यर्थः । एवं उक्तोदाहरणे उपमासिद्धिवत् । भगवतः कृष्णस्य । चञ्चन्
For Private And Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
एवम्
'भुजो भगवतो भाति चञ्चच्चाणूरचूर्णने ।
जगन्मण्डलसंहारे वेगवानिव धूर्जटिः ॥' अत्र धूर्जटिभगवद्भुजयोराकारेण सादृश्यस्याभावात्प्रकारनिर्मुक्तस्य केवलभानस्याप्रयोजकतया चाणूरचूर्णननिमित्तकचाञ्चल्यवत्त्वजगन्मण्डलसंहारनिमित्तकवेगवत्त्वयोर्भानप्रकारयोरभेदाध्यवसानेनाभिन्नधर्मप्रकारकभानविशेष्यत्वस्य साधारणधर्मस्य सिद्धेरुपमासिन्दिः । तत्र चाणूरजगन्मण्डलयोर्वस्तुतो भिन्नयोर्महाकायत्वादिना सादृश्याद्विम्बप्रतिबिम्बभावः । चूर्णनसंहारयोश्चाञ्चल्यवेगवत्त्वयोस्त्वाश्रयभेदाद्भिन्नयोरपि वस्तुत एकरूपतैवेति वस्तुप्रतिवस्तुभावः । इत्येवं निरूपितमुपमालक्षणम् । अथेयमुदाहियते'गुरुजनभयमद्विलोकनान्तः समुदयदाकुलभावमावहन्त्याः ।
दरदलदरविन्दसुन्दरं हा हरिणदृशो नयनं न विस्मरामि ॥' अत्र दलदरविन्दशब्दस्योपमानवाचकस्य सुन्दरशब्देन सामान्यवच. नेन समासे प्रतीपमानोपमा सकलवाक्यार्थस्य विप्रलम्भशृङ्गारस्य स्मृत्युपस्करणद्वारोपस्कारकतयालंकारः । न चात्र स्मृतिः प्रधानतया ध्वन्यते इति वक्तुं शक्यम् । न विस्मरामीति स्मृत्यभावनिषेधमुखेन स्फुटमावेदनात् । नापि पूर्वार्धगतत्रासौत्सुक्ययोः परस्पराभिभवकामयोः संधिः प्रधानम् । तस्य नायिकागतत्वेनानुवाद्यत्वात् । उत्तरार्धगतस्मृत्यङ्गत्वाच्च । तस्माद्भावसंध्युपमालंकाराभ्यामुपस्कृता स्मृतिर्हापदगम्यः संतापोऽनुभावश्च विप्रलम्भमेवोपस्कुरुत इति तस्यैवात्र प्राधान्यम् । चाञ्चल्यवान् । धातूनामनेकार्थत्वात् । चाणूरो दैत्यः । तत्र धर्मयोर्मध्ये। वस्तुप्रति. वस्तुभाव इति । तत्र चूर्णनसंहारयोराश्रयभेदजभेदप्रत्ययस्तत्संबन्धिचाणूरजगन्मण्डलयोरभेदबुद्धिर्बहिरङ्गा नोदेतीति भावः । चाश्चल्यवेगवत्त्वयोस्त्वाश्रयभेदाद्भेदेऽपि एकनिमित्तकत्वेनाभेदमादाय साधारणतेति बोध्यम् । समासे इति। 'उपमानानि-' इति सूत्रेणेति भावः । अत एव न श्रौतीत्याह-प्रतीपेति । सकलवाक्यार्थस्य सकलवाक्यतात्पर्यविषयभूतस्य । शृङ्गारस्येत्यस्योपस्कारकतयेत्यत्रान्वयः । त्रासेति । गुरुजनभयमद्विलोकनपदबोध्ययोर्गुरुजनभयमद्विलोकनयोर्मध्ये व्याकुलत्वोदयेन द्वयोरपि
For Private And Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
अप्पदीक्षिताः पुनश्चित्रमीमांसायाम् — 'उपमितिक्रियानिष्पत्तिमत्सादृश्यवर्णनमदुष्टमव्यङ्गमुपमालंकारः । स्वनिषेधापर्यवसायि सादृश्यवर्णनं वा तथाभूतं तथा' इति लक्षणद्वयमाहुः । तच्चिन्त्यम् । वर्णनस्य विलक्षणशब्दात्मकस्य विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविरहेणार्थालंकारताथा बाधात् । तस्य सर्वथैवाव्यङ्ग्यत्वादव्यङ्ग्यत्वविशेषणवैयर्थ्याच्च । अथ यदि वर्णनविषयीभूतं तादृशसादृश्यमुपमेत्युच्यते तदा यथा गौस्तथा गवय इत्यत्रोपमालंकारापत्तेः । एवं 'कालोपसर्जने च तुल्यम्' इत्यादावपि । अशिष्यत्वादिना प्रधानप्रत्ययार्थवचनसादृश्यस्यात्रापि प्रतिपादनात् । न चात्र वचनभेदस्य दोषस्य सच्वाददुष्टत्वविशेषणेन वारणं भविष्यतीति वाच्यम् । एतद्वाक्योपप्लुतवाक्यान्तरप्रतिपादितैकोपमेयके सादृश्ये तथा प्यतिप्रसङ्गात् । न चात्रोपमितिक्रियाया निष्पत्तावपि न सादृश्यवर्णनम् । विषयस्याचमत्कारित्वात् । चमत्कारिविषयककविव्यापारस्यैव वर्णनपदार्थत्वादिति वाच्यम् । एवं हि चमत्कारित्वस्य लक्षणेऽवश्यं निवेश्यत्वेनोपमितिक्रियानिष्पत्तिविशेषणस्य वैयर्थ्यात् । नह्यनिष्पन्नमापाततः प्रतीयमानं सादृश्यं चमत्कृतिमाधत्ते । एवं द्वितीयलक्षणेऽपि निषेधापर्यवसायित्वं निरर्थकम् । व्यतिरेके कमलादिसादृश्यनिषेधस्यान्वये च सर्वथा सादृश्यनिषेधस्य चमत्कारितया तदर्थं सादृश्यस्य निरूपणमिति प्रागेवाभिधानात् । किं च ।
•
'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । शशाङ्कविम्बतो मेरौ लम्बमान इवोरगः ॥'
For Private And Personal Use Only
१६१
तुल्यकक्षत्वम् । अत आह— परस्परेति । तस्य संधेः । पुनः शब्दार्थे शब्दस्य शब्दवाच्यत्वमते नायं दोषोऽत आह-विलक्षणज्ञानेति । अव्यङ्ग्यत्वाद्वयङ्गयत्वाभा वात् । तादृशेति । अदुष्टाव्यङ्गचाद्य विशेषणद्वयान्यतरेत्यर्थः । इत्यादावपीति । उपमालंकारापत्तिरित्यस्यानुषङ्गः । अदिसंग्राह्यं ( 2 ) चिन्त्यम् । अत्रापि कालोपसर्जनयोरपि । अत्र कालोपसर्जने च तुल्यमित्यत्र । द्विवचनोपादानादिति भावः । एतदर्थमेव द्वितीयदोषोक्तिः । उपलतेति । कल्पितेत्यर्थः । प्रधानप्रत्ययार्थवचनवत्काल इत्यादीति भावः । तदाह - एकोपमेयेति । अत्रेति । यथा गौरित्यादावित्यर्थः । व्यतिरेक इति । तवाननस्येत्यादावित्यर्थः । कमलादिसादृश्येति । कमलादिनिष्ठसादृश्येत्यर्थः । ननु वर्णनपदस्य चमत्कारजनकज्ञानविषयीभूतानुयोगिकत्वार्थे तात्पर्यग्राहकमिदम्, न तु लक्षणशरीरपदकमिति चेत्, तत्राह - किं चेति । वाक्यार्थत्वेनेति । तथा
२१
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
इत्यादौ मुख्यवाक्यार्थत्वेनानलंकारभूतायामुपमायामतिव्याप्तिः । उपमितिक्रियानिष्पत्तिमत्सादृश्यवर्णनस्यादुष्टाव्यङ्गयत्वस्य चात्रापि सत्त्वात् । न चेयमप्युपमा लक्ष्येति वाच्यम् । ध्वन्यमानोपमानिवारणप्रयासस्य वैयर्थ्यापत्तेः । नह्यत्राभेदप्रधानोत्प्रेक्षा शक्या वक्तुम् । कल्पितोपमाया निर्विषयत्वप्रसङ्गात् ।
'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः ।
क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ॥' इति वकृतसूत्रेऽलंकारभूतोपमाया एव लक्ष्यत्वेनाभिधानात् । अलंकारभूतोपमालक्षणत्वे तदेवादुष्टाव्यङ्गयत्वविशेषितमिति तत्रैव पुनरभिधानाच्च । नह्यत्रोपमानोपमेयसादृश्यादुपमास्वरूपादस्ति कश्चिदतिरिक्तो वाक्यार्थः, येनोपमा तमलंकुर्यात् । अपि च लक्षणे सादृश्यविशेषणं निरर्थकम् । 'उपमितिक्रियानिष्पत्तिमद्वर्णनमुपमा' इत्येतावतैव स्वाभीष्टार्थलाभात् । एवम्
'स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः ।
साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकगोपमा ।' इति विद्यानाथोक्तं लक्षणमपास्तम् । व्यतिरेके निषेधप्रतियोगिनि सादृश्येऽतिव्याप्तेः ।
एवम्
'उपमानोपमेयत्वयोग्ययोरर्थयोईयोः ।
हृद्यं साधर्म्यमुपमेत्युच्यते काव्यवेदिभिः ॥' इति प्राचामपि लक्षणं प्रत्युक्तम् । हृद्यतामात्रेण निर्वाहे विशेषणान्तरवैयर्थ्यात् । एवं काव्यप्रकाशोक्तमपि 'साधर्म्यमुपमा भेदे' इति च न वाक्यार्थोपस्कारकत्वमिति भावः । तदाह-अनलमिति। ननु अलंकरोतीति योगबोधितोपस्कारकत्वस्यालंकारसामान्यस्वरूपत्वेन विशेषलक्षणेषु तदनिवेशेऽपि क्षत्यभाव इत्यत आह-अपि चेति । अत एव चित्रभूतोपमालक्षणं त्विति तै!क्तम् । पर्ववदस्यापि तात्पर्यग्राहकत्वादिदमपि चिन्त्यम् । अव्यङ्गयत्वं च तल्लक्षणे प्राधान्येनाव्यङ्ग्यत्वं बोध्यमिति दिक् । एवपदार्थमाह-व्यतीति । तवाननस्येत्यादावित्यर्थः । एवमग्रेऽपि यथासंभवम् । एवमर्थमाह-हुद्यतेति । ननु तत्रैव तात्पर्यग्राहकं तदत आह-काव्ये.
For Private And Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। लक्षणं नातीव रमणीयम् । व्यतिरेके निषेधप्रतियोगिनि सादृश्येऽतिव्यापनात् । न च पर्यवसितत्वेन साधये विशेषणीयमिति वाच्यम् । अनन्वयस्थसादृश्यस्यापर्यवसायित्वेनैव वारणे भेदविशेषणवैयर्थ्यापत्तेः । काव्यालंकारप्रस्तावे लौकिकालौकिकप्रधानवाच्यव्यङ्गयोपमासामान्यलक्षणकरणानौचित्याच्च । अत एव भेदाभेदतुल्यत्वे साधर्म्यमुपमा' इत्यलंकारसवखोक्तमपि लक्षणं तथैव । एवं 'प्रसिद्धगुणेनोपमानेनाप्रसिद्धगुणस्योपमेयस्य सादृश्यमुपमा' इत्यलंकाररत्नाकरोक्तमपि न भव्यम् । श्लेषमूलकोपमायां तादृशशब्दात्मकस्य धर्मस्य कविनैव कल्पनात् । तेन रूपेणोपमानस्याप्रसिद्धेश्च । इत्यलं परकीयदूषणगवेषणया। प्रकृतमनुसरामः।
अस्याश्चोपमायाः प्राचामनुसारेण केचिद्भेदा उदाहियन्ते-तथाहिउपमा द्विविधा, पूर्णा लुप्ता च । पूर्णा तत्र-श्रौती, आर्थी चेति द्विधा भवन्ती वाक्यसमासतद्धितगामितया पोढा । लुप्ता चउपमानलुप्ता, धर्मलुप्ता, वाचकलुप्ता, धर्मोपमानलुप्ता, वाचकधर्मलुप्ता, वाचकोपमेयलुप्ता, धर्मोपमानवाचकलुप्तेति तावत्सप्तविधा । तत्रोपमानलुप्ता-वाक्यगा, समासगा चेति द्विविधा । धर्मलुप्ता-समासगताश्रौती, आर्थी । वाक्यगता-श्रौती, आर्थी । तद्धितगता च–आर्येव, न श्रौती । इति पञ्चविधा । वाचकलुप्ता-समासगता, कर्मक्यज्यता, आधारक्यज्गता, क्यङ्गता, कर्मणमुल्गता, कर्तृणमुल्गता चेति षड्डिधा । धर्मोपमानलुप्ता-वाक्यगता, समासगता चेति द्विविधा । वाचकधर्मलुप्ता क्विब्गता, समासगता चेति द्विविधैव । वाचकोपमेयलुप्ता त्वेकविधा । धौपमानवाचकलुप्ता तु समासगतैकविधा। इति । एवं साकल्येनैकोनविंशतिmप्ताभेदाः पूर्णाभेदैः सह पञ्चविंशतिः क्रमेणोदाहियन्ते । तत्र पूर्णा श्रौती वाक्यगता यथा'ग्रीप्मचण्डकरमण्डलभीष्मज्वालसंसरणतापितमूर्तेः ।
प्राटषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः ॥' ति।अत एवेति । प्रकाशग्रन्थे। उक्तदोषगणादेवेत्यर्थः । तथैव नातीव रमणीयमित्यर्थः । एकमिति। व्यतिरेकेऽतिव्यापनादित्यर्थः । ननु पर्यवसितत्वेन विशेषणान्न दोषोऽत आहश्लेषेति। प्राचां प्रकाशकारादीनाम् । तत्र तयोर्मध्ये । तत्र तासां सप्तानां मध्ये । तत्र पञ्चविंशतीनां मध्ये । ग्रीष्मेति । मण्डलस्य भीष्मा ज्वाला यत्र तत्र देशे यत्संसरणं ग
For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
काव्यमाला |
अत्र प्रावृषेण्य इत्यनेन वारिधरविशेषणेन नैराकाङ्क्षयादिवेन समासः । एषा चोपमानोपमेययोर्वारिधर भगवतोर्वेदनाहरणकर्तृत्वस्य साधारणधर्मस्य सादृश्यबोधकस्येवशब्दस्य चाभिधानात्पूर्णा । सादृश्यस्य श्रुत्याबोधनाच्छोती ।
पूर्णा आर्थी वाक्यगता यथा
'प्राणापहरणेनासि तुल्यो हालहलेन मे । शशाङ्क केन मुग्धेन सुधांशुरिति भाषितः ॥ पूर्णा श्रौती समासगा यथा
'हरिचरणकमलनखगणकिरण श्रेणीव निर्मला नितराम् । शिशिरयतु लोचनं मे देवव्रतपुत्रिणी देवी ॥'
अत्रेवेन समासः । पूर्णा आर्थी समासगा यथा
'आनन्दनेन लोकानामातापहरणेन च । कलाधरतया चापि राजन्निन्दूपमो भवान् ॥' पूर्णा श्रौती आर्थी च तद्धितगा यथा
'निखिलजगन्महनीया यस्याभा नवपयोधरवत् । अम्बुजवद्विपुलतरे नयने तद्ब्रह्म संश्रये सगुणम् ||'
अत्र पूर्वार्धे वर्तेः 'तत्र तस्येव' इति सादृश्ये विधानाच्छ्रौती । उत्तराधे 'तेन तुल्यं -' इति विधानात्सादृश्यकवदर्द्धकतया आर्थी ।
मनं तेनेत्यर्थः । वृष्णिवरेण्यः कृष्णः । वाक्यगत्वमाह--अत्रेति । इवेन समास इति 'सुप्सुपा' इत्यस्यानित्यत्वेनास्य तत्प्रपञ्चत्वात् । एवं च वैकल्पिकत्वात्तदभाव इति भावः । पूर्णात्वमाह - एषेति । श्रुत्येति । इवेनेत्यर्थः । विशेष्यतयेति भावः । प्राणापेति । अत्र समासाभावाद्वाक्यगत्वम् । विषचन्द्रयोः प्राणापहारकत्वरूपधर्मस्य तुल्यशब्दस्य चोपादानात्पूर्णत्वम् । तुल्यशब्दस्य सदृशार्थकत्वेऽपि प्राधान्येनेवशब्दवत्सादृश्यबोधकत्वाभावादार्थत्वम् । हरीति । देवव्रतेन पुत्रिणी । पुत्रवतीत्यर्थः । अत्रापि चतुर्णामिवास्य चोपादानात्पूर्णात्वं श्रीतीत्वं च । समासगात्वमाह - अत्रेति । आनन्दनेनेति । करणे ल्युट् । लोकानामिति मध्यमणिन्यायेनान्वेति । आ समन्तात्तापेत्यर्थः । इन्दूपमो भवानिति । अत्र समासस्य धर्मिशक्तत्वात्कर्मसाधनेनोपमशब्देन समासाद्वा आर्थीत्वं समासगत्वं च । पूर्णात्वं तु स्पष्टमेव । सगुणं ब्रह्म कृष्णरूपम् । कुसुमकुलानां तरूणां तिलक - १. देवव्रतो भीष्म:, तेन पुत्रवती गङ्गा.
For Private And Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
परास्ताः ।
Acharya Shri Kailassagarsuri Gyanmandir
उपमानलुप्ता वाक्यगा यथा
'यस्य तुलामधिरोहसि लोकोत्तरवर्णपरिमलोद्गारैः । कुसुमकुलतिलक चम्पक न वयं तं जातु जानीमः ॥' यत्तुलनामधिरोहसीत्याद्यचरणनिर्माणे इयमेव समासगा । उपमाभावेन सादृश्याभावस्य पर्यवसानात्सादृश्यपर्यवसानस्य चोपमाजीवितत्वादलंकारान्तरमेवात्र नोपमानलुप्तेति नाशङ्कनीयम् । यस्य तुलामारोहसि न तं वयं जानीम इत्युक्त्या अस्माकमसर्वज्ञत्वादस्मदगोचरः कोऽपि तवोपमानं भविष्यतीति सादृश्यपर्यवसानमस्ति इत्युपमानलुप्तैवेयमुपमा, नालंकारान्तरम् । एतेन
१६९
'हुँ हुँन्तो हि मरीहिसि कण्टककलिआइँ के अइवणाई | मालइकुसुमसरिच्छं भमर भमन्तो न पावहिसि ॥'
इत्यत्रासमालंकारोऽयमुपमातिरिक्त इति वदन्तोऽलंकाररत्नाकरादयः
धर्मलुप्ता श्रौती वाक्यगता यथा
yo
'कलाधरस्येव कलावशिष्टा विलनमूला लवलीलतेव । अशोक मूलं परिपूर्णशोका सा रामयोषा चिरमध्युवास ||' ‘ग्रीष्मचण्डकरमण्डल-' इति प्रागुदाहृते पूर्णाया उदाहरणे प्रावृषेण्यो वारिधर इव यो वृष्णिवरेण्यः स मे वेदनां हरत्विति वृष्णिवरेण्यमात्रगतत्वेन वेदनाहरणकर्तृत्वं विवक्षितम् । वारिधरसादृश्यं च श्यामत्वादिना यदि तदा तत्राप्येषा बोध्या । इयांस्तु विशेषः यत्पूर्णीयां वृष्णिवरेण्यमात्रमुद्दिश्य प्रावृषेण्यवारिधरसादृश्यप्रयोजकं तादृशवारिधर
For Private And Personal Use Only
ष्ठेति चम्पकविशेषणम् | यन्तुलनामिति । यस्य तुलनां यत्तुलनामित्यर्थः । शङ्कते - उपमानेति । यस्येति । यत इत्यादिः । इत्युक्तयेति । स नास्तीत्युक्तिरन्यथा स्यादि - ति भावः । एतेनेति । उक्तरीत्या सादृश्यपर्यवसानेनेत्यर्थः । अत्रापि तत्प्राप्तिस्तव दुर्लभेत्युक्तं न तु स नास्तीति भावः । ' हुं हुं कृत्वा हि मरिष्यसि कण्टककलितानि केतकीवनानि । मालती कुसुमसदृक्षं भ्रमर भ्रमन्न प्राप्स्यसि ||' लवलीलता 'हर फारेवडी' इति भाषया प्रसिद्धा । अशोक मूलमिति । 'उपान्व -' इत्याधारः कर्म । श्याम त्वादिनेति । विवक्षितमित्यनुषङ्गः । सादृश्यस्यातिरिक्तत्वे आह- प्रावृषेण्येति । धर्मरूपत्वे आह
1
1
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
काव्यमाला। सादृश्याभिन्नं वा वेदनाहरणकर्तृत्वं विधेयमित्युपमाविधेयिका धीः । धर्मलुप्तायां तु वारिधरसादृश्यावच्छिन्नवृष्णिवरेण्यमुद्दिश्य वेदनाहरणकर्तृत्वमात्रं विधेयमित्युपमोद्देश्यतावच्छेदिका । धर्मलुप्ता आर्थी वाक्यगता यथा
'कोपेऽपि वदनं तन्वि तुल्यं कोकनदेन ते ।
उत्तमानां विकारेऽपि नापैति रमणीयता ।' धर्मलुप्ता समासगा श्रोत्यार्थी तद्धितगार्थी च यथा-- 'सुधेव वाणी वसुधेव मूर्तिः सुधाकरश्रीसदृशी च कीर्तिः ।
पयोधिकल्पा मतिरासफेन्दोमहीतलेऽन्यस्य नहीति मन्ये ॥' ईषदसमाप्तिरपि भङ्गयन्तरेण सादृश्यमेव ।
वाचकलुप्ता समासगा-'दरदलदरविन्दसुन्दरं' इति प्रागुदाहृते पद्ये। कर्माधारक्यज्गता क्यङ्गता च यथा--
'मलयानिलमनलीयति मणिभवने काननीयति क्षणतः।
विरहेण विकलहृदया निर्जलमीनायते महिला ॥' अत्रानलमिवाचरतीत्यर्थेऽनलशब्दात् 'उपमानादाचारे' इति सूत्रेण, कानन इवाचरतीत्यर्थे काननशब्दाच्च तत्सूत्रस्थेन 'अधिकरणाच' इति वार्तिकेन क्यच् । निर्जलमीनशब्दाच 'कर्तुः क्यङ् सलोपश्च' इति क्यङ् । आचारमात्रार्थकतया क्यच्क्यडोः प्रकृत्यैव लक्षणया स्वस्वार्थसादृश्यप्रतिपत्तिरिति नये सादृश्यवाचकाभावाद्वाचकलुप्ता । अनलीयतीत्यादिसमदायस्यैवानलादिसादृश्यप्रयोजकाचरणकर्तृशक्तत्वमिति नयेऽपि सादृश्यसादृश्यविशिष्टान्यतरमात्रवाचकाभावाद्वाचकलुप्ता ।। ताशेति । प्रावृषेण्येत्यर्थः । अवच्छेदिकेत्यस्येतीति शेषः । सादृश्यमेवेति । तथा च तद्विशिष्टार्थप्रतिपादकत्वादार्थी । कर्माधारेति । वाचकलुप्तेत्यादिः । नन्वेवमाचारवत्सादृश्यस्यापि क्यजादिना बोधनात्कथं वाचकलुप्तात्वमत आह-आचारोति । साहश्यवाचकाभावादिति । शक्त्येति भावः । ननु नेदं युक्तम् । अत्र मते इवादीनां द्योतक. तानये सर्वत्रैव वाचकाभावाद्वाचकलुप्तात्वापत्तेः । चन्द्रप्रतिपक्षमाननमित्यत्रापि वाचक. लुप्तात्वापत्तेश्च । तत्र हि प्रतिपक्षपदेन सादृश्यं लक्ष्यमेव । तस्मात्सादृश्यसादृश्यविशिष्टान्यतरमात्रबोधकाभाव एव वाचकलोप इति तत्त्वम् । अत आह-अनलीयतीत्या.
१. नवाब आसफखान इति नाम्ना प्रसिद्धस्य.
For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
कर्तृकर्मणमुल्गता यथा
'निरपायं सुधापायं पयस्तव पिबन्ति ये।
जह्वजे निर्जरावासं वसन्ति भुवि ते नराः ॥ अत्र सुधापायमिति सुधामिव निर्जरावासमिति निर्जरा इवेति 'उपमाने कर्मणि च' इति कर्मणि चकारात्कर्तर्युपमान उपपदे णमुल् । धर्मोपमानलुप्ता वाक्यगा समासगा च यथा'गाहितमखिलं विपिनं परितो दृष्टाश्च विटपिनः सर्वे ।
सहकार न प्रपेदे मधुपेन तथापि ते समं जगति ॥ 'तथापि ते समं' इति हित्वा 'भवत्सम' इति यद्यार्या शुद्धैव विधीयते तदेदमेवोदाहरणं समासगायाः। वाचकधर्मलुप्ता क्विब्गता यथा'कुचकलशेष्वबलानामलकायामथ पयोनिधेः पुलिने ।
क्षितिपाल कीर्तयस्ते हारन्ति हरन्ति हीरन्ति ॥'. अत्र हारहरहीरशब्दा आचारार्थक क्विपि लुप्ते धातवः । तत्र हारादिशब्दा लक्षणया हारादिसादृश्यं बोधयन्ति । लुप्तोऽपि स्मृतः विबाचारमिति पक्षे वाचकधर्मलोपः स्पष्ट एव । हारादिशब्दा एव लक्षणया तादृशसादृश्याभिन्नमाचारमिति पक्षे सादृश्यस्येव धर्मस्यापि तन्मात्रबोधकाभावाल्लोप एव । वाचकधर्मलुप्ता समासगा यथा
'शोणाधरांशुसंभिन्नास्तन्वि ते वदनाम्बुजे ।
केसरा इव काशन्ते कान्तदन्तालिकान्तयः ॥' अत्र वदनाम्बुजयोरभेदविवक्षया विशेषणसमासे दन्तालिकान्तीनां केदीति। गाहितमिति । यद्यपोत्यादिः । तथापि हे सहकार,जगति तव तुल्यं वस्तु भ्रमरेण न प्राप्तमित्यर्थः । शुद्धैवेति । आर्यासामान्यलक्षणाक्रान्तत्वात् । सा तु मिश्रितेति भावः । धातव इति । तथा च हारन्तीत्यादि प्रयोगसिद्धिरिति भावः । तत्र उक्तप्रयोगेषु । आचारमिति । बोधयतीति शेषः । स्पष्ट एवेति । सादृश्यस्य शक्तिप्रतिपा. द्यत्वारिक्वपो लप्तत्वाच्चेति भावः । तादृशेति । हारादीत्यर्थः । तदित्युचितम् । अभिन्नमिति । तस्य धर्मरूपत्वादिति भावः । संभिन्ना मिश्राः । कान्ताश्च ते दन्ताश्वेत्यर्थः । विशेषणेति । मयूरव्यंसकैतीत्यर्थः । अधिकरणेति । वदनाम्बुजे इत्यत्र
For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
सरसादृश्योक्तिरसंगता स्यात् । यतो ह्यम्बुजतादात्म्यसाधकं दन्तालिकान्तीनां केसरतादात्म्यं न तु केसरसादृश्यम् । उपमितसमासे तु वदनाम्बुजयोर्धर्मिणोरौपम्ये केसरदन्तालिकान्तीनामपि तद्धर्माणामौपम्योक्तिरुचितैव । अतोऽधिकरणतावच्छेदकोपमामादाय वाचकधर्मलुप्तोदाहृता । विधेयतावच्छेदिका तु पूर्णेव । वाचकोपमेयलुप्ता क्यज्गता धर्मोपमानवाचकलुप्ता समासगा च यथा
'तया तिलोत्तमीयन्त्या मृगशावकचक्षुषा ।
___ममायं मानुषो लोको नाकलोक इवाभवत् ॥' तिलोत्तमीयन्त्येति तिलोत्तमामिवात्मानमाचरन्त्येत्याचारार्थके क्यचि तिलोत्तमापदस्य तिलोत्तमासादृश्ये लाक्षणिकतया वाचकस्य स्फुटत्वेन प्रतीयमानतया आत्मन उपमेयस्य चानुपादानाल्लोपः । स्वयं तु सा नोपमेया । आचारकर्मण उपमानस्य तिलोत्तमारूपस्य तत्कामुपमेयायामुपमानत्वासंगतेः । अत आत्मैवात्रोपमेयतयोन्नेयः। मृगचक्षुषेति मृगस्य चक्षुषी इव चक्षुषी अस्या इति 'सप्तम्युपमानपूर्वस्य' इति समासोत्तरपदलोपौ । मृगपदस्य मृगचक्षुःसदृशलाक्षणिकत्वपक्षे सत्तेविशिष्टार्थतावाचकपक्षेऽपि स्वस्वमात्रबोधकपदाभावात्रयाणां लोपः । इति पञ्चविंशतिरुपमाभेदाः।
इहान्यानपि भेदानन्ये निगदन्ति–वाचकलुप्ता षड्डिधोपवर्णिता । 'कर्तर्युपमाने' इति णिनौ सप्तम्यपि दृश्यते । कोकिल इवालपति कोकिलालापिनीति । तथाष्टम्यपि-'इवे प्रतिकृतौ' इति कनि 'लुम्मनुष्ये' इति लुपि. चञ्चेवेत्यर्थे 'चञ्चा पुरुषः सोऽयं यः स्वहितं नैव जानीते इत्यत्र । नवम्यपि—आचारक्विपि पदान्तरेण प्रतिपादिते समाने धर्म दृश्यते । 'आह्लादि वदनं तस्या शरद्राकामृगाङ्कति' इत्यादौ । त्यामित्यर्थः । वच्छेदिका विति । उपमेति शेषः । कान्तयः केसरा इव काशन्ते इ. त्यत्रत्येति भावः । वाचकस्येति । इवशब्दस्येत्यर्थः । उपमेयानुपादाने हेतुमाहस्फुटत्वेनेति ।स्वयं त्विति। तिलोत्तमीयन्तीति बोध्येत्यर्थः । तत्कामाचारकाम् । तयोः समानरूपस्य तत्र तन्त्रत्वादिति भावः । शरद्राकेति । शारदपूर्णिमाचन्द्र इवा
For Private And Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। उपमानलुप्ता वाक्यसमासयोढिविधोपवर्णिता तृतीयापि दृश्यते'यच्चोराणामस्य च समागमो यच्च तैर्वधोऽस्य कृतः ।
उपनतमेतदकस्मादासीत्तत्काकतालीयम् ॥' इत्यत्र काकतालशब्दयोर्लक्षणया काकागमनतालपतनबोधकयोरिवार्थे 'समासाच्च तद्विषयात्' इति ज्ञापकात्समासे काक इव ताल इव काकतालमिति काकतालसमागमसदृशश्योराणामस्य च समागम इत्यर्थः । ततः काकतालमिवेति द्वितीय इवार्थे पूर्वोक्तेनैव सूत्रेण छप्रत्यये तालपतनजन्यकाकवधसदृशश्चोरकर्तृको देवदत्तवध इत्येवं स्थिते प्रत्ययार्थोपमायामुपमानस्य तालपतनजन्यकाकवधस्यानुपादानादुपमानलुप्ता । वाचकोपमानलुप्ता तु नानैव निर्दिष्टा । साप्यत्र प्रकृत्यर्थे दृश्यते ।
धर्मोपमानलुप्ता वाक्यसमासयोढिविधैवोक्ता । सा चात्रापि तृतीयचरणोक्तधर्मनिरासे प्रत्ययार्थे दृष्टा । ___ वाचकधर्मलुप्ता क्विप्समासयोईयोरेव कथिता । सापि 'चञ्चापुरुषः सोऽयं योऽत्यन्तं विषयवासनाधीनः' इत्यत्र स्वहिताकरणरूपस्य धर्मस्यानुपादाने कनो लोपे विलोक्यते । एवं च द्वात्रिंशद्भेदा।। ___ अत्रेदमवधेयम्-कर्माधारक्यचि क्यङि च वाचकलुप्तोदाहरणं प्राचामसंगतमिव प्रतीयते । धर्मलोपस्यापि तत्र संभवात् । न च क्यजाद्यर्थ आचार एव साधारणधर्मोऽस्तीति वक्तव्यम् । धर्ममात्ररूपस्याचारस्योपमाप्रयोजकत्वाभावात् । 'नारीयते सपत्नसेना' इत्यादौ वृत्त्यन्तरनिवेदितैः कातरत्वादिभिरभिन्नतयाध्यवसितस्याचारस्योपमानिष्पादकत्वात् । यदि
चरतीत्यर्थः । पूर्वोक्तेन 'समासाच्च-' इत्यनेन । स्थिते इत्यस्यार्थे इत्यादिः । तृतीयचरणोक्तेति। 'उपनतमेतदकस्मात्' इत्यस्य स्थाने चरणान्तरनिर्माण इत्यर्थः । धर्मलोपस्यापीति । 'उपमानादाचारे' इत्यत्रोपमानमाचारनिरूपितमेव गृह्यते । उदाहरणे च पुत्रपदस्य पुत्रकर्मकाचारसदृशे लक्षणेति वैयाकरणमते च सुतरां धर्मलोपः । न चैत. न्मते 'त्रिविष्टपं तत्खलु भारतायते' इत्यत्र क्यचोऽनुपपत्तिः । भारताचारसदृशाचारस्य त्रिविष्टपवृत्तेरप्रसिद्धेः । 'सुपर्वभिः शोभितम्' इत्यस्य श्लेषेणाभेदाध्यवसाय एव, न सादृश्यावसाय इति वाच्यम् । एकशब्दोपात्तत्वेनाभेदबुद्धेरिव शब्दरूपसाधम्र्येण साहश्यबुद्धेरप्युपपत्तेः । इत्याहुः । ननु नारीयते इत्यादौ तस्य तत्त्वमस्तीत्यत आह-नारीति।
For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.१७०
काव्यमाला।
च क्यङर्थ आचारमात्रमुपमानिष्पादकं स्यात्तदा 'त्रिविष्टपं तत्खलु भारतायते' इत्यादौ सुप्रसिद्धत्वादिरूपाचारोपस्थितावप्युपमालंकृतेरनिष्पत्तेः । तस्यैव च 'सुपर्वभिः शोभितमन्तराश्रितैः' इति चरणान्तरनिर्माणे तस्या निष्पत्तेः क्यङाद्यर्थः साधारणोऽपि नोपमा प्रयोजयति । उपमाप्रयोजकतावच्छेदकरूपेण साधारणधर्मवाचकशून्यत्वस्यैव धर्मलोपशब्देनाभिधानात् । अन्यथा 'मुखरूपमिदं वस्तु प्रफुल्लमिव पङ्कजम्' इत्यादौ पूर्णोपमापत्तेरिति दिक् । ___ यच्चाप्पदीक्षितैरस्मिन्नेव प्रस्तावे “धर्मलुप्ता वाक्यसमासतद्धितेषु द. र्शिता द्विर्भावेऽपि दृश्यते । 'पटुपटुदेवदत्तः' इत्यत्र 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविधानात्" इति निगदितं तत्तुच्छम् । अत्र च वाचकस्याप्यनुपादानाद्वाचकधर्मलुप्तायामेतदाधिक्यमुद्भावयितुमुचितम्, न तु धर्मलुप्तायाम् । धर्ममात्रलुप्ताया एव धर्मलुप्ताशब्देन तैर्विवक्षणात् । अन्यथा एकलुप्तालेव द्विलुप्तानां त्रिलुप्तायाश्च ग्रहणात्प्टथगुपादानमसंबद्धमेव स्यात् । न चात्र वाचकस्य द्विर्भावस्यैव सत्त्वान्नास्ति लोपः, अपि तु धर्ममात्रस्येति वक्तुं शक्यम् । द्विर्भावस्य सादृश्यवाचकत्वोक्तेर्भाष्यकैयटादिविरुद्धत्वात् । तदुक्तं कैयटेन 'प्रकारे गुणवचनस्य' इति सूत्रे सिद्धं त्विति प्रतीकमुपादाय 'द्विवचनस्य प्रकृतिः स्थानी इति तदर्थो विशेष्यते न तु प्रकारः । तत्र सर्वस्य गुणवचनत्वाद्व्यभिचाराभावात् । तद्ग्रहणाद्गुणवचनो यः शब्दो निर्मातस्तस्य सादृश्ये द्योत्ये द्वे भवत इति सूत्रार्थः' इति ।
वृत्त्यन्तरेति । मात्रपदेन किंचिदभिन्नतयाध्यवसितत्त्वव्यवच्छेदः । तस्यैव पद्यस्य । तस्या उपमालंकृतेः। साधारणोऽपि उभयनिष्ठोऽपि । नन क्यङाद्यर्थाचारमात्रस्योपमाप्रयोजकत्वाभावेऽपि साधारणत्वेनोभयधर्मत्वात्तत्सत्त्वाच कथं तल्लोपसंभवोऽत आह-उपमेति । अत्र चेति । चो ह्यर्थे । सूत्रार्थ इति । द्विर्भावस्य सादृश्यद्योतकत्वेऽपि शक्तत्वरूपवाचकत्वाभावाद्वाचकलोप इति तव हृदयम् । तत्तु इवादेर्योतकतानये चन्द्र इव मुखमित्यत्र, चन्द्रसुहृन्मुखमित्यत्र च वाचकलुप्ताव्यवहाराभावाय साहश्यतद्विशिष्टान्यतरबोधकामावस्यैव वाचकलुप्ताव्यवहारप्रयोजकत्स्य वाच्यत्वेन द्योतकस्यापि बोधकत्वानपायेन नास्ति वाचकलोप इति तदाशयादबोधमूलकमिति चिन्त्य
For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
इदं चान्यत्तस्मिन्नेव प्रस्तावे चित्रमीमांसाकृद्भिरभ्यधीयत" नृणां यं सेवमानानां संसारोऽप्यपवर्गति । तं जगत्य भजन्मर्त्यश्वश्वा चन्द्रकलाधरम् ||'
१७१
अत्र क्विप्कनोर्लोपे प्रत्येकं वाचकधर्मलोप उभयत्रापि" तदरमणीयमेव । कनो वाचकस्य लोपेऽपि तं चन्द्रकलाधरमभजन्निति चन्द्रकलाधर - भजन राहित्यरूपस्य धर्मस्य चञ्चामर्त्यसाधारणस्योक्तत्वात्कथं तावद्धर्मस्य लोपः । न चोपमेयमर्त्यविशेषणतयोपात्तस्य चन्द्रकलाधर भजन राहित्यस्य सादृश्योपसर्जने चञ्चायामनन्वयान्न साधारण्यमिति वाच्यम् । 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्चश्चैवात्महिताकृतेः ॥'
For Private And Personal Use Only
इति पाठे धर्मश्रवणमप्युभयत्रापि संभवति" इति स्वोक्तेरसंगतत्वापत्तेः । इहाप्युपमेयसंसार विशेषणतयोपात्तस्य सुखमयत्वस्य सादृश्योपसर्जनेऽपवर्गेऽन्वयाभावात्कथंकारं धर्मस्य साधारण्यम् । उपमेयगतत्वेनोपमानगतत्वेन वा उपात्तस्य धर्मस्य शाब्दे उभयान्वये सत्यपि वस्तु उभयवृत्तित्वज्ञानमेव साधारणतया नियामकमिति चेत्, चन्द्रकलाधरभजनराहित्येऽपि दीयतामेवमेव दृष्टिः । यदि चोपमेयतावच्छेदकतयैव चन्द्रकलाधरभजनराहित्यं मम विवक्षितम्, साधारणधर्मश्व स्वात्महिताकरणरूपः स चात्र लुप्त एवेति शपथेन स्वाभिप्रायः प्रकाश्यते तदा निवारितोऽयं दोषः । तुष्यतु भवान् ।
इदमप्यन्यत्तैरेव वाचकोपमेयलुप्तायामुदाहरणं निरमीयत'रूपयौवनलावण्यस्पृहणीयतराकृतिः ।
पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ॥'
इदं च पद्यमपशब्ददुष्टमवैयाकरणतां कर्तुः प्रकाशयति । तथा हि पुरत इति नगरवाचिनः पुरशब्दात्त सिलि हरिणाक्षीणां नगरादित्यर्थस्यासंगतेः । मिदम् । इदं चान्यदिति । वक्ष्यमाणमन्यच्चेत्यर्थः । क्विन्लोपे तथोक्तेर्युक्तत्वेऽपि कलोपेsयुक्तत्वमित्याह -- कन इति । तामुपपादयति — इहापीति । कथंकारं कथं कृत्वा । पाठान्तरवादी स्वाशयमाह - उपमेयेति । एवमेवेति । एवं च तुल्यतेति भावः । प्रकारान्तरेण स स्वाशयमाह - यदि चेति । इदमप्यन्यदिति । वक्ष्यमाणमित्यर्थः । तसिलीति । इदं चिन्त्यम् । तदप्राप्तेः । आद्यादित्वात्तसावित्युचितम् ।
NO
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१७२
www. kobatirth.org
काव्यमाला |
नहि पूर्ववाचकः पुरशब्दः क्वापि श्रूयते । पूर्वशब्दात्तु 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' इत्यसौ पुरादेशे च पुर इति भाव्यम् । न तु पुरत इति । अत एव 'अमुं पुरः पश्यसि देवदारुम्' इति प्रायुङ्क्त महाकविः । एवमेव " मुखस्य पुरतचन्द्रो निष्प्रभः' इत्यप्रस्तुतप्रशंसा" इति द्वितीयप्रकरणारम्भेऽप्यपशब्दितं तैः । तथा चाहुर्वैयाकरणाः-- "पत्या पुरतः परतः', 'आत्मीयं चरणं दधाति पुरतो निम्नोन्नतायां भुवि', 'पुरतः सुदती समागतं माम्' इत्यादयः सर्वेऽपि व्याकरणाज्ञानमूला अपशब्दाः" इति ।
इयं चैवं भेदोपमा वस्त्वलंकाररसरूपाणां प्रधानव्यङ्गानां वस्त्वलंकारयोर्वाच्ययोश्चोपस्कारकतया पञ्चधा ।
तत्र व्यङ्ग्यवस्तूपस्कारिका यथा'अनवरतपरोपकरणव्यग्रीभवदमलचेतसां महताम् ।
आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥'
अत्र तादृंशि वचनान्यर्थद्वारा सेवमानस्य मनागप्यक्षुभ्यतः परिणामे परमं सुखं भवतीति प्राधान्येन व्यङ्ग्यस्य वस्तुन उपस्कारिका भेषजोपमा । व्यङ्ग्यालंकारोपस्कारिका यथा-'अङ्कायमानमलिके मृगनाभिपङ्कं
पङ्केरुहाक्षि वदनं तव वीक्ष्य विभ्रत् ।
deadm
उल्लासपल्लवित कोमलपक्षमूला
Acharya Shri Kailassagarsuri Gyanmandir
श्रच पुढं चपलयन्ति चकोरपोताः ॥'
महाकविः कालिदासः । तैः अप्पदीक्षितैः । इदं चिन्त्यम् । “पुरत इति निपाताङ्गीकारात् । अत एव 'इयं च तेऽन्या पुरतो विडम्बना' इति कालिदासः, 'पश्यामि तामित इतः पुरतश्च पश्चात्' इति भवभूतिश्च संगच्छते " इति केचित् । अन्ये तु " दक्षिणोत्तराभ्यामतसुच्' इत्यत्र तसुचैव पुंवद्भावेन सिद्धेऽतसुज्विधानमन्यस्मादपीति ज्ञापनाय । तेन पचाद्यजन्तात्पुरशब्दात्तस्मिन्निष्टसिद्धिः ।" इत्याहुः । वस्तुतस्तु - 'पुर अग्रगमने' इति चौरादिकाण्णिजभावे इगुपधलक्षणे के सार्वविभक्तिकस्तसि:' इति बोध्यम् । वैयाकरणा इति । प्राञ्च इत्यादिः । एवं भेदा वक्ष्यमाणप्रकारभिन्ना । तदेव विशिष्याह- वस्त्विति । आपातेति । प्रागनुभूयमानकटुत्वकानीत्यर्थः । ताहंशि आपातकाटवानि । प्राधान्येन व्यङ्गयस्येति । तेनापातकाटवानीति पदव्यङ्गयस्ये
For Private And Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१७३ अत्र प्राधान्येन व्यङ्गये आरोप्यमाणचन्द्रके भ्रान्तिमत्यलंकारे उपपादकस्य भालस्थमृगमदपङ्कविषयकस्याङ्काभेदारोपस्याङ्कसादृश्यरूपदोषमूलकत्वादुपमात्रालंकारः ।।
रसोपस्कारिका तु 'दरदलदरविन्द-' इत्यत्र प्रागेवोदाहृता । रसपदेनासंलक्ष्यक्रमस्योपलक्षणादावाद्युपस्कारिकाप्यत्रैवान्तर्भाव्या । यथा---- 'नैवापयाति हृदयादधिदेवतेव', 'वन्यकुरङ्गीव वेपते नितराम्' इत्यादिषु प्रागुदाहृतेषु। वाच्यवस्तूपस्कारिका यथा'अमृतद्रवमाधुरीभृतः सुखयन्ति श्रवसी सखे गिरः ।
नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव ॥' अत्र नयनशिशिरीकरणरूपे वस्तुनि वाच्ये मुखस्य शरदिन्दूपमोपस्कारिका । वाच्यालंकारोपस्कारिका यथा'शिशिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम् ।
न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम् ॥ अत्र वाच्यस्य दीपकस्योपमोपस्कारिका । रसादिस्तु न वाच्य इति प्रागेवाभिहितम् ।
अथ कथमलंकारस्यालंकारान्तरोपस्कार्यत्वमुच्यते । प्रधानस्यैवालंकायत्वादिति चेत्, मैवम् । अलंकारस्योपमादेव॑न्यमानतायां प्राधान्याद्र. सादिवदलंकारान्तरोपस्कार्यत्वे न कोऽपि तावदस्ति विरोधः । एवमेव मुख्यतया वाच्यतायामपि । यथा ह्यापणादौ विक्रीयमाणतायां कनकताटकस्य रत्नाद्यलंकारान्तरोपस्कार्यत्वे तस्यैव च कामिनीकर्णालंकरणतायां पुनः प्रधानान्तरसांनिध्यात्ताटङ्कस्य तद्गतरत्नानां च साक्षात्परम्परया च कर्णादिशोभोपस्कारकतया यथा तदलंकारत्वम्, एवमेव रसादिसांनिध्ये रू. पकादेस्तदुपस्कारकस्यालंकारान्तरस्य च रसाधलंकारतेति । त्यर्थः । नन्वत्रोपमालंकारो नैवात आह–अत्र प्राधान्येनेति । व्यङ्गये इति । वाक्यव्यङ्गये इत्यर्थः । अलंकारे सतीति शेषः । उपपादकत्यस्य तस्येत्यादिः । अत्रालंकार इति । तथा च तदुपस्कारकत्वमस्याः स्पष्टमिति भावः । ननु वस्त्वलंकारयोरिव रसस्यापि वाच्यत्वे न पोटा वक्तुमुचितेयमत आह-रसादिरिति । प्रधानस्यैवेति । अ
For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
काव्यमाला।
___ एवं च प्राचां मते पञ्चविंशतिभेदायाः पुनः पञ्चविधतायां सपादशतं भेदाः । द्वात्रिंशद्भेदवादिनां तु षष्टयुत्तरं शतम् । इतश्चान्येऽपि प्रभेदाः कुशाग्रीयधिषणैः स्वयमुद्भावनीयाः। तत्र क्वचिदनुगाम्येव धर्मः । क्वचिच्च केवलं बिम्बप्रतिबिम्बभावमापन्नः । क्वचिदुभयम् । क्वचिद्वस्तुप्रतिवस्तुभावेन करम्बितं बिम्बप्रतिबिम्बभावम् । क्वचिदसन्नप्युपचरितः । क्वचिच्च केवलशब्दात्मकः। तत्राद्यो यथा
'शरदिन्दुरिवाहादजनको रघुनन्दनः ।
वनस्त्रजा विभाति स्म सेन्द्रचाप इवाम्बुदः ॥' अत्र पूर्वार्धे सन्निर्देशाद्धर्मोऽनुगामी ।
केवलबिम्बप्रतिबिम्बभावापन्नः 'कोमलातपशोणाभ्र-' इत्यत्र बोध्यः । द्वितीयार्धे तूभयम् ।
तृतीयोऽपि त्रिविधः-विशेषणमात्रयोविशेष्यमात्रयोस्तागलयो वस्तुप्रतिवस्तुभावेन करम्बितः । तत्राद्यो यथा
'चलङ्गमिवाम्भोजमधीरनयनं मुखम् ।
तदीयं यदि दृश्येत कामः क्रुद्धोऽस्तु किं ततः ॥' अत्र चलनाधीरत्वयोर्विशेषणयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनोपादानाद्वस्तुप्रतिवस्तुभावः । तद्विशेषणकयोश्च भृङ्गनयनयोर्बिम्बप्रतिबिम्बभावः । इति तत्करम्बितोऽयमुच्यते । तत्र द्वितीयो यथा_ 'आलिङ्गितो जलधिकन्यकया सलीलं
लगः प्रियंगुलतयेव तरुस्तमालः । देहावसानसमये हृदये मदीये
देवश्चकास्तु भगवानरविन्दनाभः ॥' लंकारस्त्वप्रधानमेवेति भावः । वाच्यतायामपि विरोध इत्यनुषङ्गः । उभयं अनुगामित्वं बिम्बप्रतिबिम्बभावं च । अयं चोक्तान्तर्गतो नातिरिक्तो भेदः । अत एव वक्ष्यतितृतीयोऽपि त्रिविध इति । षष्ठ इति च । वनस्रजा आपादतलावलम्बिमालया ।
For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
अत्रालिङ्गितत्वलनत्वयोर्वस्तुप्रतिवस्तुभावः । तद्विशेष्यकयोश्च जलधिकन्याप्रियंगुलतयोबिम्बप्रतिबिम्बभावः । इत्ययमपि तत्करम्बित एव । तत्र तृतीयो यथा
'दशाननेन दृप्तेन नीयमाना बभौ सती ।
द्विरदेन मदान्धेन कृप्यमाणेव पद्मिनी ॥' अत्र विशेषणयोईप्तत्वमदान्धत्वयोर्विशेष्ययोश्च नीयमानत्वकृष्यमाणत्वयोवस्तुप्रतिवस्तुभावेनोभयतः संपुटितो दशाननद्विरदयोर्बिम्बप्रतिबिम्बभावः । इत्ययमपि तत्करम्बितः । __ 'विमलं वदनं तस्या निष्कलङ्कमृगाङ्कति' इत्यत्र वैमल्यनिष्कलङ्कत्वयोर्वस्तुत एकरूपयोबिम्बप्रतिबिम्बभावनिर्मुक्तं वस्तुप्रतिवस्तुभावमापन्नयोरुपमानिष्पादकत्वं यद्यस्ति तदा शुद्धं वस्तुप्रतिवस्तुभावमापन्नोऽप्येष षष्ठो धर्मः । न च 'कोमलातपशोणाभ्रसंध्याकालसहोदरः' इत्यादौ यतिसंध्याकालयोरुपमायां धर्मान्तरस्यानवगमात्कुङ्कुमालेपकषायवसनयोः कोमलातपशोणाभ्रयोश्च बिम्बप्रतिबिम्बभावो यथावश्यमभ्युपेयः, प्रकृते तु न तथा वस्तुप्रतिवस्तुभावः । वदनमृगाङ्कयोः सौन्दर्यरूपसाधारणधर्मस्य प्रतीयमानत्वेन धर्मान्तरानपेक्षणादिति वाच्यम् । एवं तर्हि 'यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तसन्तशतपत्रनिभं वहन्त्या' इति भवभूतिपद्येऽपि प्रतीयमानेन सौन्दयेणैव सामान्येन निर्वाहे कंधरावृन्तयोर्बिम्बप्रतिबिम्बभावस्य वलितत्वावृत्तत्वयोर्वस्तुप्रतिवस्तुभावस्य च सकलैरालंकारिकैः स्वीकारो विरुद्धः स्यात् । अतो यथास्थितमेव साधु । द्वितीयार्धे तु 'कषायवसनो याति' इत्यादौ । यद्यस्ति तदेत्यनेनारुचिः सूचिता । तद्बीजं तु-एकोऽप्यर्थो भिन्नशब्देनोपात्तो भिन्न इव प्रतीयते । अत एव 'उदेति सविता ताम्रस्ताम्र एवास्तमेति च' इत्यादौ 'रक्त एवास्तमेति च' इति पाठे दुष्टतेति प्राञ्चः । प्रकृते संबन्धिभेदादपि भेदप्रत्ययस्तयोः । भिन्नरूपेण प्रतीयमानस्य च न साधारणता । साधारणीकरणस्य च न कश्चिदुपायः, विना बिम्बप्रतिबिम्बभावापनकधर्मसंबन्धित्वम् । तथा च शब्दाद्भेदेन प्रत्यये संबन्धिभेदाच्च भेदप्रत्यये बिम्बप्रतिबिम्बभावापनकधर्मसंबन्धित्वेन तयोरभेदाध्यवसाये साधारणत्वस्येति कथं शुद्धस्योपमानिष्पादकत्वम् । अत एव प्राञ्चः बिम्बप्रतिबिम्बभावकरम्बित एवायमित्याहुरिति । प्रकृते तु
For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६ .
काव्यमाला।
उपचरितो यथा'शतकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः ।
येनाकारिषि मित्रं स विकलहृदयो विधिर्वाच्यः ॥' एषा सीतां विवासितवतः स्वात्मगता रामस्योक्तिः । अत्र काठिन्य पार्थिवो धर्मश्चित्ते उपचरितः ।
केवलशब्दात्मको यथा
'यत्र वसन्ति सुमनसि मनुजपशौ च शीलवन्तः सर्वत्र समाना मन्त्रिणो मुनय इव ।'
अत्रोपमानोपमेयगतस्यार्थस्यैकस्याभावाच्छब्द एव धर्मः। एवमेतेषां धर्माणां व्यामिश्रणं च संभवति । यथा'श्यामलेनाङ्कितं भाले बाले केनापि लक्ष्मणा ।
मुखं तवान्तरासुप्तभृङ्गफुल्लाम्बुजायते ॥' अत्र भालगताङ्कप्रसुप्तभृङ्गौ बिम्बप्रतिबिम्बभावमापन्नौ क्याथै आचारेऽनुगामिन्यभेदमापद्य स्थितौ । यथा वा
'सिन्दूरारुणवपुषो देवस्य रदाङ्कुरो गणाधिपतेः । ____ संध्याशोणाम्बरगतनवेन्दुलेखायितः पातु ॥'
अत्र सिन्दूरसंध्याभ्यां गणाधिपगगनाभ्यां च बिम्बप्रतिबिम्बभावमापन्नाभ्यां [धर्माभ्यां] संपादिताभेदेन विशिष्टधर्मेणाभेदेनावस्थितः क्यङर्थोऽनुगामी।
न तथेति । तथा तु प्रकृते नेत्यर्थः । गणाधिपगगनाभ्यामिति । गणाधि. पगगनयोबिम्बप्रतिबिम्बभावे च बिम्बप्रतिबिम्बभावापन्नसिन्दूरसंध्याविशेषणकारुणत्व. शोणत्वे वस्तुप्रतिवस्तुभावापन्ने एव साधारणधर्म इति तयोरभेदेन विशिष्टधर्मेणेत्युक्तिरिति भावः । क्यङर्थोऽनुगामीति । यद्यपि प्रसिद्धौज्ज्वल्यशोभाविशेषादिकमादायाप्याचारोऽनुगामी कर्तुं शक्यते तथापि कवितात्पर्यविषयतास्यैवेति बोध्यम् । तादृशशो
For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
यथा वा
क्वचिद्धेतुहेतुमद्भावेन । यथा'खलः कापट्यदोषेण दूरेणैव विसृज्यते । अपायशङ्किमिलों के र्विषेणाशीविषो यथा ॥'
Acharya Shri Kailassagarsuri Gyanmandir
अत्र कापट्यं विषं च विम्बप्रतिबिम्बतां गतं दूरतो विसर्जनेऽनुगामि
नि हेतुः ।
'रूपवत्यपि च क्रूरा कामिनी दुःखदायिनी । अन्तः काटवसंपूर्णा सुपक्केवेन्द्रवारुणी ॥'
१७७
अत्र रूपवत्त्वदुःखदायित्त्वयोर्द्वयोरनुगामिनोर्मध्ये क्रौर्यकाटवे बिम्बप्रतिबिम्बभावापन्ने दुःखदायित्वेन सह हेतुहेतुमद्भावेन मिश्रिते । अपरेण तु शुद्धसामानाधिकरण्येन । एवमन्यैरपि व्यामिश्रणं बोध्यम् । प्रकारान्तरं च लक्ष्यानुसारेण सुधीभिः स्वयमुन्नेतुं शक्यम् ।
यथा
'यथा लतायाः स्तबकानतायाः स्तनावनम्रे नितरां समासि । तथा लता पछविनी सगर्वे शोणाधरायाः सदृशी तवापि ॥
अत्र स्तनावनम्राहं स्तबकानताया लताया उपमानमस्मीति गर्व मा विदध्याः । यतः शोणाधराया उपमेयायास्तवापि पल्लविनी लतोपमानं भवतीति वाक्यार्थे यथातथापदप्रतिपाद्या कान्तोपमानिका लतोपमेयिकोपमा निष्पादिका । अस्यां चोपमायां निरूपकतासंबन्धेनोपमानोपमेयगते द्वे उपसमसदृशशब्दाभ्यां प्रतिपादिते विम्बप्रतिबिम्बभावमापन्ने साधारणधर्मतया स्थिते । तत्र निरूपकता संबन्धेन प्रधानीभूतोपमोपमान
For Private And Personal Use Only
भाविशेषयोरैक्यप्रतिपत्तये वानयोर्विम्बप्रतिबिम्बभाव आवश्यक इत्याहुः केचित् । अनुगामिनि हेतुरिति । तयोर्विम्बप्रतिबिम्बभावं विना भिन्नप्रकरणकत्वेन दूरविसर्जने भेदप्रतीत्यानुगामित्वमेव न स्यादिति भावः । उपमा निष्पादिकेति । एवं च वाक्याथपस्कारिकेयमुपमेत्यर्थः । बिम्बप्रतिबिम्बभावमापन्ने इति । यद्यपि समसदृशशदाभ्यां प्रतिपादितोपमयोर्वस्तुप्रतिवस्तुभाव एव तथापि तद्विशेषणयोः शोणाधरनाविकास्तबकावनम्रलतयोबिम्बप्रतिबिम्बभाव आवश्यक इति भावः । तयोश्च बिम्बप्रतिबिम्बभावे सादृश्यानुयोगित्वमेव साधारणो धर्म इति ध्येयम् । तत्र तयोरुपमयोर्मध्ये |
२३
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
कान्तागतायामुपमायां प्रतिबिम्बभूतायां गुच्छस्तनयोर्वस्तुप्रतिवस्तुभावापन्ननमननम्रीभवनविशेषणयोर्बिम्बप्रतिबिम्बभावमापन्नयोः साधारणधर्मत्वम् । एवं तेनैव संबन्धेन लतारूपोपमेयगतायां बिम्बभूतायामुपमायामधरपल्लवयोः । न च तेन सदृश इत्यादौ तन्निरूपितसादृश्याश्रयस्योपमेयस्य, तस्य सदृश इत्यादौ च तत्संबन्धिसादृश्याश्रयस्यौपमानस्य प्रतीतेः सिद्धत्वात्प्रकृते च सदृशीति शब्दान्निवेद्यमानेऽप्युपमानभावे कथं नाम लताया उपमेयतेति वाच्यम् । सदृशशब्दप्रतिपाद्यधर्मभूतोपमायामुपमानवेऽपि यथातथाशब्दवेद्योपमायां लताया उपमेयत्वे बाधकाभावात् । एवमन्येऽपि प्रकाराः।
'यथा तवाननं चन्द्रस्तथा हासोऽपि चन्द्रिका ।
यथा चन्द्रसमश्चन्द्रस्तथा त्वं सदृशी तव ॥ एभिभैदैः प्रागुक्तानां सधर्माणां भेदानां यथासंभवं गुणने बहुतरा भेदा भवन्ति । तथा धर्माणां वाच्यतायां वाच्यधर्मा बहुधोक्ता व्यङ्गयत्वे व्यजयधर्मा धर्मलोपे गदितैव । लक्ष्यतायां यथा'सर्प इव शान्तमूर्तिः श्वेवायं मानपरिपूर्णः ।।
क्षीब इव सावधानो मर्कट इव निष्क्रियो नितराम् ॥' । इत्यत्रोपमानमहिना शान्तमूर्त्यादिशब्दैविरुद्धा धर्मा लक्ष्यन्ते ।
इयं चोपमा मुख्यार्थस्य क्वचित्साक्षादुपस्कारिणी क्वचिच्चोपस्कारकान्तरोपस्करणद्वारा । तत्र साक्षादुपस्कारिणी प्राग्बहुधोदीरिता ।
निरूपकतेति । प्रतियोगितेत्यर्थः । तेनैव संबन्धेनेति । प्रतियोगितासंबन्धेनेत्यर्थः । अधरपल्लवयोरिति। कान्तालताविशेषणयोबिम्बप्रतिबिम्बभावमापनयोः साधारणधर्म. त्वमित्यर्थः । तन्निरूपितेति । तत्प्रतियोगिकेत्यर्थः । सादृश्याश्रयस्य तत्प्रतियोगिन इत्यर्थः । सधर्माणां भेदानामिति । साधारणधर्मभेदसहितानां पूर्णालप्तादिभेदानामित्यर्थः । व्यङ्गयत्वे इति । धर्माणामित्यस्यानुषङ्गः । लक्ष्यतायामिति । धर्माणामित्यादिः । महिनेति । तेषु शान्तमतित्वादेरभावादिति भावः। धर्मा लक्ष्यन्त इति । लक्ष्यतावच्छेदकेऽपि लक्षणेति मतेनेदम् । इयं चेति । उपमेत्यर्थः । तत्र नाभौ ।
For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
परम्परया यथा
www. kobatirth.org
रसगङ्गाधरः ।
'नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः । इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणद्युतिः ॥'
Acharya Shri Kailassagarsuri Gyanmandir
अत्र मख्यार्थस्य राजविषयायाः कविरतेरुपस्कारकस्य यदैव तव कोपोदयस्तदैव रिपुणां संपदो भस्मसाद्भविष्यन्तीति वस्तुन उपस्कारिका नयनकोणशोणद्युतैर्युगान्तदहनोपमा । इयं चेवयथावादिशब्देवचकैः प्रतिपादिता वाच्यालंकारः । लक्ष्यापि चालंकुर्वाणा दृश्यते ।
:
यथा
'नीवीं नियम्य शिथिलामुषसि प्रकाशमालोक्य वारिजदृशः शयनं जिहासोः । नैवावरोहति कदापि च मानसान्मे
क्वचिद्वयङ्गयापि चेयमुपमालंकारः । यथा
नाभेर्निया सरसिजोदरसोदरायाः ॥' अत्रैकोदरप्रभवत्वरूपस्य मुख्यार्थस्य बाधात्तदीयशोभालक्षणसमानांशहरत्वस्य प्रयोजनस्य सत्त्वात्सोदरपदेन सदृशो लक्ष्यते । आर्थी च त1 त्रोपमा प्रतीयमाना । अवरोहतिलक्ष्यस्य विषयतया स्मृतिशून्यीभवनस्य निषेधनेन प्रतीयमानायाः स्मृतेरुपस्कारिका । एवं प्रतिभटप्रतिमल्लादिशब्दानां तदीयन्यग्भवनतदीयशोभारूप सर्वस्वापहरणादेः प्रयोजनस्य स - च्त्वात्सादृश्यवति लक्षणैव, न व्यञ्जना । मुख्यार्थस्य बाधात् । प्रयोजने पुनर्व्यञ्जनैवेति ।
१७९
'अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि । भूमण्डलमिदं मूढ केन वा विनिभालितम् ॥'
कस्यचिद्विदेशस्थितस्य किरणैरात्मानं संतापयन्तं चन्द्रं प्रत्येषोक्तिः । अत्र च अस्ति मम प्रियायाः कदापि बहिरनिर्गतायाः, अत एव त्वया -
For Private And Personal Use Only
अवरोहतिलक्ष्यस्येति । एतत्पदलक्ष्यस्येत्यर्थः । व्यञ्जनैवेति । इत्यस्य बोध्यमिति शेषः । विनिभालितमिति । विशेषेण दृष्टमित्यर्थः । अत्र चेति । प्रतीयमानेत्यत्रा
1
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१८०
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
1
प्यदृष्टाया आननं त्वत्सदृशमिति प्रतीयमाना उपमा मूढपदेन ध्वन्यमा - नायां चन्द्रविषयायां वक्तृगतायामसूयायामलंकारः । एतेनाप्पदीक्षित - रुपमालक्षणे दत्तमव्यङ्गचत्वविशेषणमयुक्तमेव । नहि व्यङ्ग्यत्वालंकार - त्वयोरस्ति कश्चिद्विरोधः । प्राधान्येन व्यङ्गयतायां तु प्रधानत्वालंकार - त्वयोर्विरोधादलंकारलक्षणं तत्र मातिप्रसाङ्क्षीदित्युपस्कारकत्वेन पुनर्विशेषणीयम्, न त्वव्यङ्ग्यत्वेन । प्रागुक्तायामसूयालंकारोपमायामव्याप्यापत्तेः । विशिष्टोपमादिस्थले विशेषणाद्युपमानां वाच्यसिद्ध्यङ्गतया गुणीभूतव्यङ्ग्यत्वम्, सिद्धार्थस्योपस्करणाभावात्तु नालंकारत्वमिति न काप्यसंगतिः । यच्चापि " सेयमुपमा संक्षेपतस्त्रिविधा - क्वचित्स्ववैचित्र्यमात्रविश्रान्ता । यथा 'सच्छिन्नमूलः क्षतजेन रेणुः' इत्यादौं । क्वचिदुक्तार्थोपपादनपरा । यथा 'अनन्तरत्नप्रभवस्य' इत्यादौ " इति तैरेव द्रविडशिरोमणिभिरभ्यधीयत । तदप्यहृद्यमेव । ' नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव' इति वाच्यवस्तूपस्कारिकायाः शरदिन्दूपमाया अक्रोडीकरणात् । अलंकारभूतोपमासु स्ववैचित्र्यमात्र विश्रान्ताया उपमायाः संग्रहे को नाम ध्वन्यमानायास्तस्या निरासायाव्यङ्गचत्वविशेषणदानदुराग्रहः । अहो महदेवेदमन्याय्यम् - यदलक्षणीयायाः संग्रहः, लक्षणीयायाश्वासंग्रह इति । प्राचीनानां तूपमासामान्यं लक्षयतां ध्वन्यमानाया इवास्या अपि संग्रहो नानुचितः । न तु स्वस्य यत्नेन ध्वन्यमानोपमां निरस्य कण्ठरवेणालंकारभूतोपमालक्षकस्य । यदि च प्रबन्धव्यङ्गयोपस्कारकत्वेनेयं संगृह्यत इत्युच्यते तदा 'स्ववैचित्र्यमात्रविश्रान्ता' इति स्वोक्तिर्विरुद्धा
स्यान्वयः । प्रतीयमाना उपमेति । अत्रोपमानस्योपमेयत्वकल्पनात्मकप्रतीपस्यैव व्यङ्गयत्वम् । मूढपदस्वारस्यात् । चमत्कारातिशयाच्च । किं हृष्यसीत्येतत्स्वारस्याच्चेति केचित् । एतेनेति । एतेनापीत्यर्थः । अपिना प्रागुक्तदूषणसमुच्चयः । तैरेवेति । अप्पदीक्षितैरेवेत्यर्थः । स्वस्येति । तवेत्यर्थः । नानुचित इत्यस्यानुषङ्गः । इयं स्ववैचित्र्यमात्रविश्रान्ता | विरुद्धा स्यादिति । वस्तुतस्तु उपमासामान्यलक्षणस्यापि प्रकृतत्वेनोपमा सामान्यस्यैवायं विभागः । उपमानोपमेयतावच्छेदकयोर्भेदाच्चास्त्येवोपमितिनिपत्तिः । अत एव सेयमुपमेत्येवोक्तम्, न त्वलंकार इति । 'नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव' इत्यत्र तु उक्तार्थोपपादनपरैव मुखकर्तृकनयनकर्मकशिशिरीकरणस्य कव्युक्तस्येन्दूपमयैवोपपत्तेः । उक्तार्थोपपादनेत्यस्य चोक्तार्थस्योपपादनमुक्तार्थे
For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१८१ स्यात् । 'अनन्तरत्नप्रभवस्य' इत्यत्र गुणसमूहसमानाधिकरणे एको दोषो दोषत्वेन न स्फुरतीत्यस्यार्थस्य पूर्वार्धप्रतिपादितार्थसमर्थनात्मकस्य सामान्यरूपस्य विशेषरूपोदाहरणप्रदर्शनमन्तरेण सम्यगनाकलनादिन्दुकिरणसमानाधिकरणेऽङ्क उदाहृतः, न तूपमानतया निर्दिष्टः । सामान्याद्विशेघस्य भेदाभावेनोपमितिक्रियाया अनिष्पत्त्या उपमालंकृतेरत्रानवतारादुदाहरणालंकारोऽयमतिरिक्तः । यथा 'इको यणचि' इति वाक्यार्थस्य सामान्यस्य विज्ञानायोकारे दध्युदकेकारस्येवेति वाक्यान्तरेण तद्विशेष उदात्रियते तद्वदनापीति तत्प्रसङ्गे विवेचयिष्यामः। __ यच्चाप्पदीक्षितैः 'लुप्तायां तु नैवं भेदाः । तस्यां साधारणधर्मस्यानुगामितानियमात्' इत्युक्तम्, तन्न । 'मलय इव जगति पाण्डुर्वल्मीक इवाधिधरणि धृतराष्ट्रः' इत्यत्रानुगामिधर्मस्याप्रत्ययाच्चन्दनानां पाण्डवानाम्, सर्पाणां दुर्योधनादीनां च बिम्बप्रतिबिम्बमावस्यैव प्रतिपत्तेः । न च शब्देनोपात्तत्वं बिम्बप्रतिबिम्बभावे तन्त्रमित्याग्रहो विदुषामुचितः । श्रौतत्वार्थत्वाभ्यां बिम्बप्रतिबिम्बभावस्य दैविध्यौचित्यात् । अत एवाप्रस्तुतप्रशंसादौ प्रकृताप्रकृतवाक्यार्थयोरौपम्यमवयवबिम्बप्रतिबिम्बभावमूलं संगच्छते । रयमपि रूपकवत्केवलनिरवयवा, मालारूपनिरवयवा, समस्तवस्तुविषयसावयवा, एकदेशविवर्तिसावयवा, केवलश्लिष्टपरम्परिता, मालारूपश्लिष्टपरम्परिता, केवलशुद्धपरम्परिता, मालारूपशुद्धपरम्परिता
वोपपादन मित्यर्थद्वयम् । विनिगमनाविरहात् । इति न दोष इति चिन्त्यमिदमिति बोध्यम् । उक्तार्थोपपादनपरोपमायास्तदुक्तमुदाहरणं दूषयति-अनन्तेति । 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥' इत्यत्रेत्यर्थः । स्फुरतीत्यस्यार्थस्य तृतीयचरणप्रतिपाद्यस्य । तत्त्वेनानिर्दिष्टत्वे हेतुमाह-सामान्येति। अनवतारादिति। अग्रे तथा चेति शेषः । अलंकारोऽयमतिरिक्त इति । अदत्त्वा मादृशो मा भूदत्त्वा लं त्वादृशो भव' इत्यभिन्नर्मिकोपमायामुपमानतावच्छेदकोपमेयतावच्छेदकभेदेनोपमितिक्रियानिष्पत्तेरुपमालंकारव्यवहारस्य च सर्वसंमतत्वेन तद्वदिहापि सामान्यधर्मविशेषधर्मयोस्तयोर्भेदेन तनिष्पत्तेः संभवादुदाहरणालंकारो मास्त्वतिरिक्त इति तदाशयाच्चिन्त्यमेतत् । 'उदकोकारे दधीकारस्य य इति' इति पाठः । तत्प्रसङ्गे उदाहरणालंकारप्रसङ्गे । अत एव
For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
काव्यमाला। चेत्यष्टधा । तत्रोपमायां केवलत्वं मालानन्तर्गतत्वं निरवयवत्वं चोपमान्तरनिरपेक्षत्वम् । इयं च शतशः प्रागेवोदाहृता । मालारूपनिरवयवा यथा
'आह्वादिनी नयनयो रुचिरैन्दवीव ___ कण्ठे कतातिशिशिराम्बुजमालिकेव । आनन्दिनी हृदि गता रसभावनेव
सा नैव विस्मृतिपथं मम जातु याति ॥' यथा वा'कलेव सूर्यादमला नवेन्दोः कृशानुपुञ्जात्प्रतिमेव हैमी ।
विनिर्गता यातुनिवासमध्यादध्याबभौ राघवधर्मपत्नी ॥' पूर्वमनुगामिना धर्मेण भिन्नदेशकालावच्छेदेन, अत्र तु विम्बप्रतिबिम्बभावमापन्नेनैकदेशकालावच्छेदेनेति विशेषः । अत्राधिकदीप्तिरूपे वाक्याथै उपमे उपस्कारिके । आत्यन्तिकविनाशहेतुत्वेन देदीप्यमानत्वेन च साधारण्येन सूर्यमण्डलस्य, निष्कलङ्कताभिव्यञ्जकत्वेन भस्मीभवनहेतुत्वेन कृशानुपुञ्जस्य च लङ्काप्रतिबिम्वता । मालारूपत्वं चात्रकोपमेयकानेकोपमासामानाधिकरण्यात् । समस्तवस्तुविषया सावयवा यथा'कमलति वदनं यस्या मलयन्त्यलका मृणालतो बाहू ।
शैवालति रोमावलिरद्भुतसरसीव सा बाला ।' यथा वा___ 'ज्योत्स्नाभमञ्जुहसिता सकलकलाकान्त कान्तवदनश्रीः ।
राकेव रम्यरूपा राघवरमणी विराजते नितराम् ॥' तस्य द्वैविध्यादेव । इयमपि उपमापि । तत्र तासां मध्ये । इयं च केवलनिरवयवा च । ऐन्दवीति । ऐन्दवी रुचिरिवेत्यर्थः । यातुनिवासेति । राक्षसनिवासेत्यर्थः । द्वितीये तमुपपादयति-अत्रेति । द्वितीयपद्य इत्यर्थः । सूर्यमण्डलस्येति । लङ्काप्रतिबिम्बतेत्यत्रान्वयः । अमायां रावणवधे सति प्रतिपदि सीतानिर्गम इत्येकदेशकालावच्छिन्नत्वं बोध्यम् । सामानाधिकरण्यादिति । उपमान्तरनिरपेक्षत्वानिरवयवत्वमित्यपि बोध्यम् । कमलतीति । अत्र चतुर्दा उपमानादाचारे क्विप् । ज्योत्स्लेति । ज्योत्स्नाभं
For Private And Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
अत्र सर्वेषामुपमानानां शब्दैरेवाभिधानात्समस्तवस्तुविषया अङ्गोपमाभिनिष्पाद्यमानत्वाञ्च साङ्गा भवति । एकदेशविवर्तिनी सावयवा यथा'मकरप्रतिमैर्महाभटैः कविभी रत्नसमैः समन्वितः ।।
कवितामृतकीर्तिचन्द्रयोस्त्वमिहोरिमणासि कारणम् ॥' अत्रोत्तरार्धे उपमितसमास एव । विशेषणसमासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात् । राज्ञो जलधेरुपमाशब्देनानभिहिताप्यङ्गोपमाभिराक्षिप्ता प्रतीयते । इत्येकदेशविवर्तनादेकदेशविवर्तिनी । केवलश्लिष्टपरम्परिता यथा
'नगरान्तर्महीन्द्रस्य महेन्द्रमहितश्रियः ।
सुरालये खलु सीबा देवा इव विरेजिरे ॥' अत्र श्लेषोपस्थापितेन सुमेरुणा मदिरागारस्योपमा क्षीबानां देवोपमाया उपाय इति विष्टपरम्परिता । अन्योन्योपायतारूपस्यैव परम्परितत्वस्येह परिभाषणात्, मालारूपताविरहाच्च । केवला मालारूपश्लिष्टपरम्परिता यथा
'महीभृतां खलु गणे रत्नसानुरिव स्थितः । त्वं काव्ये वसुधाधीश वृषपर्वेव राजसे ॥'
मञ्जु हसितं यस्याः । सकलः पूर्णकल: कलाकान्तश्चन्द्रस्तद्वद्वदनश्रीर्यस्याः । अत्र उदाहरणद्वये । सर्वेषामवयवरूपाणामवयविरूपाणां च । तथा च तेषां तदभिधेयत्वमेव समस्तवस्तुविषयत्वमिति भावः । अनोपमेति । अवयवोपमेत्यर्थः । एवमग्रेऽपि । साङ्गा सावयवा । तथा चोपमानां सापेक्षत्वं सावयवत्वमिति भावः । मकरा मत्स्याः । कविता अमृतमिव । कीर्तिश्चन्द्र इव । विशेषणेति । मयूरव्यंसकेतीत्यर्थः । नगरान्तरिति । महेन्द्रवत्पूजिता श्रीर्यस्य तस्य राज्ञो नगरमध्ये सुरालये मत्ता देवा इव खल विरेजिरे इत्यर्थः । गारस्योपमेति । सुरालये इतीति भावः । नन्वेवं श्लिष्टत्वेऽपि कथं परम्परितत्वमत आह–अन्योन्योपायतारूपस्यैवेति । सावयवायां परस्परसमर्थकत्वेऽपि नोपायता । ज्योत्स्नायां हसितत्वारोपं विनापि औज्ज्वल्यादिना सीतायां राकासाम्य. सिद्धेः । इह तु मदिरागारेषु सुमेरूपमां विना क्षीबेषु देवोपमायां न किंचित्साधर्म्यम् । तस्मिश्च तादृशसादृश्यप्रतीतिमूलाभेदमापन्नसुरालयवृत्तित्वमेव तथा । मदिरागारेषु सु. मेरूपमायां च क्षीबेषु देवोपमां विना न साधारणधर्म इत्यन्योन्योपायता । अन्योन्या
For Private And Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अत्र श्लेषोपस्थापिताभ्यां पर्वतशुक्राभ्यां राजकाव्ययोरुपमे मेरुवृषपर्वभ्यां राज्ञ उपमयोरुपायः । नन्वत्र पर्वतानामिव राज्ञां शुक्र इव कवित्वे इत्येवंरूपा उपमा कथं प्रत्येतुं शक्या । उपमानोपमेयशब्दयोः पार्थक्याभावादिति चेत्, श्लेषे ह्येकशब्दोपात्तत्वेन रूपेणाभेदाध्यवसानस्येव तेनैव साधम्र्येण सादृश्याध्यवसानस्यापि सुवचत्वात्, तस्यैव च प्रकृते प्रयोज्योपमानुकूलत्वात् । केवलं शुद्धपरम्परिता यथा--
'राजा युधिष्ठिरो नाम्ना सर्वधर्मसमाश्रयः ।
द्रुमाणामिव लोकानां मधुमास इवाभवत् ॥' मालारू पशुद्धपरम्परिता यथा
'मृगतां हरयन्मध्ये वृक्षतां च पटीरयन् ।
ऋक्षतां सर्वभूपानां त्वमिन्दवसि भूतले ॥' उपमानयोः परस्परमुपमेययोश्चानुकूल्ये उपमेययोरेषोपायता निरूपिता। प्रातिकूल्ये उपायता यथा
'राजा दुर्योधनो नाम्ना सर्वसत्त्वभयंकरः ।
दीपानामिव साधूनां झञ्झावात इवाभवत् ॥' अत्रोपमानयोर्दीपझञ्झावातयोरन्योन्यमुपमेययोश्च साधुदुर्योधनयोः प्रातिकूल्येऽप्युपमयोः परस्परमानुकूल्यादुपायतैव ।। श्रयपरिहारस्तु रूपकप्रकरणे वक्ष्यते। चस्त्वर्थे केवलपदोत्तरं वा योज्यः । महीभृतां पर्वतानां राज्ञां च । गणे समहे । रत्नसानु: सुमेरुः । काव्ये शके कवित्वे च । वृषपवेव दैत्यराज इव । तेनैव एकशब्दोपात्तत्वेन साधर्येण । मधुमास इव चैत्रमास इव । अत्र मालारूपताविरहाकेवलत्वम्, श्लेषाभावाच्छुद्धत्वम्, अन्योपायतारूपत्वात्परम्परितत्वमिति बोध्यम् । मृगतामिति । मृगा इवाचरतां सर्वभूपानां मध्ये हरयन्सिह इवाचरन्वृक्षा इवाचरतां तेषां मध्ये पटीरयंश्चन्दनद्रुरिवाचरंस्त्वं ऋक्षतां नक्ष. पाणीवाचरतां तेषां मध्ये भूतले चन्द्रवदाचरसीत्यर्थः । अनुकल्ये इति । अनुकूलताख्यगुणे सतीत्यर्थः । मृगतां हरयनित्यत्रापि मृगाधिपत्वादानुकूल्यमेवेति बोध्यम् । एवं प्रातिकूल्ये शुद्धपरम्परितामुदाहरति-एवमिति । कमलवदाचरतां सतां मध्ये शिशिरतुवदाचरतानेन राज्ञा अधुना दर्भवदाचरतां सर्वधर्माणां मध्ये विदर्भदेशवदाचरितमि.
For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
एवम्
'सरोजतामथ सतां शिशिरर्तवताधुना ।
दर्भतां सर्वधर्माणां राज्ञानेन विदर्भितम् ॥' इत्यादी मालारूपतायामपि । उपमेयानां स्वस्वोपमानानुपमानानां रशनोपमा । यथा
'वागिव मधुरा मूर्तिमतिरिवात्यन्तनिर्मला कीर्तिः ।
कीतिरिव जगति सर्वस्तवनीया मतिरमुष्य विभोः ॥' इयं धर्मभेदे। धमक्ये तु___ 'भूधरा इव मत्तेभा मत्तेभा इव सूनवः ।
सुता इव भटास्तस्य परमोन्नतविग्रहाः ॥' धर्मलोपे तु तस्येत्यस्यानन्तरम् 'भटा इव युधि प्रजाः' इति बोध्यम् । इयमेवंभेदा प्राचीनै दैर्गुणने वागगोचरं भूमानं भजमाना नेयत्तामर्हतीति दिक् । ___ एषैव च यदा सकलेन वाक्येन प्राधान्येन ध्वन्यते तदा परिहतालकारभावा ध्वनिव्यपदेशहेतुः । अस्यां चालंकारव्यपदेशः कदाप्यलंकारभावमप्राप्तेषु मञ्जूषादिगतेषु कटकादिष्विवालंकुर्वाणगतधर्ममात्रसंस्पर्शनिबन्धनः । क्वचिदसौ शब्दशक्तिमूलानुध्वननविषयः । क्वचिदर्थशक्तिमूलानुध्वननविषयः ।
आद्यो यथा'अविरलविगलदानोदकधारासारसिक्तधरणितलः ।
धनदायमहितमूर्तिर्जयतितरां सार्वभौमोऽयम् ।। त्यर्थः । स्वस्वोपमानानुपमानानामिति । इदं विशेषणमुपमेयोपमायामतिव्याप्तिवारणार्थम् । भूधरा इति । परमोन्नतविग्रहत्वमेकोऽत्र धर्मः । एषैव च उपमैव । परीति। त्यक्तालंकारत्वकेत्यर्थः । नन्वेवं कथं तत्रालंकारव्यवहारोऽत आह-अस्यां चेति । धर्ममात्रेति । उपमावेत्यर्थः । मात्रपदेनालंकारत्वव्यवच्छेदः । अविरलेति । अयं राजा सार्वभौमः सर्वभूमीश्वरः । उदग्दिग्गजश्च । धारापदं व्यर्थमिति केचित् । 'म कीचकैः-' इतिवत्प्रयोग इत्यन्ये । धनदातृणामग्रे पूजितमूर्तिः। कुबेराग्रे पूजितमूर्तिश्च ।
For Private And Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
यथा वा'विमलतरमतिगभीरं सुपवित्रं सत्ववत्सुरसम् ।
हंसावासं स्थानं मानसमिह शोभते नितराम् ॥' अत्रानेकार्थानामपि शब्दानां प्रकरणेन कृतेऽपि शक्तिसंकोचे तन्मूलकेन ध्वननेन प्रतीयमानस्य सरोवररूपस्यार्थान्तरस्याप्रस्तुतस्याभिधानं मा भूदिति प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कल्प्यते । द्वितीयो यथा'अद्वितीयं रुचात्मानं दृष्ट्वा किं चन्द्र दृप्यसि ।
भूमण्डलमिदं सर्व केन वा परिशोधितम् ॥' । अत्र मूढादिपदाप्रयोगादसूयादेरप्रत्ययान्मुख्यतयोपमैव व्यङ्गया।
अथात्र सादृश्यस्य पदार्थान्तरत्वे बोधो विचार्यते-अरविन्दसुन्दरमित्यत्रारविन्दनिरूपितसादृश्यं प्रयोजकं लक्ष्यते । तच्च सुन्दरपदार्थेकदेशेन सौन्दर्येणाभेदसंसर्गेणान्वेति । तेनारविन्दनिरूपितसादृश्यप्रयोजकाभिन्नसौन्दर्यवदभिन्नमिति धीः । निपातातिरिक्तनामार्थयोभैदेनान्वयस्याव्युत्पन्नत्वादभेदानुसरणम् । एकदेशान्वयस्तु देवदत्तस्य नप्तेत्यादाविवात्राप्यम्युपेयः । 'समासस्यैव विशिष्टार्थे शक्तिः' इत्येके । 'अरविन्दपदमेव लक्षणया सर्वार्थबोधकं सुन्दरपदं तु तात्पर्यग्राहकम्' इत्यपरे ।
तथा अरविन्दमिव सुन्दरमित्यत्रेवाथै सादृश्येऽरविन्दस्य निरूपितत्वसंसर्गेणान्वयः । तस्य च प्रयोजकतासंसर्गेण सौन्दर्ये । एवं चारविन्दनिरूपितसादृश्यप्रयोजकसौन्दर्यवदभिन्नमिति । अरविन्दमिवेत्यत्र त्वरविन्दनिरूपितसादृश्यवदिति निपातजन्योपस्थितिप्रयोज्यप्रकारतानिरूपित.
सत्त्वं प्राणी बलं च । रसो जलं शृङ्गारादिश्च । हंस: पक्षी परमात्मा च । अत्रेति । उदाहरणद्वये इत्यर्थः । अद्वितीयमिति । वाशब्दो हेत्वर्थः । असूयादेरप्रत्ययादिति। अत्र मूढादिपदाप्रयोगेऽपि किं चन्द्र दृप्यसीत्याक्षेपणासूया व्यङ्गया न वेति सहृदयविभाव्यम् । लप्स्य(क्ष्य)त इति । अरविन्दपदेनेति शेषः। अभेदानुसरणमिति। प्रयोजकसौन्दर्ययोरिति भावः । ननु नित्यसाकायस्थले तथाङ्गीकारेऽप्यत्र न तथेति चेदत एव मतान्तरमाह-समासेति । अत्र मते गौरवान्मतान्तरमाह-अरविन्देति। तथेति । समस्तवव्यस्तेऽपीत्यर्थः । ननु विशेष्यतया नामार्थप्रकारकारकबोधे विशेष्यतया विभक्तिजन्योपस्थितेर्हेतुत्वात्कथमिवार्थसादृश्येऽरविन्दस्यान्वयस्तस्य च कथं सौन्दर्येऽन्वयोऽत
For Private And Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
1
विशेष्यतानिपातजन्योपस्थितिप्रयोज्यविशेष्यतान्यतरभिन्नविशेष्यतासंसर्गेण नामार्थप्रकारकबोध एवं विशेष्यतया विभक्तिजन्योपस्थितेर्हेतुत्वादिवार्थस्य नञर्थस्येव भेदसंसर्गेण नामार्थविशेष्यत्वे विशेषणत्वे च न दोषः । अरविन्दमिव भातीत्यत्रारविन्दनिरूपितसादृश्यस्य प्रकारतासंबन्धेन धात्वर्थेऽन्वयादरविन्दसादृश्यप्रकारकधीविशेष्य इति । तत्रैव सौ - न्दर्येणेति धर्मोपादाने तृतीयार्थः प्रयोज्यत्वं धात्वर्थे भाने इवार्थे सादृश्ये वान्वेति । तेन सौन्दर्य प्रयोज्यारविन्द निरूपितसादृश्यप्रकार कधी विशेष्य इति । तथा गज इव गच्छति, पिक इव रौतीत्यादावुपमानपदानां तत्कर्तृकक्रियायां लक्षणया गजादिगमनादिसदृशगमनाद्यनुकूलकृतिमानिति । ननु घटो न पश्यतीत्यत्र घटान्विताभावस्य दर्शने कर्मतासंसर्गेणान्वयवा रणाय धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंसर्गेण शाब्दबोधं प्रति विशेष्यतया विभक्त्यर्थोपस्थितेर्हेतुत्वम् । एवं च गज इव गच्छति, पिक इव रौतीत्यादौ नेवाद्यर्थस्य सादृश्यस्य धात्वर्थे ऽन्वयः संभवति । तस्माद्वजादिसादृश्यस्य गमनादिकर्तर्येवान्वयः स्वगमनादिसदृशगमनादिकर्तृत्वेन समानध
૧૮૭
। इत्थमेव चाख्यातवादशिरोमणिव्याख्यातृभिरपि सिद्धान्तितमिति चेत्, नैवम् । गज इव गच्छतीत्यत्र सादृश्यस्य विधेयतया प्रतीतेरपलापापत्तेः 1 गज इव यः पुरुषः स गच्छति, पुरुषो यः स गज इव गच्छतीति वाक्याभ्यां भिन्नप्रतीत्योरानुभविकत्वात् । एवं वनं गज इव गृहं देवदत्तो गच्छतीत्यादौ वनादेः सर्वथैवानन्वयापत्तेश्च । एवं बिम्बप्रतिबिम्बभूतस्य कारकमात्रस्यानन्वयो बोध्यः । तस्माद्रजनिरूपितसादृश्यप्रयोजकगमना
For Private And Personal Use Only
आह-निपातेति । उक्तोदाहरणे इवार्थसादृश्ये प्रकारताविशेष्यतान्यतरत्वसत्त्वादन्यतरभिन्नत्वनिवेशः। एवेनोक्तकार्यकारणभावव्यवच्छेदः । धात्वर्थमाह - धीति । तत्रैवेति । अरविन्दमिव भातीति वाक्य एवेत्यर्थः । तृतीयार्थां भिन्नं प्रयोज्यत्वम् । अन्वये कर्तृभानस्य तत्प्रयोज्यत्वाभावादाह - इवार्थ इति । कर्तयैवेति । एवेन लक्षणादिव्यवच्छेदः । समानधर्मेणेत्यस्य पूर्वत्रान्वयः । ननु तस्य तत्त्वेन प्रतीतावेव मानमत आह-गज वेति । अनन्वयो बोध्य इति । वस्तुतस्तु वनं गज इव रणभूमिं शूरो गच्छतीत्यादौ वनकर्मकगमनानुकूलकृतिमद्गजसदृशः समरभूमिकर्मकगमनानुकूलकृतिमा शूर इत्यादिबोधः । इवशब्देन च विम्बप्रतिबिम्बभावापन्नवन समरभूमि विशेषणकगमनमेव धर्मत्वेन बोध्यते । इवादयश्च धर्मत्वेनैव बोधका इति सर्वसंमतम् । गज इव यः पुरुषः स ग
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
काव्यमाला।
श्रय इत्येव गज इव गच्छतीत्यत्र धीः । कारकोपादाने तूपमानपदानां तत्कर्तृकक्रियायां लक्षणेत्येव साधु । न च प्रागुक्तकार्यकारणभावस्य धात्वर्थनिवृन्यादेर्व्यभिचारः । तस्यानङ्गीकारात् । अङ्गीकारे च तूष्णीमारात्ष्टथगित्याद्यर्थानां धात्वर्थान्वयोऽनुभवसिद्धोऽपलपनीयः स्यात् । कथं तर्हि घटो न पश्यतीत्यादौ घटाभावं पश्यतीति नान्वयबोधः । धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतासंसर्गेणान्वयबोधं प्रति नञ्जन्योपस्थितिमात्रस्य प्रतिबन्धकत्वकल्पनात् । धात्वर्थस्य नामार्थभिन्नत्वेन विशेषणं तु द्वयोस्तुल्यम् । तेन पाको न याग इत्यादौ न व्यभिचारः । इत्यलमप्रसक्तविचारेण । - अथारविन्दतुल्यो भातीत्यत्र कथं धीः । तुल्यपदार्थस्य निपातभिन्ननामार्थत्वेन धात्वर्थे भेदेनान्वयायोगात् । तादृशतुल्यत्वादेर्भानोद्देश्यतावच्छेदकत्वे भानमात्रविधेयतायां विवक्षितार्थाप्रतीतिः । न च तुल्यपदेन तुल्यत्वप्रकारको लक्षणयोपस्थापितो ह्यभेदेन धात्वर्थेऽन्वेष्यतीति वाच्यम् । क्रियाविशेषणत्वेनारविन्दतुल्यशब्दस्य नपुंसकत्वापत्तेरिति चेत्, व्याकरणस्य सिद्धानुवादकत्वेन स्तोकं पचतीत्यादिमात्रविषयत्वेन क्रियाव्ययविशेषणानां क्लीबतेष्यते इत्यस्योपपत्तेः । धातोरेव लक्षणया सकलार्थबोधकत्वभितरस्प तात्पर्यग्राहकतेत्यपि केचित् । अरविन्दवत्सुन्दरमित्यत्र च्छतीत्यत्र चेवेन गमनान्वित एव शूरत्वादिधर्मत्वेन बोध्यते । पुरुषो यः स गच्छतीत्यत्र तु गमनमेव तथेति तयोविशेषोऽप्युपपद्यत एव । उपमाया विधेयत्वं चैतदेव यद्विधेयस्यैव धर्मत्वेनोपमाबोधकबोध्यत्वमिति चिन्त्यमिदम् । वैयाकरणनये तु क्रिययोरेवोपमानोपमेयभावः । गच्छतीत्यस्य चावृत्योभयत्रान्वयः । गजादिपदानां स्वकर्तृकक्रियायां लक्षणा वेति दिक् । कारकोपेति । कळदीत्यर्थः । अङ्गीकारे दोषमाह-अझीति। उक्तदोषमुद्धरति-कथमिति । मात्रपदेनेतरनिपातव्यवच्छेदः । कथमिति । भेदेना. भेदेन वेत्यर्थः । तत्र नाद्य इत्याह-तुल्येति । उक्तव्युत्पत्तेरिति भावः । नाप्यभेदेने. त्याहन चेति । धात्वर्थे भानरूपे । उपपत्तेरिति । तथा चोक्तरीत्या अभेदेनैवान्वय इति भावः । मतान्तरमाह-धातोरेवेति । तथा च तस्य तादृशो विशिष्ट एवार्थ इति नोक्तव्युत्पत्त्यवसर इति भावः। इत्यपि केचिदिति । वस्तुतस्तु उपमाविधेयकबोधे तात्पर्य अरविन्दतुल्यमित्येव साध, न तु तुल्य इति । यदि तु विधेयस्य धर्मत्वेनोपमा. बोधकबाध्यत्वमेव विधेयत्वमुपमाया इति विभाव्यते तर्हि अरविन्दतुल्यविषयकं भानं भानविषयोऽरविन्दतुल्य इति वा बोधेऽपि भानस्य धर्मत्वेन भानादुपमाया अविधेयत्व.
For Private And Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
वतेः 'तेन तुल्यम्-' इति विहितस्य सादृश्यवदर्थकस्य सादृश्ये लक्षणा तस्य सुन्दरपदार्थैकदेशेन सुन्दरत्वेनान्वयादरविन्दमिव सुन्दरमित्यत्रेव बोधः । एकत्र शक्त्यापरत्र लक्षणया च सादृश्यप्रतिपादनाच्छ्रोत्यार्थी चेति ।
अरविन्दवन्मुखमित्यत्र त्वरविन्दनिरूपितसादृश्यवदभिन्नमिति । अरविन्दवत्सौन्दर्यमस्येत्यत्रारविन्दशब्दस्यारविन्दसौन्दर्यलाक्षणिकतयारविन्दसौन्दर्यनिरूपितसादृश्याधिकरणमेतत्संबन्धिसौन्दर्यमिति मुखारविन्दसौन्दर्ययोः सादृश्यबोधे शाब्दे तयोरभेदाध्यवसायादभिन्नधर्ममूला पश्चान्मुखारविन्दयोरपि सादृश्यधीः । अरविन्देन तुल्यमित्यत्र तृतीयार्थो निरूपितत्वम् । तस्य च सादृश्येऽन्वयादरविन्दनिरूपितसादृश्याश्रयाभिन्नमिति । तत्रैव सौन्दर्येणेति धर्मनिर्देशे तृतीयार्थः प्रयोज्यत्वम् । तेनारविन्दनिरूपितसौन्दर्यप्रयोज्यसादृश्यवदभिन्नमिति । अरविन्दमाननं च सममित्यत्र प्रथमं शब्दात्सादृश्यवदभिन्नमिति बोधे पश्चान्मानसी वैयानिकी वा परस्परनिरूपितसादृश्यस्य प्रतीतिः प्रसिद्धा निरूपितसादृश्यस्य वा । मेव । धर्मान्तरस्य तथा भाने तु अरविन्दतुल्य इत्येव प्रयोगः सर्वसंमतः । उपमाया उद्देश्यतावच्छेदकत्वं चेति ध्येयम् । अरविन्दमिव सुन्दरमित्यत्रेवेति । वस्तुतस्तु क्रियायास्तुल्यत्वे एव 'तेन तुल्यम्-' इति वतिविधानादरविन्दमिव सुन्दरमित्यादिवत्कथं बोध इति चिन्त्यमिदम् । अत एव ब्राह्मणवदधीते इत्यत्र ब्राह्मणकर्तृकाध्ययने ब्राह्मणपदस्य लक्षणेति महाभाष्यकारादयः । अरविन्दवत्सुन्दरं मुखमित्यत्र च भवति क्रियाध्याहार्यो । अरविन्दपदेन च सुन्दरारविन्दभवनं लक्ष्यते। तथा च सुन्दरारविन्दभवनसदृशं सुन्दरं मुखभवनमिति शाब्दे बोधे वृत्ते अरविन्दमुखयोः सौन्दर्यधर्मकृतसादृश्यं व्यञ्जनया बुध्यते । एवमरविन्दवन्मुखमित्यत्रापि अरविन्दभवनसदृशं मुखभवनमित्येव बोधो युक्त इति बोध्यम् । एकत्र अरविन्दमिवेत्यत्र । अपरत्र अरविन्दवदित्यत्र। सादृश्यक्दभित्रमितीति । बोध इत्यस्यानुषङ्गः । लक्षणा नेति भावः । अत एव तुः प्रयुक्तः । सौन्दयेलाक्षणिकतयति । तत्र तस्येवेति वतेरिवार्थ विहितत्वेन सादृश्यार्थकस्य तत्प्रयोजके लक्षणयारविन्दसादृश्यप्रयोजकमेतत्संबन्धिसौन्दर्यमिति बोधे उपपन्ने अर. विन्दपदस्यारविन्दसौन्दर्यलक्षणा किंफला किंप्रमाणा चेति चिन्त्यमिदम् । शाब्दे इति। वृत्ते इति शेषः । तयोमुखारविन्दसौन्दर्ययोः । अभेदेत्यस्य सादृश्यमलेत्यादिः । अमिन्नधर्मेति। सौन्दर्यरूपेत्यर्थः । सादृश्ये तुल्यपदार्थैकदेशे । अभिन्नमितीत्यस्य बोध इति शेषः । एवमग्रेऽपि । निरूपितप्रयोज्यते सादृश्यविशेषणे । अभिन्नमिति । अरविन्दमाननं चेति शेषः । परस्परेति। मुखसादृश्यस्य कमले, कमलसादृश्यस्य मुखे इत्यर्थः । विनिगमनाविरहादिति भावः । प्रसिद्धत्वस्य गमकत्वादाह-प्रसिद्धति।
For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९०
काव्यमाला।
बिम्बप्रतिबिम्बभावापन्ने तु
'कोमलातपशोणाभ्रसंध्याकालसहोदरः ।
कुङ्कुमालेपनो याति काषायवसनो यतिः ॥' इत्यादौ कुङ्कुमालेपनादिविशिष्टो यतिः कोमलातपादिविशिष्टसंध्याकालसदृशाभिन्न इति शक्त्या बोधे पश्चात्सादृश्यप्रयोजकधर्माकाङ्क्षायां श्रुतानां कोमलातपादीनामुपमानोपमेयविशेषणानां सादृश्यमूले तादात्म्याध्यवसाने साधारणत्वनिप्पत्तिः । कुङ्कुमालेपकषायवसनाभ्यामयं यतिरित्यत्र कुङ्कुमालेपकषायवसनयोरसाधारणयोरपि साधारणत्वज्ञानजननद्वारा कल्पनीयसादृश्यनिष्पत्तिप्रयोजकत्वात्प्रयोज्यत्वेन सादृश्येऽन्वयः । एकदेशान्वयः पुनरेषु पक्षेप्वगतिकतयाश्रीयत इत्युक्तमेव । सादृशस्य समानधर्मरूपत्वे तु अरविन्दसुन्दरं वदनमित्यत्र लक्षणयारविन्दवृत्तिसमानधर्मः प्रतीयते । तस्य चाभेदेन सुन्दरपदार्थैकदेशेन सुन्दरत्वेनान्वयः । अरविन्दमिव सुन्दरमित्यत्रारविन्दपदार्थ आधेयतया संसर्गेण इवपदार्थेन समानधर्मेणान्वेति । शेषं प्राग्वत् । सौन्दर्येणारविन्देन सममित्यत्र सौन्दर्योत्तरतृतीयया धान्येन धनीत्यत्रेव अभेदार्थिकया अन्यया च निरूपितत्वार्थिकया मौन्दर्याभिन्नमरविन्दनिरूपितं यत्सादृश्यं तद्वदभिन्नमिति धीः । क्याचारो धर्ममात्रम् । तस्य चोपमानपदेन लक्षणयोपस्थितं तन्निरूपितसादृश्यं प्रयोजकतासंसर्गेणाभेदेन वा विशेषणम् । विशेष्यं चाश्रयतयोपमेयम् । क्यजथाचार श्वानुरूपक्रियादिरिति दिक् ।
अरविन्देत्यर्थः । सादृश्यस्य वेति । प्रतीतिरित्यस्यानुषङ्गः। पन्ने विति । तदापनधर्मके वित्यर्थः । सहोदरशब्दार्थमाह-सदृशेति । तादात्म्येति । अभेदेत्यर्थः । लक्ष्यान्तरमाह-कुङ्कुमालेपेति।साधारणत्वेति। सादृश्यमूलाभेदाध्यवसानेनेत्यादिः। कल्पनीयेति । यतिरित्यस्य यतिरिवेत्यर्थः । अन्यत्र अन्यशब्दप्रयोगादिति भावः । लक्षणयेत्यस्यार विन्दपदस्येत्यादिः । शेषमिति । तस्य चाभेदेनेत्यादीत्यर्थः । अन्यया चेति । अरविन्दपदोत्तरया चेत्यर्थः । एकदेशान्वयः प्राग्वदेवेत्याह-सादृश्यमिति । लुप्तास्थले बोधमाह-क्यङथैति। सादृश्यस्यातिरिक्तत्वे आह-प्रयोजकतेति । धर्मरूपत्वे आह-अभेदेति । विशेष्यमिति । अस्य चेत्यादिः । तत्र सादृश्ये । ननु
For Private And Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१९१ तत्रेवादीनां द्योतकत्वमेव न वाचकत्वम् । निपातत्वादुपसर्गवत् । द्योतकत्वं च स्वसमभिव्याहृतपदान्तरेण शक्त्या लक्षणया वा तादृशार्थबोधने तात्पर्यग्राहकत्वेनोपयोगित्वमिति वैयाकरणाः । उपसर्गाणां द्योतकत्वमावश्यकम् । अन्यथा उपास्यते गुरुः, अनुभूयते मुखम, इत्यादी गुर्वादेतेनाभिधानं न स्यात् । धात्वर्थकर्मताविरहात् । इवादीनां तु वाचकत्वम् । बाधकाभावात् । प्रागुक्तहेतुस्त्वप्रयोजकत्वान्न साधकः । अन्यथा अव्ययत्वादिति हेतुना अव्ययमात्रस्यैव द्योतकतापत्तिरिति नैयायिकाः ।
अथास्याश्चमत्कारस्यापकर्षकं यावत्तत्सर्वमपि दोषः कविसमयप्रसिद्धिराहित्यम् । उपमानोपमेययोर्जात्या प्रमाणेन लिङ्गसंख्याभ्यां चाननुरूप्यम् । बिम्बप्रतिबिम्बभावे धर्माणामुपमानोपमेयगतानां न्यूनाधिक्यम् । अनुगामितायामनुपपद्यमानकालपुरुषविध्याद्यर्थकत्वम् । एवमादि । क्रमेण यथा'प्रफुल्लकलारनिभा मुखश्री रदच्छदः कुङ्कुमरम्यरागः । नितान्तशुद्धा तव तन्वि वाणी विभाति कर्पूरपरम्परेव ॥'
'मुनिः श्ववदयं भाति सततं पर्यटन्महीम् । विनिवृत्तक्रियाजातः श्वापि लोके शुकायते ॥' 'सरसि प्लवदाभाति जम्बीरं सुपचेलिमम् ।।
आदिकारणतोयौघ इव ब्रह्माण्डमण्डलम् ॥' न द्योतकत्वं साध्यम् । अनर्थकनिपातेषु निपातत्ववत्सु द्योतकत्वाभावेन व्यभिचारात् । अत एव द्योत्यं साध्यमाह- न वाचकत्वमिति । तथा च वाचकत्वाभावे साध्ये नो. क्तव्यभिचार इति भावः । नानार्थभिन्नस्थले शक्त्या बोधने तात्पर्यग्राहकानपेक्षणादाहलक्षणयेति । लेन लकारेण । अप्रयोजकत्वादिति । 'साक्षात्क्रियते दयिता' इत्यादौ लेन दयितादेरभिधानसिद्धये निपातत्वे द्योतकतावच्छेदकता कल्प्यत इति चिन्त्यमेतत् । द्योतकतापत्तिरिति । न चेष्टापत्तिः । स्वरादीनां स्वातन्त्र्येण प्रयोगा. नापत्तेरिति भावः । अस्याः प्रकृतोपमायाः । समयः संकेतः । अननुरूप्यमिति । नसमासोत्तरं भावप्रत्ययः । कालो भूतादिः । पुरुषः प्रथमादिः । प्रफल्लेति । अत्र कहारमुखयोः केसरौष्ठयोः कर्पूरवाण्योश्च तत्त्वं तत्संकेताप्रसिद्धम् । कहारः पुष्पविशेषः । रदानां दन्तानां छदोऽपवारकः पल्लवः । ओष्ठ इति यावत् । विनीति । विशेषेण निवृत्तक्रियासमूहः । अत्र श्वमुन्योः शुकशुनोश्च जात्याननुरूप्यम् । प्लवच्चञ्चलम् ।
For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
काव्यमाला।
एतस्यैव किंचित्पदव्यत्यासे ब्रह्माण्डस्योपमेयतायां चायमेव दोषः ।
'द्राक्षेव मधुरं वाक्यं चरितं कौमुदी यथा । सदैवाणि चेतांसि सुधेव सुमहात्मनाम् ॥' 'वामाकल्पितवामाङ्गो भासते भाललोचनः ।
शम्पया संपरिष्वक्तो जीमूत इव शारदः ॥' अत्र जीमूतगतो भालस्थलोचनप्रतिबिम्बो नोपात्त इति न्यूनत्वम् । 'भगवान्भवः' इति कृते तु बिम्बस्यैवाभावान्न प्रतिबिम्बापेक्षेति साधुः ।
'विष्णुवक्षःस्थितो भाति नितरां कौस्तुभो मणिः ।
अङ्गारक इवानेकतारके गगनाङ्गणे ॥' अत्र तारकाणां बिम्बाभावादाधिक्यम् । 'विष्णोर्वक्षसि मुक्तालिभासुरे भाति कौस्तुभः' इत्यर्धे तु न दोषः । अत्र विशेषणविशेषणयोर्मुक्तालितारकागणयोर्बिम्बप्रतिबिम्बभावेन वक्षोगगनाङ्गणयोर्विशेषणयोबिम्बप्रतिबिम्बभावः । तन्मूला चोपमा ।
'रराज राजराजस्य राजहंसः करस्थितः ।
हस्तनक्षत्रसंसक्त इव पूर्णी निशाकरः ॥' अत्र रराजेति प्रतिपाद्ये भूतकालावच्छिन्नक्रियाविशेषे राजहंसस्यान्वय इव न निशाकरस्येत्यनुपपद्यमानकालघटितत्वं धर्मस्य ।
यथा वा'रणाङ्गणे रावणवैरिणो विभोः शराः समन्ताद्वलिता विरेजिरे । निदाघमध्यंदिनवर्तिनोऽम्बरे सहस्रभानोः प्रखराः करा इव ।।'
सुपचेलिमं अत्यन्तपक्कम् । आदिकारणेति । 'अप एव ससर्जादौ तासु बीजमवासृजत्' इति श्रुतेस्तत्त्वमिति भावः । अत्र प्रमाणत आननुरूप्यम् । तयोरत्यन्तवैलक्षण्यात् । एतत्पोषकमपि सुषचेलिममिति विशेषणम् । पक्कस्यात्यन्तसूक्ष्मत्वात् । किंचि. स्पदेति । इवप्लवत्पदयोरित्यर्थः । 'सरसीव समाभाति प्लवब्रह्माण्डमण्डलम्' इति यावत् । अयमेव प्रमाणतोऽननुरूपताख्य एव। द्राक्षेति । अत्र पूर्वाध लिङ्गोदाहरणम् । उत्तरार्ध लिङ्गसंख्योदाहरणम् । वामेति । वामया पार्वत्या कल्पितं स्वीकृतं वामानं यस्य सः । शम्पया विद्युल्लतया । जोमूतो मेघः । राजराजस्य कुबेरस्य । न निशाकरस्यति । तदीयक्रियाविशेषस्य वर्तमानत्वात् । निशाकरस्याकल्पस्थायित्वात् । एवमग्रे. ऽपि बोध्यम् । धर्मस्य क्रियाविशेषस्य । अस्यैवोदाहरणान्तरमाह-यथा वेति । एव
For Private And Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१९३
यथा वा'आगतः पतिरितीरितं जनैः शृण्वती चकितमेत्य देहलीम् ।
कौमुदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणा ।' अत्र शृण्वन्तीति शत्रा प्रत्यायितेन श्रवणसमकालमेव प्रियाया देहल्यागमनमित्यर्थेनातिशयोक्त्यात्मना गमितस्त्वरातिशयस्तद्गतमौत्सुक्यातिशयं पुष्णाति । कौमुलुपमा तु तत्परिपोषितं प्रधानीभूतं प्रियगतमौत्सुक्यम् । चकितमित्यागमनविशेषणमपि वस्तुतो विचार्यमाणमीक्षणविशेषणीभवत्तस्यैवानुकूलम् । इति स्थिते भविष्यत्कालावच्छिन्नशिशिरीकरणस्य साधारणधर्मस्योपमेयान्वितत्वमिव नोपमानान्वितत्वम् ।
'एतावति महीपालमण्डलेऽवनिमण्डन ।
तारकापरिपन्मध्ये राजराजेव राजसे ॥ अत्र क्रियायां संबोध्योपमेयान्वय इव नोपमानान्वयः ।
'राजेव संभृतं को केदारमिव कर्षकः ।
भवन्तं त्रायतां नित्यं भयेभ्यो भगवान्भवः ॥' अत्र प्रार्थ्यमानत्राणकर्तृत्वमुपमेये भव इवोपमानयो राजकर्षकयोनास्ति । तयोस्त्राणकर्तृत्वस्य सिद्धत्वात् । यदि तु त्रायत इति प्रार्थनानिर्मुक्तं त्राणकर्तृत्वमुच्यते तदा धर्मस्य साधारणत्वान्न दोषः । अथ त्रायत इति प्रार्थ्यमानतानिर्मुक्तेऽपि त्राणकर्तृत्वेन साधारणत्वम् । प्रार्थ्यमानताया इव विधेयतानुवाद्यत्वयोर्भेदकत्वादिति चेत्, सत्यम् । इह हि मग्रेऽपि । विभोः श्रीरामस्य । वलितास्तीक्ष्णाः । ईरितमिति । वच इति शेषः । तगतं नायिकागतम् । तत्परिपोषितं नायिकागतौत्सुक्यातिशयपोषितम् । औत्सुक्यमिति । पुष्णातीत्यस्यानुषङ्गः । तस्यैवेक्षणस्यैव । नोपमानान्वितत्वमिति । तथा चानुपपद्यमानकालार्थकत्वं सर्वत्र बोध्यम् । एषु सर्वेषु भूतभविष्यतत्तत्पदार्थीनामेवोपमानीकरणेनान्वयस्य संभवोऽस्त्येवेति चिन्त्यान्येतान्युदाहरणानि । 'त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेभिं पितुराज्ञयेव' इत्यादि तूदाहर्तुमुचितम् । राजेव चन्द्र इव । नोपमानेति । तथा चानुपपद्यमानपुरुषार्थकत्वमत्र बोध्यम् । विध्यादीत्यादिपदग्राह्यप्रार्थनोदाहरणमाह-राजेवेति । नास्तीति । विशेषणाभावप्रयुक्त विशिटाभावोऽत्र । तदाह-तयोरिति। त्रायते इतीति । लडन्तमिति भावः । लडन्तपक्षे शङ्कते-अथेति । विधेयतेति । उपमाननिष्ठे तत्रानुवाद्यत्वमुपमेयनिष्ठे तत्र विधे
For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४
काव्यमाला। धर्मलोपरहितायामुपमायां धर्मवाचकशब्दप्रतिपाद्यैः प्रार्थना । भूतभविष्यद्वर्तमानत्वादिभिर्विशेषणैर्विशिष्टधर्मस्योपमानोपमेयसाधारण्याभावे प्रयोजकाभावान्नोपमानिष्पत्तिरिति निर्विवादम् । तत्र विधेयत्वानुवाद्यत्वाभ्यां शब्देनानिवेदिताभ्यां विषयताभ्यां विशिष्टस्य धर्मस्य यदि नास्ति साधारण्यं मास्तु नाम । नादासीनैर्विशेषणैर्विशिष्टस्य धर्मस्य साधारण्यमपेक्षितम् । अपि तु धर्मवाचकशब्दनिवेदितैः । एवं चन्द्रवत्सुन्दरं मुखमित्यत्रापि सुन्दरत्वस्योपमानेऽनुवाद्यत्वे उपमेये च विधेयत्वेऽपि न साधारण्यहानिः । ननु
'नीलाञ्चलेन संततमाननमाभाति हरिणनयनायाः ।
प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाङ्कः ॥' इत्यत्रोपमाने चन्द्रे योगमर्यादया भासमान एणरूपोऽङ्क आननरूपोपमेयविशेषणस्वबिम्बाभावात्कस्य प्रतिबिम्बः स्यात् । अत आधिक्यापा. दकतया दोषः । न च हरिणनयनसदृशस्य नयनस्योपादानात्तस्यैव बिम्बस्य प्रतिबिम्बः स्यादिति वाच्यम् । तादृशनयनस्य बहुव्रीद्यर्थकान्ताविशेषणतया आननाविशेषणत्वेन बिम्बत्वाभावादिति चेत्, मैवम् । शब्देनाननविशेषणत्वेन तादृशनयनस्याप्रतिपादनेऽपि कान्ताविशेषणत्वेनैवाननवृत्तित्वस्यापि प्रतिपत्तेः । नह्याननमविषयीकृत्य कान्तां विशेष्टमीष्टे नयनम् । अनुभवविरोधात् । तथापि समभिव्याहारविशेषमापन्नेन शब्देनाप्रतिपादयत्वमिति भावः । प्राच॑मानताया इवेत्यस्य प्रार्थ्यमानतातदभावयोरित्यर्थः । साधारण्याभावे सतीति शेषः । प्रयोजकेति । सादृश्यप्रयोजकसाधारणधर्माभावा दित्यर्थः । तत्र तस्यामुपमायाम् । उदासीनैः शब्दाप्रतिपाद्यैः । प्रसिद्धोदाहरणेऽप्येवमेवेत्याह-एवंमिति । तथा च तत्कृतभेदेऽपि तस्यानपेक्षितस्य तत्त्वसत्त्वालडन्तपाठे न दोष इत्युक्तं युक्तमेवेति भावः । प्रतीति । यमुनागभीरजलमध्ये प्रतिबिम्बितश्चन्द्र इवेत्यर्थः । योगेति । बहुव्रीहीत्यर्थः । स्वेति । अङ्केत्यर्थः । तादृशेति । हरिणनयनसदृशेत्यर्थः । एवमग्रेऽपि । ईष्टे इति । नयनस्याननमात्रसंबन्धित्वादिति भावः । तदाह-अनुभवेति । शङ्कते-तथापीति । तत्तित्वस्यार्थिकप्रतिपत्तावपीत्यर्थः । समभीति। नेयनरूपेत्यर्थः । शब्देन हरिणनयनशब्देन । अप्रतीति । नयने आननवृत्तित्वस्ये. त्यादिः । विषयता त्रिविधा-प्रकारता, विशेष्यता, सांसर्गिकी च । तत्राद्ययोरभावे
For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
नाच्छाब्दे बोधे नाननस्य नयनविशिष्टत्वेन विषयत्वमिति चेत्, संसर्गत्वे बाधकाभावात्स्वविशिष्टाननसंसर्गेण तादृशनयनस्य कान्ताविशेषणत्वात् । यथाकथंचिदुपमेयरत्तिताज्ञानस्य बिम्बताप्रयोजकत्वात् । यहा कान्ताविशेषणतया तादृशनयनयोः शाब्दे बोधे वृत्ते पश्चादाननस्य तद्विशेष्यतया वैयञ्जनिके मानसे वा बोधे बाधकाभावात् । एवं च तादृशवाक्यप्रयोज्ये ज्ञाने उपमेयविशेषणतया भातस्य तादृशनयनस्य बिम्बस्य सवात्तदर्थं च चन्द्रगतस्यैणरूपस्याङ्कस्य प्रतिबिम्बतयोपादानमावश्यकमेवेति नाधिक्यं दोषः । कविसमयसिद्धतया चमत्कारापकर्षकत्वाभावेन लिङ्गभेदोऽपि नात्र दोषः । एवं च कविसमयसिद्धतया प्रकारान्तरेण वा प्रागुक्तानां दोषाणां चमत्कारानपकर्षकत्वे नास्त्येव दोषत्वम् । यथा
'नवाङ्गनेवाङ्गणेऽपि गन्तुमेष प्रकम्पते ।
इयं सौराष्ट्रजा नारी महाभट इवोद्भटा ॥' । एवमन्यत्रापि ज्ञेयम् । शेषं स्मरणालंकारप्रकरणे विकल्पप्रकरणे च वक्ष्यामः । इत्युपमानिरूपणसंक्षेपः ॥
इति रसगङ्गाधरे उपमाप्रकरणम् । ऽप्यन्त्या सुवचेत्याह-संसर्गत्व इति । आननस्येत्यादिः । तदेवाह-स्वविशिष्टेति। नयनविशिष्टेत्यर्थः । नन्वेवमपि प्रकारतया विशेष्यतया वा उपमेयवृत्तित्वज्ञानस्य बिम्बताप्रयोजकत्वात्कथं बिम्बत्वमत आह--यथाकथंचिदिति । न तूक्तरीत्यैव । तथा च संसर्गतया तत्त्वसत्त्वात्तत्त्वं. सुवचम् । नन्वेवमप्यतिप्रसजापत्तिः । नहि संसर्गतया भासमानस्य शाब्दत्वमत आह-यद्वति । तादृशेति । हरिणीयत्वनायकीयत्वविशिप्टेत्यर्थः । तद्विशेष्येति । नयनविशेष्येत्यर्थः । तादृशेति । कान्ताविशेषणत्वेन नयनबो. धकेत्यर्थः । साक्षात्तज्जन्यत्वाभावादाह-प्रयोज्ये इति । ज्ञाने वैयअनिकादौ । तदर्थ तत्प्रतिबिम्बाकाहाशान्त्यर्थम् । एवमाधिक्यदोषं परिहृत्य नीलाञ्चलेनेत्यत्र लिङ्गभेददोषमुद्धरति-कवीति । एवमन्यत्राप्यपवादमाह-एवं चेति । तदभावसिद्धौ चेत्यर्थः । तत्रादौ कविसमयसिद्धतयेत्यस्य लक्ष्यमाह-यथेति । ननु किं तत्प्रकारान्तरं येनादुष्टत्वमत आह-शेषमिति । पारम (?)। प्रकृतमुपसंहरति—इत्युपमेति । चन्द्रालोके तु-'अनेकस्यार्थयुग्मस्य सादृश्ये स्तबकोपमा । श्रितोऽस्मि चरणौ विष्णो ङ्गस्तामरसौ यथा ॥ स्यात्संपूर्णोपमा यत्र द्वयोरपि विधेयता । पद्मानीव विनिद्राणि नेत्राण्यासन्नहर्मुखे ॥' इति भेदद्वयमधिकमुक्तम् ॥ इति रसगङ्गाधरमर्मप्रकाशे उपमाप्रकरणम् ॥
For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१९६
www. kobatirth.org
काव्यमाला |
अथास्या एव भेद उपमेयोपमा निरूप्यतेतृतीयसदृशव्यवच्छेद बुद्धिफलकवर्णनविषयीभूतं परस्परमुपमानोपमेयभावमापन्नयोरर्थयोः सादृश्यं सुन्दरमुपमेयोपमा ।
' तडिदिव तन्वी भवती भवतीवेयं तडिता गौरी' इत्यत्र परस्परोपमायामतिव्याप्तिवारणाय भूतान्तम् । अत्र तानवगौरिमभ्यामनुगामिध. मभ्यां प्रयोजितमुपमाद्वयं न तृतीयं सदृशं व्यवच्छिनत्ति । एकेन धर्मे - प्रतियोगि परानुयोगिके सादृश्ये निरूपितेऽपरप्रतियोगि कस्यैकानुयोगिकस्यापि तेन धर्मेण सादृश्यस्यार्थतः सिद्धतया शब्देन पुनस्तदुक्तिः स्वनैरर्थक्यपरिहाराय तृतीयसदृशव्यवच्छेदमाक्षिपति । प्रकृते चै - केन तानवरूपेण धर्मेण तडित्प्रतियोगिके कामिन्यनुयोगिके सादृश्ये निरूपिते तेनैव धर्मेण कामिनीप्रतियोगिकस्य तडिदनुयोगिकस्य सादृश्यस्यार्थतः सिद्धावपि न गौरत्वेन धर्मेण सिद्धिरिति तदर्थमुपात्तस्य द्वितीयसादृश्यवचनस्य न तृतीयसदृशव्यवच्छेदफलकत्वम् ।
'सदृशी तव तन्वि निर्मिता विधिना नेति समस्तसंमतम् । अथ चेन्निपुणं विभाव्यते मतिमारोहति कौमुदी मनाक् ॥' . इति तृतीयसदृशव्यवच्छेदफलकवर्णनविषये सादृश्येऽतिव्याप्तिवारणाय परस्परमिति । लिङ्गवचनभेदादिदुष्टसादृश्यवारणाय सुन्दरमिति ।
―――――
Acharya Shri Kailassagarsuri Gyanmandir
अथेयमुदाहियते
'कौमुदी भवती विभाति मे कातराक्षि भवतीव कौमुदी । अम्बुजेन तुलितं विलोचनं लोचनेन च तवाम्बुजं समम् ॥'
For Private And Personal Use Only
-
उपमाद्वयमिति । यतोऽतः पुनर्वर्ण्यमानमिति शेषः । एकेनेत्यस्य यत इत्यादिः । तदर्थे तेन धर्मेण सादृश्यसिद्ध्यर्थम् । सदृशीति । व्यक्तिरित्यर्थः । समस्तेति । सर्वे - त्यर्थः । विभाव्यते विभावनाविषयीक्रियते । मतिमिति । तदेत्यादिः । तदैवं बुद्ध्यारूढं भवति कौमुदी ईषत्तवसदृशीतीत्यर्थः । अत्र कौमुदीभिन्ने कान्तासादृश्य निषेधस्य शब्दतः कथनादोषत्सादृश्यस्य चन्द्रिकायां कथनात्तृतीयसदृशव्यवच्छेदः फलितस्तदाहतृतीयेति । परस्परमिति । कौमुदीसादृश्यो तेस्तत्राभाव इति भावः । दुष्टेति । घट इव पटः, पट इव घटः, इत्यादेस्तु सामान्यप्राप्तालंकारत्वेनैव निरास इति भावः । तवाम्बुजं सममिति । अत्र तुलितं सममित्युपमावाचकवैलक्षण्यं वक्ष्यमाणक्किए
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१९७
इयं च तावविविधा-उक्तधर्मा व्यक्तधर्मा च । उक्तधर्मा तावदनुगाम्यादिभिः प्रागुक्तैर्धर्मेरनेकधा । अनुगामी धर्मों यथा--- 'निखिले निगमकदम्बे लोकेष्वप्येष निर्विवादोऽर्थः ।
शिव इव गुरुर्गरीयान्गुरुरिव सोऽयं सदाशिवोऽपि तथा ॥' बिम्बप्रतिबिम्बभावमापन्नो यथा'रमणीयस्तवकयुता विलसितवक्षोजयुगलशालिन्यः ।
लतिका इव ता वनिता वनिता इव रेजिरे लतिकाः ॥ अत्र रमणीयत्वविलसितत्वाभ्यां विशेषणाभ्यां युतत्वशालित्वाभ्यां च विशेष्याभ्यां परस्परं वस्तुप्रतिवस्तुभावमापन्नाभ्यां पुटितः स्तबकस्तनरूपः परस्परं बिम्बप्रतिबिम्बभावापन्नो धर्मः । उपचरितो यथा'कुलिशमिव कठिनमसतां हृदयं जानीहि हृदयमिक कुलिशम् ।
प्रकृतिः सतां सुमधुरा सुधेव हि प्रकृतिरिव च सुधा ॥' केवलशब्दात्मको यथा--
'अविरतचिन्तो लोके लक इव पिशुनोऽत्र पिशुन इव च वृकः । . भारतमिव सच्चित्तं सच्चित्तमिवाथ भारतं सरूपम् ॥' व्यक्तधर्मो यथा'वारिधिराकाशसमो वारिधिसदृशस्तथाकाशः ।
सेतुरिव स्वर्गङ्गा स्वर्गङ्गेवान्तरा सेतुः ॥' अत्रापारत्वादिय॑ज्यमानो धर्मः । एषा सर्वापि स्फुटे वाक्यभेदे प्रपञ्चिता। क्यादिवैलक्षण्यमिव दुष्टमिति चिन्त्यमिदम् । व्यक्तेति । व्यञ्जितेत्यर्थः । निगमेति । वेदसमूहे इत्यर्थः । तथा गरीयान् । विशेषणेति । स्तबकवक्षोजयुगलेत्यादिः । एव. मग्रेऽपि । वस्त्विति । वस्तुतस्तयोरेकत्वादिति भावः । पुटितः संपुटितः । कुलिश. मिति । अत्र पृथिवीनिष्ठकठिनत्वस्य मनसि सुधानिष्ठमाधुर्यस्य प्रकृतावुपचारः । अवीति । निरन्तरं चित्तत्वस्य पिशुनवृत्तित्वेऽपि वृकावृत्तित्वात्सकृपत्वस्य साधुचित्तवृत्तित्वेऽपि भारतग्रन्थावृत्तित्वाच्छब्द एव समानोऽत्र धर्मः। न चोपचरितत्वं शक्यम् । एकनिष्ठस्यान्यत्रारोपे तत्त्वेऽपि प्रकृते तत्त्वेनाप्रसिद्धत्वात् । अन्तरा आकाशमध्ये, समुद्रमध्ये च । आदिना दुर्घटत्वं सेतुस्वर्गङ्गयोः संगृह्यते । व्यक्तपदार्थ सूचयितुमाह
For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
काव्यमाला। आर्थे तु वाक्यभेदे'अभिरामतासदनमम्बुजानने नयनद्वयं जनमनोहरं तव ।
इयति प्रपञ्चविषयेऽपि वैधसे तुलनामुदश्चति परस्परात्मना ॥ अत्र परस्परात्मना तुलनामुदश्चतीति संक्षिप्ताद्वाक्यादिदमेतेनैतच्चानेन तुलनामुदश्चती वाक्यद्वयं विचारकमुल्लसते । एवं पूर्णालुप्तादयोऽप्यस्या उपमाया इव प्रायशः सर्वेऽपि भेदाः संभवन्ति । ते चामुयैव दिशा सुबुद्विभिरुन्नेतुं शक्या इति नेह निरूप्यन्ते । चित्रमीमांसाहतस्तु प्राचीनं लक्षणमव्याप्त्यतिव्याप्त्यादिभिर्द्वषयित्वा
'अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा ।
एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥' इति स्वयं लक्षणमाहुः । अस्यार्थः संक्षेपेण सपदकत्यस्तदुक्तरीत्या सहृदयानां सौकर्यायोच्यते--अन्योन्येनेति । अन्योन्यप्रतियोगिकत्वविशिष्टाव्यक्त्या व्यञ्जनाव्यापारेण वृत्त्यन्तरेण शक्त्या वा बोध्या वेद्या एकधर्माश्रया एकधर्मप्रयोज्या या उपमा सा उपमेयोपमा मतेत्यन्वयः । अन्योन्येनेति विशेषणादिदं तच्च सममित्युभयविश्रान्तोपमाया निरासः । अत्रान्योन्यप्रतियोगिकत्वस्य व्यञ्जनव्यापारमात्रगम्यत्वेनोपमायाश्च शक्तिवेद्यतया परस्परनिरपेक्षेणैकेन व्यापारेणान्योन्यप्रतियोगिकत्वविशिष्टायास्तस्या अबोधनात्, परस्परनरपेक्षस्यात्र वाकारेणाभिधानात्, एकध
व्यज्येति । वाक्यभेद इति । उदाहियत इति शेषः । वैधसे विधानिर्मिते । उदञ्चति प्रकाशयति । परस्परात्मना परस्पररूपतया । इदं नयनम् । एतेन नयनेन । एवमग्रेऽपि । विचारकमिति । विवरणरूपमित्यर्थः । एवमनुगाम्यादिधर्मभेदवत् । अस्या उपमेयोपमायाः । असंभावितभेदवारणाय प्रायश इति । दिशा रीत्या। प्राचीनेति । 'उपमानोपमेयत्वं द्वयोः पर्यायतो यदि । उपमेयोपमा सा स्यादिविधैषा प्रकीर्तिता ॥' इत्यर्थः । अव्याप्तीति । 'तद्वल्गुना युगपदुन्मिषितेन तावत्' इत्यत्राव्याप्तिः । 'रजोभिः स्यन्दनोद्ध तैः' इत्यत्रातिव्याप्तिरिति भावः । तृतीयार्थः प्रतियोगित्वमित्याशयेनाहअन्योन्यप्रतीति । लक्षणाया असंभवादाह-शक्त्येति । इवादिसत्त्वे इति भावः । विश्रान्तेति । उभयत्र पर्यवसिता न श्रौती तस्यामित्यर्थः । शक्तीति । सप्तपदे (१). त्यादिः । ननु मिथो निरपेक्षत्वं न निविष्टमत आह-परस्परेति । अन्यथा पक्षान्त.
For Private And Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१९९ मश्रियेति विशेषणात् 'रजोभिभूरिव द्यौर्घनसंनिभैगजैश्च द्यौरिव भूः' इति कस्यचित्पद्यस्यार्थे परस्परोपमायां नातिव्याप्तिः । तत्रोपमा प्रयोजकधर्मैक्याभावाद्भूतलोपमानिकायां प्रयोजकस्य रजसामनुगामिधर्मस्य नभस्तलोपमानिकायां प्रयोजकस्य धनसदृशगजानां बिम्बप्रतिबिम्बभावापन्नधर्मस्य च भेदात् । व्यक्त्येति च विशेषणं व्यङ्गयोपमेयोपमासंग्रहाथमितीदमुपमेयोपमात्वप्रयोजकं लक्षणमिति, तन्न ।
'अहं लतायाः सदृशीत्यखर्व गौराङ्गि गर्व न कदापि यायाः ।
गवेषणेनालमिहापरेषामेषापि तुल्या तव तावदस्ति ॥'. अत्रान्योन्यप्रतियोगिकत्वविशिष्टाया उपमायास्तनुत्वादिरूपैकधर्माश्रयाया वृत्त्यन्तरेण शक्त्या बोधनादुपमेयोपमात्वापत्तेः । न चात्रान्योन्यप्रतियोगिकत्वमुपमायां न प्रतीयते । लतादिसंबन्धिसादृश्याश्रयत्वस्यैवास्मत्पदार्थेऽन्वयादिति वाच्यम् । 'मुखस्य सदृशश्चन्द्रश्चन्द्रस्य सदृशं मुखम्' इत्युपमेयोपमायामव्याप्तेः । नाहं लताया इत्यत्रोपमेयोपमा भवितुमर्हति । गर्वमात्रनिरासपरत्वेनोत्तरार्धोपमायास्तृतीयसदृशव्यवच्छेदाप्रतिपत्तेः । अत एव अन्यान्यपि तव सहशानि सन्त्येव तेषां गवेषणेन किं फलमित्येतदर्थकं गवेषणेनेत्युत्तरार्धे संगच्छते । तृतीयसब्रह्मचारिव्यवरकथनासंगतेरिति भावः । अथै इति । अर्थरूपायां तस्यामित्यर्थः । रजसामिति । प्रयोजकीभतरजोभिन्नानुगामिधर्मस्येत्यर्थः । समानविभक्तिकत्वस्येव समानवचनत्वस्याभेदान्वये न तन्त्रत्वमिति भावः । एवमग्रेऽपि । घनगजयोर्भेदेन साधारणत्वे कथमत आह-बिम्बति । प्रयोजकमिति । अनुगतानतिप्रसक्तलक्षणमात्रं तु 'सदृशस्य तृतीयस्य व्यवच्छेदाय यहयोः । अन्योन्येनोपमेयत्वमुपमेयोपमा मता ॥' इति द्रष्टव्यम् । अत्रान्योन्येनेति विशेषणम् 'अहमेव गुरुः सुदारुणानाम्' इति प्रतीपविशेषव्यावृत्त्यर्थमिति भावः । अहमिति । लतानुयोगिकसादृश्याश्रयाहमित्यर्थः । अखर्व महान्तम् । एषापीति । त्वदनुयोगिकसादृश्यप्रतियोगिकेत्यर्थः । अत्रेत्यस्य इतीत्यादिः । तनुत्वेत्यस्य अनुपात्तेत्यादिः । लतादीति । लताद्यनुयोगिकसादृश्यप्रतियोगिकत्वस्यैवेत्यर्थः । एवेन सादृश्यव्यवच्छेदः । सादृश्यादिपदानां धर्मिबोधकत्वात् । एवं च सादृश्यस्य तत्रान्वये इयं न तु तत्रेति भावः । मुखस्येति । अत्रापि सदृशपदसत्त्वेन तत्तुल्ययोगक्षेमत्वादिति भावः । नन्वेवं तथा दुर्वचमिति यथैतत्संग्रहस्तथाह-लताया इति । अस्यापि संग्रह इष्ट एवेति अतिव्याप्तिर्नात आह-नत्यमिति (?) । ननु तन्मात्रपरत्व एव कि बीजमत आह-अत एवेति । तत्परत्वेन तस्याः साफल्यादेवेत्यर्थः । उत्तरार्ध तदेकदेशः ।
For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
काव्यमाला।
च्छेदो ह्युपमेयोपमाजीवितमित्यालंकारिकसिद्धान्तात् । अन्यथा 'भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्' इत्यत्राप्युपमेयोपमात्वनिवारणप्रयासवैयापत्तेः । न च तृतीयसब्रह्मव्यवच्छेदफलकत्वमुपमाविशेषणं वाच्यम् । विशेषणान्तरवैयर्थ्यापत्तेः । विशेषणव्यावर्त्यानामाधुनिकविशेषणेनैव वारणात् । अन्योन्यप्रतियोगिकत्वविशिष्टा उपमा एकत्तिमात्रवेद्येत्यप्ययुक्तमेव । 'खमिव जलं जलमिव खम्' इत्यादौ खजलयोः सादृश्यान्वये प्रतियोगित्वस्य संसर्गत्वेन वृत्त्यविषयत्वात् । वृत्तिवेद्यानां पदार्थानां संसर्गों वृत्यवेद्य इत्यभ्युपगमात् । अन्यथा प्रकारतापत्तेः । यदप्यलंकारसर्वस्वकृतोक्तम् 'द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा । तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्शः । पर्यायो यौगपद्याभावः । अत एवात्र वाक्यभेदः' इति, तन्न । अत्र द्वयोरिति व्यर्थम् । एकस्योपमानोपमेयात्मकत्वे 'गगनं गगनाकारम्' इत्यादौ वाक्यभेदाभावेन पर्यायाभावादेवाप्रसक्तेः । यदि च स्फुटत्वार्थमुपमानोपमेयत्वयोग्यतासंपादकलिङ्गवचनभेदराहित्यप्रतिपत्त्यर्थ कविसमयप्रसिद्धिस्फोरणार्थ वा द्वयोरिति ग्रहणं स्यात्, अथापि प्रागुदीरिते 'अहं लतायाः सदृशीत्यखर्वम्' इति पद्ये प्रतिपाद्यायामुपमायामतिव्याप्तेः । . 'तहल्गुना युगपदुन्मिपितेन ताव
त्सद्यः परस्परतुलामधिरोहतां दे।। अन्यथा तुर्यचरणेनैवेष्टार्थलाभे मध्ये एतत्कथनानर्थक्यं स्पष्टमेवेति भावः । नन्वेवमपि तृतीयसदृशव्यवच्छेदप्रतीतावेवेयमित्यत्र कि विनिगमकमत आह-तृतीयति । सब्रह्मेति । सदृशेत्यर्थः । एवमग्रेऽपि बोध्यम् । 'सिद्धान्त' इति पाठः । ‘सिद्धान्तात्' इत्यपपाठः । अन्यथा तस्य तज्जीवितत्वानङ्गीकारे । वाच्यमिति । 'अहं लतायाः' इत्यत्रातिवारणायेदानीं वक्तव्यमित्यर्थः । विशेषणान्तरेति । अन्योन्येनेत्यादीत्यर्थः । नन्वेवं कथमुक्तदोषनिरासोऽत आह-विशेषणेति । विशेषणान्तरेत्यर्थः । तदुक्तमन्यदूषयति-अन्योन्येति । प्रतियोगित्वस्येति । अनुयोगित्वविशिष्टेत्यादिः । ननु तस्य वृत्तिविषयत्वं कुतो नेत्याह-वृत्तीति । उक्तग्रन्थस्यैकवृत्तिमात्रवेद्यत्वे न तात्पर्य किं तु वृत्तिद्वयवेद्यत्वाभावेद्यत्वाभावे । यद्वा तज्जन्यप्रतीतो यथाकथंचिद्भासमानत्वमेव तन्मात्रवेद्यत्वम् । अस्ति च 'खमिव जलम्' इत्यादौ । नास्ति च तत्रेति तनिरास इत्याशयेनादोषाच्चिन्त्यमिदम् । द्वयोरिति । द्वयोः पर्यायेण तस्मिन्सतीत्यर्थः । अत्रेत्यस्यात इत्यादिः । ननु स्फुटार्थत्वेऽन्येषामपि निवेशः कुतो नात आह-उपमेति । तद्भेदेऽपि तद्योग्यतायाः सत्त्वादाह-कवीति । इष्टापत्त्या नातिव्याप्तिरत आह-तदिति।
For Private And Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२०१
प्रस्पन्दमानपरुषेतरतारमन्त
श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥' इति कालिदासपये प्रतिपाद्यायामुपमानोपमेययोर्युगपदुपमेयोपमानभावायामुपमेयोपमायां वाक्यभेदाभावादव्याप्तेश्च । न चात्रापाततः शब्दक्येऽपि पर्यवसितो वाक्यभेदोऽस्तीति वाच्यम् । तथापि
'सविता विधवति विधुरपि सवितरति दिनन्ति यामिन्यः । ___ यामिनयन्ति दिनानि च सुखदुःखवशीकते मनसि ॥' इति कस्यचित्कवेः पद्ये परस्परोपमायामतिव्याप्तेः । न चेयमुपमेयोपमेति शक्यते वक्तुम् । सुखसमये दुःखदोऽपि सुखयति । दुःखसमये च सुखदोऽपि दुःखयति इत्येतावन्मात्रस्यार्थस्य विवक्षितत्वात्तृतीयसदृशव्यवच्छेदापत्तेः। एवम्- -
'रजोभिः स्यन्दनोडूतैर्गजैश्च घनसंनिभैः।
भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥' इत्यत्र परस्परोपमायामतिव्याप्तिः । सदृशान्तरव्यवच्छेदफलकत्वेन विशिष्यमाणे तु तस्मिन्नस्मदुक्त एव पर्यवसानम् ।
यच्च विमर्शिनीकारेणोक्तम् “स च वाक्यभेदः शाब्द आर्थश्च । तत्र शाब्दो यथा-'रजोभिः स्यन्दनोद्भूतैः' इत्यादि। अस्याश्चोपमानान्तरतिरस्कार एव फलम् । अत एवोपमेयेनोपमेत्यन्वर्थाभिधत्वम्" इति, तत्तुच्छम् । न हि 'रजोभिः स्यन्दनो तैः' इत्यत्रोपमानान्तरतिरस्कारः प्रतीयते । द्वयोरुपमयोरेकधर्मकत्वाभावात्, आद्याया उपमाया अनुगामिधर्मभावायामिति । उपमेयोपमानविकायामित्यर्थः । विधवतीत्यादीन्याचारविबन्तानि । यथासंख्यमन्वयः । न चेति । नहीत्यर्थः । तथा च लक्ष्यत्वान्नातिव्याप्तिरिति भावः । मात्रपदव्यवच्छेद्यं स्फुटत्वायाह--तृतीयेति । सदशान्तरोति । तृतीयसदृशेत्यर्थः । विशीति । विशेषविषयीकृते वित्यर्थः । तस्मिन्नुपमानोपमेयत्वे । अस्मदिति । तृतीयसदृशव्यवच्छेदेत्यायुक्त एवेत्यर्थः । विमर्शिनीति । अलंकारसर्वस्वव्याख्याकारेणेत्यर्थः । स चेति । मूलीयत्वेन प्रागुक्त इत्यर्थः । अस्या उपमेयोपमायाः । उपमानान्तरेति । तृतीयसदृशेत्यर्थः । हि यतः। अनुगामीति । रजोरूपेत्यर्थः । बिम्बेति ।
For Private And Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
काव्यमाला। प्रयोज्यत्वात्, द्वितीयायाश्च बिम्बप्रतिबिम्बभावापन्नधर्मप्रयोज्यत्वात् । यदपि 'परस्परमुपमानोपमेयत्वमुपमेयोपमा' इति लक्षणं विधाय 'सविता विधवति-' इत्यादि प्रागुक्तपद्यं रत्नाकरेणोदाहारि, तच्च तदीयेनैव ‘स चोपमानान्तरनिषेधार्थः' इति ग्रन्थेन विरुद्धम् । न ह्यस्मिन्पद्ये उपमानान्तरनिषेधः प्रतीयत इति प्रागेवावेदनात् । प्रतीयत एवेति चेत्, पुनरपि पृच्छ हृदयमेव स्वकीयम् । इत्यलं विवादेन ।
इयं चोपमेयोपमा यदि कस्याप्यर्थस्योत्कर्षाधायिका तदालंकारः । अन्यथा तु स्ववैचित्र्यमात्रपर्यवसितेति । एवमलंकारान्तरेऽपि ज्ञेयम् । अथ ध्वन्यमानेयमुदाहियते
'गाम्भीर्यणातिमात्रेण महिना परमेण च ।
राघवस्य द्वितीयोऽब्धिरम्बुधेश्चापि राघवः ॥ द्वितीयशब्दस्य सादृश्यविशिष्टे शक्त्यभावाद्व्यक्तिरेव । याद तु लक्षणा तदेदमुदाहरणम्- .
'सुधासमुद्रं तव रम्यवाणी वाचं क्षमाचन्द्र सुधासमुद्रः । - माधुर्यमध्यापयितुं दधाते खवैतरामान्तरगर्वमुद्राम् ॥'
अत्र वागादिकर्तृकस्य परस्पराध्यापनस्य बाधान्माधुर्यसंक्रान्तिविशेषस्य लक्षणया बुध्यमानस्य प्रयोजनं स्वप्रयोज्यान्योन्योपमानोपमेयभावः ।
अथ दोषाः
तत्र तावत्प्रागुक्ता यावन्त उपमाया दोषाः, अनुक्ताश्च विस्तृतिभयात्, घनगजेत्यर्थः । स च मिथ उपमानोपमेयभावश्च । हिः पूर्वहेतुत्वपरामर्शकः । इतीति । अस्य बोध्यमिति शेषः। अतिमात्रेणातिशयितेन। व्यक्तिरेव व्यञ्जनैव । इदं वक्ष्यमाणम् । सुधेति । राजानं प्रति कव्युक्तिः । हे क्षमाचन्द्र, तव रम्यवाणी सुधासमुद्रश्च सुधासमुद्रं माधुर्यमध्यापयितुं संक्रामयितुं तव वाचं माधुर्यमध्यापयितुं च महतीं मानसिकगर्वसूचकाकारव्यक्तिं धत्त इत्यर्थः । लक्षणयेत्यस्याध्यापयितुमिति यदेत्यादिः । एवं मुख्यार्थबाधतद्योगावुक्त्वा प्रयोजनवतीत्वमाह-प्रयोजनमिति। स्वं लक्षणा । तत्प्रतीतिश्च वैयानिक्येवेति भावः । दोषा इति । अस्या इत्यादि उच्यन्त इति शेषः । तत्र वक्तव्यानां तेषां मध्ये प्रागुपमायामुक्ता यावन्तो दोषा इत्यन्वयः । न तत्परिगणनर्मित्याह-अनुक्ताश्चेति । ननूपमादोषा अत्र कथमत आह-उपमात्वेति । अत ए
For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२०३ ते सर्वेऽप्युपमात्वाकान्तत्वादस्यामपि बोध्याः। अयं पुनरन्योऽपि दोषः-- यदेकोपमावैलक्षण्यमपरस्यामुपमायाम् । यथा-'कमलमिव वदनमस्या वदनेन समं तथा कमलम्' अत्र श्रोत्यार्थीकृतं वैलक्षण्यम् । 'कमलति वदनं तस्याः कमलं वदनायते जगति' विपक्यतमत्र वैलक्षण्यम् । एवमत्रैव 'पद्मं वदनायते' इति निर्माणे 'वक्रायते' इति वा उपमानोपमेयवाचकवैलक्षण्यम् । एवं प्रकारैरनेकैलक्षण्यं यदि सहृदयोद्वेजकं तदा दोषः ।
इति रसगङ्गाधरे उपमेयोपमाप्रकरणम् । अथानन्वयःद्वितीयसदृशव्यवच्छेदफलकवर्णनविषयीभूतं यदेकोपमानोपमेयकं सादृश्यं तदनन्वयः। स च कस्याप्युपस्कारत्वेऽलंकारः । अन्यथा तु शुद्धः । 'लोहितपीतैः कुसुमैरावृतमाभाति भूभृतः शिखरम् ।
दावज्वलनज्वालैः कदाचिदाकीर्णमिव समये ॥' अत्र लोहितपीतकुसुमावृतं भूभृतः शिखरं स्वेनैव कस्मिंश्चित्समये दावज्वालाकीर्णेनोपमीयते । इति तत्सादृश्यवारणाय भूतान्तम् ।। इदं वा प्रत्युदाहरणम् -- 'नखकिरणपरम्पराभिरामं किमपि पदाम्बुरुहद्वयं मुरारेः ।
अभिनवसुरदीर्घिकाप्रवाहप्रकरपरीतमिव स्फुटं चकासे ॥' अत्रापि नखकिरणपरम्पराभिरामं हरेः पदाम्बुजं स्वात्मनैव सुरदीर्घिकाप्रवाहप्रकरपरीतेनोपमीयते । संप्रति सुरदीर्घिकाप्रवाहेण भगवत्पादाम्बुरुहस्य संबन्धाभावात्सुरनिम्नगोत्पत्तिकालावच्छिन्नस्य तस्योपमानताववास्या एव भेद इति प्रतिज्ञावाक्ये उक्तम् । तदवृत्त्यत्र दोषमाह-अयं पुनरिति । इति वेति । कमलमित्यादिः । निर्माणे इत्यस्यानुषङ्गः । उपसंहरति-एवमिति । यदीत्यनेन तदभावेऽदुष्टत्वमेवेति सूचितम् ॥ इति रसगङ्गाधरमर्मप्रकाश उपमेयोपमाप्रकरणम् ॥
शुद्ध इति । स्ववैचित्र्यमात्रविश्रान्त इत्यर्थः । भूभृतः पर्वतस्य । कदाचित्समये तैराकीर्ण स्वमिवेत्यर्थः । स्फुटत्वाय प्रत्युदाहरणान्तरमाह-इदं वेति । अत एवाहअत्रापीति । स्वात्मनैव पदाम्बुजद्वयेनैव । संप्रति वर्णनकाले । तस्य प्रवाहस्य । अत्र
For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
काव्यमाला।
गमायाभिनवेति प्रवाहविशेषणम् । नात्र सादृश्यवर्णनस्य फलं द्वितीयसब्रह्मचारिव्यवच्छेदः तस्याप्रतिपत्तेः ।
स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः ।
सुधांशुबिम्बतो मेरौ लम्बमान इवोरगः ॥' इति कल्पितोपमानिकायामुपमायामतिप्रसङ्गवारणायैकोपमानोपमेयकमिति । अत्रासत उपमानस्य कल्पनया सदुपमानं नास्तीति द्वितीयसद्दशव्यवच्छेदस्यास्ति प्रतीतिः। उदाहरणममृत(पीयूष)लहर्याख्ये मदीये गङ्गास्तवे
कृतक्षुद्राघौघानथ सपदि संतप्तमनसः
समुद्वर्तु सन्ति त्रिभुवनतले तीर्थनिवहाः । अपि प्रायश्चित्तप्रसरणपथातीतचरिता
नरानूरीकर्तु त्वमिव जननि त्वं विजयसे ।' यथा वा
'इयति प्रपञ्चविषये तीर्थानि कियन्ति सन्ति पुण्यानि । ___ परमार्थतो विचारे देवी गङ्गा तु गङ्गेव ॥' पूर्वपद्ये वाच्योऽनुगामी धर्मः । इह तु व्यङ्ग्य इति विशेषः । तुशब्दोऽयं तीर्थान्तरेभ्यो वैलक्षण्यं प्रतिपादयंस्तत्प्रयोजकं भगवद्वासुदेवाप्रत्युदाहरणद्वये । द्वितीयसब्रह्मेति । द्वितीयसदृशेत्यर्थः । अनन्वय्यर्थनिबन्धनवशाद्धि द्वितीयसदृशव्यवच्छेदः फलति । नहि धर्मान्तरावच्छिन्नस्वस्य धर्मान्तरावच्छिन्नस्वेन साधर्म्यमनन्वयि । अत एवोपमेयतावच्छेदकोपमानतावच्छेदकयोर्भेद एव साधर्म्यघटकः । न तु धर्मिणोः इत्युक्तं प्राक् । एवं चानन्वय्यर्थनिबन्धनप्रयोज्यद्वितीयसदृशव्यवच्छेदफलकसादृश्यवर्णनमनन्वयः । एकोपमानोपमेयकत्वविशेषणं चात्रैवार्थे तात्पर्यग्राहकम् । अन्यथा धार्मभेदादेव तत्र वारणेन तद्वैयर्थ्य स्पष्टमेवेति भावः । तदाह-त. स्येति । तद्वयवच्छेदस्येत्यर्थः । असत इति। तथा च धर्मिभेदः स्पष्टोऽत्र । नास्तीति। अन्यथा तावत्पर्यन्तधावनं व्यर्थ स्यादिति भावः । अथ अल्पपापकरणानन्तरम् । सपदि तत्कालमेव । न तु कालान्तरे । प्राक्तनसुकृतोद्रेकादिति भावः । अपीति । प्रायश्चित्तप्राप्तिविषयत्वातिक्रान्ताचरणकानपीत्यर्थः । नरानिति पूर्वार्धेऽपि विशेष्यम् । निष्पापपत्वेन स्वीकर्तुम् । जननि गङ्गे । उदाहरणान्तरदाने बीजमाह--पूर्वेति । विजयसे इति वाच्यः सर्वोत्कर्षरूप इत्यर्थः । इह तु इति । स एवानुगामीति शेषः। पूर्ववदत्र स्पष्टवैलक्षण्याभावादाह-तुशब्दोऽयमिति । 'तुशब्दोऽत्र' इति पाठान्तरम् ।रतीति ।
For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२०५ त्मकत्वं धर्म श्रीगङ्गायां व्यनक्ति । उभयत्रापि श्रीगङ्गाविषयकरत्युपस्कारकत्वादलंकारोऽयम् । बिम्बप्रतिबिम्बभावापन्नो धर्मस्त्वत्र नास्ति । तस्मिंश्च सति किंचिद्धर्मावच्छिन्नेन स्वेन सादृश्यस्य धर्मान्तरावच्छिन्ने स्वस्मिन्नन्वये बाधकाभावात्सदृशान्तरव्यवच्छेदापत्तेश्चानन्वय एव नस्यात् । स च पूर्णो लुप्तश्चेति तावविविधः । पूर्णस्तूपमावत्षड्विधोऽपि संभवति । यथा
'गङ्गा हृद्या यथा गङ्गा गङ्गा गङ्गेव पावनी । हरिणा सदृशो बन्धुर्हरितुल्यः परो हरिः ॥
गुरुवद्गुरुराराध्यो गुरुवगौरवं गुरोः ॥' लुप्तेऽपि धर्मलुप्तः पञ्चविधोऽपि संभवति । प्रागुक्ते सार्धपद्ये धर्मवाचकपदमपहाय पदान्तरदाने तथा वाचकलुप्तः ।
'रामायमाणः श्रीरामः सीता सीतामनोहरा ।
ममान्तःकरणे नित्यं विहरेतां जगद्गुरू ॥' . इत्यत्र क्यङ्समासयोः।
कविनिष्ठेत्यादिः । अत्र उभयत्र । बाधकामावादिति । चो वाक्यालंकारे, हेतौ वा । सदृशान्तरव्यवच्छेदाप्रतिपत्तावन्वये बाधकाभावे हि हेतुः । स च अनन्वयश्च । षडि. धोऽपीति । श्रौतार्थयोस्तयोः प्रत्येकं वाक्यसमासतद्धितगामित्वेनेति भावः । गङ्गेति । अत्राद्यपादे श्रौतो वाक्यगः पूर्णः । द्वितीयपादे समासगः श्रौत: पूर्णः । तृतीयपादे आर्थो वाक्यगः पूर्णः । तुर्यपादे समासग आर्थः पूर्णः । पञ्चमपादे 'तेन तुल्यं-' इति वतेः सत्त्वादार्थः स तद्धितगः पूर्णः । षष्ठपादे 'तत्र तस्येव' इति वतेः सत्त्वाच्छौतस्तद्धितगः पूर्ण इति ध्येयम् । 'लुप्तेष्वपि' इति पाठः । भेदेष्विति शेषः । निर्धारणे एकवचनासंगतः।पञ्चवि. धोऽऽपीति।श्रीतो वाक्यगः, आर्थो वाक्यगः, श्रौतः समासगः, श्रौतः समासगः, आर्थः समासगः, आर्थस्तद्धितगश्चेत्येवमित्यर्थः । पूर्व तेषामेवोदाहृतत्वादिति भावः । पदान्तरेति । 'गङ्गा राजन्यथा गङ्गा गङ्गा गङ्गेव सर्वदा । हरिणा सदृशो विष्णुर्विष्णुतुल्यः सदा हरिः । गुरुवद्गुरुरास्तेऽस्मिन्मण्डले गुरुवद्गुरोः॥' इति न्यास इत्यर्थः। कर्मणमुलगतमुदा
For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
.. काव्यमाला।
एवम्'लङ्कापुरादतितरां कुपितः फणीव
निर्गत्य जातु पृतनापतिभिः परीतः । क्रुद्धं रणे सपदि दाशरथिं दशास्यः
___ संरब्धदाशरथिदर्शमहो ददर्श ॥' एवं कर्तृणमुलादावप्यूह्यम् ।
'अम्बरत्यम्बरं यद्वत्समुद्रोऽपि समुद्रति ।
विक्रमार्कमहीपाल तथा त्वं विक्रमार्कसि ॥ अत्र वाक्यार्थावयवेष्वनन्वयेषु धर्मवाचकयोलोपः । मुखवाक्यार्थस्त्वनन्वयफलेन निरुपमत्वेन समानधर्मेण प्रयोजितो मालोपमैव । एषा च ज्ञानसौकर्यायात्रैव निरूपिता।
'एतावति प्रपञ्चेऽस्मिन्सदेवासुरमानुषे ।
केनोपमीयतां तज्जै रामो रामपराक्रमः ॥' अत्र वाचकधर्मोपमानां लोपः । अत्र चोपमानलुप्तादयोऽन्ये भेदा असंभवादहृद्यत्वाच्च नोदाहृताः । ___ यत्तु-"तेन तदेकदेशेनावसितभेदेन वा उपमानतया कल्पितेन सादृश्यमनन्वयः। उपमेयेनैवोपमानतया कल्पितेनोपमेयस्यामुखावभासमानसाधापादनमेकोऽनन्वयः। उपमेयैकदेशस्य तथैवोपमानताकल्पनमपरः। उपमेयस्यैव प्रतिबिम्बत्वादिनाभेदेनावसितस्य तत्वकल्पनं तृतीयः।
आद्यो यथा-'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापः' इत्यादि । हरति-एवं लङ्केति। ईदृशो दशास्यो रणे क्रुद्धं सपदि दाशरथि संरब्धदाशरथितुल्यं ददर्शेत्यर्थः । संरब्धदाशरथिरिव दृश्यते इति कर्मणि णमुल् । धर्मवाचकलुप्तमुदाहरति-- अम्बेति । अत्र सर्वत्राचारे क्विप् । अम्बरमाकाशम् । ननु कोऽसौ वाक्यार्थी यदवयवास्त्रयोऽनन्वया अत आह-मुख इति । मुख्य इत्यर्थः । 'मुख्य' इति पाठस्तूचितः । ननु मालोपमा नैवास्ति पूर्वमनुक्तत्वादत आह-एषा चेति । मालोपमा चेत्यर्थः । अत्रैव अनन्वयप्रकरण एव । वाचकधर्मोपमानलुप्तमुदाहरति-एतेति । तज्ज्ञै रामस्वरूपज्ञैः । न्यूनतां निराचष्टे-अत्र चेति। संभवेऽप्याह-अहोति। तेनेत्यस्यार्थमाह-उपेति। अमुखेति । अमुख्येत्यर्थः । तदेकदेशेनेत्यस्यार्थमाह-उपेति । तथैव उपमेयवत् । अवसितभेदेनेत्यस्यार्थमाह-उपेति । प्रतिबिम्बोऽत्र लौकिकः । अवसितस्य निश्चि.
For Private And Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२०७
द्वितीयो यथा
'एतावति प्रपञ्चे सुन्दरमहिलासहस्त्रभरितेऽपि ।
अनुहरति सुभग तस्या वामार्ध दक्षिणार्धस्य ॥' तृतीयो यथा
गन्धेन सिन्धुरधुरंधरवक्रमैत्री___ मैरावणप्रभृतयोऽपि न शिक्षितास्ते । तत्त्वं कथं त्रिनयनाचलरत्नभित्ति
स्वीयप्रतिच्छविषु यूथपतित्वमेषि ॥' एषूपमानान्तरविरहस्त्रिप्वपि भेदेषु गम्यते । इत्यनन्वयस्त्रिविधः ।" इति रत्नाकरेणोक्तम् । तन्न । उपमानान्तरविरहप्रतीतिमात्रादेवानन्वयत्वे 'स्तनाभोगे पतन्भाति-' इत्यत्रोपदर्शितायाः कल्पितोपमाया अपि तथात्वापत्तेः । यद्यर्थातिशयोक्तावतिप्रसक्तेश्च । तादृशप्रतीतिफलकैकोपमानोपमेयकसादृश्यस्य तत्त्वे पुनः कथं नाम वामार्धदक्षिणार्धयोभिन्नयोः सादृश्ये तद्भेदत्वोपन्यासः । न च स तदेकदेशस्तत्प्रतिबिम्बश्वेत्येतदन्यतमप्रतियोगिकसादृश्यमनन्वयः इति क्वातिव्याप्तिरव्याप्तिति वाच्यम् । नास्त्यन्वयोऽस्येति योगार्थविरहेण तदेकदेशसादृश्यस्यानन्वयपदार्थत्वासंतस्य । तत्त्वेति । उपमानत्वेत्यर्थः । महिला स्त्री । दक्षिणार्धस्येति कर्मणः शेषत्वविवक्षायां षष्ठी । अत्रोपमेयं समुदिता नायिका । गन्धेनेति । हे सिन्धुरधुरंधरवक्र गजश्रेष्ठमुख गणपते, ऐरावणप्रभृतयोऽप्यैरावतादयोऽपि ते त्वया गन्धेन सुगन्धेन मैत्रीं न शिक्षिताः । यद्वा गन्धेन संबन्धेन लेशेन गर्वेण वा । अपिर्गन्धपदोत्तरं मैत्रीपदोत्तरं वा योज्यः । तत्तस्मात्कारणात्त्वं कैलासाचलरत्नखचितभित्त्याधारकस्वप्रतिबिम्बेषु यूथपतित्वं दिग्गजत्वं कथमेषीत्यर्थः । उपमानान्तरविरह इति । तत्राये स्फुट एव । द्वितीये तदवयवस्य तदवयवान्तरोपमया तस्यां निरुपमत्वं सिद्ध्यति । अन्यथा तत्सदृशपदार्थांवयवेनैवैतदवयवस्योपमां दद्यात् । तृतीयेऽपि प्रतिबिम्बस्योपमानत्वकल्पनयान्यस्योपमानस्याभावो गम्यते। तथात्वेति । अनन्वयत्वेत्यर्थः । इटापत्तावाह-यदा?ति । तादृशेति । उपमानान्तरविरहेत्यर्थः । सादृश्यविशेषणमुभयत्र । तत्त्वे अनन्वयत्वे । पुनःशब्दस्तुशब्दार्थे । भिन्नयोरिति । तथा च द्वितीयविशेषणाभाव इति भावः। तद्भेदत्वेति । अनन्वयविशेषत्वेत्यर्थः । सेति । उपमेयेत्यर्थः । इदानीमाद्यविशेषणं न देयम् । तद्विरहस्य नान्तरीयकत्वादिति भावः । विरहेणेति । अबाधितत्वादिति भावः।
For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
काव्यमाला। भवात् । अपि चानन्वये 'गगनं गगनाकारम्' इत्यादावुपमेयस्यैवोपमानत्वेनोपन्यासादुपमेयातिरिक्तोपमानविरहप्रतीतिद्वारा निरुपमत्वमुपमेयगतं सिद्ध्यति । अत्र च वामार्धस्योपमेयस्य दक्षिणार्धरूपोपमानकथनेन निरुपमत्वं विरुद्धमेव । कान्तागतनिरुपमत्वप्रत्ययस्तु नानन्वयस्य फलं भवितुमर्हति । तस्या अनुपमेयत्वात् । __ यदपि चालंकारसर्वस्वकृता 'अनन्वयध्वनित्वमत्र भविष्यति । अन्यथालंकारध्वनेविषयापहारः स्यात्' इत्युक्तम, तदपि तुच्छम् । अस्य ह्युपमाननिषेधफलकमभिन्नोपमानोपमेयकं सादृश्यं स्वरूपमित्युक्तम् । प्रकृते च वामार्धदक्षिणार्धयोस्तद्वाधितमित्युक्तमेव । कान्तायाः पुनरुपमाननिषेधस्य व्यङ्गचत्वेऽपि अभिन्नोपमानोपमेयकसादृश्यस्य स्वरूपस्याप्रत्ययात् । नहि निरुपमत्वप्रतीतिषु सर्वास्वभिन्नोपमानोपमेयकसादृश्यप्रतीतिपूर्वकत्वमिति नियमोऽस्ति । कल्पितोपमातिशयोक्त्योरसमालंकारध्वनौ च व्यभिचारात् । तस्मान्नास्त्येवात्रानन्वयगन्धोऽपि । यच्च "अयमनन्वयो व्यङ्गयोऽप्यस्ति । यथा
'अद्य या मम गोविन्द जाता त्वयि गृहागते ।
कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ॥' अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवप्रीतिबहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत् नान्येन, इत्युक्तिभङ्गचा
ननु रूढमेवानन्वयपदमत आह-अपि चेति । अत्र द्वितीयभेदे च । निरुपमत्वं एyपमानान्तरेत्यादिना प्रतिपादितम् । ननु तेन ग्रन्थेन कान्तायां निरुपमत्वं प्रतिपादितं न तत्रात आह—कान्तेति । अनन्वयध्वनित्वमिति।तद्वामार्धे दक्षिणार्धमनुहरतीत्युच्यतां सोऽनुहरतीति व्यङ्गयमिति भावः । एवं चास्य हीत्यादिना किमुच्यते तद्विचार्य सहृदयैः। ईदृशव्यायव्यञ्जने उपायाभाव इत्यपि कश्चित् । अत्र द्वितीयलक्ष्ये । हि यतः । अस्यानन्वयस्येदं स्वरूपमित्युक्तमतस्तत्तुच्छमित्यर्थः । तदुपपादयति-प्रकृते चेति । तत् अभिन्नोपमानोपमेयकं सादृश्यं तयोर्भेदात् । ननु कान्तागतनिरुपमत्वस्य व्यङ्गयत्वेन तस्या एवोपमेयाया उपमानत्वकल्पनेन तादृशसादृश्यप्रतीतिस्तयोस्तस्य बाधितत्वेऽप्यस्त्येवात आह-कोन्ताया इति । सादृश्येऽप्यन्वयः । कल्पितोपेति । स्तनाभोगे इत्यत्रेत्यर्थः । अतीति । यद्यपीतीत्यर्थः । उपसंहरति-तस्मादिति । सैव तदागमन
For Private And Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२०९
त्वदागमनप्रभवप्रीतेः सैव सदृशी न वितरप्रभवा इति व्यज्यते" इत्यप्पदीक्षितैरभिहितम्, तदपि न । अमुष्यास्त्वदागमनप्रभवायाः प्रीतेारान्तरत्वदागमनप्रभवा प्रीतिः सदृशीति प्रत्ययस्य सर्वजनसिद्धतया श्रीकृष्णागमनजन्यप्रीतिसामान्यावयवयोईयोः प्रीतिव्यक्त्योः सादृश्यस्याबाधितत्वाद्योगार्थे भावेनानन्वय एव नायं भवितुमर्हति । 'स्वस्मिन्सादृश्यस्यान्वयाभावादनन्वयः' इत्युपमाप्रकरणे स्वयमेवाभिधानात् । उपमेयस्य प्रीतिव्यक्तिविशेषस्य सदृशान्तरव्यवच्छेदे बाधात्तादशप्रीतिसामान्यस्य वावयविनो निरुपमतया प्रतीयमानस्यानुपमानस्यानुपमेयत्वात्पूर्वोदाहरणतुल्यमेवैतत् । क्वचिदवयवयोरुपमाप्यवयविगतनिरुपमत्वव्यञ्जिकेति स्थिते सामान्यस्य श्रीकृष्णागमनजन्यप्रीतेः सैव सदृशीति मध्ये स्वसादृश्यप्रत्ययकल्पनं पुनर्न सहृदयहृदयमारोढमीष्टे । रत्नाकरोक्तस्यैवानन्वयप्रकारस्यात्र व्यङ्गचतेत्यपि न युक्तम् । तस्य प्रागेव दूषितत्वात् । प्रकते वाच्यत्वात्स्वयमनन्वयप्रकरणे तस्य प्रतिपादनविरहाच्च । इदं पुनरनन्वयध्वन्युदाहरणम्
'पृष्टाः खलु परपुष्टाः परितो दृष्टाश्च विटपिनः सर्वे ।
भेदेन भुवि न पेदे साधर्म्य ते रसाल मधुपेन ॥ अत्र भेदेनेत्युक्त्याभेदे सादृश्यमनन्वयात्मकं तु पेदे इति ध्वन्यते । प्रभवैव । अमुष्या इति । यत इत्यादिः । व्यक्त्योदितभेदेनेति शेषः । योगार्थेति । अनन्वयपदयोगार्थेत्यर्थः। ननु रूढमेवानन्वयपदमभिमतमत आह--स्वस्मिन्निति। व्यवच्छेदे बाधादिति । तस्य व्यवच्छेदकरणेऽसामादित्यर्थः । कालान्तरस्थप्रीतिव्यक्तिविशेषस्य सदृशस्य सत्त्वादिति भावः । तादृशेति । श्रीकृष्णागमनजन्येत्यर्थः । पूर्वोदाहरेति । अनहरतीत्युदाहरणेत्यर्थः । नन्ववयविनो निरुपमत्वप्रतीतिवन्मध्ये सादृश्यप्रतीतिरप्यस्तु अत आह-वचिदिति । पूर्वोदाहरण इत्यर्थः । सैव श्रीकृष्णागमनजन्यप्रीतिरेव । मध्ये वाच्यव्यङ्ग्यार्थयोर्मध्ये । ननक्तरीत्या न व्यङ्गयत्वं किं तु रत्ना. करोक्तरीत्यति नोक्तदोषोऽत आह-रत्नेति । तस्य प्रकारस्य प्रकृतेऽवाच्यत्वात् । अ. वाच्यत्वे हेतुः प्रागेव दूषितत्वादिति । ननु त्वया दूषितोऽपि न मया दूषितस्तत्राहस्वयमिति । 'अन्यथालंकारध्वनर्विषयापहारः स्यात्' । इति रत्नाकरोक्ति खण्डयितु. माह-इदं पुनरिति । परपुष्टाः कोकिलाः । हे आम्रवृक्ष, तव भुवि भेदेन सादृश्यं भ्र.
For Private And Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
काव्यमाला।
यथा वा'नगेभ्यो यान्तीनां कथय तटिनीनां कतमया
पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे । कया वा श्रीभर्तुः पदमितरयाक्षालि सलिलै
स्तुलालेशो यस्यां तव जननि दीयेत कविभिः ॥' अत्र कया वा त्वदितरया श्रीभर्तुः पदं सलिलैरक्षालि यस्यामितरस्यां कविभिस्तव तुलालेशोऽपि दीयेतेत्यर्थेन त्वयि पुनः सलिलक्षालितश्रीरमणचरणायां तव तुला दीयेतेवेत्यर्थोऽनन्वयात्मा श्रीगङ्गागतनिरुपमत्वपर्यवसायी इतरपदमहिना व्यज्यते ॥
इति रसगङ्गाधरेऽनन्वयप्रकरणम् । सर्वथैवोपमानिषेधोऽसमाख्योऽलंकारः ।
अयं चानन्वये व्यङ्गयोऽपि तच्चमत्कारानुगुणतया रूपकदीपकादावुपमेव न एथगलंकारव्यपदेशं भजते । वाच्यतायां तु स्वातन्त्र्येण चमत्कारितया पृथग्व्यपदेशभाक् । यथा'भूमीनाथ शहाबदीन भवतस्तुल्यो गुणानां गणै
रेतद्भूतभवप्रपञ्चविषये नास्तीति किं ब्रूमहे । धाता नूतनकारणैर्यदि पुनः सृष्टिं नवां भावये
न्न स्यादेव तथापि तावकतुलालेशं दधानो नरः ॥' मरेण न पेदे । न गृहीतमित्यर्थः । नगेभ्यः पर्वतेभ्यः । कपर्दो जटाजूट: । अत्र पूर्वार्धे तादृशव्यञ्जकाभावादाह-अत्र कया वेति । पूर्वोदाहरणे भेदेनेत्युक्त्या तादृशव्यङ्गयस्य स्फुटं प्रतीतिः । अत्र वस्फुटा । अत एवोदाहरणान्तरदानं(तर) ध्वनयन्नाह-इतरपदमहिनेति ॥ इति रसगङ्गाधरमर्मप्रकाशेऽनन्वयप्रकरणम् ।।
उपमानिषेध इति । साक्षात्परम्परया वेत्यादिः । तच्चमत्कारेति । तनिषेधकृ. तचमत्कारपरिपोषकतयेत्यर्थः । पृथगिति । पृथगलंकारेत्यर्थः । शहाबदोनेति राज्ञो नाम । एतद्भतेति । अनेन कारणान्तरस्याप्यादौ निर्माणेन तेनाग्रिमसृष्टिकरणयोग्यता सूचिता । अन्यथा तेषामेवासत्त्वादसंगतिः स्पष्टैव । तदाह-नूननेति । प्रसिद्धपश्चभूतातिरिक्तस्वनिर्मितकारणैरित्यर्थः । अत एव सृष्टेरपि न तत्त्वम् । न स्यादेवेत्यर्थ इतीति
For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२११
यथा वा'भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः ।
न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम् ॥' राजस्तुत्युत्कर्षकत्वादत्रासमालंकारः । आत्यन्तिकः क्वाचित्कश्च सहशनिषेधोऽसमोपमानलुप्तयोविषयः । सर्वथैवोपमाननिषेधेन सादृश्यस्याप्रतिष्ठानान्नोपमागन्धोऽपि । यत्तु"टुण्डुलन्तो मरीहसि कण्टककलिआई केअइवणाई।
मालइकुसुमसरिच्छं भमर भमन्तो न पावहिसि ।।' इति । नेयमुपमानलुप्तोपमा। तस्याः संभवदुपमानानुपादानविषयत्वात् । अपि त्वसमालंकारः" इति रत्नाकरेणोक्तम्, तदसत् । मालतीकुसुमसदृशं भ्रमर भ्रमन्नपि न प्राप्स्यसीत्युक्त्या वर्ततां नाम तत्सदृशं क्वापि त्वया तु दुष्प्रापमेवेति प्रत्ययादात्यन्तिकोपमाननिषेधाभावादुपमानलुप्तोपमैवेयं भवितुमर्हति, नासमालंकारः । अन्यथा मालतीकुसुमसदृशं नास्तीत्येव ब्रूयात्, न तु प्राप्स्यसीति । अथासमालंकारध्वननेनैव चमत्कारोपपत्तेरनन्वयस्य प्रथगलंकारता कथमिति चेत्, सत्यम् । दीपकादेरप्युपमाभिव्यक्त्यैव चमत्कारोपपत्तौ कथं नाम पृथगलंकारत्वमिति तुल्यम् । न च दीपकादावुपमाया व्यङ्ग्यत्वेऽपि गुणीभावात्मकते तु स्वसादृश्यस्य स्वस्मिन्नतितमां तिरस्कारेणासमालंकारस्यैव मुख्यतया ध्वननाद्वैषम्यामिति वाच्यम् । यथा हि दीपकसमासोक्त्यादौ गुणीभूतव्यङ्ग्यसत्त्वेऽप्यलंकारत्वं शेषः । नृपेति संबोधनम् । पदं स्थानं चिह्नं वस्तु वा । आद्ययोर्भेदसंबन्धः । अन्त्येऽभेदः । कालत्रयासत्त्वमुक्तोदाहरणाद्विशेषः । ननूदाहरणद्वयेऽपि निषेधस्य प्राधान्यात्कथमलंकारत्वमत आह-राजेति । अत्र उदाहरणद्वये। ननपमानलुप्तयैव गतार्थोऽयमत आह-आत्यन्तिक इति । यथासंख्यमन्वयः । नन्वात्यन्तिकनिषेधेऽपि कुतो नोपमानलुप्तात आह-सर्वथैवेति।निषेधाभावादिति। संभवदपमानत्वाच्चेत्यपि बोध्यम् । अन्यथा तस्येष्टत्वे । एवं वाच्यतायां निषेधस्यासमालंकारे सिद्धेऽनन्वये निषेधस्य व्यङ्गयत्वे वासमालंकारस्य ध्वननाङ्गीकारे चमत्कारस्तत एवास्तु नानन्वयकृत इत्यनेनैव गतार्थः स इत्याशयेन शङ्कते-अथेति । प्रतिबन्धा समाधत्ते-सत्यमिति । अत एव पूर्व दृष्टान्तोक्तिः । दीपकादेरित्यस्य पृथगलंकारत्वमित्यत्रान्वयः । हि यतः । सत्वेऽपीति ।
For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
काव्यमाला।
न हीयते एवमनन्वये प्रधानव्यङ्गयसत्त्वेऽपीति न किंचिद्विरुद्धम् । अनन्वयशरीरस्य स्वसादृश्यमात्रस्य वाच्यत्वेन वाच्यालंकारव्यपदेशोऽपि सुस्थ एव । दीपकाद्यलंकारकाव्ये गुणीभूतस्य व्यङ्गयस्य सत्त्वादस्तु नाम गुणीभूतव्यङ्ग्यत्वम् । ध्वनित्वं पुनर्न क्वाप्यलंकृतिकाव्ये दृष्टमिति चेत्, पर्यायोक्तसादृश्यमूलाप्रस्तुतप्रशंसादिकाव्ये ध्वनित्वस्य स्फुटत्वात् । प्राञ्चस्तु नेदमलंकारान्तरमित्यप्याहुः । अयं चासमालंकारो व्यज्यमानो यथा'मयि त्वदुपमाविधौ वसुमतीश वाचंयमे
न वर्णयति मामयं कविरिति क्रुध मा कृथाः । चराचरमिदं जगज्जनयतो विधेर्मानसे
पदं नहि दधेतरां तव खलु द्वितीयो नरः ॥" अत्र य एतावन्तं समयं विधातुर्मानसं नाधिरूढः सोऽग्रेऽपि मानाभावान्नारोहेत्, अतः सर्वथैव नास्तीति गम्यते । एवं च व्यज्यमानोऽप्यसमोऽत्र प्रधानीभूतराजस्तुत्युत्कर्षकतयालंकार एव । मुख्यतया ध्वन्यमानोऽयं यथा'सदसद्विवेकरसिकैरालोक्य समस्तलोकमथ कविभिः ।
गणिता गगनलतादेर्गणनायां तन्वि तव सदशी ॥' अयं क्वचिदुपमानस्य निषेधात्वचिच्च साक्षादुपमाया एव । आद्यस्तूपदर्शितः । अलंकारत्वं न हीयते इत्यस्यानुषङ्गः । एवमलंकारत्वव्यपदेशे साधिते वाच्यालंकारव्य. पदेशं तस्य साधयति-अनन्वयेति । शङ्कते-दीपकाद्यलंकारेति । बहुव्रीहिः । अलंकृतीति । तयुक्तकाव्य इत्यर्थः । तथा चैवमित्याधुक्तिरयुक्तेति भावः । अप्रस्तुतप्रशं. साया अनेकविधत्वादाह-सादृश्येति ।अलंकारान्तरमिति । अत्रोपपत्तिय॑तिरेकालंकारप्रकरणे स्फुटीभविष्यति । त्वदिति त्वदुपमावर्णन विषये । वाचंयमे मौनव्रतवति । पदं चरणम् । द्वितीयः सहायः । सदृश इति यावत् । ननु निषेधस्य वाच्यत्वेन कथं तस्य व्यङ्गथत्वम्, किं च लिटा भूतनिषेधप्रतिपादनेनात्यन्तिकनिषेधाप्रतीत्या कथमयमत आह-अत्रेति । पद्ये इत्यर्थः । एवं च पदधारणनिषेधस्य शाब्दत्वेऽप्युपमाननिषेघस्य व्यङ्गयत्वमेवेति भावः । प्राग्वदाह-एवमिति । अथ अनन्तरम् । हे तन्वि, तव तुल्या असत्पदार्थगणनायां गणिता । एवं च त्वत्तुल्या असतीति प्राधान्येन ध्वन्यते।
For Private And Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२१३
द्वितीयो यथा-- 'पूर्णमसुरै रसातलममरैः स्वर्गों वसुंधरा च नरैः ।
रघुवंशवीरतुलना तथापि खलु जगति निरवकाशैव ॥ एवं पूर्णतया लुप्ततया चास्यापि यथासंभवं भेदा उन्नेयाः ।।
इति रसगङ्गाधरेऽसमालंकारप्रकरणम् । सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेशं निरूप्य तयोरवयवावयविभाव उच्यमान उदाहरणम् । __ अर्थान्तरन्यासवारणायोच्यमान इति वचनम् । वा-इव-यथा-निदर्शनदृष्टान्तादिशब्दैः काव्येषु स्फुटम् । न च इवयथाशब्दयोः सादृश्यवचनयोरवयवावयविभावे विशेषसामान्यात्मके नास्ति वृत्तिरिति वाच्यम् । लक्षणायाः साम्राज्यात् । अन्यथा ह्युत्प्रेक्षाबोधकतापि दुर्घटा स्यात् । उदाहरणम्'अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।
निखिलरसायनराजो गन्धेनोग्रेण लशुन इव ॥' न चात्र पदार्थलशुनयोरुपमा शक्या वक्तुम् । तयोः सामान्यविशेषभावेन सादृश्यस्यानुल्लासात् । तथात्वे तु इवादिशब्दानामिव सदृशादिशब्दानामप्यलंकारेऽस्मिन्प्रयोगः स्यात् । यथा वा-- 'अतिमात्रबलेषु चापलं विदधानः कुमतिविनश्यति ।
त्रिपुरद्विपि वीरतां वहन्नवलिप्तः कुसुमायुधो यथा ॥' इति ध्वनिरयम् । नालंकारः । निरवति । निष्प्रसरेत्यर्थः । निराधारेति यावत् । एवं उक्तभेदवत् । अस्याप्यसमालंकारस्यापि ॥ इति रसगङ्गाधरमर्मप्रकाशेऽसमालंकारप्रकरणम् ॥
सुखेति । द्रुततरं बुद्ध्यारूढत्वाय । तयोः सामान्यैकदेशयोः । अवयवावयविभावस्वरूपमाह-विशेषेति । अन्यथा लक्षणानङ्गीकारे । अनुल्लासादिति । मिथो भेदाभा. वेन स्फुटमप्रतीतेरित्यर्थः । तथात्वे तु सादृश्योल्लासे तु । अस्योपपत्तिरग्रेऽत्रैव स्फुटीभविध्यति। इवयुतोदाहरणमुक्त्वा यथाघटितमुदाहरणमाह-यथा वेति । गुणति। कुत्सि
For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
काव्यमाला।
अत्र त्रिपुरद्विडीरते अतिमात्रबलचापलयोविशेषौ । अवलेपकुसुमायुधौ च कुमतिरित्यत्र गुणप्रधानयोः । यथा वा'उपकारमेव कुरुते विपद्गतः सद्गुणो नितराम् ।
मूर्छा गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥' । दृष्टान्तो वा । इवादिशब्दप्रयोगे सामान्यार्थप्राधान्यं वाक्यैक्यम्, निदर्शनादिशब्दप्रयोगे तु विशेषप्राधान्यं वाक्यभेदश्चेति विशेषः । तत्र तावत् 'अमितगुणः-' इति पद्ये क्रियाप्रधानमाख्यातमिति नयेऽमितगुणपदार्थकर्तृकमेकदोषहेतुकं निन्दाविषयीभवनं निखिलरसायनराजलशुनकर्तृकोग्रगन्धहेतुकनिन्दाविषयीभवनावयवकमिति धीः। प्रथमान्तविशेष्यकबोधवादिनां तूग्रगन्धहेतुकनिन्दाविषयीभवनाश्रयतादृशलशुनावयवकस्तादृशपदार्थ एकदोषहेतुकनिन्दाविषयीभवनाश्रय इति । तत्रापि विशेषवाक्यार्थे क्रियान्वयो मृग्यते हेत्वन्तरान्वयार्थम् । अन्यथा तादृशलशुनावयवके तादृशपदार्थ एव क्रियान्वये नोपपत्तिः स्यात् । एवं यथाशब्दस्थलेऽपि । उपकारमेवेत्यत्र तु विपद्गताभिन्नः सगुण उपकारानुकूलकतिमानिति पूर्ववाक्यार्थः । अत्रास्मिन्नर्थे मूछी गतो मृतो वा पारदो निदर्शनमेकदेश इत्युत्तरवाक्याथै गुण इति केषांचित् । इतरेषां तु तादृशकर्तृका तादृशक्रियेति पूर्ववाक्याथै तादृशः पारद एकदेश तमतितद्विशेष्ययोरित्यर्थः । विशेषावित्यस्यानुषङ्गिकनिदर्शनपदघटितमाह-यथा वेति । सद्गुणो विपद्गतोऽपीत्यर्थः । दृष्टान्तपदघटितस्यापीदमेवोदाहरणमिति वनयितुं निदर्शनपदस्थाने पाठान्तरमाह----दृष्टान्तो वेति । वाशब्द एवार्थे । इत्यस्य तत्रेत्यादिः । सामान्यार्थप्राधान्यमिति । तस्यापि प्राधान्यमित्यर्थः । तमेव विशेष प्रदर्शयतितत्रेत्यादिना । तत्र तेषां मध्ये । तादृशति । निखिलरसायनराजेत्यर्थः । तादृशेति । अमितगुणेत्यर्थः । एवमग्रेऽपि धीरित्यस्यानुषङ्गः । ननु निन्दितो भवतीत्यादेरेकत्रैवोपादानात्कथमुभयत्र बोधोऽत आह-तत्रापीति । हेत्वन्तरान्यतमति । उग्रगन्धादिरूपहेत्वन्तरेत्यर्थः । अन्यथा तदनन्वये । नोपपत्तिरिति । उपपत्तिर्न स्यादित्यर्थः । पद्यस्थात्रेत्यस्यार्थमाह-अस्मिन्निति । केषांचि नैयायिकानाम् । इतरेषां च वैयाकरणानाम् । तादृशेति। विपद्गताभिन्नसद्गुणकर्टकोपकारक्रियेत्यर्थः । पद्यस्थात्रेत्यस्यार्थमाह-पूर्ववाक्यार्थ इति। » गतादिरूपः पारदः पूर्ववाक्यार्थस्यावयव इत्यर्थः ।
For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
इति । प्रधानावयवस्येव गुणावयवस्यापि विशिष्टार्थावयवत्वात् । घटमानयेत्यत्र नीलघटवत् ।
'अर्थिभिश्छिद्यमानोऽपि स मुनि व्यकम्पत ।
विनाशेऽप्युन्नतः स्थैर्य न जहाति द्रुमो यथा ॥' अत्र दधीच्यालम्बनायां तदीयलोकोत्तरचरितस्मरणोद्दीपितायामेतत्पद्यप्रयोगानुभावितायामेतत्पद्यनिर्मातृगतायां रतौ प्रधानीभूतायामालम्बनस्तकृतयाच्आश्रवणोद्दीपितो गात्रच्छेदाभ्यनुज्ञानानुभावितो धृत्या संचारिभावेन पोषितो मुनिगत उत्साहो गुणः । तत्र चाध्यर्धतृतीयचरणगतस्यार्थान्तरन्यासस्योत्कर्षकतया स्थितस्य विवेचनद्वारालंकरणम् । चतुर्थचरणशकलगतमुदाहरणम् । एवमेव-- 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।
एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥' इति कालिदासपद्येऽपि बोध्यम् । अस्मिंश्चालंकारेऽवयवावयविभाव. बोधकस्येवशब्दादेः प्रयोगः सामान्यविशेषयोरेकरूपविधेयान्वयश्चार्थान्तरन्यासभेदाद्वैलक्षण्याधायक इति तत्प्रकरणे निपुणतरमुपपादयिष्यामः ।
प्राश्चस्तु "नायमलंकारोऽतिरिक्तः । उपमयैव गतार्थत्वात् । न च सामान्यविशेषयोः सादृश्यानुल्लासात्कथमुपमेति वाच्यम् । निर्विशेषं न सामान्यं-' इति सामान्यस्य यत्किचिद्विशेषं विना प्रकृतत्वायोगात्ताहशविशेषमादाय विशेषान्तरस्य सादृश्योल्लासे बाधकामावादिवादिभि
ननु क्रियारूपस्य पूर्ववाक्यार्थस्य कथं द्रव्यरूप: पारदोऽवयव इत्यत आह-प्रधानेति। घटमानयेति । कर्मणः सर्वमते गुणत्वादित्यर्थः । नीलघटवदिति चिन्त्यमिति कश्चित् । अत्रोदाहरण एकवाक्यतासत्त्वेऽपि वाक्यैकवाक्यता पूर्वस्माद्विशेषः । पूर्वत्र तु पदैकवाक्यतैवेति बोध्यम् । स दधीचिः । नन्वेवं कथमलंकारत्वमत आह-तत्र चेति । रतावित्यर्थः । उत्कर्षकतयेत्यत्रास्यान्वयः । अध्यर्धेति । अर्धाधिकस्तृतीयचरणो यस्मि. स्तद्गतस्येत्यर्थः। अत एव वक्ष्यति-शकलेति । विवेचनेति । बुद्ध्यारोहणेत्यर्थः । यस्य हिमाचलस्य । कुमारसंभवस्थं पद्यम् । नन्वेवं सांकर्येण तद्विशेषत्वस्यैवात्र संभवे न कथमलंकारान्तरत्वमत आह-अस्मिंश्चेति । भेदाद्विशेषात् । तत्प्रति । अर्थान्तरन्यासप्रकरण इत्यर्थः । अयमुदाहरणरूपः । नन्वेवमप्यत्रवादीनां सामान्यविशेषभावा.
For Private And Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
काव्यमाला। रामुखे प्रतीयमानस्यापि सामान्यविशेषभावस्य परिणामे सादृश्य एव विश्रान्तेः ॥” इत्यप्याहुः॥
इति रसगङ्गाधर उदाहरणप्रकरणम् । सादृश्यज्ञानोबुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालंकारः। यथा'दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डध्वनि____ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम् । वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव
भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥' यथा वा'भुजभ्रमितपटिशोदलितहप्तदन्तावलं
भवन्तमरिमण्डलक्रथन पश्यतः संगरे । अमन्दकुलिशाहतिस्फुटविभिन्न विन्ध्याचलो
___ न कस्य हृदयं झगित्यधिरुरोह देवेश्वरः ॥' अनयोः पद्ययोः प्रधानीभूताया राजविषयकविनिष्ठरतेरुत्कर्षकतया स्मरणमलंकारः । आद्ये वाच्यम्, द्वितीये तु लक्ष्यमिति विशेषः । वीररसोऽपि चात्र प्रधानोत्कर्षकतयालंकार एव ।
'एकीभवत्प्रलयकालपयोधिकल्प
__ मालोक्य संगरगतं कुरुवीरसैन्यम् । · सस्मार तल्पमहिपुंगवकायकान्तं
निद्रां च योगकलितां भगवान्मुकुन्दः ॥' स्मकावयवावयविभावबोधकत्वेन कथं तदुल्लासोऽत आह-इवेति । आमुखे आदौ ॥ इति रसगङ्गाधरमर्मप्रकाश उदाहरणप्रकरणम् ॥
त्वां प्रकृतं राजानम् । मध्यरणमिति । रणमध्ये इत्यर्थः । वल्गन्मनोहरम् । पाण्डवमर्जुनम् । दन्तावलो हस्ती। अरिमण्डलक्रथनेति संबोधनम् । अमन्देति । तीक्ष्णेत्यर्थः । 'कराल' इति द्विः पाठः । झगिति झटिति । देवेश्वर इन्द्रः । रतेर्भावस्य । लक्ष्यद्वयदाने बीजमाह-आये इति । स्मरणमित्यस्यानुषङ्गः। लक्ष्यमिति । अधिरोहतेर्लक्ष्यमित्यर्थः । नन्वेवमपि वीररसस्यानयोः प्राधान्येन राजनिष्ठस्य सत्वाद्धनित्वमेवात आह-वीरेति । प्रधानोत्कर्षेति । कविनिष्ठरत्युत्तरेत्यर्थः । अलमिति । रस- .
For Private And Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२१७ अत्र तल्पनिद्रयोः स्मरणं यद्यपि न तल्पनिद्रासादृश्यदर्शनोबुद्धसंस्कारप्रयोज्यम्, तथापि सैन्यगतपयोधिसादृश्यदर्शनोबुद्धपयोधिविषयकसं. स्कारजन्यपयोधिस्मरणाधीनत्वाद्भवत्येव यत्किचित्सादृश्यदर्शनोबुद्धसंस्कारप्रयोज्यम् । नहि सादृश्ये स्मर्यमाणसंबन्धित्वं विवक्षितम् । एवं वाच्ययोस्तल्पनिद्रास्मरणयोरेतत्कारणतया आक्षिप्तस्य पयोधिस्मरणस्य चाविशेषेण संग्रहाय लक्षणे जन्यत्वमपहाय प्रयोज्यत्वमुपात्तम् । केचित्तु सदृशज्ञानोबुद्धसंस्कारजन्यं सदृशविषयकमेव स्मरणमलंकारः । भुजगेन्द्रनिद्रादिस्मृतिस्तु नालंकार इत्याहुः ।
'इत एव निजालयं गताया वनिताया गुरुभिः समावृतायाः ।
परिवर्तितकंधरं नतभ्र स्मयमानं वदनाम्बुजं स्मरामि ॥' अत्र स्मरणं चिन्तोद्बुद्धसंस्कारप्रयोज्यत्वान्नालंकारः । व्यङ्गयत्वविरहाच्च न भावः । एवम्'दरानमत्कंधरबन्धमीपन्निमीलितस्निग्धविलोचनाब्जम् ।
अनल्पनिःश्वासभरालसाङ्गचाः स्मरामि सङ्गं चिरमङ्गनायाः ॥ इहापि स्मृतिन भावो नाप्यलंकारः । व्यङ्गयस्यैव व्यभिचारिणो भावत्वात् । यथा 'सा वै कलङ्कविधुरा मधुराननश्रीः' । अयं चालंकारिकाणां संप्रदायो यत्सादृश्यमूलकत्वे स्मरणं निदर्शनादिवदलंकारः । तस्याभावे व्यङ्ग्यतायां भावः । तयोरभावे तु वस्तुमात्रम् । वदलंकार इत्यर्थः । विवक्षितं लक्षणे इति शेषः । एवमिति । वैधर्म्य दृष्टान्त एतदिति । तल्पनिद्रास्मरणकारणतयेत्यर्थः । संग्रहाय एतल्लक्ष्यत्वाय । केचित्विति। अत्र मते जन्यत्वनिवेशसादृश्ये स्मर्यमाणसंबन्धिनिवेशश्चेति पूर्वतो भेदः । भुजगेन्द्रेति । एकसंबन्धीति न्यायेन तल्पादिस्मरणस्य पयोधिस्मरणजन्यत्वेऽपि तादृशसंस्कारजन्यत्वादसहशविषयकत्वाच्च पयोधिस्मरणं तु तथेति भवति स इति भावः । अत्रारुचिबीजं तु सादृश्ये स्मर्यमाणसंबन्धित्वनिवेशस्यैवं सति फलाभावः । नहि तादृशसंस्कारजन्यं स्मरणं विसदृशविषयकं संभवति । तथा पयोधिस्मरणस्य सदृशज्ञानत्वेन तेन तल्पादिस्मरणानुकलसंस्कारस्योद्बोधनसंभवेन तज्जन्यत्वसत्त्वादलंकारत्वमेव तस्येति । सादृश्यज्ञाननिवेशफलमाह-इत एवेति । गुरुभिः श्वश्वादिभिः । परिवर्तितेत्यादिद्वयं स्मयमानक्रियाविशेषणम् । इहापि इत्यत्रापि । ननक्तरीत्यानलंकारत्वेऽपि भावत्वं कुतो न । अव्यङ्ग्यत्वस्याप्रतिबन्धकत्वात् । अत आह-व्यङ्गयेति । तस्य सादृश्यमूलकत्वस्य । तामां
२८
For Private And Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२१८
www. kobatirth.org
यथा
काव्यमाला |
अप्पयदीक्षितास्तु
" स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया । स्मरणालंकृतिः सा स्यादव्यङ्ग्यत्वविशेषिता ॥'
Acharya Shri Kailassagarsuri Gyanmandir
'अपि तुरगसमीपादुत्पतन्तं मयूरं
न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥'
यथा वा
'दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्तीमस्मार्षीज्जलनिधिमन्थनस्य शौरिः ॥' एकत्र सदृशदर्शनात्तत्सदृशकर्मिका स्मृतिः । इतरत्र सदृशदर्शनातत्सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि साह - श्यमूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदृशासदृशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत् ।
'सौमित्र ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निश का कंथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः
क्वासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ॥' अत्र श्रुतकुरङ्गसंबन्धिनस्तन्नयनस्य स्मरणात्तत्सदृशसीतानयनस्मृति
सता (?) । तयोव्यङ्गयत्वसादृश्यमूलकत्वयोः । अपीति । रघुवंशे दशरथमृगयावर्णनम् । स दशरथः । सादृश्यबोधकं केशपाशस्य विशेषणद्वयम् । दिव्यानामिति । माघे जलक्रीडावर्णनम् । अम्भस्तो जलात् । मन्थनस्येति 'अधीगर्थ -' इति कर्मणि शेषे षष्ठी । लक्ष्यद्वयदाने बीजमाह - एकत्रेति । आद्य इत्यर्थः । इतरत्र अन्त्ये । सदृशेति । ल. क्ष्मी सदृशनायिकेत्यर्थः । लक्षणं संगमयति- उभयत्रेति । तथा च द्वितीयलक्ष्यसंग्रह एव वस्त्वन्तरसमाश्रयेति विशेषणफलमित्याह - अत एवेति । द्वितीयस्य लक्ष्यत्वादेवे - त्यर्थः । सदृशासदृशेति । स्मृतेः सदृशासदृशान्यतरविषयकत्वलाभार्थतयेत्यर्थः । अव्यङ्गयत्वविशेषणफलमाह—- सौमित्रे इति । हनुमन्नाटके सीतावियोगे श्रीरामचन्द्रस्य लक्ष्मणं प्रत्युक्तिरियम् । ननु निश्चयेन । चण्डांशुः सूर्यः । तन्नयनेति । कुरङ्गनयने
For Private And Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१९
रसगङ्गाधरः। स्तत्संबन्धिसीतास्मृतिश्चेति । किं त्वेषा व्यङ्ग्या अलंकार्यभूता च । तद्व्यातृत्त्यर्थमव्यङ्गचत्वविशेषणम् । 'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय
स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्व
स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥' [अत्र] स्तूयमानभूसंबन्धिनो भूभृतः स्मृतिने सादृश्यमूलेति नात्र स्मरणालंकारः । किं तु स्मृतेः संचारिभावस्य भूभृद्विषयरतिभावाङ्गत्वात्प्रेयोलंकारः । एतद्वयात्तये सादृश्यमूलेति विशेषणम् ।” इत्याहुः ।
तदेत्सर्वमरमणीयम् । यत्तावदुच्यते सदृशासदृशयोः केशपाशजलनिधिमन्थनयोः संग्रहाय लक्षणे वस्त्वन्तरग्रहणमर्थवदिति तत्र साहश्यमूला स्मृतिः स्मरणालंकार इत्येतावतैव केशपाशस्मरणस्येव जलनिधिमन्थनस्मरणस्यापि संग्रहाद्वस्त्वन्तरसमाश्रयत्वविशेषणमनर्थकम् । एकत्र सादृश्यदर्शनोद्बुद्धसंस्कारजन्यत्वेन, अपरत्र च सादृश्यदर्शनोबुद्धसंस्कारजलक्ष्मीस्मरणोद्बुद्धसंस्कारजन्यत्वेन च सादृश्यमूलत्वस्याविशेषात् । नहि सादृश्यमूलेत्युक्ते सहशविषयेति लभ्यते, येन जलनिधिमन्थनस्मृतेरसंग्रहः स्यात् । यदपि 'सौमित्रे ननु सेव्यतां-' इत्यत्र स्मृतिर्व्यङ्गया अलंकार्यभूता च । तव्यावृत्तयेऽव्यङ्गयत्वविशेषणमित्युक्तम् । तत्र नेयं त्यर्थः । तत्सदृशेति नयनविशेषणम् । इतिर्भूता चेत्यग्रे योज्यः। एषा सीतास्मृतिः । अलंकारसामान्यलक्षणमपि नास्तीत्याह-अलमिति । सीतास्मृतेः प्राधान्यादिति भावः । अत्युच्चा इति । भुवं प्रत्युक्तिरियम् । प्रस्तौमि करोमि। इमां भुवम् । न सादृश्येति । किं वेतिकसंबन्धीति रित्येति भावः (?)। रतिभावेति। कविनिष्ठेत्यादिः । अरमणीयमिति । वक्ष्यमाणदोषादिति भावः । तमेव दायायानूद्याह-यत्तावदिति । तत्र उच्यमाने तस्मिन् । म इति शेषः । तदाह-सादृश्येति । एवमग्रेऽपि । केशेति । तस्य सदृशत्वेन दृष्टान्तत्वमिति भावः । स्यादिति । इतीति शेषः । सादृश्यपदस्य नियमसंबन्धिकतया संबन्ध्याकालायामुपस्थितस्मर्यमाणस्यैवान्वयापत्तिः । नहि जनकत्वमूला पूज्यत इत्युक्ते पुत्रजनकत्वेन भार्या पूज्यते । अतो वस्त्वन्तरसमाश्रयेत्यावश्यकमिति चिन्त्यमिदम् । नेयं स्मृतिरलंकार्यभूतेति । अत्र स्मृतेः हा क्वासीत्यादि पदगम्यत्वेन विवहनप्रवृत्तराजानुगम्यमानभृत्यवत् । 'शठेन विधिना निद्रादरिद्रीकृतः' इत्यादौ शठादिपदगम्यासूया बुद्धा । तस्या एव प्राधान्यादलंकार्यत्वम् । अनुपस्कारकत्वाच्च वि
For Private And Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
काव्यमाला।
स्मृतिरलंकार्यभूता । किं तु जानक्यालम्बनो निशासमयोद्दीपितः संतापादिनानुभावित उन्मादेन संचारिणा परिपोषितो विप्रलम्भः प्रधानत्वेनालंकार्यः । तस्य च स्मृतिरुत्कर्षहेतुत्वादलंकार एव । अतो नितरां तघ्यावृत्त्यर्थमव्यङ्गयत्वविशेषणदानमनुचितम् । नहि व्यङ्गयत्वालंकारत्वयोर्विरोध इति वक्तुं शक्यम् । नित्यव्यङ्गयानां रसभावादीनामपि पराङ्गतायामलंकारत्वाभ्युपगमात् । प्रधानव्यङ्गचव्यावृत्त्यर्थं पुनरुपस्कारकत्वं सर्वेष्वलंकारलक्षणेषु देयमिति प्रागेवावेदितम् । यदप्युक्तम् 'अत्युच्चाः परितः स्फुरन्ति गिरयः' इत्यत्र स्मृतेः संचारिभावस्य भूभृद्विषयरतिभावाङ्गत्वात्प्रेयोलंकार इति, तन्न । भावस्य हि भावाद्यङ्गतायां प्रेयोलंकारत्वम् । नात्र स्मृतिर्भावः । तस्याः स्मरतिना वाचकेनाभिधानात् । नहि वाच्यस्य व्यभिचारिणो भावत्वं वक्तुं युक्तम् । 'व्यभिचार्यञ्जितो भावः' इति सिद्धान्तविरोधात् । तथा चोक्तं सर्वस्वकृता
"प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिविषयः । तत्रापि विभावाद्यागूरितत्वे यथा 'अहो कोपेऽपि कान्तं मुखम्' इति । न तु स्वस्वशब्दनिवेद्यत्वे । यथा'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु मुप्तम् ॥" इत्यादाविति ।" ननु भावाद्यङ्गीभूतभावत्वं न प्रेयोलंकारलक्षणम् । अपि तु भावाद्यङ्गीभूतसंचारित्वमात्रम् । तथा च प्रकृते स्मरणस्य स्वशब्दनिवेद्यत्वेन भावत्वविरहेऽपि संचारित्वानपायात्प्रेयोलंकारत्वं विरुद्धप्रलम्भस्यैव तत्त्वाच्चेति चिन्त्यम् । विप्रलम्भः श्रीरामचन्द्रनिष्ठः । नितरामित्यस्यानौचित्येऽन्वयः । तदाशयं खण्डयति-नहीति । नित्यति । सर्वथेत्यर्थः । कदाप्यवाच्यलक्ष्येति यावत् । नन्वेवं प्राधान्येऽप्यलंकारत्वापत्तिरत आह-प्रधानेति । सर्वेषु न त्वत्रैव । तथा चालंकारसामान्यलक्षणप्राप्तत्वात्तस्य नातिप्रसङ्ग इति भावः । सिद्धान्तति । मम्मटभट्टादीनामिति शेषः । तद्न्थमाह-प्रेयोलमित्यादि । इतीत्यन्तेन । तत्रापि तदुक्तस्यापि न स्मृतिष्वपि । आगरितत्वे आविष्कृतत्वे । अत्रेति । पुष्पकेण लङ्कातोऽयोध्यां गच्छतः श्रीरामस्य सीतां प्रत्युक्तिरियं रघुवंशे । अनुगोदं गोदासमीपे । वानीरोति । तृणधान्यतणेत्यर्थः (१) । सुप्तं स्वापः । इष्टापत्ति परिहरति-एवं चेति।
For Private And Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२२१
मेवेति चेत्, एवं तीतरागीभूतस्थायित्वमात्रं रसालंकारत्वम्, न तु व्यज्यमानत्वविशिष्टम्, इत्यस्यापि सुवचत्वात् । एवं च
'चराचरोभयाकारजगत्कारणविग्रहम् ।
__कल्पान्तकालसंक्रुद्धं हरं सर्वहरं नुमः ॥' इत्यत्र क्रोधस्य स्वशब्दनिवेदितत्वेऽपि देवताविषयकरतिभावाङ्गीभूतस्थायित्वानपायाद्रसालंकारता स्यात् । न चेष्टापत्तिः । अपसिद्धान्तात् । तस्माद्यज्यमानस्यैव स्थायिनः पराङ्गत्वे यथा रसालंकारत्वमेवं व्यज्यमानस्यैव संचारिणो भावाद्यङ्गतायां प्रेयोलंकारत्वमिति नात्र स्मृतिमादाय प्रेयोलंकारता वाच्या । किं तु भूविषयकरतेः पूर्वार्धव्यङ्गचाया उत्तरार्धव्यङ्गचभूभृद्विपयरतिभावाङ्गत्वाद्युक्ता प्रेयोलंकारता वक्तुम् । उक्तं च मम्मटभट्टै:--'अत्र भूविषयो रत्याख्यो भावो राजविषयरतिभावस्य' इति । अपि च महदिदमाश्चर्य यत्स्वेनैव निर्मितः कुवलयानन्दाख्यः संदर्भो विस्मृतः । उक्तं च तत्र-'विभावानुभावाभ्यामभिव्यञ्जितो निवेदादिर्भावः स यत्रापरस्याङ्ग स प्रेयोलंकारः' इति । __ यदपि 'सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम्' इत्यलंकारसर्वस्वरत्नाकरयोः स्मरणालंकारलक्षणमुक्तम्, तदपि न । सदृशस्मरणादुद्बुद्धेन संस्कारेण जनिते स्मरणे अव्याप्तेः । यथा'सन्त्येवास्मिञ्जगति बहवः पक्षिणो रम्यरूपा
स्तेषां मध्ये मम तु महती वासना चातकेषु । यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भिः __ स्मृत्यारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥' अत्र च चातकदर्शनादेकसंबन्धिज्ञानादुत्पन्नेनापरसंबन्धिनो जलधरस्य तथा सुवचत्वे चेत्यर्थः । स्वशब्देति । क्रुद्धमितीत्यर्थः । रतिभावेति । कविनिष्ठेत्यादि । स्मृतिमादायेत्युक्तिफलमाह-किं त्विति । एवं च प्रेयोलंकारसत्त्वेऽपि त्वत्कृतं तदुपपादनं चित्रमीमांसास्थमयुक्तमिति भावः । भावस्येति । अङ्गमिति शेषः । स्वेनैव अप्पदीक्षितेनैव । तत्र कुवलयानन्दे। निर्वेदादिस्त्रयस्त्रिंशत् । अपरस्य भावादेः । [अलंकारस
For Private And Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२२२
काव्यमाला |
भगवत्सदृशस्य स्मरणेन जनितं भगवतः स्मरणं भगवद्विषयरतिभावाङ्गम् । यदि च 'सदृशानुभवात्' इत्यपहाय 'सदृशज्ञानात्' इति लक्षणे निवेश्यते तदा भवत्यस्यापि संग्रह इति दिक् ।
अथास्य ध्वनिः ।
Acharya Shri Kailassagarsuri Gyanmandir
यथा
'इदं लताभिः स्तबकानताभिर्मनोहरं हन्त वनान्तरालम् । सदैव सेव्यं स्तनभारवत्यो न चेद्यवत्यो हृदयं हरेयुः ॥' अत्र स्तबकानताभिर्लताभिः स्तनभारवतीनां युवतीनां स्मरणमलंकार्यस्यान्यस्याभावादनुपसर्जनम्, स्तनस्तवकरूपस्य विम्बप्रतिविम्वभावमापन्नस्य साधारणधर्मस्य वाच्यत्वेऽपि तत्प्रयोजितसादृश्यमूलकस्य स्वस्य शब्दवाच्यत्वविरहाद्व्यङ्गयं च युवत्य इति च 'सर्वतो क्तिन्नर्थात्' इति ङीषि साधुः ।
यथा वा
यथा
'इदमप्रतिमं पश्य सरः सरसिजैर्ऋतम् ।
सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥' अत्रापि सरसिजज्ञानाधीनतत्सदृशनयनस्मृतिः प्राधान्येन ध्वन्यते । अथास्मिन्स्मरणालंकारे उपमादोषाः प्रायशः सर्व एव दोषाः । विशेषतश्च नियमेनास्मिन्व्यज्यमानसादृश्यके सादृश्यस्य शब्दवाच्यतायां दोषः ।
'उपकारमस्य साधोर्नैवाहं विस्मरामि जलदस्य । दृष्टेन येन सहसा निवेद्यते नवघनश्यामः ।'
वैस्वरत्ना]करयोर्ग्रन्थयोः । अध्यक्षैः प्रत्यक्षः । अथ प्रत्यक्षानन्तरम् । अनुपसर्जनमिति । प्रधानमित्यर्थः । एवमलंकारत्वं निरस्य ध्वनित्वमुपपादयितुमाह - स्तनेति । स्वस्य स्मरणस्य । व्यङ्गयं च स्मरणमिति पूर्वत्रान्वयः । ङीपि साधुरिति यातेः शत्रन्तात् ङीष्यपि साधुत्वं भवति । 'सर्वत - ' इत्येतत्पर्यन्तानुधावनं व्यर्थ दुष्टं चेति प्रपश्चितमन्यत्र । व्यज्येति । अर्थाप्रतीयमानसादृश्यक इत्यर्थः । अत्र स्मरणालंकारे । अस्योपादानादावेवान्वयः । दानयोः सतोरिति शेषः । अत्रापि स्मरणालंकारेऽपि । स्पष्टत्वाय पुनरुक्तिः । प्रतीयमानो गम्यमानः । साक्षादुपमानोपमेयविशेषणत्वेन । यथेति ।
For Private And Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हवन प्रतीयमानम् । 'शवाय दुरवगम स्वानमा वाच्य
रसगङ्गाधरः।
२२३ अत्र स्मृत्यैव घनसादृश्यं भगवतः प्रतीयमानं वाच्यवृत्त्या कदर्थितं निवेद्यते । देवकीतनय इति तु साधुः ।
अत्र सादृश्यप्रयोजकस्य साधारणधर्मस्य साक्षानुपादानानुपादानयोरुपमायामिवात्रापि व्यवस्था । तथा हि उपमायां तावत्क्वचिद्धर्मो नियमेन प्रतीयमानः साक्षान्नोपादेय एव । यथा 'शङ्खवत्पाण्डुरच्छविः' इत्यत्र पाण्डुरत्वम् । 'शङ्खवत्पाण्डुरोऽयम्' इत्यादौ तु नानाविधेषु धर्मेष्वनेनैव धर्मेण सादृश्यमित्यस्य दुरवगमत्वात् । सर्वत्रोपमानोपमेयसाधारणस्य श्लिष्टशब्दात्मकस्यान्यस्य वा स्वानभिप्रेतस्य साधारणधर्मस्योपमाप्रयोजकत्वसंभवात्तद्वारणाय पाण्डुरत्वादिधर्मों वाच्यतां नीयते । यथा वा 'अरविन्दमिव सुन्दरं मुखम्' इत्यादौ सुन्दरत्वादिः । न नीयते च क्वचित् । वक्तुरन्यस्यानुपस्थानात्प्रसिद्धेः प्राबल्यात् । यथा 'अरविन्दमिव मुखम्' इत्यादौ स एव । अप्रसिद्धश्च धर्मोऽवश्यं साक्षादुपादेयः । अन्यथा तस्याप्रतिपत्तौ कवेस्तदुपमानिर्माणप्रयासवैयापत्तेः ।
USTRय मासा यथा 'नीरदा इव ते भान्ति बलाकाराजिता भटाः' इत्यादौ श्लिष्टशब्दात्मकः । इत्थं च कश्चित्साधारणो धर्मः साक्षादनुपादेय एव । कश्चिदुपादेयानुपादेयश्च । कश्चिदुपादेय एवेति सहृदयसंमतः समयः । एवमेवोपमाजीवातुकेऽस्मिन्स्मरणालंकारेऽपि बोध्यम् । तत्रानुगामिनि धर्म 'स्मृत्यारूढं भवति किमपि' इत्यादौ पद्ये निवेदितमेव स्मरणम् । बिम्बप्रतिबिम्बभावापन्नेऽपि धर्मे 'भुजभ्रमितपटिश-' इत्यादि पद्ये निरूपितम् । कुलिशपटिशयोभूधरदन्तावलयोश्च बिम्बप्रतिबिम्बभावात् । उपमेयविशेषणच्छविविशेषणतयोपस्थितपाण्डुरत्वस्यैव प्रत्यासत्त्या तत्र गम्यमानत्वादिति भावः । नन धर्मान्तरस्योपमाप्रयोजकत्वाभावादेव नैव सादृश्यं स्वगमत आह-सर्वत्रेति । अस्य द्वितीयमुदाहरणं विशेषं वक्तुमाह-यथा वेति । न नीयते चेति । वाच्यतामित्यस्यानुषङ्गः । अनुपस्थिती हेतुमाह-प्रसिद्धेरिति । स एवेति । सुन्दरत्वादिरित्यर्थः । बलाकाराजिता इति । बलाका बकपतिस्तया राजिता: । बलाकाराभ्यामजिता इत्यर्थः। उपसंहरति-इत्थं चेति। यथोपमायामिति शेषः । जीवातुर्जीवनौ. षधम् । तत्र अनुपादेयादिधर्माणां मध्ये । स्मृत्यारूढमिति । अत्रानुगामी श्यामत्वधर्मोऽनुपात्तः । निरूपितं स्मरणमित्यस्यानुषङ्गः । एवमग्रेऽपि । अत्रोक्तहेतोस्तस्योपादानमित्याह-कुलिशेति।स पवनात्मज इत्यन्वयः। अत्रानयोः । आदिना कठिनत्वागाध
For Private And Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
काव्यमाला।
उपचरितं यथा'क्वचिदपि कायें मृदुलं क्वापि च कठिनं विलोक्य हृदयं ते ।
को न स्मरति नराधिप नवनीतं किं च शतकोटिम् ॥' यथा वा_ 'अगाधं परितः पूर्णमालोक्य स महार्णवम् ।
हृदयं रामभद्रस्य सस्मार पवनात्मजः ॥' अत्र मृदुलत्वादयो धर्मा हृापचरिताः । इयांस्तु विशेषः-यदेकत्रानुभूयमाने हृदये स्मर्यमाणनवनीतादेः सादृश्यस्य सिद्धिः, अपरत्र तु स्मर्यमाणे हृदयेऽनुभूयमानसमुद्रस्येति । सादृश्यस्योभयाश्रयत्वात् । केवलशब्दात्मके यथा'ऋतुराजं भ्रमरहितं यदाहमाकर्णयामि नियमेन ।
आरोहति स्मृतिपथं तदैव भगवान्मुनिर्व्यासः ॥' अत्र भ्रमरहितशब्दो व्यासवसन्तयोः साधारणः । एवमन्येऽपि प्रभेदाः सुधीभिरुन्नेयाः । इह पुनर्दिङ्मात्रमुपदर्शितम् ।
इति रसगङ्गाधरे स्मरणालंकारनिरूपणम् । अथाभेदप्रधानेषु रूपकं तावन्निरूप्यते-- : उपमेयतावच्छेदकपुरस्कारेणोपमेये शब्दानिश्चीयमानमुपमानतादात्म्यं रूपकम् । तदेवोपस्कारकत्वविशिष्टमलंकारः। __ उपमेयतावच्छेदकपुरस्कारेणेति विशेषणादपद्भुतिभ्रान्तिमदतिशयोक्तिनिदर्शनानां निरासः । अपहृतौ स्वेच्छया निषिध्यमानत्वात्, भ्रान्तिमति च त्वादिपरिग्रहः । द्वितीयोदाहरणदाने बीजमाह-इयानिति । एकत्र आये । अपरत्र द्वितीये । समुद्रस्येतीति । सादृश्यस्य सिद्धिरित्यस्यानुषङ्गः । उभयाश्रयत्वादभयनिरूप्यत्वात् । ऋतुराज वसन्तम् । भ्रमराणां हितम् । नानापुष्पविकासद्वारा मधुप्रापकत्वात् । व्यासपक्ष भ्रमेण रहितमित्यर्थः । नियमेनेत्युत्तरान्वयो । इति स्मरणम् ।। इति रसगङ्गाधरमर्मप्रकाशे स्मरणालंकारनिरूपणम् ॥
प्रधानेष्वलंकारेषु । एवं च पूर्व भेदाभेदोभयप्रधाना निरूपिताः, इदानी बबलंकारव्यापित्वेन प्रसिद्धतया प्राधान्येन च रूपकनिरूपणमिति भावः । उपमेयतावच्छेदकमात्रप्रकारकप्रतीतिजनकशब्दबोधे विषये इत्यर्थः । तेनातिशयोक्तौ चन्द्रादिपदान्मुख.
For Private And Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२२५
तजनकदोषेणैव प्रतिबध्यमानत्वात्, अतिशयोक्तिनिदर्शनयोश्च साध्यवसानलक्षणामूलकत्वात्, उपमेयतावच्छेदकस्य नास्ति पुरस्कारः । शब्दादिति विशेषणात् 'मुखमिदं चन्द्रः' इति प्रात्यक्षिकाहार्यनिश्चयगोचरचन्द्रतादात्म्यव्यवच्छेदः । निश्चीयमानमिति विशेषणात्संभावनात्मनो 'नूनं मुखं चन्द्रः' इत्यायुत्प्रेक्षाया व्यावृत्तिः । उपमानोपमेयविशेषणाभ्यां साहश्यलाभात् 'सुखं मनोरमा रामा' इत्यादि शुद्धारोपविषयतादात्म्यनिरासः । सादृश्यमूलकमेव च तादात्म्यं रूपकमामनन्ति । तथा चाहुः
'तद्रूपकमभेदो य उपमानोपमेययोः ।।
'उपमैव तिरोभूतभेदा रूपकमुच्यते ।' इति । तञ्च यत्र विषयविषयिणोरेकविभक्त्यन्तत्वेन निर्देशस्तत्र संसर्गः, अन्यत्र तु शब्दार्थतया क्वचिद्विशेषणं विशेष्यं चेति विवेचयिष्यते ।
यत्तु सादृश्यप्रयुक्तः संबन्धान्तरप्रयुक्तो वा यावान्भिन्नयोः सामानाधिकरण्यनिर्देशः स सर्वोऽपि रूपकम् । सारोपलक्षणामूलकत्वस्य तुल्यवेन सादृश्यप्रयुक्तस्य तादात्म्यस्येव संबन्धान्तरप्रयुक्तस्यापि तादात्म्यस्य संग्रहीतुमौचित्यात् । तस्मात् "दुराग्रह एवायं प्राचाम्-'उपमानोपमेययोरभेदो रूपकम्, न तु कार्यकारणयोः” इति रत्नाकरेणोक्तं तन्न । अपहृत्यादौ भिन्नयोः सामानाधिकरण्यस्य सत्त्वात्तत्रातिव्याप्तेः । किं च 'सादृश्यमूलकं स्मरणं स्मरणालंकारः, न तु चिन्तादिमूलम्' इति भवतैव पूर्वमुदितम् । तत्र यदि सादृश्यामूलकस्यापि कार्यकारणादिकयोः कल्पितस्य ताद्रूप्यस्य रूपकत्वमभ्युपेयते तदासादृश्यामूलकस्य चिन्तात्वादिना मुखोपस्थितिरिति मतेऽपि नातिव्याप्तिरिति बोध्यम् । तज्जनकेति। भ्रान्तिजनकेत्यर्थः । उपमेयतेति । मध्यमणिन्यायेनोभयत्रान्वयोऽस्य । संभावनात्मनस्तद्रूपायाः । उत्प्रेक्षाया वस्तूत्प्रेक्षायाः । उपमानोपमयेति । एतद्रूपविशेषणाभ्यामित्यर्थः । उपमानत्वोपमेयत्वयोः सादृश्यनियतत्वादिति भावः । आहुरिति । मम्मटभट्टादय इत्यर्थः । अत्राधे मम्मटीयम् । अर्धमन्यदीयम् । तथा च भिन्नं लक्षणद्वयमिदम् । तचेति । उक्तरूपतादात्म्यं चेत्यर्थः । संसर्ग इति । अपदार्थत्वादिति भावः । विनिगमकाभावादाह-वचिदिति । भिन्नयोरिति । न तूपमानोपमेययोरित्यर्थः । किं
२९
For Private And Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
काव्यमाला।
दिमूलस्य स्मरणस्याप्यलंकारत्वमभ्युपेयताम् । न च स्मरणस्य भावत्वमुच्यमानं निर्विषयं स्यादिति वाच्यम् । तस्य व्यज्यमानविषयत्वेनोपपत्तेः । अप्पदीक्षितास्तु
“बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिहुते ।
उपरञ्जकतामेति विषयी रूपकं तदा ॥' अत्र बिम्बाविशिष्ट इति विषयविशेषणात्
'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥' इति निदर्शनाया निरासः । तत्र विषयस्य मार्जनस्यालक्तकादिरूपबिम्बविशिष्टत्वात् । निर्दिष्ट इति विशेषणान्निगीणविषयायाम् 'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्' इत्याद्यतिशयोक्तौ नातिव्याप्तिः । अनिहते निषेधास्पष्ट इति विशेषणादपद्भुतौ नातिव्याप्तिः । उपरञ्जकतामाहार्यताद्रूप्यनिश्चयगोचरतामेतीत्यनेन ससंदेहोत्प्रेक्षासमासोक्तिपरिणामभ्रान्तिमत्स्वतिव्याप्तिनिरासः । ससंदेहोत्प्रेक्षयोनिश्चयस्यैवाभावात् । समासोक्तिपरिणामयोर्विषयिताद्रूप्यस्यागोचरत्वात् । समासोक्तौ व्यवहारमात्रसमारोपात् । परिणामे चारोप्यमाणस्यैव विषयतादूप्यगोचरत्वात् । भ्रान्तिमति च सतः कल्पितस्य वा प्रवृत्त्यादिपर्यन्तिकस्वारसिकभ्रमस्यैव निबन्धनेन तस्यानाहार्यत्वात् ।" इत्याहुः । तन्न । 'त्वत्पादनखरत्नानां' इत्यादिनिदर्शनाव्यावृत्त्यर्थ बिम्बाविशिष्टत्वं विषयविशेषणं तावदयुक्तमेव । यद्यत्र 'मुखं चन्द्रः' इत्यादि रूपकान्तर इव सत्यपि श्रौतारोपे नेदं रूपचेति । यत इति शेषः । निविषयमिति । सर्वस्यैवालंकारत्वेन तदन्यत्वाभावादिति भावः । व्यज्यमानेति । व्यज्यमानस्मरणविषयत्वेनेत्यर्थः । नखरत्नानामिति रूपकम् । बिम्बेति । अयं भावः-यथा चन्द्रः स्वतः शुभ्रत्वादनासञ्जनीयधावल्यस्तथा नखा: स्वतोऽरुणत्वादनासञ्जनीयारुणा इति सादृश्येन नखानां चन्द्रस्य च बिम्बप्रतिबिम्बभावः । अलक्तकचन्दनयोरन्यत्र स्ववर्णासञ्जकत्वेन. सः । तथा च बिम्बप्रतिबिम्बभावो यत्र नखालक्तकविशिष्ट एव रञ्जने तत्प्रतिबिम्बभूतचन्द्रचन्दन विशिष्टं पाण्डुरीकरणमुपरञ्जकमिति । निर्दिष्ट इति । उच्चारित इत्यर्थः । तत्र येन यस्य व्यावृत्तिस्तत्क्रमेणाह-सममिति । अगोचरत्वे क्रमेण हेतू आह-समेति । अत्र त्वत्पादेत्यत्र । दा
For Private And Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
२२७
कमपि तु निदर्शनेत्युच्यते तदा । मुखचन्द्रः' इत्यपि निदर्शनेत्युच्यताम् । निरस्यतां च रूपकदाक्षिण्यकोपीनम् । किं च 'त्वत्पाद-' इत्यत्र किं पदार्थनिदर्शना आहोस्विद्वाक्यार्थनिदर्शना । नाद्यः। बिम्बप्रतिबिम्बभावापन्नपदार्थघटितविशिष्टार्थयोरेवात्राभेदप्रतीतेः । कुवलयानन्दगतनिदर्शनाप्रकरणे त्वयोक्तमार्गेण धर्म्यन्तरे पदार्थ तदवृत्तिधर्मस्य पदार्थस्य भेदेनारोपस्याभावाच्च । न द्वितीयः । वाक्यार्थरूपकोच्छित्यापत्तेः । इ. ष्टापत्तौ वैपरीत्यस्य सुवचत्वाच्च । अस्माभिर्निदर्शनाप्रकरणे वक्ष्यमाणया सरण्या अभेदस्य श्रौतत्वार्थत्वाभ्यामुद्देश्यविधेयभावालिङ्गनानालिङ्गनाभ्यां च रूपकनिदर्शनयोलक्षण्येन सकलव्यवस्थोपपत्तेः । तस्मादत्र वाक्यार्थरूपकमेव, न वाक्यार्थनिदर्शना । तस्याश्चैवमुदाहरणं निर्मातव्यम्
'त्वत्पादनखरत्नानि यो रञ्जयति यावकैः ।
इन्दु चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥' अत्र कोरभेदस्य शाब्दत्वेऽपि क्रिययोरभेदस्याशाब्दत्वात्तस्यैव च समग्रभरसहिष्णुत्वान्निदर्शनैव । ननु यदीदमुदाहरणं निदर्शनायां न स्यात्तदा कथमलंकारसर्वस्वकता तत्प्रकरण उदाहृतमिति चेत्, भ्रान्तेनैव प्रतारितोऽसि । नहि प्रामाणिकेन भवता कदापि परेणानुक्तं किंचिदुच्यते । यदपि रूपके बिम्बप्रतिबिम्बभावो नास्तीत्युक्तं तदपि भ्रान्त्यैव । तथा च सर्वस्वटीकायां विमर्शिन्यामुदाहृतं बिम्बप्रतिबिम्बभावेन रूपकम्'कंदर्पद्विपकर्णकम्बु मलिनैर्दानाम्बुभिाञ्छितं
संलग्नाञ्जनपुञ्जकालिमकलं गण्डोपधानं रतेः । क्षिण्येति । रूपकमुखसंकोचरूपकौपीनमित्यर्थः । निर्लज्जत्वादिति भावः । विशिष्टार्थयोः वाक्यार्थयोः । त्वदुक्त पदार्थनिदर्शनालक्षणमपि नास्तीत्याह-कुवलयेति । वैपरीत्यस्य वाक्यार्थनिदर्शनोच्छित्तेः । स्वमते न कस्याप्युच्छेद इत्याह-अस्माभिरिति । श्रौतत्वेति । यथासंख्येनान्वयः । नन्वेवं तर्हि तस्याः किमुदाहरणमत आह-तस्या. श्शेति । वाक्यार्थनिदर्शनाया इत्यर्थः । याक्कैः अलक्तकरसैः । ननु कौरभेदमादाय वाक्यार्थरूपकमेवास्त्वित्यत आह-तस्यैव चेति । क्रिययोरभेदस्यैव चेत्यर्थः । समग्रेति । मुख्यत्वादित्यर्थः । इदं दीक्षितोक्तम् । भ्रान्तिनैवेति । भ्रान्तेनैवेति मुख्यः पाठः । कंदर्पद्विपेति । सर्वत्र षष्ठीतत्पुरुषः । कम्बु शङ्खः । कलं रमणीयम् । अनो
For Private And Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
काव्यमाला। व्योमानोकहपुष्पगुच्छमलिभिः संछाद्यमानोदरं
पश्यैतच्छशिनः सुधासहचरं बिम्बं कलङ्काङ्कितम् ॥ अत्र कलङ्कस्य दानाम्ब्वादिभिः प्रतिबिम्बनम्, लाञ्छितत्वाङ्कितत्वयोः शुद्धसामान्यरूपत्वमित्युक्तं चेत्यास्तां तावत् । तथा निर्दिष्टे शब्देनाभिहिते इत्यस्य येनकेनचिद्रूपेण शब्देनाभिहित इत्यर्थः, उताहो उपमेयतावच्छेदकरूपेण शब्देनाभिहिते । आये 'सुन्दरं कमलं भाति लतायामिदमद्भुतम्' इत्यत्रातिप्रसङ्गः । सुन्दरपदेन सुन्दरत्वेन रूपेण इदंपदेन च विषयस्याननस्य प्रतिपादनात् । न चात्र सुन्दरपदार्थस्यारोप्यमाणकमलान्वय एव, न तु वदनरूपविषयान्वय इति वाच्यम् । कमलपदेन कमलताद्रूप्येणाननस्यैव लक्षणयोपस्थानात्तत्रैव सुन्दरादिपदार्थान्वयो युक्तः, न तु विशेषणीभूते कमले । अथ तादृशं विषयमुद्दिश्य विषयिताद्रूप्यं यत्र विधीयते इत्यपि लक्षणवाक्यार्थः । प्रकृते च सुन्दरत्वावच्छिन्नमुद्दिश्य कमलताद्रूप्यस्याविधानान्नातिप्रसङ्ग इति चेत् । न । 'मुखचन्द्रस्तु सुन्दरः' इत्यादि रूपके समासगतयोविषयविषयिणोः पृथग्विभक्तिमन्तरेणोद्देश्यविधेयभावाभावादव्याप्त्यापत्तेः । द्वितीये त्वनिद्भुत इति विशेषणवैयर्थ्यम् । अपहृतावुपमेयतावच्छेदकस्य निषिध्यमानतया तेन रूपेण विषयस्यानिर्दिष्टत्वादेव लक्षणस्याप्रसक्तेः । निश्चयगताहार्यकहः कुटः शाल: । शद्वसामान्येति । अनयोर्वस्तुप्रतिवस्तुभावापन्नत्वादिदं चि. न्त्यम् । उक्तं चेति । चकार उदाहृतसमुच्चायकः । द्वितीयविशेषणं दूषयति-तथेति। उताहो अथवा । इत्यत्र रूपकातिशयोक्तिविषयेऽन्वय एवेति । तत एव चमत्कारात्सानिध्याच्चेति भावः । रूपकातिशयोक्ति ध्वनयितुमाह-कमलेति । तत्रैव आनन एव । न विति । पदार्थः पदार्थेनेति न्यायादिति भावः । तादृशं येनकेनचिद्रूपेण शब्देनाभिहितम् । इत्यपि उद्देश्यविधेयभावघटितोऽपि । अविधानादिति । तादृशमाननमु. द्दिश्य भानक्रियाया एव विधेयत्वादिति भावः । यद्वा सुन्दरत्वादेः कमलत्वादिविशिष्टे विशेषणत्वमेवोद्देश्यतावच्छेदकत्वम् । इयांस्तु विशेष:-यदतिशयोक्तावुपमेयधर्मस्योद्देश्यतावच्छेदकत्वाभाव एव । रूपके त्वनियम इतीति भावः । अत एवाह ---मुखचन्द्र स्त्विति । पृथगिति । उद्देश्यविधेयभावेन बोधे भिन्नविभक्तिजन्योपस्थितेस्तन्त्रत्वात् । तथा च व्यस्ते तथा प्रतीतिः, न समासे इत्यत्राव्याप्तिरिति भावः । ननपमेयतावच्छे. दकरूपेण शब्देनाभिहिते इति तदर्थेन न प्रागुक्तदोषोऽत आह-द्वितीये विति । अपहृतौ 'नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम्' इत्यत्र । अनिर्दिष्टत्वादेवति ।
For Private And Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२२९ त्वविशेषणवैयर्थ्य च । भ्रान्तिमति दोषविशेषेण प्रतिबध्यमानतया नास्त्युपमेयतावच्छेदकसंस्पर्श इति तावतैव वारणात् । अपि च 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इति कुवलयानन्दे त्वयोक्तायामपद्भुतावतिप्रसङ्गः । अत्र सुधांशौ सुधांशुत्वनिह्नवेऽप्यारोपविषयस्यानिहवात् । न चेदं रूपकमेवेति वाच्यम् । त्वदुक्तिविरोधापत्तेः । यच्चाप्युक्तमव्यङ्गयत्वविशेषणाच्चेदमेवालंकारभूतस्य रूपकस्य लक्षणमिति, तदपि न । नहि व्यङ्गयत्वालंकारत्वयोर्विरोधोऽस्ति । प्रधानव्यङ्गयरूपकवारणाय पुनरुपस्कारकत्वं विशेषणमुचितमित्यसकदावेदनात् । अनलंकारत्वस्य तुल्यतया प्रधानव्यङ्गयरूपकस्येव प्रधानवाच्यरूपकस्यापि वारणीयत्वेन तद्वारकविशेषणाभावेन तत्रापि प्रसङ्गाच्च । यच्च 'तद्रूपकमभेदो य उपमानोपमेययोः' इत्यादि प्राचीनरुक्तं तच्चिन्त्यम् । अपहृत्यादावुपमानोपमेययोरभेदस्य प्रतीतिसिद्धतया तत्रातिप्रसङ्गात् । अथोपमानोपमेययोरित्युक्त्या उपमेयतावच्छेदकं पुरस्कृत्योपमानतावच्छेदकावच्छिन्नाअत्र निषेधप्रतियोगिविधया निर्दिष्टत्वादिदं चिन्त्यम् । न च तथा निर्दिष्टत्वेऽपि पुरस्काराभावः । तर्हि तावत्पर्यन्तविवक्षाबोधनार्थमेवानिद्भुते इति विशेषणसाफल्यादिति बोध्यम् । तावतैव उक्तार्थकनिर्दिष्टे इति विशेषणेनैव । इदं चिन्त्यम् । आहार्यत्वविशेषणस्य निर्दिष्टे इति विशेषणलब्धार्थकथनतात्पर्यकत्वात् । अतिशयोक्तो लक्षणामाहात्म्याज्जायमानज्ञानस्यानाहार्यस्यैव जायमानत्वेन तावतैव वारणात् शक्यतावच्छेदकलक्ष्यतावच्छेदकयो नमिति त्वल्लिखितमतान्तरेऽपि युगपदेवोभयोर्भानेन बाधस्यैवानुप. स्थितत्वान्न तद्वद्धराहार्यत्वम् । किं च चन्द्रवृत्तिगुणवत्त्वलक्ष्यतावच्छेदकस्य चन्द्रवस्य च मिथो विरोधाभावेन न बाधप्रतिसंधानम् । मुखत्वेन मुखं लक्ष्यत इति त्वश्रद्धेयमेव । रूपके तु बाधस्य स्फुटमुपस्थितत्वेन साक्षाद्वयञ्जनया वा जायमाना ताप्यप्रतिपत्तिराहार्यवेति दीक्षिताशय इति दिक् । अपगुतो पर्यस्ता पद्भुतौ । विषयस्य सुधांशोः । इदमपि चिन्त्यम् । उपमेयोपमादीनां वैचित्र्यविशेषेणालंकारान्तरत्ववदिहाप्युपपत्तेः । मतान्तरेऽप्यभेदादिकृते चमत्कारे रूपकम्, निगवादिकृते तस्मिस्तु सेति विषयविभागसं. भवात् । चमत्कारित्वस्यालंकारसामान्यलक्षणप्राप्तत्वात्समुदितस्यालंकारत्वेनांशे रूपकत्वे इष्टापत्तेश्चेति दिक् । चित्रमीमांसायामप्पदीक्षितोक्तमन्यदपि खण्डयति-यचा. पीति । इदमेव प्रागुक्तं रूपकलक्षणमेव । नन्वेवं कथमतिप्रसङ्गनिरासोऽत आह-प्रधानेति । नन्वेवमपि विनिगमनाविर हात्तथोक्तिरत आह-अनलमिति । मन्मते तु तेनैवोभयोर्वारणमिति भावः । प्रकाशोक्ति खण्डयति-यञ्चेति । तथापि उक्तार्थाङ्गी
For Private And Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
काव्यमाला।
भेद इत्यर्थलाभादपद्भुतौ चोपमेयतावच्छेदकस्य पुरस्काराभावान्नातिप्रसङ्ग इति चेत् । न । 'नूनं मुखं चन्द्रः' इत्याद्युत्प्रेक्षायां तथाप्यतिप्रसक्तेः । न च
। 'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपङ्गतिः ।'
'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् ।' इत्याद्यपहृत्युत्प्रेक्षादीनां बाधकत्वात्तत्परिगृहीतविषयातिरिक्तो रूपकस्य 'मुखं चन्द्रः' इत्यादिविषयः स्यात् । यथा 'शरमयं बर्हिः' इत्येतद्विषयातिरिक्तः 'कुशमयं बर्हिः' इत्यस्य । यथा वा क्सादेशविषयातिरिक्तो विषयः सिचः । लोकेऽपि यथा 'ब्राह्मणेभ्यो दधि देयम्, तक्रं कौडिन्याय । इत्यत्र तक्रसंप्रदानातिरिक्तं दध्नः संप्रदानमिति वाच्यम् । वैषम्यात् । विशेषशास्त्रं हि स्वविषयातिरिक्तं विषयं ग्राहयत्सामान्यशास्त्रस्य बाधकमित्युच्यते । प्रकृते च रूपकस्य लक्षणं धर्मः । स यद्युत्प्रेक्षादिवृत्तिः स्यात् कस्तमस्माद्विषयान्निरस्य विषयान्तरं ग्राहयेत् । नहि घटत्वं स्वाधिकरणात्प्टथिवीत्वं द्रव्यत्वं वा निरस्य विषयान्तरं ग्राहयितुमीष्टे । तस्मादतिप्रसक्तिलक्षणेऽस्मिन्दोषः । ननु संभावनात्मिकोत्प्रेक्षा, कथं तस्यामभेदत्वात्मकरूपकलक्षणातिप्रसक्तिरिति चेत् । न । विनिगमकाभावेन संभाव्यमानाभेदस्याप्युत्प्रेक्षास्वरूपत्वात् । विषयसंभावनाभ्यामुत्प्रेक्षायामलंकारद्वयव्यवहारापत्तेश्च । निश्चीयमानत्वेनाभेदो विशेषणीय इति चेदस्मदुक्त एव तर्हि पर्यवसितिरिति दिक् । । । ___ तदिदं रूपकं सावयवं निरवयवं परम्परितं चेति तावत्रिविधम् । तत्राद्यं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधम् । द्वितीयमपि केवलं मालारूपकं चेति द्विविधम् । तृतीयं च श्लिष्टपरम्परितं शुद्धपरम्परितं चेति द्विविधं सत्प्रत्येकं केवलमालारूपत्वाभ्यां चतुर्विधमित्यष्टविधमाहुः । कारेऽपि । अत्र तस्य पुरस्कारोऽस्तीति भावः । मुखं चन्द्र इति । अत्र गमकाभावात्तदुभयं न । तत्र जैमिनीयं दृष्टान्तमाह-यथा शरेति । आभिचारिके कर्मणि वि. शेषविहितमिदम् । व्याकरणोक्तं तमाह--यथा वा वसेति । “शल इग-' इति विहितः । ग्राहयत् न त्वग्राह्यत् । तस्यैव तद्वोजत्वात् । धर्म: अभेदत्वरूपः । संभावनैवोत्प्रेक्षेति पक्षे आह-विषयेति । अलंकारद्वयेति । रूपकोत्प्रेक्षेतीत्यर्थः । नहि प्रधानत्वं तद्विशेषणम् । तत्त्वस्यैव भङ्गापत्तेः । तावत् आदौ । आहुः प्रकाशकारादयः । ए.
For Private And Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
तत्र -
www. kobatirth.org
रसगङ्गाधरः ।
Acharya Shri Kailassagarsuri Gyanmandir
२३१
परस्परसापेक्षनिष्पत्तिकानां रूपकाणां संघातः सावयवम् ।
तत्रापि -
समस्तानि वस्तून्यारोप्यमाणानि शब्दोपात्तानि यत्र तत्समस्तवस्तुविषयम् ।
यत्र च कचिदवयवे शब्दोपात्तमारोप्यमाणं कचिचार्थसामर्थ्याक्षिप्तं तदेकदेशे शब्दानुपात्तविषयिके अवयवरूपके विवर्तनात्स्वस्वरूपगोपनेनान्यथात्वेन वर्तनादेकदेशविवर्ति ।
यद्वा
एकदेशे उपात्तविषयिके अवयवे विशेषेण स्फुटतया वर्तनादेकदेशविवर्ति ।
समस्तवस्तुविषयं सावयवं यथा
'सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे ।
वदन परिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेहः ॥' अत्र समुदायात्मकस्य सावयवरूपकस्यावयवानां सर्वेषामपि वस्तुतः समर्थ्य समर्थक भावस्य परस्परं तुल्यत्वेऽपि कवे राकारूपस्यैव समर्थ्यत्वेनाभिप्रेतत्वात्समर्थक तयोपादानमितरेषामिति गम्यते । एवं स्थिते समर्थकरूपकाणां विषयविषयिणोः पृथग्विभक्तेरश्रवणादनुवाद्यत्वेऽपि समर्थ्य - रूपकस्य तयोः ष्टथग्विभक्तिश्रवणाद्विधेयतया तदादाय संघातात्मकस्य सावयवरूपकस्यापि विधेयत्वमत्र व्यपदिश्यते । भटसंघातान्तर्गतस्य मुख्यस्य कस्यापि भटस्य जयपराजयाभ्यां भटसंघातो जितः पराजित - त्युच्यते ।
For Private And Personal Use Only
1
तत्सूचितारुचिस्त्वग्रे स्फुटीभविष्यति । यत्र च यत्र तुसंघातात्मकसावयवरूपके । अव - यवरूपके इति । रूपकसंघातस्यावयविनोऽवयवे कस्मिंश्चिद्रूपक इत्यर्थः । विवर्तनादिति । विरुद्धतया वर्तनादित्यर्थः । विरुद्धत्वमेवाह - स्वेति । विनिगमनाविरहादाहद्वेति । अवयवे अवयवरूपके | अवयवानां मुक्तानक्षत्रवस्त्र ज्योत्स्ना मुखचन्द्रनायिकापूर्णिमारूपाणाम् | अभिप्रेतेति । विधेयत्वेन वर्ण्यत्वादिति भावः । तयोर्विषयविषयिणोः । तदादाय तदीयविधेयत्वमादाय । अत्र पद्ये । अन्यधर्मेणान्यत्र व्यपदेशे मान
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
काव्यमाला।
'व्योमाङ्गणे सरसि नीलिमदिव्यतोये
तारावलीमुकुलमण्डलमण्डितेऽस्मिन् । आभाति षोडशकलादलमङ्कभृङ्गं
सूराभिमुख्यविकचं शशिपुण्डरीकम् ॥' अस्य तु सावयवरूपकस्यानुवाद्यत्वमेव । अत्र वर्ण्यस्य . पूर्णचन्द्रस्य सूर्याभिमुख्यं ज्योतिःशास्त्रसिद्धम् । तेन सूर्याभिमुख्य चन्द्रस्य कथं विकास इति न शङ्कनीयम् । एकदेशविवर्ति सावयवं यथा'भवग्रीष्मप्रौढातपनिवहसंतप्तवपुषो
बलादुन्मूल्य द्राङिगडमविवेकव्यतिकरम् । विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे
विगाहन्ते दूरीकृतकलुपजालाः सुकृतिनः ॥' अत्र सहचरैर्निगडादिरूपकैः सुकृतिषु गजरूपकमाक्षिप्यते । यथा वा-
"रूपजला चलनयना नाभ्यावर्ता कचावलिभुजंगा। __ मन्जन्ति यत्र सन्तः सेयं तरुणीतरङ्गिणी विषमा ॥' पूर्व तु कवेः समर्थ्यत्वेनाभिमतस्य रूपकस्याक्षेपः, इह तु समर्थकत्वेनाभिमतस्य नयनयो मीनरूपकस्येति विशेषः । अत्र च चमत्कारविशेषजनकतया रूपकसंघातात्मकमपि सावयवरूपकं रूपकालंकृतिभेदगणनायां गण्यते । यथा मौक्तिकालंकृतिभेदगणनायामेकं नासामौक्तिकमिव संघातात्मकमौक्तिकमञ्जर्यादयोऽपि गण्यन्ते । अन्यमालारूपस्योपमादेस्ततेंदगमाह-यथेति । लक्ष्यान्तरमाह-व्योमेति । लक्ष्यान्तरदाने विशेषमाह-अस्य विति । अत्र क्वापि पृथग्विभक्तेरश्रवणान्मिय उद्देश्यविधेयाभावेन सर्वमुद्दिश्याभाया एव विधेयत्वादिति भावः । स्पष्टत्वादितरदुपेक्ष्याह-अत्रेति । प्रौढातपेत्यत्र कर्मधारयः । व्यतिकरः संबन्धः। सहचरित्यनेनाक्षेपकत्वयोग्यता, गजरूफ्कस्य प्राधान्यं च सूचितम् । लक्ष्यान्तरदाने बीजमाह-पूर्व विति । रूपकस्य गजेत्यादिः । मीनेति । सन्त इत्यस्य तु साधवः सुहृदश्चेत्यर्थद्वयमिति भावः । जनकतयेति गणनायां हेतुः । गण्यत इति । पृथगिति शेषः । लोकदृष्टान्तेन सिद्धमर्थ प्रतिपाद्य व्यतिरेकमुखेन द्रढ. यति-तद्भेदेति । उपमालंकारभेदेत्यर्थः । प्रस्तुतौ प्रस्तावे । एवं अस्य पृथग्गणनवत् ।
HHHHHI
For Private And Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२३३ णनेऽगणनप्रसङ्गात् । एतेन गवां संघातो गोभेदानां कपिलादीनां गणनायां यथा न गण्यते तथा रूपकभेदगणनाप्रस्तुतौ न तत्संघातात्मकं सावयवं गणनीयम्' इति परास्तम् । एवमस्मात्संघातात्मकात्सावयवान्मालारूपकस्य संघातात्मकत्वेनाविशेषेऽप्येकविषयकत्वपरस्परनिरपेक्षत्वाभ्यामस्ति महाविशेषः । निरवयवं केवलं यथा
'बुद्धिर्दीपकला लोके यया सर्व प्रकाशते ।
अबुद्धिस्तामसी रात्रिर्यया किंचिन्न भासते ॥' अत्र रूपकद्वयमाप सापेक्षरूपकसंघातात्मकत्वविरहान्निरवयवम् । मालात्मकत्वविरहाच्च केवलम् ।
निरवयवं मालारूपकं यथा-- 'धर्मस्यात्मा भागधेयं क्षमायाः सारः सृष्टेर्जीवितं शारदायाः। आज्ञा साक्षाद्ब्रह्मणो वेदमूर्तरा कल्पान्तं राजतामेष राजा ॥'
एकविषयकनानापदार्थारोपरूपत्वान्मालारूपमिदम् । परस्परसापेक्षत्वविरहाच्च निरवयवम् । __ यत्र चारोप एवारोपान्तरस्य निमित्तं तत्परम्परितम् । तत्रापि समर्थकत्वेन विवक्षितस्यारोपस्य श्लेपमूलकत्वे श्लिष्टपरम्परितम् ।
यथा_ 'अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य ।
तस्य कुतोऽहिभयं स्यादखिलामपि मेदिनी चरतः ॥' अत्र द्वयोरप्यारोपयोः समर्थ्यसमर्थकभावस्य वस्तुतस्तुल्यत्वेऽप्यहितानामपकरणमेवाहीनां तापकरणमिति श्लेषमूलकेनारोपेण राजनि भेषजतादात्म्यारोपस्य समर्थनीयकतया कवेरभिप्रायः । अत एव भङ्गश्लेषनिवेदितोऽहिभयाभावोऽपि संगच्छते । एकविषयत्वेति । एतौ च मालारूपकनिष्टौ धौ । सावयवत्वानेकविषयकं परस्परसापेक्षं चेति बोध्यम् । शारदायाः सरस्वत्याः । साक्षादिति । अप्रतिहतशक्तित्वादिति भावः । एकेति । राजेत्यर्थः । द्वयोरपीति । अहिसंबन्धतापकरणभेषजारोपयोरित्यर्थः । 'समर्थनीयतायाम्' इति पापः । कवेरिति । प्राधान्यादिति भावः । अत एव तस्य ता
२०
For Private And Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
इदमेव मालारूपं यथा
'कमलावासकासारः क्षमाधृतिफणीश्वरः ।
अयं कुवलयस्येन्दुरानन्दयति मानवान् ॥' शुद्धपरम्परितं केवलं यथा'देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता
देवं जल्पन्ति तावत्प्रतिभटटतनावर्तिनः क्षत्रवीराः । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते
मुग्धारिप्राणदुग्धाशनमसूणरुचिस्त्वकृपाणो भुजंगः ॥' अत्रापि भुजंगारोपो दुग्धारोपसमर्थ्यत्वेनाभिमतः । तदेव मालारूपं यथा'प्राचीसंध्यासमुद्यन्महिमदिनमणेर्मानमाणिक्यकान्ति
|लामाला कराला कवलितजगतः क्रोधकालानलस्य । आज्ञाकान्तापदाम्भोरुहतलविगलन्मञ्जुलाक्षारसाभा
क्षोणीन्दो संगरे ते लसति नयनयोरुद्भटा शोणिमश्रीः ॥' यद्यपि सावयवेऽप्यारोपे आरोपान्तरस्योपायस्तथापि तत्रारोपातिरिक्तेन कविसमयसिद्धसादृश्येनाप्यारोपान्तरसिद्धिः संभवति । यथा प्रागुक्ते 'सुन्दरि राकासि नात्र संदेहः' इत्यत्र मौक्तिकादीनां तारात्वाद्यारोपं विनाप्यौज्ज्वल्यमात्रेणापि सुन्दर्या राकारोपसिद्धेः, इह तु नयनशोणिम्नि ज्वालाद्यारोपोऽनलसमारोपं नियमेनापेक्षते ।
एवं 'कारुण्यकुसुमाकाशः खलः' इत्यत्राकाशखलयोः सादृश्यस्याप्रसिद्धतयारोपसिद्ध्यर्थमारोप एवोपाय इति वैलक्षण्यम् । त्पर्यविषयत्वेन समर्थनीयत्वेन तद्वेद्यत्वादेव । भङ्गेति । पदच्छेदेत्यर्थः । इदमेव श्लिष्टप- . रम्परितमेव । कमलेति । कमलानामावासः । कमलाया वासः । पृथ्वीकृतिः । क्षान्तिधृतिः । पृथ्वीमण्डलस्य कुमुदस्य च । अयं वो राजा । अत्र समर्थककमलावासाधारोपस्य श्लेषमूलकस्य चन्द्रारोपे निमित्तत्वाद्राज्ञि कासाराद्यनेकपदार्थारोपरूपत्वाच मालाश्लिष्टपरम्परितरूपकता । पूर्वदेवा दैत्याः । 'समिति' इति 'क इह' इति द्विः पाठः । व्याख्यातमिदम् । दुग्धारोपति । अनेन परम्परितत्वमुक्तम् । श्लेषमालयोरभावाच्छुद्धकेवलत्वे । तदेव शुद्धपरम्परितमेव । प्राचीति । अपिना मालारूपकपरिग्रहः ।
For Private And Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२३५
कश्चित्तु बह्वारोपात्मकात्सावयवादारोपद्वयात्मकमेवास्य वैलक्षण्ये बीजमित्याह ।
'काव्यं सुधा रसज्ञानां कामिनां कामिनी सुधा।
धनं सुधा सलोभानां शान्तिः संन्यासिनां सुधा ॥' अत्र विषयमालाळतो न कश्चिञ्चमत्कारविशेष इति न पृथग्भेदगणनायां गण्यते । आरोप्यमाणमाला तु चमत्कारविशेषशालित्वाद्गण्यत एव ।
अथ कथं नाम श्लिष्टपरम्परिते 'कमलावासकासारः' इत्यादावेकस्यारोपस्यारोपान्तरोपायत्वम् । यतः श्लेपेण कमलानामावासस्य कमलाया वासस्य चाभेदमात्रमत्र प्रतीयते । नैकत्रान्यारोपः । तस्य स्वतन्त्रविषयनिदेशापेक्षत्वात् । न च शुद्धाभेदप्रत्यय एवारोपः । विषयनिगरणात्मिकायामतिशयोक्तावपि तत्प्रसङ्गात् । न च शुद्धाभेदप्रत्ययेनात्रार्थः यत्संबन्धिनि यत्संबन्ध्यभेदस्तस्मिंस्तदभेद इति । 'कमलावासकासारः' इत्यादौ राजनि कासारारोपो राजसंबन्धिनि लक्ष्म्याश्रयत्वे कासारसंबन्धिसरोजाश्रयत्वाभेदारोपेण समर्थयितुं शक्यः । श्लेषेण तु पुनर्लक्ष्म्याश्रयत्वसरोजाश्रयत्वयोरभिन्नत्वेन प्रत्ययादभिन्नधर्मनिबन्धनो राजकासारयोरप्यभेदप्रत्ययः स्यात् । न तु राजविषये कासारविषयिकस्यारोपस्य प्रकृतस्य सिद्धिः । इमावभिन्नावित्याद्याकारस्य शुद्धाभेदप्रत्ययस्याप्रकृतत्वात्प्रागुक्त आरोपो मृग्यः । स च न श्लेषसाध्य इति सत्यम् । श्लेषेण शुद्धाभेदप्रतीतो सत्यां प्रकृतारोपसमर्थनायान्तरा मानसस्य राजसंबन्धिनि कासा'तत्र सावयवे सिद्धिः' इति पाठः। अनलसमारोपमिति। राज्ञीति शेषः । कश्चित्विति । अत्रारुचिबीजं तु प्रागुक्तरीत्या निर्वाह इति । विषयमालाकत इति । एकस्यापमेयस्य नानोपमानकृत इत्यर्थः । या माला । तस्यैकत्रान्यारोपस्य नानुपपत्तिरिति । अत्रेदं चिन्त्यम्--कमलावासेनायं राजा कासार इत्यादौ यथा श्लेषमूलकाभेदाध्यवसानेनैनं साधारणधर्ममादाय राजकासारयो रूपकस्य गाम्भीर्येण समुद्रोऽयमित्यादाविव संभवस्तद्वत्कमलावासकासार इत्यादावपि संभवात्किमर्थोऽयं क्लेश: । साधारणधर्मज्ञानस्य चाभेदारो. पप्रयोजकत्वात् । इदमेव चास्योपापत्वमारोपे(?) एतन्मलीभूतसाधारणधर्मसंपत्तिः (साधारणधर्मसंपत्तिः) आरोपेणैवेत्यत्र न किंचिन्मानम् । समर्थके रूपकत्वव्यवहारस्तु भाक्तः । तदापि श्लिष्टेषु सादृश्यमूलकत्वाभावादावश्यकः । एवं च 'कारुण्यकुसुमाकाश:
For Private And Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२३६
www. kobatirth.org
――――――
काव्यमाला |
रसंबन्ध्यभेदारोपस्य कल्पनान्नानुपपत्तिः । कथं तर्हि परम्परितरूपके 'सौजन्यचन्द्रिकाचन्द्रो राजा' इत्यादौ रूपकत्वम् । अभेदारोपस्य स - वेऽपि तस्य सादृश्यमूलकत्वाभावात् । इति चेत्, न । समर्थकारोपेण धर्मैक्यसंपादने सादृश्यस्य निष्प्रत्यूहत्वात् । स्यादेतत् सौजन्यचन्द्रिका - चन्द्र इत्यत्र तत्पुरुषावयवे समानाधिकरणतत्पुरुषे चन्द्रिकायामभेदसंसर्गेण सौजन्यस्य विशेषणत्वात्प्रतीयमानश्चन्द्रिकागतः सौजन्याभेदो न राजनि चन्द्राभेदात्मकं रूपकं समर्थयितुं प्रभवति । यत्संबन्धिनि यत्संवन्ध्यभेद इत्यादि प्रागुक्तन्यायात् । अपि तु सौजन्ये विषये चन्द्रिकाभेदः । यथा'सौजन्यं ते धराधीश चन्द्रिका त्वं सुधानिधिः । स च दुरुपपाद एव । न चानयोः समानवित्तिवेद्यत्वान्नानुपपत्तिरिति शक्यं वक्तुम् । प्रात्यक्षिके हि सामग्र्यास्तुल्यत्वात्तत् । न तु शाब्दबोधे व्युत्पत्तिवैचित्र्यनियन्त्रिते । एवमन्यत्रापि कथं समासगतशुद्धपरम्परिते द्वयोरारोपयोर्निर्वाद्यनिर्वाहकभावः । कथं च शशिपुण्डरीकमित्यादौ पुण्डरीकरूपकमुच्यते । पुण्डरीकाभेदात्मकस्य पुण्डरीकताद्रूप्यस्याभानात् । शश्यभेदप्रत्ययाच्च पुण्डरीकं शशीत्यत्रेव शशिरूपकमुच्यताम् । एवं नीलिमदिव्यतोये तारावलीमुकुलमण्डलमण्डिते षोडशकलादलमङ्क भृङ्गमित्यत्राप्युत्तरपदार्थे पूर्वपदार्थाभेदस्यैव भानात्पूर्वपदार्थरूपकापत्तिः ।
1
तथा
Acharya Shri Kailassagarsuri Gyanmandir
'सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेहः ॥'
इत्यत्र सुन्दर्यो विषयभूतायां राकातादात्म्यावगमात्स्फुटमेव तावद्राकारूपकम् । तत्र चरणत्रयगतानि राकारूपकाण्यनुगुणतयोपात्तान्यपि खल:' इत्यादी वक्ष्यमाणान्योन्याश्रयोऽपि न । खलाकाशरूपकोपयुक्तकारुण्यकुसुमयोरभेदप्रत्ययस्येच्छाधीनाहार्यस्य संभवेन तावतैवोपपत्तेः । न तु समर्थकारोपे सादृश्यमूलकत्वमावश्यकमित्यनुपदमेवोक्तम् । एतेन स्यादेतदित्यादिना सौजन्यचन्द्रिकाचन्द्र इत्यश्रत्य पूर्वपक्षसमाधाने रास्ते । अस्मदुक्तरीत्या पूर्वपक्षस्यैवाभावादिति । समर्थकारोपेण चन्द्रिकायां सौजन्याभेदरोपेण चन्द्रिकाभेद इति । तदात्मकरूपकं समर्थयितुं प्रभवतीत्यस्यानुषङ्गः । स च स तु सौजन्यचन्द्रिकेत्यत्र । अनयोरभेदयोः । तत्तुल्यवित्तिवेद्यत्वम् । अन्यत्रापि उदाहृतातिरिक्तस्थलेऽपि । उदाहृतस्थल एव शङ्कते - कथं चेति ।
For Private And Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ः ।
नानुगुण्यमाचरन्ति । ताराचन्द्रिकापूर्णचन्द्राणां मौक्तिकधवलांशुकवदनाभिन्नत्वे सिद्धेऽपि न सुन्दर्या राकातादात्म्यं सेन्दुमीष्टे । प्रत्युत विपरीतं राकायां सुन्दरीताद्रूप्यम् । तेषां राकासंबन्धित्वात्सर्वमेव व्याकुलमिति ।
अत्र वदन्ति — अभेदस्तावद्विशेषणस्य संसर्गो भवति । स च यथा मुखं चन्द्र इत्यादौ वाक्यगते रूपके स्वप्रतियोगिनश्चन्द्रस्य स्वानुयोगिनि मुखे विशेषणताया निर्वाहकस्तथैव समासगते मुखचन्द्र इत्यादी रूपके स्वानुयोगिनो मुखस्य प्रतियोगिनि चन्द्रे विशेषणतायाः । एवं चोभयत्रापि वस्तुतश्चन्द्राभेद एव संसर्गः । क्वचिदनुयोगित्वमुखः क्वचिच्च प्रतियोगित्वमुखः । विशेषणविशेष्यभाववैचित्र्यात् । न तु मुखचन्द्र इत्यत्र मुखाभेदः संसर्गः । तथासति चन्द्ररूपकानापत्तेः, मुखरूपकत्वापत्तेश्च । स्वप्रतियोगिकाभेद एव विशेषणसंसर्गे न तु स्वानुयोगिकाभेद् इति तु दुराग्रहः । एवं च सौजन्यचन्द्रिकेत्यादौ वस्तुतः सौजन्याभेदो न सौजन्यस्य चन्द्रिकाविशेषणस्य संसर्गः, अपि तु चन्द्रिकाभेद एव । तथा च सौजन्यनिष्ठाभेदप्रतियोगिनी चन्द्रिकेति पर्यवसितेऽर्थे भङ्गयन्तरेण सौजन्ये चन्द्रिकाभेदास - द्वौ जातायां राजनि चन्द्राभेदोऽपि निष्पद्यते इति परम्परिते नानुपपत्तिः । शशिपुण्डरीकमित्यादावपि शशिनिष्टाभेदप्रतियोगि पुण्डरीकमिति पर्यवसितेऽर्थे पुण्डरीकाभेदस्य भानात्पुण्डरीक रूपकमव्याहतम् । एवमन्येष्वप्यवयवरूपकेषु बोध्यम् । एवं सुविरलमौक्तिकतारे इत्यादावपि ताराद्यभेद एव मौक्तिकादिगतो मौक्तिकादीनां तारादिविशेषणानां संसर्गीभवन्राकारूपकस्य समर्थको भवतीति सर्व सुस्थम् ।
सोऽयमभेदो यत्रानुयोगित्वमुखस्तत्र रूपकस्य विधेयता । यत्र च प्रतियोगित्वमुखस्तत्रानुवाद्यत्वमिति दिकू ।
२३७
For Private And Personal Use Only
तत्र 'प्राचीसंध्यासमुद्यन्महिमदिनमणेः' इत्यत्रारोप्यमाणयोः परस्परसारोपविषययोश्चानुकूल्ये रूपकयोरनुग्राह्यानुग्राहकभावो दर्शितः । चस्त्वर्थे । ईष्टे तदभिन्नत्वमिति शेषः । सुन्दरीताद्रूप्यं तदभिन्नत्वं सेमीष्टे इत्यस्यानुषङ्गः । क्वचित्समासगते । कचिच्च वाक्यगते । एवव्यावर्त्यमाह-न विति । इत्यत्र समासगते । मुखाभेदो मुखप्रतियोगिकाभेदः । नानुपपत्तिरिति । रूपकत्वस्येत्यादिः । सर्व सुस्थमिति । अन्ये तु " तुल्यवित्तिवेद्यतया चन्द्राभेदस्यापि मुखे प्रतीतेरार्थ चन्द्ररूपकम् । शाब्दं व्यस्ते । एवं मुखाभेदस्य समासशास्त्रप्रवृत्त्युपयोगितयाङ्गीकारे
1
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२३८
प्रातिकूल्ये यथा
यथा वा
www. kobatirth.org
------
काव्यमाला |
'आनन्दमृगदावाग्मिः शीलशाखिमदद्विपः । ज्ञानदीपमहावायुरयं खलसमागमः ॥'
Acharya Shri Kailassagarsuri Gyanmandir
' कारुण्यकुसुमाकाशः शान्तिशैत्यहुताशनः । यशः सौरभ्यलशुनः पिशुनः केन वर्ण्यते ॥ एकत्र नाश्यनाशकभावरूपमपरत्र चात्यन्तिकसंसर्गशून्यतारूपं प्रातिकूल्यमुपमानयोस्तथैवोपमेययोश्च । अनुग्राह्यानुग्राहकभावः पुनरारो
पयोरविशिष्ट एव ।
तथा
'अयं सज्जनकार्पासरक्षणैक हुताशनः । परदुःखाग्निशमनमारुतः केन वर्ण्यते ॥'
अत्र रक्षणशमनपदे विरोधिलक्षणया विपरीतार्थबोधके । एवं पदार्थरूपकं लेशतो निरूपितमेव । वाक्यार्थे विषये वाक्यार्थान्तरस्यारोपे वाक्यार्थरूपकम् । यथाहि विशिष्टोपमायां विशेषणानामुपमानोपमेयभाव आर्थस्तथात्रापि वाक्यार्थकानां पदार्थानां रूपकमर्थावसेयम् ।
'आत्मनोऽस्य तपोदानैर्निर्मलीकरणं हि यत् ।
क्षालनं भास्करस्येदं सारसैः सलिलोत्करैः ॥'
अत्रात्मनि तपोदानेषु चारोपविषयविशेषणतया विम्बभूतेषु भास्करस्य ऽध्यतात्पर्यविषयत्वान्न तमादाय मुखरूपकव्यवहारः । किं चात्र पूर्वपदार्थप्रधानमयूरव्यंसकादिसमासेन चन्द्रपुण्डरीकाद्यभेदस्यैव मुखशश्यादौ भानान्न दोषः । अत एव 'विशेव्यस्य पूर्वनिपातार्थमिदम्' इति भाष्यकृतः । एवं च वाच्यतापि चन्द्ररूपकस्य " इत्याहुः । अपरे तु "चन्द्रनिष्ठाभेदश्चन्द्रप्रतियोगिकाभेदश्च रूपकम् । अत एव ' तद्रूपक्रमभेदो य उपमानोपमेययोः' इत्युक्तं प्रकाशे । यद्वा विषयिनिष्ठाभेदप्रत्यापितितो ( ? ) यत्र विषयस्य रञ्जनमित्येव लक्षणार्थः । एवं च मुखप्रतियोगि काभेदेवांश्चन्द्र इत्येवंबोधेऽपि न क्षतिः" इत्याहु: । तत्र पदार्थरूपकाणां मध्ये । परस्परमित्यस्य मध्यमणिन्यायेनोभयत्रान्वयः । लक्ष्यान्तरदाने बीजमाह - एकत्रेति । आये इत्यर्थः । अयं पिशुनः । अर्थासेयमार्थिकम् । एतल्लक्ष्यमाह - आत्मन इति । सारसैः सरः संबन्धिभिः । 'सलिलो
For Private And Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२३९
सलिलक्षालनादीनां च विषयिविशेषणत्वेन प्रतिबिम्बानां रूपकं गम्यमानं प्रधानीभूतविशिष्टरूपकाङ्गम् । 'नेदं रूपकम् । रूपके च बिम्बप्रतिबिम्बभावो नास्ति' इति केनाप्यालंकारिकंमन्येन प्रतारितस्य दीर्घश्रवस उक्तिरश्रद्धेयैव । ययोरिवादिशब्दप्रयोगे उपमा तयोरेकवान्यारोपे रूपकमिति नियमात् । अत्र यदि रूपकं नाङ्गीकुरुषे मैवाङ्गीकुरु, तर्हि तत्रेवयथादिशब्दप्रयोगे उपमामपि । एवं त्वयि कोपो महीपाल सुधांशाविव पावकः' इत्यादौ स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययादुपमां ब्रूषे ब्रूहि तर्हि । तत्रैवेवस्य निरासे 'त्वयि कोपो महीपाल सुधांशी हव्यवाहनः' इत्यादौ रूपकमापि । तथा
'कुङ्कुमद्रवलिप्ताङ्गः कषायवसनो यतिः ।
कोमलातपबालाभ्रः संध्याकालो न संशयः ॥' इत्यादावपि विशिष्टरूपकं बोध्यम् । त्वयि कोप इत्यत्र विषयिणः स्वबुद्धिकल्पितत्वात्कल्पितं विशिष्टरूपकम् । इह तु न तथेति विशेषः ।
न चैवमादौ प्रतीयमानोत्प्रेक्षा वक्तुं शक्या । अभेदस्य निश्चीयमानत्वात् । उत्प्रेक्षायां च सत्यां संभाव्यमानता स्यात् । अन्यथा मुखं चन्द्र इत्यादावपि प्रतीयमानोत्प्रेक्षापत्त्या रूपकविलोपापत्तेः ।
अथ बोधो विचार्यतेतत्र प्राश्वः-"विषयिवाचकपदेन विषयिवृत्तिगुणवतो लक्षणया सारोपयोपस्थितौ विपये तस्या भेदेन संसर्गेण विशेषणतयान्वयः । एवं च मुखं चन्द्र इत्यत्र चन्द्रवृत्तिगुणवदभिन्नं मुखमिति धीः । अत एवालंकारभाष्यकारः 'लक्षणापरमार्थं यावता रूपकम्' इत्याह । न च चन्द्रसदृशं स्करादीनां च' इति पाठः । नेदमिति । किं तु निदर्शनेत्यर्थः । चोऽप्यर्थे । दीर्घश्रवसो लम्बकर्णस्य द्रविडस्याप्पदीक्षितस्य । तयोरिति । तदभावे इति शेषः । युक्त्यन्तरमाह-एवमिति । बालाभ्रः । शोणाभ्र इत्यर्थः । विषविणश्चन्द्राधिकरणकाग्निरूपोपमानस्य । इह तु कुङ्कम इवेत्यत्र तु । एवमादौ आत्मनोऽस्येत्यादौ । इवाद्यप्रयोगादाहप्रतीयेति । अन्यथा तस्य संभाव्यमानत्वे इष्टापत्तौ । तत्र बोधविषये । द्वयोरुपादानादाह-सारोपेति । उपस्थितौ सत्यामिति शेषः । विषये तस्या भेदेनेति । विषय
For Private And Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
काव्यमाला।
मुखमित्युपमातोऽस्य को भेदः । बोधवैलक्षण्याभावेन विच्छित्तिवैलक्षण्याभावात् । वृत्तिमात्रवैलक्षण्यस्याप्रयोजकत्वादिति वाच्यम् । लाक्षणिकबोधोत्तरं जायमानेन प्रयोजनीभूतेनाभेदबोधेनैव वैलक्षण्यात्। निरूढलक्षणातिरिक्ताया लक्षणायाः प्रयोजनवत्तानियमात् । अभेदबुद्देश्च वृत्त्यन्तरवित्तिभाव्यत्वेन न बाधबुद्धिप्रतिबध्यत्वम्" इत्याहुः। .. नव्यास्तु-"नामार्थयोरभेदसंसर्गेणान्वयस्य व्युत्पत्तिसिद्धत्वाञ्चन्द्राभिन्नं मुखमिति लक्षणां विनैव बोधः । फलस्यान्यथैवोपपत्तेलक्षणाकल्पनस्यान्याय्यत्वात् । किं च यदि च रूपके लक्षणा स्यान्मुखचन्द्र इत्यत्रोपमितिविशेषणसमासयोरुत्तरपदस्य लाक्षणिकत्वाविशेषादेकस्योपमात्वमन्यस्य रूपकत्वमिति व्याहतं स्यात् । अपि च मुखं न चन्द्रसदृशमपितु चन्द्र इत्यादौ सादृश्यव्यतिरेकमिश्रिते सादृश्यबुद्धेरयोगात् । एवं देवदत्तमुखं चन्द्र एव, यज्ञदत्तमुखं तु न तथा अपि तु चन्द्रसदृशमित्यादौ नअर्थस्य लक्ष्यमाणचन्द्रसदृशान्वयित्वान्न चन्द्रसदृशश्चन्द्रसदृश इति बोधकदर्थनापत्तेश्च । नहि नञः फलीभूतज्ञानविषयेणाभेदेनान्वयो युक्तः । एतदन्वयवेलायां तस्यानुपस्थितेः । तादृशाभेदबोधस्य चाहार्यत्वान्न बाधबुद्धिप्रतिबध्यत्वम् । यद्वा आहार्यान्वयस्येव शाब्दान्वयस्यापि बाधनिश्चयप्रतिबध्यताकोटौ निवेशः । सति च बाधनिश्चये तद्वत्ताशाब्दबुद्धरनुत्पादः । योग्यताज्ञानविरहात् । सति च क्वचिदाहाथै योग्यताज्ञाने ततावच्छेदकावच्छिन्नविषये पूर्वोपस्थितस्येत्यर्थः । वृत्तीति । शक्तिलक्षणान्यतरेत्यर्थः । वृत्यन्तरवित्तीति । व्यञ्जनाज्ञानेत्यर्थः । आहुरिति । एतन्मते ह्येवं रूपकलक्षणम्अनिद्रुतविषयकं पुरस्कृतविषयतावच्छेदकं वा आहार्याभेदप्रतीतिफलकोपमानबोधकपदजन्यप्रतीतिविषयीभूतं साधर्म्य मिति । फलस्याभेदबुद्धेः । अन्यथैवोक्तप्रकारेण । न तथा न चन्द्रः सदृश इति । मुखपदार्थ इति शेषः । ननु स्वमते बाधसत्त्वेन कथमभेदधीरत आह-तादृशेति । इदं च शाब्दे तस्याः प्रतिबन्धकत्वमरीकृत्य वस्तुतस्तदेव नेत्याह-यद्वेति । नन्वेवं सति बाधनिश्चये तदभावो नोपपद्येतात आह-सति चेति । बुद्धेरनुत्पाद इति । इदं तु चिन्त्यम् । शाब्दबोधो हि भवत्येव । अत एव वहिना सिञ्चतीति वाक्यप्रयोक्तुरद्रवेण वह्निना कथं सकं ब्रवीषीत्युपहास: संगच्छते । अवोधे हि एतदर्थकद्रविडभाषाश्रवणोत्तरं पाश्चात्यस्येव मकतैव स्यात् । ननु पदार्थस्मरणमेव न शाब्दबोध इति चेत्, किमनेन श्रद्धाजाड्येन । बाधज्ञानादीनां च तद्वो. ध्येऽप्रामाण्यज्ञानजननद्वारा प्रवृत्तिप्रतिबन्धकत्वम्, योग्यताज्ञानादीनां च तज्जनकत्वमेव
For Private And Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
२४१
दुरिष्टत्वात् । अत एव योग्यताज्ञानस्य बाधनिश्वयपराहतस्यापि शाब्दधीहेतुत्वम् । तस्मादेतदन्यतरप्रकारेण काव्ये सर्वत्र बोधोपपत्तिः । अपि च तद्गतधर्मवत्त्वबुद्धेः कथं तदभेदबुद्धिः फलं स्यात् । नहि साधारणधर्मावच्छिन्नाभेदज्ञानस्य तत्तदसाधारणधर्मावच्छिन्नाभेदज्ञाने हेतुत्वं क्वाप्यवगतम् । घटपटयोर्द्रव्यत्वनोभेदग्रहेऽपि घटत्वादिना भेदग्रहात् । तदभिन्नत्वेन ज्ञानस्य पुनस्तद्धर्मप्रतिपत्तिः फलं स्यात् । प्रवाहाभिन्नज्ञानस्येव शैत्यपावनत्वादिप्रतिपत्तिः ।
अतएव
'कृपया सुवया सिञ्च हरे मां तापमूर्च्छितम् । जगज्जीवन तेनाहं जीविष्यामि न संशयः ॥'
इत्यादावमृताभिन्नत्वबोधे सत्येव कृपायाः सेके करणत्वेनान्वयः । तादृशसेकस्य च जीवने हेतुत्वेनेति दिक् ।
1
-
अथ कथं 'गाम्भीर्येण समुद्रोऽयं सौन्दर्येण च मन्मथः ' इत्यत्र बोधः । शुणु -- प्राचां तावक्ष्यमाणैकदेशे सादृश्ये प्रयोज्यताया अभेदस्य वा तृतीयार्थस्यान्वयाद्गाम्भीर्यप्रयोज्यसमुद्रसादृश्यवदभिन्नोऽयं गाम्भीर्याभिन्नसमुद्रवृत्तिधर्मवदभिन्नोऽयमिति वा घोर्लक्षणां विनैव । अभेदसंसर्गेणान्वयवादिनां पुनरित्थम् — कविना स्वेच्छामात्रादुपकल्पिता असन्तोऽप्यन्तःकरणपरिणामात्मका अर्थ उपनिबध्यन्ते मुखचन्द्रादयः । तेषु च साधारणधर्माणामस्त्येव प्रयोजकत्वम् । तद्दर्शनाधीनत्वात्तन्निर्मितेः । एवं च गाम्भीर्यादिप्रयोज्यसमुद्राद्यभिन्न इति बुद्धिरप्रत्यूहेति । यद्वा ज्ञानजन्यज्ञानप्रकारत्वं तृतीयार्थः । वह्निमान्धूमादित्यादौ पञ्चम्यर्थतया तस्य कल्पनात् । एवं च गाम्भीर्यज्ञानजन्यज्ञानप्रकारसमुद्राभिन्न इत्यादिर्बोधः । तदिदं रूपकं विषयविषयिणोः सामानाधिकरण्ये अपदार्थतया संसर्गः ।
नेति रमणीयः पन्थाः । अभेदग्रहेऽपीति । अन्ये तु चमत्कारिसाधारणधर्मरूपसाहश्यज्ञान एव फलबलात्तथाशक्तिकल्पने चार्य दोष इत्याहु: । सेके करणत्वेनेति । न तु सदृशत्वेनेत्यर्थः । ज्ञाने तत्सदृशात्तत्कार्योत्पत्तेरनुभवविरुद्धत्वादिति भावः । नन्वेवमन्धकवेस्तन्निर्मितिर्न स्यादत आह- यद्वेति । यद्वा तज्ज्ञानस्य प्रयोजकत्वेऽपि तस्यातत्त्वादाह - तस्येति । ज्ञानजन्यज्ञान प्रकारत्वस्यान्यैः कल्पितत्वादित्यर्थः । कचिद्विशेष्य
३१
For Private And Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
काव्यमाला। यथा 'बुद्धिर्दीपकला-' इत्यादौ । वैयधिकरण्ये च शब्दार्थतया क्व. चिद्विशेष्यम् । यथा'कैशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तना
वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया । आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहां
किं चासीदमृतस्य भेदविगमः साचिस्मिते तात्त्विकः ॥' अत्र शशाङ्कतातादात्म्यभेदविगमशब्दैरभिधीयमानं रूपकं प्रथमान्तविशेष्यतावादिनां मते विशेष्यम् । क्रियाविशेष्यतावादिनां तु तत्रैव किंचिद्व्यत्यासेन निष्ठान्तक्रियादाने ।
क्वचिच्च विशेषणम् । यथा'अविचिन्त्यशक्तिविभवेन सुन्दरि प्रथितस्य शम्बररिपोः प्रभावतः । विधुभावमञ्चतितमां तवाननं नयनं सरोजदलनिर्विशेषताम् ।। इह द्वितीयार्थे विशेषणीभूतं विधुत्वादि विध्वभेदात्मकतया रूपकम् ।
एवं मुखचन्द्र इत्यादावुपमितसमासे तावदुपमैव । विशेषणसमासे तु रूपकम् । बोधश्च शशिपुण्डरीकमित्यादाविव प्राक्प्रतिपादितदिशा बोध्यः ।
'मीनवती नयनाभ्यां करचरणाभ्यां प्रफुल्लकमलवती ।
शैवालिनी च केशैः सुरसेयं सुन्दरीसरसी ॥' इत्यादौ तृतीयाया अभेदार्थकत्वात्तस्य च प्रागुक्तदिशा प्रतियोगित्वमुखस्यार्थवशादन्वये नयननिष्ठाभेदप्रतियोगिमीनवतीति बोधः । मीनवत्त्वं च स्वाभिन्नद्वारकम् । एतत्स्फोरणायैव नयनाभ्यामित्युक्तम् । मीनाभिमिति । वाक्यार्थमुख्यविशेष्यमित्यर्थः । आयातीति सप्तम्यन्तं वयोविशेषणम् । तन्व्यास्तनाविति मध्यमणिन्यायेनान्वेति । आगामीति । शक्त्या लक्षण या वेति भावः । किंचिदिति । 'किं चासीत्' इत्यस्य स्थाने 'संपन्नो हि' इति पाठे इत्यर्थः । विभवेनेति प्रख्याने हेतु: । शम्बररिपोः कामस्य । द्वितीयार्थे कमणि । विवभेदेति । लक्षणयेति भावः । विशेषणसमासे विति । चिन्त्य मिदम् । चन्द्रमुख मित्यस्यापत्तेः। परिणामालंकारोदाहरणे तु विशेषणसमास उचितः । अत्र तु मयूरव्यंसेति समासे त्वित्युचितम् । प्रतीति । मीनप्रतियोगिकाभेदस्य नयने अर्थवशात्सरसीरूपकानुरोधेनान्वये इत्यर्थः । स्वाभिनेति। मीनाभिन्ननयनेत्यर्थः । नयनाभेदे तत्प्रतियोगिकाभेदे । नि.
For Private And Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२४३ ननयनवतीति तु पर्यवसितम् । नयनाभेदे तु मीनेषु गृह्यमाणे सरसीरूपकापोषणादित्युक्तमेव । __ साधारणधर्मश्चात्राप्युपमायामिव क्वचिदनुगामी क्वचिद्विम्बप्रतिबिम्बभावमापन्नः क्वचिदुपचरितः क्वचिच्च केवलशब्दात्मा । सोऽपि क्वचिच्छब्देनोपात्तः । क्वचित्प्रतीयमानतया नोपात्तः । उपात्तोऽनुगामी यथा'जडानन्धान्पडून्प्रकृतिबधिरानुक्तिविकला
न्ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन् । निलिम्पैनिमुक्तानपि च निरयान्तर्निपततो
नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥' अत्र त्रातुमिति तुमुन्नन्तेन शब्देनोपात्तं जडान्धादित्राणं भेषजंभागी. रथ्योः । अयमेवानुक्तो यथा
'समृद्धं सौभाग्यं सकलवसुधायाः किमपि त___ न्महैश्वर्य लीलाजनितजगतः खण्डपरशोः । श्रुतीनां सर्वस्वं सुकृतमथ मूर्त सुमनसां
सुधासाम्राज्यं ते सलिलमशिवं नः शमयतु ॥' अत्र सौभाग्यभागीरथ्योः स्वाभावव्यापकदौर्भाग्यत्वपरमोत्कर्षाधायकत्वादिरनुपात्तः प्रतीयमानो धर्मः । एवमीश्वरासाधारणधर्मत्वपरमगोप्यत्वनिरतिशयसुखजनकत्वान्यापामरसकलजनजरामृत्युहरणक्षमत्वं चोत्तरोत्तरारोपेष्वनुगामीति । बिम्बप्रतिबिम्बभावमापन्नो विशिष्टरूपकप्रसङ्गे निरूपितः ।
लिम्पा देवाः । निरयो नरकः । अम्ब गङ्गे । भागीरथ्योः । अनुगामी धर्म इति शेषः । समृद्धमिति । गङ्गास्तुतिरेव । सौभाग्यभागीरथ्योः सौभाग्यभागीरथीजलयोः स्वपदेन विषयविषयिपरामर्शः । सुधासाम्राज्यमित्यत्राह-आपामरेति । निरूपित इति। 'कुङ्कुमद्रवलिप्ताङ्गः काषायवसनो यतिः । कोमलातपशोणाभ्रः संध्याकालो न संशयः ॥'
For Private And Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२४४
www. kobatirth.org
काव्यमाला |
उपचरितो यथा
'अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम् । अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका | ' अत्रामृतरूपके विषये वचस्युपचरितो मधुरिमातिशयः शब्देनोपात्तः । अम्बुनिध्यादिरूपके च गाम्भीर्याद्यनुपात्तम् ।
केवलशब्दात्मको यथा
एवम्
--------
Acharya Shri Kailassagarsuri Gyanmandir
'अङ्कितान्यक्षसंघातैः सरोगाणि सदैव हि ।
शरीरिणां शरीराणि कमलानि न संशयः ॥'
अत्र सरोगशब्दादिरूपात्त एव प्रतीयते न लुप्तः । आद्यो ह्यभनो द्वितीयस्तु भनः ।
अयमेव साधारणो यत्र युक्तिरूपेणोपन्यस्यते तद्धेतुरूपकम् ।
यथा
'पञ्चशाखः प्रभो यस्ते शाखा सुरतरोरसौ । अन्यथानेन पूर्यन्ते कथं सर्वमनोरथाः ॥'
'प्राणशविरहक्कान्तः कपोलस्तव सुन्दरि । मनोभवव्याधिमत्त्वान्मृगाङ्कः खलु निर्मलः ॥'
इह श्लेषेण रसचन्द्रयोः कपोले ताद्रूप्यप्रत्ययाद्विरूपकं निरवयवम् । हेतुस्तु त्रिषुष्टि एव । एवमन्येऽपि प्रकारा ज्ञेयाः ।
इत्यादाविति भावः । चन्दिरेति । चन्द्रेत्यर्थः । उपेति । वस्तुतो मधुरिमातिशयस्य तत्रासत्त्वात् । एवमग्रेऽपि । अनुपात्तमिति । उपचरितमिति शेषः । अङ्कितानीति । व्याख्यातमिदम् । उपान्त एवेति । एवं चैक एवं भेदोऽस्य । तदाह - लुप्त इति । अनुपात्त इत्यर्थः । अभग्नः पदावान्तरभङ्गशून्यः । भग्नस्तयुक्तः । अस्य भेदान्तरमाहअयमेवेति । केवलशब्दात्मक एवेत्यर्थः । यथेति । राजानं प्रत्युक्तिः । हे राजन्, ते पश्चशाखः पञ्चाङ्गुलिर्हस्तोऽसौ कल्पवृक्षस्य शाखैवेत्यर्थः । मृगाङ्कः श्लेषेण चन्द्रो रसविशेषश्च । तदाह - इहेति । निरवयवमिति । मिथोऽवयवावयविभावाभावादिति भावः । हेतुर्मनोभवेत्यादि बोध्यः । त्रिषु उपमानद्वये उपमेये चेत्यर्थः । श्लिष्ट एवेति । मनसिजातमदन संबन्धिविशिष्टाधिमत्त्वं दयितायां मनोभवव्याधिरूपक्षयमन्थकत्वं ( 2 )
For Private And Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२४५ 'उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानां
निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् । उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः
संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥' अत्रोपमेय उपमानस्य नारोपः । अपि तु कारणे कार्यस्येति रूपकं न भवतीति प्राश्चः । एतन्मतानुसारेणैवास्माभिरपि लक्षितम् । उच्छृङ्खलाः पुनरारोपमात्रं रूपकं वदन्त इहापि रूपकमेवाचक्षत इति प्रागेव निरूपितम् । ननु- 'यशःसौरभ्यलशुनः शान्तिशैत्यहुताशनः ।
कारुण्यकुसुमाकाशः पिशुनः केन वर्ण्यते ॥ इत्यत्र लशुनहुताशनाकाशैः पिशुनस्य किं साधर्म्यम्, येन तेषामस्मिन्रूपकमुच्यत इति चेत्, यशःसौरभ्ययोः शान्तिशैत्ययोः कारुण्यकुसुमयोश्च तादूप्ये शब्दादुपस्थापितेऽनन्तरमुपस्थितं यशोरूपसौरभ्याद्यभाववत्त्वमेतत् । एवमपि लशुनखलयोस्ताद्रूप्यसिद्धौ सत्यां लशुनरूपखलावृत्तित्वेन यशःसौरभ्ययोस्ताद्रूप्यं सिद्ध्येत्, यशःसौरभ्ययोस्ताद्रूप्यसिद्धौ च यशोरूपसौरभ्यशून्यत्वेन लशुनखलयोस्ताद्रूप्यम्, इत्यन्योन्याश्रयो नाशङ्कनीयः । सकलसिद्धेः कल्पनामयत्वेन । कल्पनायाश्च खप्रतिभाधीनत्वात् । शिल्पिभिः परस्परावष्टम्भमात्राधीनस्थितिकाभिः शिलेष्टकाभिहविशेषनिर्माणाच्च ।
अथास्य ध्वनिःतत्र शब्दशक्तिमूलो यथा_ 'विज्ञत्वं विदुषां गणे सुकवितां सामाजिकानां कुले
माङ्गल्यं स्वजनेषु गौरवमथो लोकेषु सर्वेष्वपि । . रसे मनोभवसंबन्धि राजयक्ष्मरूप व्याधिमत्वं चन्द्रे इति भावः । उल्लास इति । तद्धे. तुरित्यर्थः । सूर्योदयवर्णनम् । तेषां लशुनादीनाम् । अस्मिन्पिशुने । चस्त्वर्थे । नन्वन्योन्याश्रयोत्पत्ताविव ज्ञानेऽपि प्रतिबन्धकत्वात्कथं (तथास्वप्रतिबन्धकत्वात्कथं) तथा स्वप्रतिभात आह-शिल्पिभिरिति । विज्ञेति । अत्र विज्ञादयः पण्डितानामिव बुधादीनामपि वाचकाः । नानार्थत्वात् । विज्ञत्वं पण्डितत्वं बुधत्वं च । सुकवितां काव्यकर्तृत्वं
For Private And Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
काव्यमाला।
दुईत्ते शनितां नृलोकवलये राजत्वमव्याहतं
मित्रत्वं च वहन्नकिंचनजने देव त्वमेको भुवि ॥' अत्र शशिनियन्त्रणेऽपि बुधत्वशुक्रत्वादीनि बुधाद्यभेदरूपाणि राजनि व्यज्यन्ते । यथा वा--
'अविरलविगलदानोदकधारासारसिक्तधरणितलः ।
धनदायमहितमूर्तिर्देव त्वं सार्वभौमोऽसि ॥' अर्थशक्तिमूलो यथा
'करतूरिकातिलकमालि विधाय सायं
स्मेरानना सपदि शीलय सौधमौलिम् । प्रौढिं भजन्तु कुमुदानि मुदामुदारा
___मुल्लासयन्तु परितो हरितो मुखानि ॥' अत्र त्वदीयमाननं कलङ्कचन्द्रिकाविशिष्टचन्द्राभिन्नमिति रूपकं कुमुदविकासादिना ध्वन्यते । न तु भ्रान्तिमान् । कुमुदानां हारतां चाचेतनत्वात् । न चाचेतनेषु मुदामसंभवादत्यवश्यं कुमुदादिषु चेतनत्वारोपेण भाव्यम्, तेन च भ्रान्तिसिद्धिरिति वाच्यम् । मुत्पदस्य विकासे लाक्षणिकत्वात् ।
इदं वा विविक्तमुदाहरणम्'तिमिरं हरन्ति हरितां पुरः स्थितं तिरयन्ति तापमथ तापशालिनाम् । वदनत्विषस्तव चकोरलोचने परिमुद्रयन्ति सरसीरुहश्रियः ॥' इहापि वदनं चन्द्र इति गम्यते ।
शुक्रत्वं च । माङ्गल्यं शोभनत्वमङ्गारकत्वं च । गौरवं श्रेष्ठत्वं बृहस्पतित्वं च । दुर्वृत्ते शनितां अशनितां शनितां च । वज्रत्वं मन्दत्वं चेत्यर्थः । राजत्वं नृपत्वं चन्द्रत्वं च। मित्रत्वमाप्तत्वं सूर्यत्वं च । नियन्त्रणेति । प्रकरणादिति भावः । धारासारेत्यत्र ‘स कीचकैः' इतिवदासारपदं संपातमात्रपरम् । व्याख्यातमिदम् । पूर्व विशेषणेष्वेव ध्वनिः, अत्र तु विशेष्येऽपीति पूर्वतो भेदः । सार्वभौमश्चक्रवर्ती दिग्गजश्च । सौधमौलिं गृहशिखरम् । मुदां विकासानाम् । उदारामतिशयिताम् । हरितो दिशः कर्व्यः। विविक्तं भ्रान्तिमद
For Private And Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
Acharya Shri Kailassagarsuri Gyanmandir
२४७
आनन्दवर्धनाचार्यास्तु -
" प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्यानिद्रामण्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतं नाति भूयः किमिति च सकलद्वीपनाथानुयातस्त्वय्याया विकल्पानिति दधत इवाभाति कम्पः पयोधेः ॥' अत्र रूपकाश्रयेण काव्यचारुत्वव्यवस्थापनाद्रूपकध्वनिः" इत्याहुः । तच्चिन्त्यम् । अत्र च जलधिकम्पहेतुत्वेन विकल्पत्रयं कल्पते । तच्च प्रकृते राजविशेष्यकां जलनिधिगतामनाहार्यविष्णुतादात्म्यज्ञानरूपां भ्रान्तिमेवाक्षिपति, न रूपकम् । तज्जीवातोराहार्यविष्णुतादात्म्यनिश्चयस्य कम्पाजनकत्वात् । कविजलधिगतत्वेन वैयधिकरण्याच्च । अज्ञातमेव केवलं विष्णुतादात्म्यं जलवेः कम्पेऽनुपयुक्तमेव । चमत्कारिण्यपि चात्र भ्रान्तिरेवेति ध्वनिरपि तस्या एव युक्तः ।
अथास्यापि कविसमयविरुद्धतया चमत्कारापकर्षका लिङ्गभेदादयो दोषाः संभवन्ति ।
यथा
'बुद्धिरचिर्महीपाल यशस्ते सुरनिम्रगा ।
कृतयस्तु शरत्कालचारुचन्दिरचन्द्रिका ॥' अत्र विषयविषयिणोलिङ्गादिकृतं वैलक्षण्यं तयोस्ताद्यबुद्धौ प्रतिकूलम् |
क्वचित्कविसमयसिद्धतया चमत्कारहानिराहित्ये तु नामी दोषाः । यथा 'संतापशान्तिकारित्वाद्वदनं तव चन्द्रमाः' इत्यादी हेतुरूपके । इति रसगङ्गाधरे निरूपितं रूपकप्रकरणम् ।
For Private And Personal Use Only
मिश्रितम् । तज्जीवातो रूपकजीवातोः । वैयधीति । कवौ जलधी । आहार्यविष्णुतादात्म्यनिश्चयस्तु कवाविति न तस्य तज्जनकत्वम् । सामानाधिकरण्याभावात् । केवलमित्यस्यैव व्याख्या ज्ञातमेवेति । चन्द्रालोके तु 'यत्रोपमानचित्रेण सर्वथाप्युपरज्यते । उपमेयमयी भित्तिस्तत्र रूपकमिष्यते ॥ समानधर्मयुक्साध्यारोपात्सोपाधिरूपकम् उत्सिक्त क्षितिभृलक्षपक्षच्छेदपुरंदरः ॥' साधारणधर्मविशिष्टोपमानस्य यत्रारोप इत्यर्थः । 'पृथक थितसादृश्यं दृश्यसादृश्यरूपकम् । उल्लसत्पञ्चशाखोऽयं राजते भुजभूरुहः ॥ स्या दङ्गयष्टिरित्येवंविधमाभासरूपकम् । अङ्गयष्टिधनुर्वल्लीत्यादि रूपितरूपकम् ॥' इत्यपि ह श्यते ।। इति रसगङ्गाधर मर्मकाशे रूपकप्रकरणम् ॥
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८
काव्यमाला। अथ परिणामःविषयी यत्र विषयात्मतयैव प्रकृते प्रकृतोपयोगी न स्वातन्त्र्येण स परिणामः।
अत्र च विषयाभेदो विषयिण्युपयुज्यते । रूपके तु नैवमिति रूपकादस्य भेदः। अयमुदाहियते'अपारे संसारे विषमविषयारण्यसरणौ
मम भ्रामं भ्रामं विगलितविरामं जडमतेः । परिश्रान्तस्यायं तरणितनयातीरनिलयः
समन्तात्संतापं हरिनवतमालस्तिरयतु ।' भगवदात्मतयैव तमालस्य संसारतापनिवर्तनक्षमत्वम् । मार्गश्रान्तजनसंतापहारकत्वाद्रमणीयशोभाधारत्वाच्च तमालो विषयितयोपात्तः । अयं समानाधिकरणो वाक्यगः ।
परिणाम लक्षयति-अथेति । विषयी उपमानम् । विषयेति । उपमेयेत्यर्थः । एवव्यावय॑माह---न स्वातन्त्र्येणेति । स्वस्वरूपेणेत्यर्थः । तत्रेति शेषः । स विषयाभेदः। अत्र च परिणामे चानवमिति। किं तु विपरीतमिति भावः। रूप "दस्य भेद इति । वयं तु ब्रूमः-उपमानप्रतियोगिकाभेदो रूपकम् । उपमेयप्रतियोगिकाभेदः परिणामः । प्रतीपवत् तत्राभेदे उपमेयप्रतियोगिकत्वतात्पर्यग्राहकं प्रकृतकार्योपयोगः । न तु तच्छरीरे. ऽस्य प्रवेशः । एवं च यत्रोपमानस्य स्वात्मनैव प्रकृतकार्योपयोगो यत्र चोदासीनता तत्र रूपकमेव । एवं च परिणामो विशेषणसमासायत्तः । रूपकं मयूरव्यंसकादि समासायत्तं मुखचन्द्र इत्यादौ । यदि तु चन्द्रमुखमिति विप्रयुज्यते तदा विशेषणसमासायत्तमपि रूपकमिति । परे तु "उपमानोपमेयपदानामपमानप्रतियोगिकाभेदसंसर्गेण बोधकानां 'मयूरव्यंसकादयश्च' इति समासेन विशेषणसमासबाधाचन्द्रमुखमिति प्रयोग एव न" इत्याहुः । भ्रामं भ्रामं भ्रान्त्वा भ्रान्त्वा । एवमग्रेऽपि । विगलितेति क्रियाविशेषणम् । हरिरेव नवतमालः । भक्तोक्तिरियम् । भगेति । अत्रेत्यादिः । ननु हरेविषयित्वेन रूपकमेवेदमत आह-मार्गेति । महर्षेरिति । शुकदेवस्येत्यर्थः । श्रावं श्रावं वचःसुधामिति विशिष्टं समस्तमेकं पदम् । मयूरव्यंसकादित्वात् । स्नात्वाकालक इतिवत् । प्रकृतकार्योपयोगित्वपर्यन्तस्य परिणामशरीरत्वात् । अत एव तिरयतुपदस्यासमस्तत्वात्पूक्तिस्य वाक्यगत्वमित्याहुः । क्वचित्तु 'हरिरिह तमाल:' इति पाठः । तत्र वाक्यगत्वं स्पष्टमेव । तदा वचःसुधामित्येव । श्रावं शावमिति भिन्नं पदमिति बोध्यम् । उप(अभि).
For Private And Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२४९
समासगो यथा
'महासपुत्रस्य श्रावंश्रावं वचःसुधाम् ।
उप(अभिमन्युसुतो राजा परां मुदमवाप्तवान् ।' व्यधिकरणो यथा--- 'अहीनचन्द्रा लसताननेन ज्योत्स्नावती चापि शुचिस्मितेन ।
एषा हि योषा सितपक्षदोषा तोषाय केषां न महीतले स्यात् ॥' अत्र सर्वेषामेव तोषाय स्यादित्यनेन विरहिजनतोषजनकत्वमपि लभ्यते । तच्चारोप्यमाणशुक्लपक्षरजन्याः स्वात्मनाबाधितं योषारूपेण तु संगच्छत इति भवति परिणामः । स च परस्परसापेक्षबहुसंघात्मकतया सावयवः । तत्राद्यार्धगतौ द्वाववयवौ व्यधिकरणौ द्वितीयार्धगतश्चैकः समानाधिकरणः। यच्चाप्पदीक्षितै।यधिकरण्येन परिणामे उदाहृतम्'तारानायकशेखराय जगदाधाराय धाराधर
च्छायाधारककंधराय गिरिजासङ्गैकशृङ्गारिणे । नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे
नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ॥' मन्युसुतः परीक्षितः । आननेनेति च्छेदः । एषा कामिनी शुक्लपक्षयामिनीत्यर्थः । अत्र नञ् काक्काम् । तल्लब्धमर्थमाह-अत्रेति । आरोप्येति । यो मायामित्यादिः । तस्या उद्दीपकत्वेन तत्तापजनकत्वादिति भावः । नन्वेवं समानाधिकरण एवायमिति कथं विपरीतप्रतिज्ञा अत आह-सचेति । उक्तप्रधानपरिणामप्रकरणे । 'इदं वैयधिकरण्यं रूपकेऽपि दृश्यते' इत्युक्त्वा तारानायकशेखरायेत्यायुदाहृतम्। तत्र को दोषः। किं च नद्या शेखरिणे इत्यंशे विषयात्मतयैव प्रकृतोपयोगाभावात्परिणामाभावेऽपि वाच्यमार्थ वा रूपकमपि न वाच्यम् । उपमानप्रतियोगिकाभेदस्योपमेयेऽभानात् । किं च शृङ्गारितोपपादकं शेखरादीत्यप्ययुक्तम् । नारायणेनास्त्रिणे इत्यस्य तदुपपादकत्वाभावात् । किं तु नमस्यतासंपादकशिवनिष्ठोत्कर्षबोधकानीमानि विशेषणानि । तदुपपादकता च शेखरस्य नदीतादात्म्यापत्त्येति परिणाम एवायम् । शेखरस्य नीचजनसाधारणत्वात् । इत एवास्वरसाविर्भावः पुष्पकेतोरिति पद्यान्तरमुदाहृतं तैः । तस्मात् 'यच्च इत्यादि 'कुत्रास्ति परिणामः' इत्यन्तं चिन्त्यमिति बोध्यम् । तारेति। चन्द्रशेखरायेत्यर्थः । धाराधरेति। नीलग्रीवायेत्यर्थः । नद्या गङ्गया। दृशा भालचक्षुषा । नगेन
For Private And Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
काव्यमाला।
यथा वाद्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प
श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः । द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व
नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ॥' इति । अत्र चिन्त्यते-तारानायकशेखरायेति पद्ये गिरिजासङ्गैकगृङ्गारिणि भवे कविकर्तृका नतिः प्रक्रान्ता । शृङ्गारिता च शेखरादीनि भूषणान्यपेक्षत इति नद्या आरोप्यमाणशेखररूपतयैवोपयोगः, न स्वरूपेण । एवं दृशोऽपि तिलकरूपतयेति रूपकमेव शुद्धं भवितुमर्हति । ननु परिणामे विषयाभिन्नत्वेन विषय्यवतिष्ठत इत्युक्तम्, प्रकृते च विषयवाचकेभ्यो नद्यादिशब्देभ्यः परस्यास्तृतीयाया अभेदार्थकत्वाच्छेखरादेश्च तदन्वयित्वात्कथं नात्र परिणाम इति चेत्, न । विषयाभिन्नत्वेन विषयिणो भानेऽपि तेन रूपेण तस्यानुपयोगात् । द्विर्भावः पुष्पकेतोरिति पद्येऽपि कोविदानन्दजननजगदुत्को कथ्येते राज्ञो नृसिंहस्य । तत्र कोविदानन्दजनकत्वमपि राज्ञ आरोप्यमाणद्वितीयमन्मथादितद्रूप्येण यथा संभवति न तथा केवलस्वरूपेण । तथाहि-अहो नयनानामस्मदीयानां साफल्यं यदयमपरो मन्मथोऽस्माभिरालोक्यत इति मन्यमानानां तेषां नयनानन्दस्तावत्पुष्पकेतुनैवोपपाद्यते, न तु राज्ञा । एवमपरोऽयं कल्पतरुश्चिन्तामणिर्द्वितीयः कर्ण इन्द्रश्च भूगतोऽयमन्यो दारिद्यमस्माकं परिहरिष्यति । हरिः खल्वयं संसारं हरिष्यतीत्यभिमानाजायमानस्तेषामानन्दोऽप्यारोप्यमाणैः कल्परक्षादिभिरेवेति न विषयात्मना विषयिण उपयोगः, अपि तु स्वात्मनैवेति कुत्रास्ति परिणामः । कैलासेन । कोविदानां पण्डितानाम् । शुद्धं परिणामामिश्रम् । तदन्वयीति । तृतीयार्थाभेदान्वयित्वादित्यर्थः । कथ्यते इति । शत्रन्तलडन्ताभ्यामिति भावः । तत्र द्वयोमध्ये द्विर्भावः पुष्पकेतोरित्यर्थमाह-द्वितीयमन्मथेति । विबुधेति वाक्यार्थमाहअपरोऽयं कल्पतरुरिति । एवं च पंचे (?) बहुवचनं कल्पभेदाभिप्रायेण । विकल्पश्चिन्तारत्नस्येत्यस्यार्थमाह-चिन्तामणिद्वितीय इति। द्वितीय इत्यस्याग्रेऽप्यनुषङ्गो बोध्यः । तपनेत्यादेरर्थमाह-कर्ण इति । वासवेत्यस्यार्थमाह--इन्द्रश्चेति। भूगत इत्यनेन प्रसिद्धेन्द्राद्वयतिरेकः सूचितः । द्वैतं देवस्येत्याद्यर्थमाह-हरिरिति । प्रकरणो
For Private And Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
२५१
-
अलंकारसर्वस्वकारस्तु — ' आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति सूत्रयित्वा ' आरोप्यमाणं रूपके प्रकरणोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते । परिणामे तु प्रकृतात्मतयारोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणतया परिणमति' इति व्याख्यातवान् । अत्रापि चिन्त्यते - आरोप्यमाणस्य प्रकृतोपयोग इत्यस्य प्रकृतकार्ये उपयोग आहोस्वित्प्रकृतविषयात्मतया उपयोगोऽर्थः । न तावदाद्यः । 'दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकाङ्करकण्टकायै
खिद्यते तव पदं ननु सा व्यथा मे ॥'
इति तदुदाहृतरूपकोदाहरणे आरोप्यमाणानां कण्टकानां प्रकृतखेदव्यथारूपकार्ये उपयोगेनातिप्रसङ्गात् । न द्वितीयः ।
'अथ पवित्रमतामुपेयिवद्भिः सरसैर्वक्त्रपथाश्रितैर्वचोभिः | क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाद्यैः ॥' इत्यत्र स्वोक्तव्यधिकरणपरिणामोदाहरणासंगत्यापत्तेः । यतो राजसंघटने ह्युपायनस्यारोप्यमाणस्य स्वात्मनैवोपयोगः, न तु विषयवचोरूपतया । वचसां तु विषयाणामारोप्यमाणोपायनरूपत्वेन परमुपयोग इति प्रत्युत विपरीतम् । तस्मादस्मदुक्तमेव व्यधिकरणपरिणामस्योदाहरणं साधु । इदं तु पुनर्व्यधिकरणरूपकं भवितुमर्हति । तृतीयार्थाभेदोऽपि मी - पेति । प्रकृतोपेत्यर्थः । प्रकृतोपरञ्जकत्वेनेति । तस्य स्वोपरक्तबुद्धिविषयीकरणेनेत्यर्थः । उपयोग इति । वक्ष्यमाणार्थपदस्यात्राप्यपकर्षः । दासे इति । नायिकां प्रति सापराधस्यानुभूततत्पादप्रहारस्य नायकस्योक्तिरियम् । नायिकासंबन्धात्पुलकोदयः । पुलकाङ्कुरा एवं कण्टकायाणीत्यर्थः । तदुदेति । अलंकार सर्वस्वकृदुदाहृतेत्यर्थः । एवमग्रेऽपि । आरोप्येति । पुलकेष्वित्यादिः । प्रकृतेति । प्रकृतो यः खेदस्तत्संबन्धिनी या व्यथेत्यर्थः । पवित्रमतां पकत्वम् । तत्परतस्तदनन्तरम् । राजसंघटने राजमेलने । उपायनस्य 'भेट, नजर' इत्यादिभाषाप्रसिद्धस्य । आरोप्येति । वचसीत्यादिः । प्रत्युत विपराति | अत्रेदं चिन्त्यम् - यत्किचिद्रूपोपायनस्य राजसंघटनानुपायत्वात् । विलक्षणवचनतुरंगमादिरूपस्यैव च तदुपायत्वात् । एवं च राजसंघटनोपयोगित्वं तुरंगमादिरूपेणैवोपायनस्येतदुक्तिरेव विपरीतेति । अग्रिममवधारणमिदं वित्याद्युक्तं च चिन्त्यमिति
For Private And Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२९२
www. kobatirth.org
काव्यभाला ।
नवतीनयनाभ्यामित्यत्रेव प्रकृत्यर्थानुयोगिको बोध्यः । केचित्तु " क्वचित्केवलो विषयः स्वात्मना न प्रकृतोपयोगीत्ययमारोप्यमाणाभिन्नतयावतिष्ठते तत्रारोप्यमाणपरिणामः । यथा - ' वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ ' । अत्र वदनमिन्द्वभिन्नतयावतिष्ठते । केवलस्य वदनस्य दृक्छिशिकारकत्वायोगात् । क्वचिच्चारोप्यमाणः स्वात्मना न प्रकृतकार्योपयोगीत्ययं विषयाभिन्नतयावतिष्ठते । तत्र विषयपरिणामः । यथा - वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति । अत्रेन्दुर्वदनाभिन्नतयावतिष्ठते । केवलस्येन्दोः स्मरतापापनोदकत्वायोगात् । एवं च परिणामद्वयात्मकमिदं रूपकमेव भवितुमर्हति । विषयतावच्छेदकविषयितावच्छेदकान्यतरपुरस्कारेण निश्चीयमानविषयिविषयान्यतरत्वस्य तलक्षणत्वात् । अत एवोतम् — ' तद्रूपकमभेदो य उपमानोपमेययोः' इति । तस्मान्न रूपकात्परिणामोऽतिरिच्यते" इति वदन्ति । अथ बोधः
-
Acharya Shri Kailassagarsuri Gyanmandir
हरिनवतमाल इत्यत्र भगवदभिन्नतमाल इति निर्विवादेव धीः । तथा श्रावं श्रावं वचः सुधामित्यत्र विशेषणसमासगतपरिणामे वचनाभिन्नां सुधामिति, पायं पायं वचः सुधामिति रूपके तु वचोनिष्ठाभेदप्रतियोगिनी सुधामिति बुद्धिः । एवं च ' वदनेनेन्दुना तन्वी स्मरतापं विलुम्पति' इति व्यस्तपरिणामे 'वदनेनेन्दुना तन्वी शिशिरीकुरुते दृशौ ' इति व्यस्तरूपके च बोधवैलक्षण्यम् ।
तथा
'शान्तिमिच्छसि चेदाशु सतां वागमृतं शृणु । हृदये धारणाद्यस्य न पुनः खेदसंभवः ॥'
बोध्यम् । वदनस्येति । तस्य जलभिन्नत्वादिति भावः । इन्दोरिति । तस्योद्दीपकत्वेन तज्जनकत्वादिति भावः । तल्लक्षणेति । रूपकलक्षणेत्यर्थः । तदेवाह- -अत एवेति । उक्तं मम्मटेनेति भावः । केचिद्वदन्तीत्याभ्यामरुचिः सूचिता । चमत्कृतिनिदानत्वेनालंकारभेद इति सिद्धम् । तेनान्यत्रेवात्रापि भेद एवोचित इति । परिणामे वचः सुधामित्यंश इत्यर्थः । सुधामितीत्यत्र धीरत्यस्यानुषङ्गः । एवमिति । प्राग्वदित्यर्थः । बोधवैलेति । अनुयोगित्वमुखत्वप्रतियोगित्वमुखत्व कृतमिति भावः । एवमग्रेऽपीत्याहतथेति । यस्य वागमृतस्य । स्थलान्तरे बोधमाह - तथेति । तावदादौ । तस्य च
L
For Private And Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
इति परिणामे शृण्विति विहाय पिबेति कते तत्रैव रूपके,
'विद्धा मर्मणि वाग्बाणैर्णन्ते साधवः खलैः ।
सद्भिर्वचोमृतैः सिक्ताः पुनः स्वस्था भवन्ति ते ॥' इति रूपके च बोधव्यवस्थितिः । तथा 'अहीनचन्द्रा लसताननेन ज्योत्स्नावती चापि शुचिस्मितेन' इति व्यधिकरणपरिणामेऽभेदस्य तृतीयार्थत्वाल्लसदाननाभिन्नहीनेतरचन्द्रयुक्तेति धीः, मीनवती नयनाभ्यामित्यत्र तु सरसीतादात्म्यारोपो बाधकाभावात्तावत्सिद्धः । तस्य च मीनयोनयनाभेदारोपेणासमर्थनान्नयनयोरुनाभेदारोपो मृग्यः । स च तृतीयायाः प्रकृत्यर्थाभेदार्थकतायां न संभवतीति यथाकथंचित्तस्याः प्रकृत्यर्थनिष्ठाभेदप्रतियोगित्वार्थकत्वं वाच्यम् । तेन नयननिष्ठाभेदप्रतियोगिमीनयुक्तेति धीः । एवं चारोप्यमाणे विषयप्रतियोगिकाभेदस्यामानान्न परिणामः, अपि तु रूपकमेव । इयमेव सरणिः 'नद्या शेखरिणे दृशा तिलकिने-' इति प्रागुक्ताप्पदीक्षितदत्तोदाहरणे 'वचोभिरुपायनं चकार-' इत्यलंकारसर्वस्वोदाहरणे च बोध्या । यदि पुनरारोप्यमाणे यथाकथंचिद्विषयाभेदप्रत्ययमात्रात्परिणामतोच्यते, नाद्रियते च प्रकृतोपयोगस्तदा 'प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम्' इति तदुदाहृतरूपकस्य परिणामतापत्तिः । प्रेमलतिकामिति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणायामभेदेन विशेषणत्वादिति दिक् । सुन्दा सरसीतादात्म्यस्य । प्रकृत्यर्थाभेदेति । प्रकृत्यर्थप्रतियोगिकाभेदेत्यर्थः । विभक्त्या संसर्गबोधनस्य प्रकृत्यर्थप्रतियोगिकस्यैव व्युत्पत्तिसिद्धत्वेन तदसंभवादाह-यथाकथंचिदिति। अत्र मीनवती नयनाभ्यामित्यत्र । उक्तप्रकारेणायमेव बोधोऽन्योल्याहइयमेवेति । उदाहरणे च बोध्येति । परे तु “पूर्वपदार्थप्रधानमयूरव्यंसकादिसमासेन सुधाप्रतियोगिकाभेदवद्वच इत्येव बोधः । रूपके मीनवती नयनाभ्यामित्यत्र सुन्दसरसीतादात्म्यरूपं रूपकं मुख्यवाक्यार्थः । तत्र च मीनवत्त्वादिः साधारणो धर्मः । तस्य च सुन्दर्यामभावात्प्राप्तबाधबुद्धिस्थगनाय नयनाभ्यां मीनवतीति सुन्दरीविशेषणम् । सरस्यां च मीनवत्त्वं प्रसिद्धमेव । एवं च सुन्दयों मीनवत्त्वसंपादनरूपप्रकृतकार्योपयोगिता मीनानां नयनात्मतापत्त्यैवेति तदंशे परिणाम एवेति नयनप्रतियोगिकाभेदवन्मीनवतीत्येव बोध इति दिक् । 'पादाम्बुजं भवतु नो विजयाय मञ्ज' इत्यादौ रूपकोपमयोः
For Private And Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
काव्यमाला।
अथ परिणामध्वनिर्विचार्यते-- तत्र यत्तावदप्पदीक्षितैर्विद्याधरोक्तं ध्वन्युदाहरणमनूद्य दूषितम्-"तथाहि
'नरसिंह धरानाथ के वयं तव वर्णने ।
अपि राजानमाक्रम्य यशो यस्य विजृम्भते ॥' अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्रमणरूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यते" इति तदयुक्तम् । तत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्रमणोपयोगः, न चन्द्रात्मनेति तदसत्, अत्र विजृम्भणं नाम न केवलं प्रागल्भ्यमानं कवेरभिप्रेतम्, येन यशःकर्तृकाक्रमणो नृपस्य नृपात्मनैव कर्मतारूप उपयोगः स्यात् । अपि तु निरतिशयनैर्मल्यगुणवत्तायां स्वसमानजातीयद्वितीयराहित्यप्रयुक्तः प्रौढिविशेषः । आक्रमणं तु न्यग्भाव एव । एवं चैवंविधविजृम्भणे चन्द्रकर्मकमेव क्रमणमुपयुज्यते, न तु नृपकर्मकमिति विषयितया व्यज्यमानस्यापि नृपस्य चन्द्रात्मनैवाक्रमणोपयोग इति रमणीयमेव विद्याधरेणोक्तं परिणामसंदेह एव" इति प्राहुः । तदाह-दिगिति । दूषितमित्यस्य चन्द्रात्मनेतीत्यन्तेनान्वयः। अत्र प्रागुक्तपद्ये । एवं च विज़म्भमाणाक्रमणयोरुक्तरूपत्वे च । गुणवत्तायां तद्रपसाधारणधर्मे। रमणीयमेवेति। अत्रेदं चिन्त्यम्-राजशब्दस्यानेकार्थत्वात् , विजम्भतेश्च प्रागल्भ्यतदुक्तार्थोभयपरत्वात् , प्रकरणादेश्च शक्तिसंकोचकस्याभावात् , तन्त्रेण शक्त्यैव तुल्यतयार्थद्वयोपस्थिती 'सर्वदोमाधवः पातु' इतिवत् श्लेप एवायं व परिणामः क्व वा नृपस्य व्यज्यमानतेति प्रकृतनरसिंहराजोत्कर्षस्य चन्द्रकर्मकाक्रमणेनेवेतरनृपाक्रमणेनापि सूपपादत्वात् । न च द्वयोरपि राजपदार्थयोरितरक्रियान्वये राजाना विति द्विवचनं स्यादिति वाच्यम् । 'न ब्राह्मणं हन्यात्' इतिवदुपपत्तेः । समाहारद्वन्द्वविषयेऽप्ये. कशेषस्य कैश्चिद्वैयाकरणैरङ्गीकाराच्च । अस्तु वारोपः, तथापि नृपस्यैवारोप्यमाणत्वं चन्द्रस्यैव विषयत्वमित्यत्र नियामकाभावः । अत्रैव च दीक्षिततात्पर्यम् । अपि च प्रागल्भ्यस्यापि विज़म्भत्यर्थत्वेन प्रकृतकार्योपयोगिना नृपत्वेनापि नृपस्य संभवति । अत एव विद्याधरेणापि विषयिणः स्वरूपेण प्रकृतकार्यानुपयोगित्वे तदुपयोगाय विषयिणो विषयात्मनोपरिगत्यपेक्षायामेव परिणाम इत्युक्तम् । यदाह-'तं परिणाम द्विविधं कथयन्त्यारोप्यमाणविषयतया । परिणमति यत्र विषयी प्रस्तुतकार्योपयोगाय ॥' इति । ननु तात्पर्यविषयीभूतप्रकृतकार्यानुपयोगित्वमस्त्येवेति चेत्, तस्यैव तात्पर्यविषयत्वे मानं
For Private And Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२५५
व्यङ्गतायामुदाहरणम् । यदपि तैरेव परोक्ति दूषयित्वा स्वयं परिणामस्य व्यङ्गचतायामुक्तम्
"चिराद्विषहसे तापं चित्त चिन्तां परित्यज । । नन्वस्ति शीतलः शौरेः पादाब्जनखचन्द्रमाः ॥' अत्र चिरतापात प्रति हरिपादनखचन्द्रसद्भावप्रदर्शनेन तमेव निषेवस्व तनिषेवणादयं तव तापः शान्तिमेष्यतीति परिणामो व्यज्यते” इति ततुच्छम् । 'आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योपयोगे परिणामः' इति स्वयमेवोक्तम् । तत्र प्रकृतकार्योपयोगमात्रं न परिणामशरीरम्, अपि तु विषयिगतायाः प्रकृतकार्योपयोगिताया अवच्छेदकीभूतं विषयताद्रूप्यम् । एवं चात्र नखचन्द्रसद्भावप्रदर्शनेन तन्निषेवणादयं तव तापः शान्तिमेष्यतीति प्रकृतोपयोगिताया व्यङ्गयत्वेऽपि तदवच्छेदकीभूतस्य विषयिणि विषयताप्यरूपस्य परिणामस्य वाक्यवाच्यत्वात् शक्यसंसर्गत्वाद्वा सर्वथैव न व्यङ्गयत्वं वक्तुमुचितम् । इदं तूदाहरणं युक्तम्
'इन्दुना परसौन्दर्यसिन्धुना बन्धुना विना ।
ममायं विषमस्तापः केन वा शमयिष्यते ॥' अत्र वक्तुर्विरहितयाव्यज्यमानरमणीवदनाभिन्नत्वेनेन्दुरभिप्रेतः । तेन रूपेणैव तस्य प्रकृतविरहसंतापशमनहेतुत्वात् । न चात्र विषयनिगरणात्मिकातिशयोक्तिर्वक्तुं शक्या । तस्या ह्यारोप्यमाणाभिन्नत्वेन विषयस्य प्रत्ययात् । यथा 'कमलं कनकलतायाम्' इत्यादौ कनकलताभिन्नायां वनितायां कमलाभिन्नं मुखमिति । इह तु मुखस्य चन्द्राभिन्नत्वेन प्रत्यये पुनर्विरहतापशमनरूपप्रकृतकार्यसिद्धिरिति चन्द्रस्यारोप्यमाणस्य मुखरूपविषयाभिन्नत्वं मृग्यम् । तच्च व्यङ्गयतायामेव भवतीति परिणामध्वनिरेवायम्, नातिशयोक्तिः। अयं त्वर्थशक्तिमूलः । विभावयेति। तैरेव अप्पदीक्षितैरेव । परोक्ति विद्यानाथोक्तिम् । तापात चित्तमिति शेषः । वैयाकरणमतेनाह-वाक्येति । नैयायिकमतेनाह-शक्येति । परेति। उत्कृष्टेत्यर्थः । बन्धुना विनेति । तादृशेन्दुरूपेण बन्धुनेत्यर्थः । तेनेति। तस्योद्दीप
For Private And Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
काव्यमाला। शब्दशक्तिमूलपरिणामध्वनिर्यथा
'पान्थ मन्दमते किं वा संतापमनुविन्दसि ।
पयोधरं समाशास्व येन शान्तिमवाप्नुयाः ॥' अत्र झगिति तापशमनहेतुत्वेनोपस्थिते पश्चान्मन्दबोधनीयविशेष्यकस्मरतापवत्तावैविष्टयबुद्धौ सत्यां सहृदयस्य तादृशतापशामकरमणीस्तनरूपविषयतादूप्यबुद्धिर्भवति । दोषाश्चात्रापि पूर्ववदुन्नेयाः ।
इति रसगङ्गाधरे परिणामप्रकरणम् । अथ ससंदेहः
सादृश्यमूला भासमानविरोधका समबला नानाकोट्यवगाहिनी धी रमणीया ससंदेहालंकृतिः।
'अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य बान्धवानाम् ।
परिणेष्यति वा न वा युवायं निरपायं मिथिलाधिनाथपुत्रीम् ॥' अत्र मिथिलास्थजनोक्तो तच्चिन्ताभिव्यञ्जके संशयमात्रेऽतिव्याप्तिवारणाय सादृश्यमूलति । सादृश्यज्ञानरूपदोषजन्येत्यर्थः । तेन 'सिंहवत्तान्तरं गच्छ गृहं सेवस्व वा श्ववत्' इत्युपमाविकल्पे वाकारप्रतीतविरोधकप्रान्तरगमनगृहसेवनरूपनानाधर्मावगाहिनि सादृश्यविषयकेऽपि नातिप्रसङ्गः । तस्य सादृश्यज्ञानरूपत्वात् । मालारूपकातिप्रसङ्गवारणाय भासकत्वेन स्वरूपेण तस्य तापजनकत्वादिति भावः । अयं तु इन्दुनेत्युदाहृतः । झगिति आदौ। आतपादिकृतसंतापशामकमेघत्वेन तस्योपस्थितेरिति भावः । दोषाश्चेति । लिङ्गभेदादय इत्यर्थः ।। इति रसगङ्गाधरमप्रकाशे परिणामप्रकरणम् ॥ ___ संशयं लक्षयति-अथेति। धी रमणीयेति । तादृशधीवृत्तिसंशयत्वप्रकारकज्ञानविषया सालंकार इत्यर्थः । सादृश्यमूलत्यस्य व्यावय॑माह-अधीति। हन्तेति खेदे । बान्धवानां विश्वामित्रादीनाम् । निरपायं निष्प्रतिबन्धकम् । क्रियाविशेषणमेतत् । तदिति । तादृशजनेत्यर्थः । मात्रपदेनालंकारत्वव्यवच्छेदः। यद्यप्यधिरोप्येति पये संशयस्य न सादृश्यमूलत्वमिति यथाश्रुतेनैव वारणं संभवति, तथाप्यन्यत्राप्यदोषायाहसादृश्येति । तव्द्यावय॑माह-तेनेति। तथार्थविवक्षया नेत्यर्थः । प्रान्तरमरण्यम् । यथाश्रुतेऽतिप्रसङ्गमाह-वाकारेति । अपिः प्रागक्तसमुच्चायकः । तेनेत्यस्यार्थमाहतस्येति । उपमाविकल्पस्थेत्यर्थः । मालारूपकेति । 'धर्मस्यात्मा भागधेयं क्षमायाः सारः सृष्टेः' इत्यादावित्यर्थः । ननु कोट्योः समबलत्वविशेषणेन कथमुत्प्रेक्षाव्यावृत्तिः,
For Private And Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
आद्या यथा
www. kobatirth.org
रसगङ्गाधरः ।
२५७
मानविरोधकेति । उत्प्रेक्षाव्यावृत्तये समबलेति समानभासक सामग्रीत्वार्थकम् । एतद्विशेषणद्वयप्राप्तस्यैवानेकत्वस्य स्फुटत्वार्थे नानेति । स्थाणुर्वा पुरुषो वेति लौकिकसंशयनिवृत्तये रमणीयेति । चमत्कारिणीत्यर्थः । एतच्च विशेषणं सामान्यालंकारलक्षणप्राप्तमेव । एवमुपस्कारकत्वमपि बोध्यम् । एतद्विशेषणद्वयस्य सादृश्यमूलत्वस्य चाभावे संशयमात्रमेव । यद्वा 'सादृश्यहेतुकानिश्चयसंभावनान्यतरभिन्ना धी रमणीया संशयालंकृतिः' । सा च शुद्धा निश्चयगर्भा निश्चयान्ता चेति त्रिविधा ।
ww
Acharya Shri Kailassagarsuri Gyanmandir
'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः । रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥' द्वितीया यथा
'तरणितनया किं स्यादेषा न तोयमयी हि सा
मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुतः । इति रघुपतेः कायच्छायाविलोकन कौतुकैर्वनवसतिभिः कैः कैरादौ न संदिदिहे जनैः ॥'
तत्रापि तयोस्तुल्यबलस्य सत्त्वादत आह- समानेति । तत्र तु विधेयांशे भासक सामग्री उत्कटेति भावः । नन्वेवं नानेतिमात्रं व्यर्थमत आह-- एतदिति । भासमानेति समबलेत्येतदित्यर्थः । अनेकेति । अनेकधर्मकस्य संशयस्येत्यर्थः । एतदिति । रमणीयत्वोपस्कारकत्वद्वयेत्यर्थः । ननु संशये विरोधो न भासते । मानाभावात् । किं त्वविरोधित्वज्ञानाभावविशिष्टनानाकोटिकज्ञानमेव संशय इति कथमुक्तलक्षणमत आहयद्वेति । अन्यतरत्रोभय भेदसत्त्वात्तथोक्तौ तत्रातिप्रसङ्गापत्तेराह - अन्यतरेति । तथा च संभावना भिन्नत्वे सति निश्चयभिन्नत्वमित्यर्थलाभान्न रूपकोत्प्रेक्षादावतिप्रसङ्ग इति भावः । तत्रालिनेत्रं वेति वाक्याद्विरोधभानवादिमतेऽलित्ववानयमलित्वविरुद्ध नेत्रत्ववानिति विशिष्टवैशिष्टयन्यायेन, एकत्र द्वयमिति न्यायेन वा बोधः । अलिशब्दस्य च वाशब्दसमभिव्याहारे उभयत्रान्वयः । व्युत्पत्तिवैचित्र्यात् । केचित्तु वाशब्दद्वयवलालित्वविरुद्ध नेत्रत्ववानयं नेत्रत्वविरुद्धालित्ववानिति बोधमाहुः । तदभानवादे तु अलित्ववानयं नेत्रत्ववानिति बोधः । समुच्चये त्वेतन्मतेऽविरोधमानमङ्गीकार्यमिति दिक् । मरकतेति । व्याख्यातं प्राक् । इति पूर्वार्धोक्तः । प्रपेदे प्राप्तः । तरणीति । कालिनदीत्यर्थः । सा तज्ज्योत्स्ना । इयं तु मधुरेति भावः । वसतिर्वासः । अत्र निश्वयस्य
३३
For Private And Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२९८
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
तृतीया यथा
'चपला जलदान्च्युता लता वा तरुमुख्यादिति संशये निमनः । गुरुनिःश्वसितैः कपिर्मनीषी निरणैषीदथ तां वियोगिनीति ॥' एषु संशयेषु मञ्जूषादिगतकटकादिष्विवालंकारव्यपदेशः । एवं च - 'तं दृष्टवान्प्रथममदूतधैर्यवीर्यगाम्भीर्यमक्षणविमुक्तसमीपजानिम् । वीक्ष्याथ दीनमबलाविरहव्यथार्थ
रामो न वायमिति संशयमाप लोकः ॥'
इत्यत्रापि सत्यपि चमत्कारे सादृश्यामूलत्वाभावान्न संशयस्यालंकारत्वम् । एवमारोपमूलोऽयं संदेहालंकारः । अध्यवसानमूलोऽपि दृश्यते ।
यथा
'सिन्दूरैः परिपूरितं किमथवा लाक्षारसैः क्षालितं
लिप्तं वा किमु कुङ्कुमद्रवभरैरेतन्महीमण्डलम् । संदेहं जनयन्नृणामिति परित्रातत्रिलोक स्त्विषां
व्रातः प्रातरुपातनोतु भवतां भव्यानि भासांनिधेः ॥' अयं च संशयः सवितृविषयककविरतिपरिपोषकतया कामिनीकरगतकङ्कणादिवि मुख्यतयालंकृतिव्यपदेश्यः । अत्र च विवक्षितविवेचने क्रियमाणे किरणवा सिन्दूरत्वादिकोटिकः संशयः पर्यवस्यति । स च न सारोपः । विषयविषयिणोस्तदनुकूलविभक्तेरभावात् । अतः सिन्दूरत्वा[विना ] मध्ये प्रतिपादनात्तद्गर्भत्वम् । अत एव तृतीयाद्भेदः । कपिर्हनूमान् । वियोगिनीति | श्रीरामचन्द्रवियुक्ता सीतेत्यर्थः । नन्वेषूदाहरणेषु संशयस्यैव प्राधान्येनान्यानुपस्कारकत्वात्कथमलंकारत्वमत आह- एष्विति । तथा च तद्वत्तद्योग्यतामात्रेण गौणस्तद्व्यवहार इति भावः । एवं च उक्तरीत्या संशयलक्षणपर्यवसाने च । तं श्रीरामम् । प्रथमं संयोगदशायाम् । अद्भुतेति बहुव्रीहिः । अक्षणेति । न क्षणं विमुक्ता समीपप्रदेशाज्जाया सीता येनेत्यर्थः । अथ रावणकृत सीतापहारोत्तरम् । अस्य संशयस्य विप्रलम्भरोषवत्त्वादाह – सत्यपीति । त्रिविधस्याप्यस्य द्वैविध्यमाह - एवमिति । द्वयोरुपादानादिति भावः । भासांनिधेः सूर्यस्य । पूर्वतो भेदान्तरमाह - अयं चेति । नन्वत्र महीमण्डलस्योपादानात्सारोपत्वमेवात आह-अत्र चेति । विवेति । तात्प'त्यर्थः । नन्वेवमपि किरणत्रातस्योपादानात्सारोपात्वमेवात आह-विषयेति । तदिति । आरोपेत्यर्थः । तथा च तुल्यत्वेनानुपादानमिति भावः । उपसंहरति - अत
For Private And Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
२१९
दिना संशयधर्मी किरणवातोऽध्यवसीयत इति । अत्र विचार्यते -- सिन्दूरैः परिपूरितं किमथवेति यद्येतावत्सिन्दूरादिकरणकपरिपूरितत्वादिकोटिको जगन्मण्डलधर्मिकः संशयः शब्दात्प्रतीयते तस्मिश्च संशये किमिदं सिन्दूररजो वा स्यात्, आहोस्विलाक्षारसः, उताहो कुङ्कुमद्रव इति सूर्यकिरणधर्मिकं संशयान्तरमानुगुण्यमाधत्ते । यथा पुरोवर्तिनि तुरगे स्थाणुर्वा पुरुषो वेति संशयो भूतलमिदं स्थाणुमत्पुरुषवद्वेति संशये । एवं च सूर्यकिरधर्मिकः संशयो गुणीभूतो व्यञ्जनागम्यत्वाद्विषयविषयिणोरारोपानुकूलविभक्तिकतां नापेक्षते । अपेक्षते च साक्षाच्छब्दवेद्यतायामिति कुत्राध्यवसानमूलता संशयस्य । एतेनाध्यवसानमूलतां संशयस्य निरूपयतो विमर्शिनीकारस्योक्तिरपास्ता ।
अप्पदीक्षितास्तु
'अस्याः सर्गविधौः प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः - || ' इत्यत्र चन्द्रादीनां संदेहधर्मिणामेवानेकत्वम् । प्रकारस्तु वर्णनीयवनितास्रष्टृत्वमेकमेवेत्यनेक कोटिकत्वाभावाद्विरोधेन परस्पर प्रतिक्षेपकतया निबद्धानेक कोट्यवगाहित्वरूपस्य संशयलक्षणस्याव्याप्तिमाहुः । तन्न । अत्र हि अस्याः सर्गविधौ यः प्रजापतिरभूत्स किं नु चन्द्रः, किं नु मदनः, किं वा नु वसन्त इति संशयः प्रजापतिधर्मिकश्चन्द्रत्वादिनानाकोटिक एवेति कुत्राव्याप्तिः । न चात्र चन्द्रादिधर्मिकः संशयो युक्तो वक्म् । एवं च प्रजापतेः प्रथमोद्देशो न स्यात् । यदपि 'साम्यादप्रकृ
इति । तावदादौ । इदं किरणजातम् । अनपेक्षत्वे हेतुमाह – व्यञ्जनेति । तर्हि कुत्र तदपेक्षा तत्राह — अपेक्षते चेति । एवं च रूपकमूल एवायमित्यध्यवसानमूलः संशयः खपुष्पायमाण इति भावः । तदाह – कुत्रेति । अस्या इति । मालतीमाधवे मालतीवर्णन मिदम् । मासो वसन्तः । वनितास्रष्टृत्वं प्रजापतिशब्दबोध्यम् । अभावादित्यव्याप्तौ हेतुः । संशयलक्षणमाह - विरोधेनेति । हि यतः अस्या मालत्याः । तदुपपादनं खण्डयति - न चात्रेति । एवं चेति । चो ह्यर्थे । यत एवं सतीत्यर्थः । विधेयस्य पाश्चा१. विक्रमोर्वशीये प्रथमेऽङ्के उर्वशीवर्णनमिदम्.
For Private And Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
काव्यमाला। तार्थस्य या धोरनवधारणा' इति प्राचां लक्षणं महता प्रबन्धेन त एव दूषितवन्तः, तदपि न । साम्यनिमित्तानिश्चयसंभावनान्यतरभिन्ना या धोरिति तदर्थकरणे दोषाभावात् । निश्चयत्वं तु संशयाघटितमेव निर्वचनीयम् । उक्तेषूदाहरणेषु सोऽयं संशयालंकारः स्वशब्दवेद्यत्वाद्वाच्यः । लक्ष्यो यथा'साम्राज्यलक्ष्मीरियमृष्यकेतोः सौन्दर्यसृष्टेरधिदेवता वा ।
रामस्य रामामवलोक्य लोकैरिति स्म दोला रुरुहे तदानीम् ॥' __ अत्र पर्यायेणोभयकोट्यालम्बनतया दोलासादृश्यात्संशयोऽत्र दोलाशब्देन लक्ष्यते । व्यङ्गयोऽयं यथा'तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकासम् ।
आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमाला ॥' अत्र कमलर्मिकोऽभेदेन संसर्गेण पुरोवर्तिव्यक्तिद्वयप्रकारकः कमलमिदमिदं वेति भ्रमरगतः संशयो व्यङ्ग्यः। न च कमलाभेदबुद्धेर्धमरप्रवृत्त्युपायतयापेक्षणादिदंपदार्थाभेदबुद्धिनिर्थिकेति वाच्यम् । एकपदार्थधर्मिकापरपदार्थाभेदबुद्धेरपरपदार्थधर्मिकैकपदार्थाभेदबोधप्रयोजकत्वेन कमलाभेदबोधसाम्राज्यात् । कमलत्वमेतद्वृत्ति तद्वृत्ति वेति संशयाकारः । सोऽयं संशयध्वनिः ।
'आज्ञा सुमेषोरविलङ्घनीया किं वा तदीया नवचापयष्टिः । . वनस्थिता किं वनदेवता वा शकुन्तला वा मुनिकन्यकेयम् ॥' त्यमिति नियमादिति भावः । त एव अप्पदीक्षिता एव । अनवधारणेन्यस्य तात्पर्यार्थमाह-निश्चयेति । नन्वेवमन्योन्याश्रयापत्तिरत आह-निश्चयत्वं विति । ऋष्यकेतोश्चन्द्रस्य । ऋष्यः कुरङ्गः । रुरुहे आरूढा । आलम्बनतया एतद्रूपधर्मेण । तीर इति । व्याख्यातं प्राक् । मिलदिति । सविकासमित्यर्थः । इदंपदार्थेति । इदंत्वेनेदंपदार्थेत्यर्थः । तथा चेदमिदं वा कमलमित्यौचित्येनानेककोटिकत्वाभावानायं संशय इति भावः । ननु प्रवृत्त्यन्यथानुपपत्त्या तथा कल्प्यम्, सा चान्यथा सिद्धत्याह-एकेति । कमलेत्यर्थः । अपरेति । इदंपदार्थः । पर्यवसितमाह-कमलस्वमिति । ध्वनेरुदाहरणान्तरं खण्डयति-आज्ञेति । सुमेधुर्मदनः । सुमं पुष्पम् । तदीया मदनीया । इयं
For Private And Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
२६१
यद्यप्यत्रापि वाचकशब्दाभावाद्व्यङ्गय एव भवितुमर्हति संशयः, तथापि विषयनिरूपणेन स्फुटभावोदितत्वान्न ध्वनिव्यपदेशस्य हेतुः । अपि तु गुणीभूतव्यङ्गयप्रभेदव्यपदेशस्य | अनुगामी चात्र प्रतिप्रकारं पृथगेव निर्दिष्टः ।
यत्तु चित्रमीमांसायां संशयध्वन्युदाहरणप्रसङ्गे अप्पदीक्षिताः"कांचित्काञ्चनगौराङ्गीं वीक्ष्य साक्षादिव श्रियम् । वरदः संशयापन्नो वक्षःस्थलमवैक्षत ||'
अत्र संशयस्य शब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात्तदलंकारताप्रयोजकस्य वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य पुरस्तिष्ठतीत्येवं संशयाकारस्य वक्षःस्थलमवैक्षतेत्यनेन व्यङ्ग्यत्वात्संदेहालंकारध्वनिरत्रेति ।
यथा
'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनु बिम्बमात्मनः कानि कान्यपि चकार लज्जया || ' इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थ लज्जाशब्दप्रयोगेऽपि तस्याः स्वविभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिः” इत्याहुः, तदेतद्द्वनितच्वविज्ञैरुपहसनीयमेव ।
―
तथाहि संशयाविष्ट इत्यत्र संशयपदेनैकस्मिन्पदार्थे विरुद्धनानापदार्थसंबन्धावगाहि ज्ञानं साक्षादेव निवेद्यते । तत्र कोऽसौ विरुद्धो नानार्थ इति विशेषाकाङ्क्षायां वक्षःस्थलावेक्षणेन वक्षःस्थलस्यैव लक्ष्मीस्ततोऽवतीर्य किं पुरस्तिष्ठतीत्यादिरर्थो व्यञ्जनाव्यापारेण बोध्यमानः शक्त्या संशयशब्दनिवेदितज्ञानविशेषणी भूतेन सामान्यार्थेन साकमभेदेन पर्यवस्यति ।
For Private And Personal Use Only
सीता । विषयेति । आज्ञादीत्यर्थः । व्यङ्गयेति । व्यङ्गयरूपो यः प्रभेदस्तद्रव्यव्यपदेशस्येत्यर्थः । प्रतिप्रकारं प्रतिसंदेहम् । तत्र ह्याज्ञासंदेहेऽविलङ्घनीयत्वं वनदेवतासंदेहे वनस्थितत्वं च पृथगुपात्तमिति भावः । कांचिदिति । इदं च पद्यमप्पदीक्षितमूलपुरुषवक्ष:स्थलाचार्यकृतवरदराजवसन्तोत्सवस्थम् । वरदः काञ्चोदेवता विष्णुः । तदिति । संशयेत्यर्थः । तत्र सामान्यज्ञाने । अवेक्षणेनेति । व्यञ्जनार्थवृत्तिरपीति भावः । संशय
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
काव्यमाला।
एवं च संशयमात्रस्य शक्त्या बोधनाद्वक्षःस्थलस्थितैवेत्यादि विषयभागस्यापि विरुद्धनानार्थत्वेन सामान्याकारेणावलीढतया तयैव कवलीकरणाद्वाच्यार्थसंशयपर्यवसायकत्वाच्च न कस्यापि ध्वनिव्यपदेशहेतुत्वं युक्तम् । सर्वथा वाच्यवृत्यचुम्बितस्यैव तथात्वमिति ध्वनिमार्गप्रवर्तकैः सिद्धान्तितत्वात् । तथा च द्वितीयोद्योते'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनः ।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालंकृतिवनेः ॥' इति सूत्रयित्वा ___ "संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकृतं लीलापमं निमीलितम् ।। अत्र संकेतकालमनसं ज्ञात्वा लीलापमं निमीलितमिति वदता कविना लीलापद्मनिमीलनस्य प्रदोषाभिव्यञ्जकत्वं स्वोक्त्यैव निवेदितमिति ध्वनिमार्गादयमपर एव गुणीभूतव्यङ्गयस्य मार्गः ।
यथा वा. 'अम्बा शेतेऽत्र उद्धा परिणतवयसामग्रणीरत्र तातो
निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र । अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा
पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥' मात्रस्य सर्वस्य संशयस्य । अर्थत्वेन सामेति । एतद्रूपसामान्याकारणेत्यर्थः । अवलीढेति । बोध्यतयेत्यर्थः । तयैव शक्त्यैव । कवलीति । बोधनादित्यर्थः । नन्वेव. मपि विशेषरूपेण व्यङ्गयत्वमेवात आह-वाच्यार्थेति । विशेषसंशयस्येत्यादिः । तदाहकस्यापीति । विशेषस्यापीत्यर्थः । सर्वथा केनापि प्रकारेण । तथात्वं ध्वनित्वम् । संकेतेति । को वावयो रतिकालस्तत्संकेतमित्यत्र दत्तचित्तमित्यर्थः । हसदिति क्रियाविशेषणम् । इति वदतति। वान्तवाक्यविशिष्टं वदतेत्यर्थः । अन्यथा क्त्वान्तवाक्येनैवार्थात्तदभिव्यञ्जकत्वे सिद्ध क्तान्तवाक्यानर्थक्यं स्पष्टमेव । तदाह-स्वोक्पैवेति । कान्त. वाक्येनेत्यर्थः । अत्र गृहप्रदेशविशेषे । एवमग्रेऽपि । कुम्भेति पान्थसंबोधनमिति क. श्चित् । तन्नामिका दासीत्यन्यः । जलाधाहरणार्थ दासी, न क्रीडादासीति तु तत्त्वम् । वियोगात्पापात्वम् । कतिपयेत्यनेन द्रुतमागमनाभावः सूचितः । अवसरे समये उक्ता
For Private And Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
अत्र निःशङ्क रन्तुमायाहीत्यर्थश्वरणत्रयव्यङ्गयोऽप्यवसरव्याहृतेर्व्याजत्वं ब्रुवता कविना स्फुटं स्वोक्त्या निवेदित इत्ययमपि न ध्वनेर्मार्गः " इत्याहुरानन्दवर्धनाचार्याः ।
२६३
तृतीयोद्योते च गुणीभूतव्यङ्गयनिरूपणे 'व्यङ्ग्यस्यार्थस्य यदि मनागयुक्त्या प्रकाशनं तदा गुणीभाव एव शोभते । तस्माद्यत्रोक्ति विना व्यङ्गयो ऽर्थस्तात्पर्येण प्रतीयते तत्र तस्य प्राधान्यानित्वम्' इति तद्युक्तिविवेचनेऽभिनवगुप्तपादाचार्याः ।
एवं चैवंविधेषु विषयेषु व्यञ्जकत्वस्य व्यङ्ग्यस्य वा मनागुक्तिसंस्प र्शमात्रेण ध्वनित्वं निराकुर्वाणाः 'कांचित्काञ्चनगौराङ्गी -' इति पद्ये शब्दाभिहितव्यङ्गचे ध्वनित्वं कथमिव स्वीकुर्वीरन् । एतेन 'दर्पणे च परिभो - गदर्शिनी' इति प्रागुक्तपद्ये लज्जाध्वनित्वं यद्दीक्षितैरभ्यधीयत तदप्यपास्तमिति दिक् ।
अस्मिश्च संशये नानाकोटिषु क्वचिदेक एव समानो धर्मः । कचित्टथक् । सोऽपि क्वचिदनुगामी, क्वचिद्विम्बप्रतिबिम्बभावमापन्नः क्वचि - दनिर्दिष्टः क्वचिन्निर्दिष्टः । तत्र 'मरकतमणिमेदिनीधरो वा' इति प्रागुदाहृतपद्ये श्यामाभिरामत्वं धर्मिणो रामस्य कोट्योश्च तमालमरकतभूधरयोरेक एवानुगामी धर्मः प्रतीयमानत्वादनिर्दिष्टः ।
स एव निर्दिष्टो यथा -
'नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम् । सरोजं चन्द्रविम्बं वेत्यखिलाः समशेरत ॥'
अत्र नेत्राभिरामत्वरूपस्त्रिष्वेक एवानुगामी धर्मों निर्दिष्टः । ष्टथगनुगामी निर्दिष्टो यथा प्रागुदाहृते 'आज्ञा सुमेषोः' इत्यादौ ।
यथा वा
'संपश्यतां तामतिमात्रतन्वीं शोभाभिरामासितसर्वलोकाम् | सौदामनी वा सितयामिनी वेत्येवं जनानां हृदि संशयोऽभूत् ॥
For Private And Personal Use Only
जपूर्वमित्यर्थः । पूर्वोदाहरणाशयेनाह - व्यञ्जकेति । द्वितीयाशयेनाह - व्यङ्कयेति । तत्र तेषां धर्माणां मध्ये | श्यामेति । तद्विशिष्टाभिरामत्वमित्यर्थः । स एव अनुगाम्येव । नेत्रेति । तयोरभिराममित्यर्थः । समेति । संशयं कृतवन्तः । एवमग्रेऽपि । पृथगिति ।
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अत्रातिमात्रतनुत्वं सौदामन्या, शोभाभिरामासितसर्वलोकात्वं च सितयामिन्या सह कान्तायाः पृथगनुगामी समानो धर्मः । अत्रैव पूर्वार्धगतविशेषणद्वयत्यागे स एवानिर्दिष्टः । बिम्बप्रतिबिम्बभावमापन्नो यथा 'तीरे तरुण्या वदनं सहासं-' इत्यादौ प्रागुक्ते ।
यथा वा'सपल्लवा किं नु विभाति वल्लरी सफुल्लपद्मा किमियं नु पद्मिनी । समुल्लसत्पाणिपदां स्मिताननामितीक्षमाणैः समलम्भि संशयः ॥' अत्र पल्लवफुल्लपझे पाण्याननयोः प्रतिबिम्बकोट्योः पृथङ् निर्दिष्टे ।
'इदमुदधेरुदरं वा नयनं वात्रेरुतेश्वरस्य मनः ।
दशरथगृहे तदानीमेवं संशेरते स्म कवयोऽपि ॥' अत्र तदानीमिति प्रकरणसाहाय्यवशाद्दशरथगृहेण धर्मिणाक्षिप्तस्य तत्कालजातस्य भगवतो रामस्य जलध्युदरादिसंशयकोटित्रयाक्षिप्तः साधारणश्चन्द्रः प्रतिबिम्बः । इमौ च बिम्बप्रतिबिम्बावनिर्दिष्टावपि प्रतीयमानौ सादृश्यं प्रयोजयतः । एतेन 'अनुगाम्येव धर्मों लुप्तः संभवति, न तु बिम्बितः' इति वदन्तः परास्ताः । इति दिक् ।। __ अयं च क्वचिदनाहार्यः, क्वचिदाहार्यः । यत्र हि कविना परनिष्टः संशयो निबध्यते प्रायशस्तत्रानाहार्यः । यथा 'तीरे तरुण्याः', 'मरकतमणिमेदिनीधरो वा' इत्यादिषु प्रागुदाहृतेषु पद्येषु । तत्र भ्रमरादीनां संशयानानां ग्राह्यनिश्चयाभावात् । यत्र च स्वगत एव तत्राहार्यः । उपपादितमिदं प्राक् । सौदामन्येति । सहकान्तेत्यत्रान्वेति । वल्लरी लता । पाणिपदां स्मितेति । पादप्रतिबिम्बानिर्देशान्यूनतात्र । अत एव पाण्याननयोरित्यग्रिमोक्तिः संगच्छते । वस्तुतस्तु फुल्लपनं पाणिवत्पादयोरपि प्रतिबिम्ब इति न दोषः । व्याख्यानं तूपलक्षणत्वेन योज्यमिति बोध्यम् । कोट्यो वल्लरीपभिन्योः । बिम्बप्रतिबिम्बभावापनस्य निर्दिष्टस्योदाहरणं दत्त्वानिर्दिष्टस्य तदाह-एवमिति । चन्द्रस्य त्रिधोत्पत्तिः, स. मुद्रादत्रिनेत्रात्परमेश्वरमनसश्चेति भावः । तदानीं रामोत्पत्तिसमये। नीमिति प्रेति । तदानीमिति । प्रतिपाद्यप्रकरणेत्यर्थः । इमौ रामचन्द्रौ । अयं च संशयः । परनिष्ट इति । स्वभिन्ननिष्ठ इत्यर्थः । क्वचिद्व्यभिचारादाह-प्रायश इति । अनाहार्यत्वमुपपादयति-तत्रेति । 'संशयानानां' इति पाठः । भ्रमरादिविशेषणमेतत् । एवेन परनिष्ठत्व
For Private And Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
यथा
'अलिमंगो वा नेत्रं वा यत्र किंचिद्विभासते ।
अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ॥' अत्र वक्तुः कवेस्तत्त्वज्ञतया संशयावाहार्यावेव । परम्परितोऽपि चायं संभवति'विद्वदैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवी___ दावाग्निः किमहो महोज्ज्वलयशःशीतांशुदुग्धाम्बुधिः । किं वानङ्गभुजंगदष्टवनिताजीवातुरेवं नृणां
केषामेष नराधिपो न जनयत्यल्पेतराः कल्पनाः ॥' 'अत्राप्याहार्यः । क्वचित्परनिष्ठोऽपि कविना निबध्यमान आहार्यों भवति । यथा'गगनाद्गलितो गभस्तिमानुत वायं शिशिरो विभावसुः ।
मुनिरेवमरुन्धतीपतिः सकलज्ञः समशेत राघवे ॥' अत्र मुनर्वसिष्ठस्य सर्वज्ञत्वेनोपात्तस्य संशय आहार्य एव । यद्यप्यत्र 'मुनीनां च मतिभ्रमः' इत्युक्त्या तस्यानाहार्य एव संशयो वक्तुं शक्यः, तथापि कोटितावच्छेदकयोः शिशिरत्वगगनगलितत्वयोरग्निसूर्यरूपकोटिद्वये आहार्यबोधस्यैवावश्यवाच्यतया पुरोवर्तिन्यभेदेन कोटिद्वयाभेदांशेऽपि तस्यैव न्याय्यत्वात् । इह च कोव्योधर्मिसादृश्यदाळयोष्णत्वगव्यवच्छेदः । यत्र मुखरूपवस्तुनि । इदमेवाग्रे इदंपदार्थः । प्रत्यासत्तिन्यायेनाह-कवे. रिति । परम्परितोऽपीति । अत्रारोपस्यारोपमात्रत्वेन परम्परितत्वम्, न तु संशयस्य संशयोपादेयत्वेन । दैन्यादीनां तमस्त्वादिसंदेहाविषयत्वादिति बोध्यम् । त्रिमूर्तिः ऋग्यजुःसामात्मकः सविता । वैरीन्द्रेति । वैरिश्रेष्ठा एव वंशारण्यमित्यर्थः । जीवातुर्जीवनौ. षधम् । अल्पेतरा बहवः । कल्पनाः संशयाः । स्वगत एवेत्यवधारणमयुक्तमित्याहकृचित्परनिष्टोऽपीति । यद्यपि विद्वदैन्येत्युदाहृतोऽपि परनिष्ठो भवति तथापि केषामिति सामान्येन निर्देशात्स्वनिष्ठोऽपि भवतीत्यत उदाहरणान्तरमाह-गगनादिति । विभावसुरग्निः । मुनिर्वसिष्ठः । समशेत संशयं कृतवान् । अत्र गगनादिपद्ये । चोऽन्यसमुच्चायकः । तस्य वसिष्ठस्य । पुरोवर्तिनि श्रीरामे। वर्तिन्यभेदेनेति चिन्त्यम् । तस्यैव
३४
For Private And Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
-
गनगतत्वरूपवैधर्म्यनिरासकमविद्यमानमपि गगनगलितत्वं शिशिरत्वं चारोप्यते वका । एवमादयोऽन्येऽपि प्रकाराः सुधीभिः स्वयमुन्नेयाः।
इति रसगङ्गाधरे ससंदेहप्रकरणम् । अथ भ्रान्तिमान्
सदृशे धर्मिणि तादात्म्येन धर्मान्तरप्रकारकोऽनाहार्यो निश्चयः सादृश्यप्रयोज्यश्चमत्कारी प्रकृते भ्रान्तिः। सा च पशुपक्ष्यादिगता यस्मिन्वाक्संदर्भेऽनूद्यते स भ्रान्तिमान् ।
अत्र च भ्रान्तिमात्रमलंकारः । भ्रान्तिमानलंकार इति व्यवहारस्त्वौपचारिकः । तथा चाहुः
'प्रमात्रन्तरधीमन्तिरूपा यस्मिन्ननूद्यते । .
स भ्रान्तिमानिति ख्यातोऽलंकारे त्वौपचारिकः ॥' इति । लक्षणे मीलितसामान्यतद्गुणवारणाय धर्मिग्रहणद्वयम् । रूपकवित्तिवारणायानाहार्य इति । कविभिन्नगत इति वा । संशयवारणाय निश्चय इति । इदं रजतमिति रङ्गविशेष्यकबोधवारणाय चमत्कारीति । कविप्रतिभानिर्वतित इत्यर्थः । रङ्गे रजतमिति बुद्धेौकिकतया न कविप्रतिभानिवर्तितत्वम् ।
'अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् ।
इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ।' - इत्यत्र नायिकासंदेशहरस्योक्ता व्यज्यमानस्योन्मादस्य वारणाय सादृश्यप्रयोज्य इति । न चात्रान्मादस्य प्राधान्यात्सकलालंकारसाधारणेनोपस्कारकत्वविशेषणेनैव वारणमिति वाच्यम् । तस्यापि पार्यन्तिकआहार्यबोधस्यैव । ससंदेह इति व्यवहारस्त्वौपचारिकः । भ्रान्तिमानितिवत् ॥ इति रसगङ्गाधरमर्मप्रकाशे ससंदेहप्रकरणम् ।।
अथ भ्रान्तिमन्तं लक्षयति-अथेति । अन्यत्र नैवमित्याह-प्रकत इति । आदिना मनुष्यग्रहणम् । प्रतिज्ञाविरोधाभावायाह-अति । औपचारिक इति । भ्रान्तिनिष्ठालंकारत्वस्य तद्वत्यारोपात् । भ्रान्तितद्वतोरभेदारोपाद्वेति भावः । ससंदेह इति व्यवहारोऽप्येवमेवेति प्रागुक्तम् । प्रमेति । कविभिनेत्यर्थः। अलंकारे अलंकाराणां मध्ये। आर्षमेकवचनान्तानुरोधिनाह ()-कवीति । ननु तत्रापि चमत्कारोऽस्त्येवात आह-कवीति । उक्तौ नायकं प्रतीति शेषः । उन्मादस्येति । 'विप्रलम्भ
For Private And Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
विप्रलम्भोपस्कारकत्वात् । यद्वा संदेशहरात्संदेशं श्रुतवतो नायकस्य स्वमित्रं प्रतिपद्येदं वाक्यं 'अकरुणहृदय-' इत्यादि तदास्मिन्नेव पये सेति पदव्यङ्गचायाः स्मृतेरुपस्कारके उन्मादे तथाप्यतिप्रसङ्गापत्तेः सादृश्यप्रयोज्यत्वमावश्यकम् । लक्षणे चात्रैकत्वं विवक्षितम् । अन्यथा वक्ष्यमाणानेकग्रहीतृकानेकप्रकारकैकविशेष्यकभ्रान्तिसमुदायात्मन्युल्लेखेऽतिप्रसङ्गापत्तेः । अत एवैकवचनमपि सार्थकम् । उदाहरणम्'कनक इव कान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया ।
चपलायुतवारिदभ्रमान्ननृते चातकपोतकैर्वने ॥' । अत्र चातकगतहर्षोपस्कारकतया तद्गता भ्रान्तिरलंकारः । अत्रैव यदि 'परिफुल्लपतत्रपल्लवैर्मुमुदे चातकपोतकैर्वने' इत्युत्तरार्धं निर्मीयते तदायमेव भ्रान्तिध्वनिः । यच्चाप्पदीक्षितैर्लक्षणमुक्तम् -
'कविसंमतसादृश्याद्विषये पिहितात्मनि ।
आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥' इति । 'तत्र कविसंमतसादृश्यप्रयोज्यो विषये आरोप्यमाणानुभवो यत्र वाक्संदर्भ स भ्रान्तिमान्' इति भ्रान्तिमतो लक्षणं विधाय रूपकव्यावृत्यर्थ पिहितात्मनात्युच्यते । न चैतद्युक्तम् । नहि रूपकवाक्ये आरोप्यमाणस्यानुभवो वयेते, किं तु तस्माजायते । न चात्रानुभवान्तं भ्रान्तेर्लक्षणमग्रिमं च भ्रान्तिमतः । तत्र भ्रान्तिलक्षणे रूपकेऽतिव्याप्तेवारणाय विपये पिहितात्मनीति विशेषणमिति वाच्यम् । अनुभवत्वघटितस्य भ्रान्तिलक्षणस्यानुभूयमानाभेदात्मके रूपके कथमप्यप्रवृत्तेः । यदि च रूपकपदं रूपकबुद्धिपरमिति ग्रन्थसामञ्जस्यं विधीयते, तदापि विषयतावमहापदादिजन्मा अन्यस्मिनन्यावभास उन्मादः' इति मतेनेदम् । नन्वत्र विप्रलम्भजन्यत्वेनोन्मादस्य कथं तदुपस्कारकत्वमत आह-यद्वेति । अत एव निश्चय इत्यत्रैकत्वविवक्षणादेव । उच्यत इति । अयं भावः-तद्विशेषणेनारोप्यमाणानुभवस्य स्वारसिकस्य कविप्रतिभया कल्पनं विवक्षितम् । तस्यैव विषयपिधानसामर्थ्यादिति । अग्रिम चेति । यत्रेत्यायुक्तमित्यर्थः । तत्रेति । तद्वाक्यजानुभवस्य तत्रापि सत्त्वादिति भावः ।
For Private And Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
काव्यमाला । च्छेदकानवगाहिनि 'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः' इति संशयेऽतिप्रसङ्गात्, कमलमिति चश्चरीकाश्चन्द्र इति चकोरास्त्वन्मुखमनुधावन्ति' इति भ्रान्तिसमुदायात्मन्युल्लेखेऽतिव्याप्तेश्च । अत्र भ्रान्त्या संकीर्ण उल्लेख इति चेत्, नह्येतावतोल्लेखांशातिव्याप्तिर्न दोषः । नहि दुग्धभागजलभागानां व्यामिश्रतास्तीति दुग्धलक्षणं जलांशातिव्याप्तिकं कर्तुं युक्तम् । यच्चापि भिन्नकर्तृकोत्तरोत्तरभ्रान्तावुदाहृतम् - ___ 'शिक्षानैमञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै. स्तनासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै
रित्थं चोलेन्द्रासंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ॥' इति। तत्र विचार्यते-स्तनकलशयुगे हि न तावन्मञ्जरीसादृश्यं कविसमयसिद्धम्, येन तन्मूला चञ्चरीकाणां भ्रान्तिरुपनिबध्येत । दोषान्तरमूला तु सा नालंकार इत्यनुपदमेव निरूपितम् । अपि च धर्मिणि कलशरूपका
नुवादेन मञ्जरीभ्रान्तिरूपमलंकारान्तरमुपनिबध्यमानमुटेजकमेव सहृद. यानाम् । नहि सादृश्यमूलैकालंकारावच्छिन्ने सादृश्यमूलमलंकारान्तरं
शोभते । यथा “मुखकमलं तव चन्द्रवत्प्रतीमः' इति प्रागेव निवेदनात् । प्रत्युत कलशरूपकेण मञ्जरीसादृश्यतिरस्काराच्च । 'तत्रासोब्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः' इत्यत्र विधेयाविमर्शाननु नामसंशयेऽतिप्रसङ्गः । विषयस्यैवेति प्रतिपादनादत आह-कमलमिति । अत एव वक्ष्यति भ्रान्त्या संकीर्ण इति । अतिव्याप्तेश्चेति । उल्लेखत्वभ्रान्तित्वयोरत्र संकीर्णस्वम् । बाधकाभावात् । भूतत्वमूर्तत्वयोरिव । नरैर्वरगतिप्रदेत्यत्रोल्लेखत्वस्य, कनक इवेत्यत्र भ्रान्तित्वस्य सावकाशत्वादिति कश्चित् । वनितेति वदन्त्येतां लोका इति त्वदुदाहतापहुतिसंकीर्णोल्लेखे उपमेयतावच्छेदकनिषेधसामानाधिकरण्येनोत्थाप्यपद्धतिलक्षणातिव्याप्तिस्तवाप्यस्ति । एवं तत्तदलंकारसंकीर्णे तत्तदसंकरलक्षणस्य सा दर्वारेति चिन्त्यमिदमित्यपरे । तावदादौ । उपेति । वय॒तेत्यर्थः । ननु यथाकथंचित्सादृश्यमप्यस्तीत्यत आह-अपि चेति । धर्मिणि स्तनरूपे । मुखकमलमिति रूपकम् । अभ्युपेत्याहप्रत्युतेति । एवमाये दोषमुक्त्वा द्वितीये दोषमाह-तत्रासोलेति । भ्रमरभयजननजातचेष्टा इत्यर्थः । विधेयाविमादिति । विधेयस्याकथनादित्यर्थः । उद्देश्यकोटिप्र. विष्टं सर्वमिति भावः । पाणो उद्दिश्य विशिष्टस्य कीरकर्तकदष्टत्वस्य विधेयत्वे को दोष
For Private And Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२६९ द्विधेयान्तरमाकाङ्कितम् । कीरैर्दष्टा इति तु भाव्यम् । जाता इत्यध्याहारेऽपि विवक्षितस्याविधेयत्वमविवक्षितस्य च विधेयत्वं प्रसज्येत ।' एवं 'तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैः' इत्यत्र न तावपिकनिनदास्ताडनयोग्याः काकानाम, येन तद्धिया आलपन्त्यस्तैस्ताज्येरन् । नापि पिकनिनदभ्रम आलपन्तीषु संभवति । संभवन्वा न सादृश्यमूलः । पिकनिकरधियेति तु भाव्यम् । अथ तदालापेषु पिकनिनदबुद्धेरपि तासु पिकबुद्धयुत्पादनद्वारा संभवत्येव ताडनोपयोग इति प्रयोज्यत्वार्थकतृतीयया पिकनिनदधीप्रयोज्यकाककर्तृकताडनकर्मत्वमालपन्तीनां सुप्रतिपादमेवेति चेत्, नैवम् । तथाप्रतीतेरसिद्धेः । 'चोरबुद्ध्या हतः साधुः' इत्यादौ चोरबुद्धिहननयोः सामानाधिकरण्येन हेतुहेतुमद्भावगमकत्वव्युत्पत्तेः । एवं 'दन्तिबुद्ध्या हतः शूरैर्वराहो वनगोचरः' इत्यत्रापि विशेष्यतया वराहत्तेर्दन्तिबुद्धेवराहत्तिहननहेतुभावावगमः । त्वदुक्तरीत्या दन्तबुद्ध्येतिकते बोधकदर्थनैव । किं च पिकानां हि कूजितादिशब्दैरेव शब्दो वर्ण्यते, न तु निनदादिशब्दैः सिंह दुन्दुभ्यादिशब्दप्रयोगयोग्यैः । तथा प्रथमद्वितीयचरणस्थयोः स्तनपाण्योर्यथाकथंचिद्व्यवहितमपि जातान्वयमपि त्वदरिमृगदृशामिति षष्ठयन्तमन्वेतुं शक्नुयात्, न तु तृतीयचरणस्थे आलपन्त्य इत्यस्मिन्विशेषणे विशेष्यभावेनेति तासां ताटस्थ्यमेव स्यात् । विभक्तिपरिणतावपि प्रक्रमभङ्गासंष्ठुलत्वाभ्यां स्थितमेवेति पद्यमव्युत्पन्ननिर्मितमेव । दीक्षितैस्तु भ्रान्त्यलंकारांशमात्रमादायोदाहृतमिति दिक् ।
यत्वलंकारसर्वस्वकृताल सितम्, 'सादृश्यावस्त्वन्तरप्रतीतिन्तिमान्' इति, तन्न । प्रागुक्ते संशयालंकारे वक्ष्यमाणायामुत्प्रेक्षायां चातिप्रसङ्गात्। प्रइति चिन्त्यमिदम् । विवेति । दष्टत्वस्येत्यर्थः । तृतीये तमाह-एवमिति । तल्लोपाय कीरदूरीकरणाय । तावदादौ । दोषमूल: संभवतीत्याह-संभवन्वेति । शब्दप्रयो. गेति । शब्द प्रयोगेत्यर्थः । आसत्त्याकानयोः स्वारसिकयोरभावादाह--यथाकथं. चिदिति । जातान्वयेति । नाप्यरण्यं शरण्यमिति संनिहितेनेति भावः । न विति। विभिन्न विभक्तित्वात्स्वस्मिन्स्वभेदाभावाच्चेति भावः । ननु विभक्तिविपरिणामेनाभेदान्वयः । सुलभोऽत आह-विभक्तीति । प्रक्रमेति । नन्वेवं दीक्षितैः कथमुदाहृतमत
For Private And Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
काव्यमाला ।
तीतिपदस्य निश्चयपरत्वे रूपकवित्तावतिप्रसङ्गात् । विषयतावच्छेदकानवगाहित्वेन निश्चयो विशेषणीय इति चेत्, विशेष्यताम् । तथाप्यतिशयोक्तिवित्तावतिप्रसक्तिरवारितैव । अनाहार्यत्वेन निश्चयविशेषणत्वे पुनरस्मदुक्त एव पर्यवसितिः । मतुबर्थासंगतिश्च । तत्र 'कनक इव कान्तिकान्तया' इत्यत्र सीतातडितोबिम्बप्रतिबिम्बभावः । युतत्वमिलितत्वयोश्च शुद्धसामान्यरूपता ।
'रामं स्निग्धतरश्यामं विलोक्य वनमण्डले ।
धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः ॥' अत्र स्निग्धत्वश्यामत्वयोरनुगामित्वम् ।
इति रसगङ्गाधरे भ्रान्तिमत्प्रकरणम् । अथोल्लेखःएकस्य वस्तुनो निमित्तवशायदनेकैर्ग्रहीतृभिरनेकप्रकारकं ग्रहणं तदुल्लेखः।
'अधरं बिम्बमाज्ञाय मुखमब्जं च तन्विते ।
कीराश्च चञ्चरीकाश्च विन्दन्ति परमां मुदम् ॥' अत्र कीरचञ्चरीकाभ्यामधरवदनयोविम्बत्वेन पद्मत्वेन च ग्रहणे भ्रान्तिरूपेऽतिप्रसङ्गवारणायैकस्य वस्तुन इति । 'धर्मस्यात्मा भागधेयं क्षमायाः' इत्यादि मालारूपके प्रसङ्गवारणायानेकैर्ग्रहीतृभिरित्यविवक्षितबहुत्वकं ग्रहणविशेषणम् । 'नृत्यत्त्वद्वाजिराजिप्रखरखुरपुटप्रोडतैधूलिजालै
रा लोकालोकभूमीधरमतुलनिरालोकभावं प्रयाते । आह-दीक्षितैरिति । निश्चयपरत्व इति । तथा च संशयसंभावनारूपयोस्तयो. र्नातिप्रसङ्ग इति भावः । वित्तौ तज्ज्ञाने । अनाहार्यत्वेनेति । नन्वेवमपि कथमतिशयोक्तावतिव्याप्तिवारणम् । तस्यामनाहार्या भेदज्ञानस्यैव सर्वसंमतत्वात्यागुक्तत्वाच्चेति चेत्, चिन्त्यमेतत् । मतुबिति । भ्रान्तिमानिति मतुबित्यर्थः । अत्र धर्मभेदमाहतत्रेति । उक्तोदाहरणानां मध्य इत्यर्थः । धाराधरो मेघः । शिखावला मयूराः ।। इति रसगङ्गाधरमर्मप्रकाशे भ्रान्तिमत्प्रकरणम् ॥
उल्लेखं लक्षयति-अथोल्लेख इति । ग्रहणं ज्ञानम् । कीराः शुकाः । चश्वरीका भ्रमराः । नन्वेवं बहुवचनात्रिप्रभृत्येव स्यात् , द्वयोर्न स्यादत आह-अवि.. वक्षितेति । नृत्यदिति। राजानं प्रति कवेरुक्तिः । अतुलेति । आलोकालोकम् ।
For Private And Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
२७१ विश्रान्ति कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः
कोकाः क्रन्दन्ति शोकानलविकलतया किं च नन्दन्त्युलूकाः ॥' अत्र धूलिजालरूपस्यैकस्य वस्तुनोऽनेकैलॊककोकोलूकैर्ग्रहीतृभिरेकेनैव रजनीत्वरूपेण प्रकारेण ग्रहणमिति तत्रातिप्रसङ्गवारणायानेकप्रकारकमिति । ग्रहणमिति ग्रहणसमुदायो विवक्षितः । एकत्वं जातौ । अनेकग्रहीतृकस्यैकस्य ग्रहणस्याप्रसिद्धेः । तेन द्वयोर्बहूनां वा ग्रहणं निमित्तवशादिति तु वस्तुकथनमात्रम् । उदाहरणम्'नरैर्वरगतिप्रदेत्यथ सुरैः स्वकीयापगे
त्युदारतरसिद्विदेत्यखिलसिद्धसंधैरपि । हरेस्तनुरिति श्रिता मुनिभिरस्तसङ्गैरियं ।
तनोतु मम शं तनोः सपदि शन्तनोरङ्गना ॥' अत्र च लिप्सारुचिभ्यां निमित्ताभ्यामस्त्यनेकग्रहीतृकवरगतिप्रदात्वाद्यनेकप्रकारकग्रहणसमुदायो गङ्गाविषयकरतिभावोपस्कारकः । शुद्ध एवात्रायमुल्लेखालंकारः । रूपकाद्यमिश्रणात् ।
लोकालोकस्य किंचिदंशे प्रकाश: किंचिदंशेऽप्रकाशः । धूल्याक्रान्तत्वे तु सर्वांशेनाप्रकाशत्वं गत इत्यर्थः । नन्वेवं बहुवचनौचित्येन कथमेकत्वमत आह-एकत्वमिति । अने. केति । एकस्य वस्तुनोऽनेकप्रकारकस्येत्यादिः । बहुवचनमविवक्षितमित्युक्तत्वादाहद्वयोरिति । नन्वेवमाप निमित्तवशादित्यधिकमत आह-निमित्तेति । न च 'कीर्ती विस्फूर्तिमत्यां ते मृणालक्षीरशङ्किनः । द्वयेऽपि नागास्तन्वन्ति जिह्वान्तोल्लोलनं मुहुः ॥' इति भ्रान्तिमददाहरणे एकस्या एव कीर्तेरनेकेन कुञ्जरभुजंगरूपेण ग्रहोत्रा मृणालक्षीररूपत्वानेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्तिनिरासाय निमित्तभेदादित्यर्थकं निमित्तवशादित्यावश्यकम् । तत्र कीर्तिगतं धावल्यमेकमेवोल्लेख द्वयेऽपि निमित्तमिति वाच्यम् । स्वस्वप्रियाहारलिप्सारूपनिमित्तभेदस्यापि तत्र सत्त्वेन संग्राह्यत्वादिति भावः । वरेति । ब्रह्मसुखाप्तीत्यर्थः । स्वकीयेति। मन्दाकिनीत्यर्थः । उदारेति । उत्कृष्टतरेत्यर्थः । शन्तनो राज्ञः स्त्री गङ्गा मम तनोः शं कल्याणं सपदि तत्कालं तनोत्वित्यर्थः । लिप्सा लाभेच्छा। तस्यालंकारत्वायाह-गङ्गेति । कविनिष्टत्यादिः । अत्रेति । पद्य इत्यर्थः । उक्त इति शेषः । सुन्दरीति आलीति च संबोधने । नायिका प्रति सख्या नाय
For Private And Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२७२
www. kobatirth.org
काव्यमाला |
संकीर्णोऽपि दृश्यते । यथाआलोक्य सुन्दरि मुखं तव मन्दहासं नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः । किं चालि पूर्णमृगलाञ्छन संभ्रमेण चक्षूपुटं चटुलयन्ति चिरं चकोराः ॥ ' अकग्रहणरूपया भ्रान्त्या समुदायात्मक उल्लेखः संकीर्णः । ‘वनितेति वदन्त्येतां लोकाः सर्वे वदन्तु ते । यूनां परिणता सेयं तपस्येति मतं मम ॥'
अत्र विषयतावच्छेकस्य परसंमतत्वेन निषेध्यतयोपन्यासादपह्नुत्या संकीर्णः ।
1
---
Acharya Shri Kailassagarsuri Gyanmandir
अप्पदीक्षितास्तु - " एवमपि यदि -
------
'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे । वक्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम् ॥' इत्यपह्नवोदाहरणविशेषेऽतिव्याप्तिः शङ्कया । तदानीमनेकधोलेखनं निषेधास्ष्टष्टत्वेन विशेषणीयम् । तत्राद्योल्लेखनद्वयं परमतत्वोपन्यास सामर्थ्याद्गम्यमाननिषेधमिति नातिव्याप्तिः" इत्याहुः । तन्न । 'द्विविधश्वायमुलेखः, शुद्धोऽलंकारान्तरसंकीर्णश्च' इत्युक्त्वा "श्रीकण्ठजनपदवर्णने, 'यस्तपोवनमिति मुनिभिरगृह्यत' इत्यादौ शुद्धः, 'यमनगरमिति शत्रुभिः, वज्रपञ्जरमिति शरणागतैः' इत्यादौ भ्रान्तिरूपकादिसंकीर्णः" इति स्वयमेवोक्तत्वात् । इहाप्यपह्नुत्या संकीर्ण उल्लेख इत्यस्य सुवचत्वात् । यदि चैवंविधापह्नतिवारणाय निषेधास्टष्टत्वं विशेषणमुच्यते तदा
For Private And Personal Use Only
•
कस्य वोक्तिः । चिरं चकोरा इति । स्वस्वप्रियाहारलिप्सा च निमित्तम् । एवां नायिकां नायकोक्तिरियम् । अवच्छेकस्य वनितात्वस्य । निषेध्येति । आर्थिकेत्यादिः । एवमपि उक्तविशेषणदानेऽपि । गम्येति । बहुव्रीहिः । श्रीकण्ठेति । शुद्धस्यैकमुदाहरणं सोपपादनमुक्त्वान्यदाह हर्षचरिते । इत्यादौ यस्तपोवनमित्यादिगये । अगृह्यतेत्यस्य सर्वत्र संबन्धः । यच्छब्दार्थः श्रीकण्ठजनपदः । शुद्ध इति । तत्र तपोवनादिभूनिष्ठत्वादिति भावः । यमनगरत्वादीनां ताद्रूष्यानुभवगोचरतयान्वये आहभ्रान्तीति । यदि तेषामुपरञ्जकतामात्रेणान्वयस्तदाह - रूपकेति । एवंविधेति ।
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
. २७३
'कपाले मार्जारः पय इति करांल्लेढि शशिन
स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति । रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति
___ प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥' इति त्वदुदाहृतभ्रान्तावतिप्रसङ्गः कथं नाम वार्येत । मार्जाराद्यनेकनहीतृकानेकधोल्लेखनस्य तत्रापि सत्त्वात् । स्वस्वप्रियाहारलिप्सारूपनिमित्तभेदाच्च । तस्मात्संकीर्णनिवारणाय यत्नोऽनर्थक एव । ' संशयसंकीर्णों यथा_ 'भानुरग्निर्यमो वायं बलिः कर्णोऽथवा शिविः ।
प्रत्यर्थिनश्चार्थिनश्च विकल्पन्त इति वयि ॥' अत्र द्वयोर्ग्रहणयोः प्रत्येकं संशयत्वम् । समुदायस्य तूल्लेखता। अयं च वरूपमात्रोल्लेखे स्वरूपोल्लेखः प्रागेव निरूपितः ।
फलानामुल्लेखे फलोल्लेखो यथा___'अर्थिनो दातुमेवेति त्रातुमेवेति कातराः ।
जातोऽयं हन्तुमेवेति वीरास्त्वां देव जानते ॥ हेतूनामुळेखे हेतूल्लेखः । यथा'हरिचरणनखरसङ्गादेके हरमूधसंस्थितेरन्ये । . त्वां प्राहुः पुण्यतमामपरे सुरतटिनि वस्तुमाहात्म्यात् ॥'
विलक्षणेत्यर्थः । त्वदुदेति । त्वया प्रथमं मुख्यत्वेनोदाहृतेत्यर्थः । तादृशभ्रान्तिविशेषस्यापि वारणावश्यकत्वात् । अन्यथा संकीर्ण तत्कथमादावुदाहृतम् । तद्विविक्तविषयस्यैवादावुदाहर्तुमौचित्यात् । अन्यथालंकारभेदो न स्यादिति भावः । अनेकधेति । पयस्त्वादीत्यर्थः । उपसंहरति-तस्मादिति । शिबिस्तन्नामको राजा। अत्र द्वयोरिति । प्रथमपावद्वितीयपादप्रतिपाद्ययोरित्यर्थः । उक्तवद्भेदमाह ---अयं चेति । उल्लेखश्चेत्यर्थः । उल्लेखे सतीति शेषः । एवमग्रेऽपि । अर्थिन इति। राजानं प्रति कव्युक्तिः । हरीति । गङ्गास्तुतिः । नखरेति । नखेत्यर्थः । वस्तुमाहात्म्यादिति । स्वस्वरूपस्यैव माहास्म्यादित्यर्थः । पूर्वोदाहणे एकस्यैव राज्ञो दातृत्वत्रातृत्वहन्तृत्वप्रकारेणोल्लेखः । अत्र त्वेकस्य पुण्यतमात्वस्य हरिपदसङ्गादिहेतुकत्वेनोल्लेखः । प्रकारस्य फलत्वहेतुत्वाभ्यां
For Private And Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
काव्यमाला |
अथ प्रकारान्तरेणाप्युल्लेखो दृश्यते — यत्रासत्यपि ग्रहीत्रनेकत्वे विषयाश्रयसमानाधिकरणादीनां संबन्धिनामन्यतमानेकत्वप्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारत्वम् । अयमपि द्विविधः, शुद्धोऽलंकारान्तरसंकीर्णश्च । शुद्धो यथा
'दीनवाते दयार्द्रा निखिलरिपुकुले निर्दया किं च मृद्वी काव्यालापेषु तर्कप्रतिवचनविधौ कर्कशत्वं दधाना | लुब्धा धर्मेवलुब्धा वसुनि परविपद्दर्शने कांदिशीका राजन्नाजन्मरम्या स्फुरति बहुविधा तावकी चित्तवृत्तिः ॥' अत्र दीनवातादीनां विषयाणामनेकत्वाच्चित्तवृत्तेरनेकविधत्वम् । राजविषयकरतिभावोपस्कारकोऽयमुल्लेखः । यद्यपि चित्तवृत्तिव्यक्तीनामत्रैक्यं नास्ति, तथापि तदीयचित्तवृत्तित्वेन सामान्येन तासामेकत्वं विवक्षितम् ।
यथा वा
'कातराः परदुःखेषु निजदुःखेष्वकातराः ।
अवलोभा यशसि सलोभाः सन्ति साधवः ॥'
अत्रापि साधवः सन्तीत्यनेन मृता अपि न मृतास्ते इतरे पुनरमृता अपि मृता एवेत्यर्थाभिव्यक्तिद्वारा व्यज्यमाने साधूत्कर्षविशेषे उपस्कारकोsयम् ।
फलोल्लेखत्वादिव्यवहार इति बोध्यम् । संबन्धिनामिति । विषयरूपाश्रयरूपैकाधिकरवृत्तित्वेन प्रतीयमानरूपाश्च ये संबन्धिनः । विषयाश्रयसहचरादिरूपा ये संबन्धिन इति यावत् । तेषां मध्ये यस्य कस्यचिद्यदनेकत्वं तत्प्रसक्तमित्यर्थः । बाते समूहे । मृद्वीति । काव्योक्तिषु कोमलेत्यर्थः । व्यालापेषूक्तिमात्रेषु मृद्वीका द्राक्षारूपा । मधुरेति यावदिति कश्चित् । तर्केति । तर्कस्य प्रतीत्यर्थः । वसुनि द्रव्ये । परेति । परस्य परा वेत्यर्थः । कांदिशीति । कस्यां दिशि गन्तव्यमिति धीविशिष्टेत्यर्थः । राजानं प्रति कथ्युक्तिः । अस्यालंकारत्वायाह - राजेति । कविनिष्ठेत्यादिः । नास्तीति । तथा चैकस्य वस्तुन इत्यंशाभावान्नेदं लक्ष्यमिति भावः । तथा लक्षणे विवक्षाया अभावादाद- यथा वेति । अत्र परदुःखादीनां विषयाणामनेकत्वात्साधूनामनेकविधत्वं स्पष्टमुपेक्ष्यालंकारान्तरत्वमुपपादयति — अत्रापि साधव इति । एवं विषयानेकत्वप्रयुक्तमुदाहृत्याश्रयानेकत्वप्रयुक्त
For Private And Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
संकीर्णो यथा
Acharya Shri Kailassagarsuri Gyanmandir
यथा वा
' तुषारास्तापसवाते तामसेषु च तापिनः । गन्तास्ताडकाशत्रोर्भूयासुर्मम भूतये ॥' पूर्वपद्ययोर्विषयानेकत्वप्रयुक्तम्, इह त्वाश्रयानेकत्वप्रयुक्तमनेकविधत्वं
दृगन्तानाम् ।
'विद्वत्सु विमलज्ञाना विरक्ता यतिषु स्थिताः । स्वीयेषु तु गरोद्गारा नानाकाराः क्षितौ खलाः ॥' अत्र विद्वदादिसहचरभेदप्रयुक्तं खलानामनेकविधत्वम् । एवमन्येषां संबन्धिनां भेदेऽप्यूह्यम् ।
२७९
'गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले | ष्टथिव्यां सागरायन्ते भूपाल तव कीर्तयः ॥'
अत्रोपमया आपाततः प्रतीयमानया पर्यवसितया चोत्प्रेक्षया । ‘उपरि करवालधाराकाराः क्रूरा भुजंगमपुंगवात् । अन्तः साक्षाद्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥ अत्रोपमाव्यतिरेकाभ्यां तयोः समुच्चयेनोत्प्रेक्षया च संकीर्णः । 'यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां
सतां खलु युधिष्ठिरो धनपतिर्धनाकाङ्क्षिणाम् ।
For Private And Personal Use Only
मुदाहरति - यथा वेति । ताडकाशत्रोः श्रीरामस्य । समानाधिकरणानेकत्वं प्रत्युदाहरति - विद्वदिति । यथा वेत्यादि । यतिषु भिक्षुषु । गरोद्वारा विषोद्वारा: । आदिपदार्थमाह - एवमिति । उपमानात्क्यङो विधानादाह – अत्रोपमेति । तत्रातात्पर्यादाह - पर्यवेति । उत्प्रेक्षयेति । संकीर्ण इति शेषः । भुजंगमेति । सर्पश्रेष्ठादित्यर्थः । सप्तमीसमासः कर्मधारयो वा । द्राक्षेति । द्राक्षाया या माधुर्यदीक्षा तस्या गुरव इत्यर्थः । करवालेत्यत्रोपमा । क्रूरा इत्यत्र व्यतिरेकः । तयोरुपमाव्यतिरेकयोः । मुख इत्यत्राह - उत्प्रेक्षया चेति । द्वयोरुल्लेखयोः संकरमादिपदग्राह्यसंबन्धिभेदे प्रयुक्तत्वं च दर्शयितुमुदाहरति - यम इति । तन्नीवृतां प्रतिपक्षराजजनपदानाम् । कुलिशं वज्रम् । राजानं प्रति कव्युक्तिः । यमत्वादिना भ्रान्तिरपीति शरणेच्छूनां भ्रान्तिवर्णने राजोत्क आर्या पूर्वार्धे 'नेह भवति विषमे जः' इति नियमादत्र च विषमे सप्तमस्थाने जगणस्य सत्त्वाच्छान्दोभङ्गदूषितमेतदार्या पूर्वार्धमिति ज्ञेयम्.
१.
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२७६
www. kobatirth.org
काव्यमाला ।
Acharya Shri Kailassagarsuri Gyanmandir
गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥ '
अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण विपक्षभूपालादीनामेतस्मिन्नायाते यमत्वादिना भ्रान्तिरपि संभवतीति भ्रा - न्तिमता, विपक्षभूपालादिभिरनेकैर्ग्रहीतृभिर्यमत्वादिभिरनेकैर्धर्मैरुल्लेखना - त्प्रागुक्कोल्लेख प्रकारेण च सह संकीर्णोऽयं सबन्धिषष्ठयन्तभेदप्रयुक्तवयनेकविधत्वक उल्लेखः ।
अत्रेदं बोध्यम् – प्रथमनिरूपितोल्लेख प्रकारे 'यं महाविष्णुरिति वैष्णवाः, शिव इति शैवाः, यज्ञपुरुष इति याज्ञिकाः, स्वभाव इति लोकायतिकाः, ब्रह्मेत्योपनिषदा वदन्ति सोऽयमादिपुरुषो हरिः' इत्यादौ तत्तग्रहीतृकतत्तत्प्रकारकज्ञानसमुदायस्य चमत्कारजनकतयानुभवसिद्धत्वेनालंकारत्वम् । द्वितीये तु प्रकारे 'यः शिष्टेषु सदयो दुष्टेषु करालः' इत्यादौ तत्तद्विषयभेदभिन्नस्य प्रकारसमुदायमात्रस्य तथात्वम् । न तु विद्यमानस्यापि ज्ञानांशस्य चमत्कारित्वेनाननुभवात् । चमत्कारनिबन्धनो ह्यलंकारभाव उपमादीनाम् । अत एवास्माभिः 'विषयाद्यन्यतमानेकत्वप्रयुक्त मेकस्य वस्तुनोऽनेकप्रकारत्वम्' इति द्वितीय उल्लेखो लक्षितः ।
एवं च 'लक्षणद्वयान्यतरत्वमुल्लेख सामान्यलक्षणतावच्छेदकम् ' इत्याहुः । परे तु 'प्रकारद्वयेऽपि वर्ण्यवृत्तित्वेन भासमानप्रकारसमुदाय एवोखः' इत्यपि वदन्ति ।
I
र्षविरोधीति चिन्त्यमिदम् । प्रागुक्तो लेखेति । इदमपि चिन्त्यम् । ज्ञानस्यानिबन्धने च ज्ञानपर्यन्तस्य पूर्वोल्लेखस्य कथमप्यत्रासत्त्वात् । नियतव्यञ्जकसामग्र्यभावेनार्थस्यापि तस्यासत्त्वाचेति दिक । इतोऽपि भ्रान्तिरपि संभवतीति चिन्त्यमिति बोध्यम् । विषयाश्रसहचराणां संबन्धिनामत्र सत्त्वादाह - सबन्धिषष्ठयन्तेति । षष्ठयन्तार्थसंबन्धीत्यर्थः । कचित्तथैव पाठः । यं प्रकृतं राजानम् । एवमग्रेऽपि । जनकतयेति । इदं ज्ञानं चमत्कारीत्यनुभवाकारः । 'भिन्नप्रकार' इति पाठः । भिन्नत्वं प्रकारविशेषणमात्रव्यवच्छेद्यमाह - न त्विति । अन्यतरत्वस्य गुरुत्वाद्दुर्ज्ञेयत्वाच्चाह -परे त्विति ।
For Private And Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अथोल्लेखस्य ध्वनिः
यथा-
www. kobatirth.org
रसगङ्गाधरः ।
Acharya Shri Kailassagarsuri Gyanmandir
२७७
'अनल्पतापाः कृतकोटिपापा गदैकशीर्णा भवदुःखजीर्णाः । विलोक्य गङ्गां विचलत्तरङ्गाममी समस्ताः सुखिनो भवन्ति ॥' अत्र पूर्वार्धोदीरितानां चतुर्णी विलोकनकर्तॄणां सुखित्वोक्त्या क्रमेण तापपापरोगभवनाशकत्वप्रकारकाणि ग्रहणान्याक्षिप्यन्ते । अयं च शुद्धस्योल्लेखस्य ध्वनिः ।
संकीर्णस्य यथा
'स्मयमानाननां तत्र तां विलोक्य विलासिनीम् । चकोराचञ्चरीकाच मुदं परतरां ययुः ॥'
अत्र ध्वन्यमानया एकैकग्रहणरूपया भ्रान्त्या तदुभयसमुदायात्मा उल्लेखः संकीर्णः । न चात्र भ्रान्तेरेव चमत्कार इति शक्यापह्नव उलेखः । अनेककर्तृकानेकधाग्रहणस्यालंकारान्तरविविक्तविषयस्य चमत्कृतेरिहापि सत्त्वात् ।
द्वितीयस्योछेखस्य ध्वनिर्यथा
'भासयति व्योमगता जगदखिलं कुमुदिनीर्विकासयति । कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते ॥'
अत्राधिकरणभेदप्रयुक्तमेकस्यामेव कीर्तौ चन्द्रिकात्वसागरत्वरूपानेकविधत्वं रूपकसंकीर्ण ध्वन्यते ।
इति रसगङ्गाधर उल्लेखप्रकरणम् ।
For Private And Personal Use Only
अनल्पेति । बहुतापा इत्यर्थः । गदैति । रोगप्रधानेत्यर्थः समासः । प्राग्वत् । विचलदिति । 'विवलत्' इति पाठान्तरम् । अर्थस्तु तुल्यः । स्मयेति । सख्युक्तिर्ना
कोतिर्वा । एकैति । चन्द्रत्वेन पद्मत्वेन च ग्रहणेत्यर्थः । शक्येति । नैवात्रोल्लेखोऽस्तीत्यर्थः : । विषयस्य चमदिति । जन्यत्वे षष्ठयर्थ चमत्कृतावन्वेति । व्योमेति गति"कर्म । कुमुदिनीतश्चे (?) त्यर्थः । सगरेति । सगरसुतप्रया समित्यर्थः । सागरकार्यस्य कीत्यैव संपादितत्वादिति भावः । रूपकेति । चन्द्रसागररूपकेत्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाश उल्लेखप्रकरणम् ॥
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
काव्यमाला।
अथापगुतिः
उपमेयतावच्छेदकनिषेधसामानाधिकरण्येनारोप्यमाणमुपमानतादात्म्यमपद्भुतिः । - रूपकवारणाय तृतीयान्तम् । अस्यां चोपमेयतावच्छेदकस्य निषेधादुपमेयतावच्छेदकोपमानतावच्छेदकयोर्विरोधो गम्यते । रूपके तु तयोः सामानाधिकरण्यप्रत्ययात्स निवर्तते । उदाहरणम्
'स्मितं नैतत्कि तु प्रकृतिरमणीयं विकसितं ____ मुखं ब्रूते मूढः कुमुदमिदमुद्यत्परिमलम् । स्तनद्वन्द्वं मिथ्या कनकनिभमेतत्फलयुगं
लता रम्या सेयं भ्रमरकुलनम्या न रमणी ॥' इयं चानुग्राह्यानुग्राहकभावापन्नावयवकसंघातात्मकतया सावयवा । निरवयवेयं यथा
'श्यामं सितं च सुदृशो न दृशोः स्वरूपं
किं तु स्फुटं गरलमेतदथामृतं च । नो चेत्कथं निपतनादनयोस्तदैव
____ मोहं मुदं च नितरां दधते युवानः ॥' अत्र प्रतिज्ञातार्थवपरीत्ये बाधकोपन्यासाद्वेत्वपढुतिः । अस्यां च नादिभिः साक्षात्परमतसिद्धत्वाद्युपन्यासैश्च किंचिद्वयवधानेन विषयस्य निषेधे बोध्यमाने प्रायशो वाक्यस्य भेदः । मिषच्छलच्छद्मकपटव्याजवपुरात्मादिशब्दैस्तु तस्मिंस्तस्यैक्यम् । क्वचिदपदवपूर्वकत्वं क्वचिच्चा
अपहृतिं लक्षयति-अथेति । छेदकेति । तस्य निबन्धेत्यर्थः । रूपकवारणायेति भ्रान्त्यादेरप्युपलक्षणम् । तदुपपादयति-अस्यां चेति । स विरोधः । भ्रमरकुलनम्येत्येतदंशेऽतिशयोक्तिरिति प्रक्रमभङ्गोऽत्र काव्य इति बोध्यम् । अत्र स्पष्टत्वाल्लक्षणसमन्वयमुपेक्ष्य भेदमाह-इयं चेति । उदाहृता चेत्यर्थः । वयवकेति । बहुव्रीहिणा संघातविशेषणे । श्याममिति । अंशभेदेनेति भावः । कन्युक्तिरियम् । विपक्षे बाधकमाह-नो चेदिति । अनयोदशोः । तदैव पतनकाल एव । ‘सदैव' इति पाठान्तरम् । अत्र निरवयवत्वस्य सत्त्वात्प्राग्वदाह-अत्रेति । किंचिदिति । भ्रान्त्यादीत्यर्थः। त.
For Private And Personal Use Only
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२७९
रोपपूर्वकत्वं क्वचिद्विषयिताद्रूप्यविषयनिषेधयोरेकस्य शाब्दत्वमेकस्यार्थत्वं क्वचिदुभयोः शाब्दत्वमथोमयोरार्थत्वं विधेयत्वमनुवाद्यत्वं चेति । एवमनेके प्रकाराः संभवन्ति । परं तु न ते वैचित्र्यविशेषमावहन्तीत्यगणनीयाः । एवमपि दिङ्मात्रमुपदयते-तत्र प्रागुक्तायां सावयवापद्रुतौ प्रथमावयवेऽपह्नवपूर्वकत्वमुभयोः शाब्दत्वं विधेयत्वं वाक्यभेदश्च । द्वितीयावयवे तु वक्तृगतमूढतोक्त्या तद्गतभ्रान्तिप्रतिपत्तिव्यवहिता निषेधप्रतिपत्तिरिति निषेध आर्थः । तादूप्यं शाब्दम् । विधेयत्ववाक्यभेदापहवपूर्वकत्वानि पूर्ववत् । चतुर्थावयवे पुनरारोपपूर्वकोऽपह्नवः । उभयोः शाब्दत्वविधेयत्वे वाक्यभेदश्च प्रथमवदेव ।।
'वदने विनिवेशिता भुजंगी पिशुनानां रसनामिषेण धात्रा।
अनया कथमन्यथावलीढा नहि जीवन्ति जना मनागमन्त्राः ॥' अत्रैकवाक्यत्वं निषेधताप्ययोरार्थत्वं विधेयत्वं च । निवेशनस्य विधेयत्वात् । एवमन्यदप्यूह्यम् । अत्र च लक्षणे आरोप्यमाणमित्यस्याहार्यनिश्चयविषयीक्रियमाणमित्यर्थः । तेन 'सङ्ग्रामाङ्गणसंमुखाहतकियद्विश्वंभराधीश्वर
व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा ।
स्मिन् तनिषेधे । तस्य वाक्यस्य । निषेधयोरिति । मध्य इति शेषः । अथेति । क्वचिदित्यर्थः । अनुवाद्यत्वं चेति । उभयोरप्यनुवाद्यत्वं विधेयत्वं चेत्यर्थः । क्वचिदित्यस्यानुषङ्गः । असतेव(?)निरासायाह-एवमपीति । चमत्कारित्वाभावेऽपीत्यर्थः । दश्यत इति । उक्तप्रकारजातमिति शेषः । तत्र तेषां मध्ये । प्रथमेति । स्मितमिति पादप्रतिपाद्ये इत्यर्थः । अपह्नवेति । निषेधस्य प्रागुल्लेखादिति भावः । उभयोस्तद्रूपानिषेधयोः । अस्य त्रिष्वन्वयः । एतत्पदार्थस्योद्देश्यत्वादाह--विधेयेति । द्वितीयेति । मुखमिति पादप्रतिपाद्य इत्यर्थः । तुरुक्तवैलक्षण्ये । तदेवाह-वक्तृगतेति। स्तनद्वन्द्वमिति पादप्रतिपाद्यततीयावयवस्य द्वितीयेन तुल्यत्वात्तमुपेक्ष्याह-चतुर्थेति । लतेति पादप्र. तिपाद्य इत्यर्थः । पुनःशब्दो वैलक्षण्ये । वाक्यैक्यस्योदाहरणं सप्रकारभेदमाह-वदन इति । अनया रसनया । अमन्त्रा जीवनोपायशून्याः । आर्थत्वमनुवाद्यत्वं च' इत्येव युक्तः पाठः । 'विधेयत्वं च' इत्यपपाठः । अत एवाह-निवेशनेति । आहार्थत्वनिवेशफलमाह-तेनेति । तै शितमध्यभागेन यद्विवरं तस्मादुन्मीलन्प्रकाशमान आकाशनै
For Private And Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८०
काव्यमाला।
अङ्गारप्रखरैः करैः कवलयन्सद्यो जगन्मण्डलं
मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः ॥ अत्र विरहिजनवाक्ये नायं शशाङ्कः, अपि तु सच्छिद्रो मार्तण्ड इति तु च्छायामात्रमपहृतेः । न त्वपढ्त्यलंकारः । तज्ज्ञानस्य दोषविशेषजन्यत्वेनानाहार्यत्वात् । किं तु भ्रान्त्यलंकार एव ।
'अलि€गो वा नेत्रं वा यन्न किंचिद्विभासते ।
अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ॥' . इत्यत्र मुखमरविन्दं वेति कविनिष्ठाहार्यसंशये मुखनिषेधसामानाधिकरण्येन विषयीभवतोऽरविन्दतादात्म्यस्य निश्चयविषयत्वाभावान्न संग्रहः । न चात्र विषयनिषेधस्यापदार्थत्वं शङ्कचम् । वाशब्दार्थत्वात् । यत्तु कुवलयानन्दाख्ये संदर्भ अप्पयदीक्षितैरपगुतिप्रभेदकथनप्रस्तावे पयस्तापह्रत्याख्यं भेदं निरूपयद्भिरभिहितम्
'अन्यत्र तस्यारोपार्थः पर्यस्तापह्नुतिस्तु सः ।
नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥ इति । अत्र चिन्त्यते-नायमपहृते.दो वक्तुं युक्तः । अपहृतिसामान्यलक्षणानाक्रान्तत्वात् । तथा हि-'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपहुतिः, उपमेयमसत्यं कृत्वा उपमानं सत्यतया यत्स्थाप्यते सापगुतिः' इति काव्यप्रकाशोक्तलक्षणबहिर्भावस्तावत्स्फुट एव । एवं 'विषयापहवे वस्त्वन्तरप्रतीतावपङतिः' इत्यलंकारसर्वस्वोक्तं लक्षणमपि नात्र प्रवर्तते ।
'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् ।
साम्यादपढुतिर्वाक्यभेदाभेदवती द्विधा ।' ल्यगुणो यस्येत्यर्थः । अङ्गारतीक्ष्णकिरणैरित्यर्थः । छायामात्र सादृश्यमात्रम् । निश्चयत्वनिवेशफलमाह-अलिरिति । व्याख्यातमिदम् । अपदार्थत्वं कथमपि पादप्रतिपाद्यत्वम् । वाशब्देति । विकल्पद्वारा वाशब्दव्यङ्गयत्वादित्यर्थः । एवं चाथिको निषेध इति भावः । स कारिकाकार: स्वीयव्याख्यानमाह-उपमेयमसत्यमिति । अत्र छुपमेयपदे पदार्थोपलक्षणमावश्यकमित्येतद्विरोधश्चिन्त्य इत्यग्रे स्फुट निरूपयिष्यते। प्रतीताविति । तत्रैव प्रत्यासत्तेरिति भावः । एवं पूर्वत्रापि बोध्यम् । साम्यात्सादृश्यमूलकम् ।
For Private And Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रमगङ्गाधरः ।
२८१
इति चित्रमीमांसागतं तन्निर्मितमपि लक्षणमिह तथैव । तस्मात् 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र दृढारोपं रूपकमेव भवितुमर्हति, नापद्रुतिः । उपमेयतोपमानतावच्छेदकयोः सामानाधिकरण्यस्य निष्प्रत्यूह भानात् । तदुक्तं विमर्शिन्याम्-"न विषं विषमित्याहुब्रह्मस्वं विषमुच्यते' अत्र विषस्य निषेधपूर्व ब्रह्मखविषये आरोप्यमाणत्वादृढारोपं रूपकमेव, नापद्रुतिः" इति । यदि च प्राचीनमतमुपेक्ष्यालंकाररत्नाकरेणेव मयाप्ययं प्रकारोऽपहुतिमध्ये गणित इत्युच्यते, तदा आहार्यताप्यनिश्चयस्य समानत्वाद्रूपकभेद एवापट्ठतिरित्यप्युच्यताम् । निरस्यतां च प्राचीनमुखदाक्षिण्यम् । एवमपि चित्रमीमांसागतत्वन्निमितापहृतिलक्षणस्यात्राव्याप्तिः स्थितैव । अपि च यदि 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र पर्यस्तापगुतिरित्युच्यते, तदा तस्यामेव त्वत्कृतचित्रमीमांसागतस्य ___ 'बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिद्भुते ।
उपरञ्जकतामेति विषयी रूपकं तदा ॥' इति रूपकलक्षणस्यातिव्याप्तिर्ववलेपायिता स्यात् । विषयिणो निहवेऽपि विषयस्यानिद्रुतत्वात् । अथापि चित्रमीमांसायां प्राचीनमतानुसारेण रूपकलक्षणम्, कुवलयानन्दे च रत्नाकराद्यनुसारेणापहृतित्वोक्तिरिति यथाकथंचित्सामञ्जस्यं विधेयमिति दिक् ।। तथैव न प्रवर्तते । उपसंहरति-तस्मादिति । दृढारोपमारोपदा_संपादकम् । न विषमिति । अत्रेदं चिन्त्यम्--नेदं मुखं चन्द्र इति प्रसिद्धापदुत्युदाहरणेऽपि मुखनिघेधकस्य चन्द्रारोपदा_संपाकत्वस्य वक्तुं शक्यत्वेनानुभवसिद्धत्वेन चापह्नतिमात्रस्योच्छेदापत्ते: । यदि तु निषेधपूर्वकारोपे चमत्कारविशेषस्यानुभवसिद्धत्वादलंकारान्तरत्वं ताह प्रकृतेऽपि तुल्यमिति । प्राचीनोति । प्रकाशकारादीत्यर्थः । एपमग्रेऽपि । इति दृष्टान्तोल्लेखेन तदनुरोधेनायं गणित इति सूचितम् । अपह्नुतितत्त्वावच्छिन्नम् । ननु निषेधपूर्वकारोपे चमत्कारविशेषस्यानुभवसिद्धत्वेन कथमपलापः, अतो दोषान्तरमाहएवमपीति । उक्तरीत्या तथाङ्गीकारेऽपि । दोषान्तरमाह-अपि चेति । तस्यामेव पर्यस्तापहृतावेव । रत्नाकरादिति । आदिना दण्डिग्रहणम् । इत्थं हि काव्यादर्श (२।३०४ ) तेनोक्तम् --'अपगुतिरपद्रुत्य किंचिदन्यार्थसूचनम्' इति । यथाकथंचित्सामञ्जस्यमिति । एतदनन्तरमत्र किंचित्पतितम् । तत्सर्वपुस्तके दुर्लभमेव । अ
For Private And Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८२
काव्यमाला।
'अनल्पजाम्बूनददानवर्ष तथैव हर्ष जनयञ्जनेषु ।
दारिद्यधर्मक्षपणक्षमोऽयं धाराधरो नैव धराधिनाथः ॥' सावयवारोपेयमपहुतिः। आरोपमात्रोपायत्वे परम्परिताप्येषा संभवति । यथा
'मनुष्य इति मूढेन खलः केन निगद्यते ।
अयं तु सज्जनाम्भोजवनमत्तमतङ्गजः ॥' अस्याश्च ध्वनिर्यथा'दयिते रदनविषां मिषादयि तेऽमी विलसन्ति केसराः ।
अपि चालकवेषधारिणो मकरन्दस्टहयालवोऽलयः ॥' अत्र 'नैता रदनत्विषः, किं तु किंजल्कपरम्पराः । न चैतेऽलकाः, अपि त्वलयः' इति पूर्वोत्तरार्धाभ्यां द्वे अपहृती तावत्प्राकट्येनैव निवेदिते । ताभ्यां च 'न त्वं नारी, किं तु कमलिनी' इति तृतीयापह्नुतिर्व्यञ्जनव्यापारेण प्राधान्येन निवेद्यते। तत्संबन्धिवस्तुनिषेधारोपयोस्तनिषेधारोपनिवेदकत्वस्य न्याय्यत्वात्तुल्ययोगितानुगुणतया स्थिता । यत्त्वप्पदीक्षितैरपह्नुतिध्वनावुक्तम्
"त्वदालेख्ये कौतूहलतरलतन्वीविरचिते __विधायैका चक्र रचयति सुपर्णीसुतमपि । अपि स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा
करे पोप्पं चापं मकरमुपरिष्टाच लिखति ॥' नन्तरं 'विधेयमिति दिक्' इति ग्रन्थः । अवयवरूपकसंकीर्णमुदाहरति-अनल्पेति । दानवर्षयो रूपकम् । दारिद्यरूपस्योष्मणो नाशने समर्थ इत्यर्थः । सावयवारोपेति । अवयवारोपसहितेत्यर्थः । तद्रूपकसहितेति यावत् । आरोपेति । आरोपस्येत्यादिः । दयित इति । व्याख्यातमिदं प्राक् । तावदादौ । अप्राधान्ये ध्वनित्वाभावादाहप्राधान्येनेति । तदिति । अवयवीत्यर्थः । ननु विलासस्पृहयालुत्वरूपक्रियागुणरूपधर्मेक्यस्य प्रकृताप्रकृतयोः सत्वेन तुल्ययोगितेवेयमत आह-तुल्येति । त्वदालेख्य इति । त्वत्प्रतिकृतिभूतचित्र इत्यर्थः । नायकं प्रति स्वसख्युक्तिः । एका तन्वी सखी। चक्रं सुदर्शनम् । सुपर्णीसुतं गरुडम् । अपि अथ । क्वचित्तथैव पाठः । अथ मानयोग्यत्वाय हेतुगर्भ विशेषणम्-स्विद्यत्पाणिरिति । अपरा तत्सखी । तस्यापि पुण्ड
For Private And Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२८३
इत्यादावपढ़तिध्वनिरुदाहर्तव्यः । अत्र हि चक्रसुपर्णलेखनेन 'नायं साधारणः पुरुषः, किं तु पुण्डरीकाक्षः' इति कयाचिद्वयञ्जितम् । अन्यथा तु तस्याप्येतादृशं रूपं न संभवतीत्याशयेन 'नायं पुण्डरीकाक्षोऽपि, किंतु मन्मथः' इति तदुभयमपमृज्य पुष्पसायकमकरध्वजलेखनेन व्यञ्जितम्" इति तदेतदापातरमणीयम् । यत्तावदुच्यते-'चक्रसुपर्णलेखनेन नायं साधारणः पुरुषः, किं तु पुण्डरीकाक्षः' इति कयाचिद्वयजितमिति तत्रापगुतेह्रौं भागौ-उपमेयनिषेधः, उपमानारोपश्चेति । तयोस्तावदुपमानारोपभागः पुण्डरीकाक्षोऽयमित्याकारश्चक्रसुपर्णलेखनेनाभिव्यकुं शक्यः । चक्रसुपर्णयोस्तत्संबन्धित्वात् । न तु नायं साधारणः पुरुष इत्युपमेयनिषेधभागोऽपि । व्यञ्जकस्यारोपमात्रव्यञ्जनसमर्थस्य तादृशनिषेधव्यञ्जने सामर्थ्याभावात् । नाप्यनुभवसिद्धः सः । येन तद्वयञ्जनायोपायो गवेष्येत । नापि गवेष्यमाणोऽपि तद्व्यञ्जनोपायः शब्दोऽर्थो वा उपलभ्यते । येनानुभवकलहोऽपि स्यात् । न च साधारणपुरुषनिषेधमन्तरेण पुण्डरीकाक्षतादात्म्यारोपो दुर्घट इति सोऽपि व्यज्यत इति वाच्यम् । रूपकोच्छेदापत्तेः । मुखं चन्द्र इत्यादौ मुखनिषेधमन्तरेण चन्द्रत्वं दुरारोपमित्यस्यापि सुवचत्वात् । तत्रापि मुखनिषेधावगमे जितमपद्दुत्या । अथ मुखं चन्द्र इति रूपके मुखत्वसामानाधिकरण्येन चन्द्रताद्रूपस्यारोप्यमाणतया न मुखनिषेधापेक्षेति चेत्, प्रकृतेऽपि तर्हि तादृशसाधारणपुरुषत्वसामानाधिकरण्येन पुण्डरीकाक्षतादात्म्यारोपरूपम सौ राजा पुण्डरीकाक्ष इत्यारीकाक्षस्यापि । तदुभयं चक्रसुपर्णद्वयम् । इत्याशयेन तथा लेखनेन । इति व्यअितमित्यन्वयः । तत्रेति । उच्यत इति शेषः । एवमग्रेऽपि भागोऽभिव्यक् शक्य इत्यनुषज्यते । व्य अकेति । चकसुपर्णलेखनस्यत्यर्थः । ननु कथं तदनुभवोऽत आह-नापीति । स तादृशनिषेधभागः । उक्तपद्य इति शेषः । गवेष्येत अन्वेष्येत । ननु विनिगमनाविरहोऽत आह--नापीति । लभ्यत इति । प्रकृतपद्य इति शेषः । दुर्घट इति । तज्ज्ञानस्य तत्र प्रतिबन्धकत्वादिति भावः । सोऽपि निषेधभागोऽपि । अन्यथानुपपत्त्येति भावः । ननु तत्रापि तत्स्वीकारोऽत आह-तत्रापीति । रूपकेऽपीत्यर्थः । एवं च तदुच्छेदापत्तिरिति भावः । बाधज्ञानमाहार्यज्ञाने न प्रतिबन्धकमित्याशयेनाह-अथेति । सामेति । न त्ववच्छेदकावच्छेदेनेति भावः । आरोप्योति । आहार्यज्ञानविषयीक्रियमाणतयेत्यर्थः । तदाकारमाह-असाविति । चस्त्वर्थे । द्वि
For Private And Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
काव्यमाला।
काररूपकमेव भवितुमीष्टे नापह्नुतिः । यदपि चोच्यते 'नायं पुण्डरीकाक्षः, अपि तु मन्मथः' इत्यादि, तत्र यद्यपि चक्रसुपर्णदूरीकरणेन नायं पुण्डरीक इति निषेधः पुष्पचापध्वजगतमकरयोर्लेखनेन च मन्मथोऽयमित्युपमानारोपश्च व्यङ्गयो भवितुमर्हति । तथापि नासावपहुतिः । 'प्रकतस्य निषेधेन यदन्यत्वप्रकल्पनम्' इति त्वत्कृतलक्षणस्याप्यत्रासत्त्वात् । अत्र हि निषेध्यस्य भगवतः पुण्डरीकाक्षस्यावर्ण्यत्वेनाप्रकृततया प्रकतनिषेधाभावात् । नहि पूर्वारोपिततामात्रेण प्रकृतत्वं वक्तुं शक्यम् । प्रकृतपदस्यारोपविषयपरतया निषिध्य विषयमित्यादिना क्त्वाप्रत्ययफलं ब्रुवता भवतैव तत्र स्फुटीकरणात् । काव्यप्रकाशकृतापि 'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपहुतिः' इति सूत्रं व्याचक्षाणेन 'उपमेयमसत्यं कृत्वा' इत्यादिना प्रकृतपदस्योपमेयपरतयैव व्याख्यानाच्च । प्राचीनमतासिद्धेयमपगुतियङ्गयत्वेनास्माभिरिहोच्यत इत्यपि कुशकाशावलम्बनमात्रम् । 'प्रकृतस्य निषेधेन' इत्यादिलक्षणं कुर्वता भवतैव तस्या बहिःकरणात् । एवमप्युक्तपद्ये कोऽलंकारो व्यङ्गय इति चेत्, विच्छित्तिवैलक्षण्येऽतिरिक्तः, अन्यथा त्वपगुतिरेवास्तु । लक्षणं तु तदा प्रसक्तय
तीयश्चो व्यङ्ग्यत्वसमुच्चये । ननु निषेधसामानाधिकरण्येनोपमानतादात्म्यारोपसत्त्वात्कथं तदभावोऽत आह-अत्र हीति । ननु पर्वमारोपितत्वात्प्रकृत एव सोऽत आह--नहीति । निषिध्य विषयमित्यादिनेति । 'निषिध्य विषयं साम्यादन्यारोप' इति तु क्त्वाप्रत्ययेन लक्षणं नोक्तम् । वक्ष्यमाणोदाहरणे आरोपपूर्वकापरवेऽव्याप्तिप्रसङ्गादिति तैरुक्तम् । फलं कचिदव्याप्तिरूपमनिष्टं फलम् । तत्र चित्रमीमांसायाम् । अपिसूचितं दोषान्तरमाह-काव्यति । पुण्डरीकाक्षस्तूयमानमिति भावः । प्राचीनेति । प्रागुक्तदण्डिमतेत्यर्थः । इह चित्रमीमांसायाम् । कुशेति । संसारकाष्ठाद्यवलम्बनमेवोचितं न कुशादेरिति यथा तथा सर्वसिद्धसंसारमतावलम्बनमेवोचितं नकदेशिमतस्येत्यर्थः । तदेवाह--प्रकृतेति । एवः प्रत्यासत्तिबोधकः । अन्यलक्षणबहिर्भावोऽपि बोध्यः । विच्छितिश्चमत्कृतिः । अतिरिक्तोऽपद्भुत्यन्यो रूपकाख्यः । अन्यथा तु विच्छित्तिविशेषाभावे । ननु प्रागुक्तसर्वमतसिद्धापद्रुतिसामान्यलक्षणानाक्रान्तत्वात्कथं तत्त्वमत आह-- लक्षणं त्विति । तदेति । तत्रापहृतित्वाङ्गीकर्तृदण्ड्या दिमत इत्यर्थः । प्रसक्तेति । प्रसक्तत्वं च यथाकथंचित् । न तु प्रकृतत्वापेक्षेति भावः। अस्तुतदेत्याभ्यामस्यानभिमत
For Private And Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२८५ त्किचिद्वस्तुनिषेधसामानाधिकरण्येन क्रियमाणवस्त्वन्तरारोपत्वमेव। तस्मात्सर्वमेवेदमहृदयंगमं सहृदयानाम् ।
इति रसगङ्गाधरेऽपद्भुतिप्रकरणम् । अथोत्प्रेक्षाप्रकरणम्
तद्भिन्नत्वेन तदभाववत्त्वेन वा प्रमितस्य पदार्थस्य रमणीयतदृत्तितत्समानाधिकरणान्यतरतद्धर्मसंबन्धनिमित्तकं तत्त्वेन तद्वत्त्वेन वा संभावनमुत्प्रेक्षा।
'लोकोत्तरप्रभाव त्वां मन्ये नारायणं परम्' इत्यत्र तादृशप्रभावस्य नारायणत्वव्याप्यतासंभावनादशायां सामय्यभावेनानुमित्यनुदयाज्जायमानायां नारायणेनानेन प्रायशो भवितव्यमिति संभावनायामतिप्रसङ्गवारणाय तद्भिन्नत्वेन प्रमितस्येति संभावनायामाहार्यता गमयति । एतेन
'रामं स्निग्धतरश्यामं विलोक्य वनमण्डले ।
प्रायो धाराधरोऽयं स्यादिति नृत्यन्ति केकिनः ॥' इत्यत्र संभावनायाम्, "धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः' इ. त्यत्र भ्रान्तौ च नातिप्रसङ्गः । त्वं सूचितम्,अतःस्वसिद्धान्तरीत्योपसंहरति-तस्मादिति। दीक्षितोक्ते यथाकथंचित्तत्समर्थनं चेत्यर्थः। अहृदयंगममिति । अत्रेदं चिन्त्यम् -दीक्षितैर्हि "दण्डी त्वपहृतेः साधर्म्यमलत्वनियममनादृत्य 'अपगुतिरपदुत्य किंचिदन्यार्थसूचनम्' इति लक्षयित्वा उदाजहार-'न पञ्चेषुः स्मरस्तस्य सहस्रं पत्रिणां यतः । चन्दनं चन्द्रिका मन्दो गन्धवाहश्च दक्षिण: ॥' इत्याद्युपक्रम्य 'त्वदालेख्ये' इत्यायुक्तमिति । तदनुसारेणैव तत्रापहृतिध्वनिरुदाहृत इति न किंचिदहृदयंगमम् । प्रकाशविरोधोऽपि न । तत्रोपमेयपदस्य पदाअॅपलक्षणत्वात् । अन्यथा 'केसेसु बलामोडिअ' इत्यत्र 'स्वयं न प्रपलाय्य गतास्तद्वैरिणोऽपि तु ततः पराभवं संभाव्य तान् कंदरा न त्यजन्तीत्यपद्भुतिय॑ज्यते' इति प्रकाशग्रन्थासंगतिः स्यादिति बोध्यम् ।। इति रसगङ्गाधरमर्मप्रकाशेऽपद्धतिप्रकरणम् ॥
उत्प्रेक्षां लक्षयति-अथोत्प्रेक्षेति । विनिगमनाविरहादन्योन्याभावात्यन्ताभावघटितं लक्षणद्वयं युगपदाह---तद्भिन्नत्वेनेति । लोकोत्तरेति । राजानं प्रत्युक्तिः । तादृशेति । लोकोत्तरेत्यर्थ: । सामग्रीनिश्चयरूपव्याप्तिनादि )रूपानुमितिसामग्रीत्यर्थः । ननु कथमेता[सां] वारणमत आह-संभावनेति । इदं चेत्यादि । संभावनायां लक्षणघटकीभूतायाम् । तथा चोक्तसंभावनानाहार्येति नातिप्रसङ्ग इति भावः । अस्य फलान्तरमाह-एतेनेति । धाराधरो मेघः । भ्रान्तिरपीयमनाहार्या । अन्यथा
For Private And Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
काव्यमाला।
'वदनकमलेन बाले स्मितसुषमालेशमावहसि यदा ।
जगदिह तदैव जाने दशार्धबाणेन विजितमिति ॥' अत्र जगज्जयसंभावनायामातिप्रसङ्गवारणाय रमणीयतद्धर्मनिमित्तकमिति । स्मितस्य संभावनोत्थापकत्वेऽपि जगद्विजितरूपविषयविषयिसाधारणत्वाभावान्न दोषः । एतेन 'प्रायः पतेद्दयौः शकलीभवेद् ग्लौः सहाचलैरम्बुधिभिः स्खलेगौः ।
नूनं ज्वलिष्यन्ति दिशः समस्ता यद्दौपदी रोदिति हा हतेति ॥' अत्रापि रोदनकारणीभूतकेशग्रहणादिजन्यपापनिमित्तोत्थापितायां स्वपतनसंभावनायां नातिप्रसङ्गः । प्रायः स्थाणुनानेन भवितव्यम्, नूनं पुरुषेणानेन भाव्यम्, दूरस्थोऽयं देवदत्त इवाभाति, इत्यादौ निश्चलत्वचञ्चलत्वादिसाधारणधर्मनिमित्तायां संभावनायामातेप्रसङ्गः स्यात्, अतो रमणीयत्वं धर्मगतमुपात्तम् । रूपकवित्तावतिप्रसङ्गवारणाय संभावनमिति । अत्र च तादात्म्येन संसर्गेण धयुत्प्रेक्षायाः, संसर्गान्तरेण धर्मोत्प्रेक्षायाश्च संग्रहायकोक्त्या लक्षणद्वयं विवक्षितम् । __ सा चोत्प्रेक्षा द्विविधा-वाच्या, प्रतीयमाना च । इव, नूनम्, मन्ये, जाने, अवैमि, उहे, तर्कयामि, शङ्के, उत्प्रेक्षे, इत्यादिभिः क्यङाचारक्विबादिभिः प्रतिपादकैः सहिता यत्रोत्प्रेक्षासामग्री, तत्र वाच्योत्प्रेक्षा। यत्र च प्रतिपादकशब्दरहितं तत्सामग्रीमात्रम्, तत्र प्रतीयमाना । यत्र तत्सामग्रीरहितं प्रतिपादकमात्रम्, तत्र संभावनामात्रमेव नोत्प्रेक्षा । कायीभावापत्तेः । स्मितति । हास्यशोभालेशमित्यर्थः । तदेति पान्वयि । दशेति । पञ्चबाणेन मदनेनेत्यर्थः । जगजयेति । जगति जयसंभावनायामित्यर्थः । तद्धति । तद्धर्मसंबन्धोत्यर्थः । ननु स्मितरूपधर्मनिमित्तकत्वमस्त्येवात आह--स्मितेति । हा. स्यस्य तत्सहकारित्वादिति भावः । जगदिति । जगजितरूपी यो विषय विषयिणौ तनिष्ठत्वाभावादित्यर्थः । अस्य प्रत्युदाहरणान्तग्माह-एतेनेति । ग्लौश्चन्द्रः । गौः पृथ्वी । भूतत्वं केशग्रहणादि विशेषणम् । पापस्य द्यौः पतेदित्यादि विषय विषयिसाधारणत्वाभावादिति भावः । स्थाणुना वृक्षण । यथाक्रमेण धर्मानाह-निश्चलेति । आदिना विलक्षणाकारत्वपरिग्रहः । रमणीयत्वमिति । तत्वं च कविप्रतिभानिर्वर्तितत्वमिति भावः । ननु ज्ञानमित्येवास्तु अत आह-रूपकेति । नन्वेवमपि तदभाववस्वेनेत्याद्यधिकमत आह-अत्र चेति । उक्तलक्षणवाक्य इत्यर्थः । अलंकारसर्वस्वरीत्या इमा विभजते-सा चोत्प्रेक्षेति । यत्रोत्प्रेक्षासामग्रीति । सा च रमणीयतद्धर्म
For Private And Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
२८७ सापि प्रत्येकं त्रिविधा-स्वरूपोत्प्रेक्षा, हेतूत्प्रेक्षा, फलोत्प्रेक्षा चेति । तत्र जातिगुणक्रियाद्रव्यरूपाणां तदभावरूपाणां च पदार्थानां तादात्म्येनेतरेण वा संबन्धेन जातिगुणक्रियाद्रव्यात्मकैय॑स्तैः समुच्चितैरुपातैरनुपात्तैर्निप्पन्नैनिष्पाद्यैर्वा निमित्तभूतैधर्मेर्यथासंभवं जातिगुणक्रियाद्रव्यात्मकेषु विषयेषत्प्रेक्षणं स्वरूपोत्प्रेक्षा । तत्राभेदेन संसर्गेण धर्मिस्वरूपोत्प्रेक्षा, संसर्गान्तरेण धर्मस्वरूपोत्प्रेक्षेति चोच्यते । उक्तविधेषु पदार्थेषु प्रागुक्तप्रकाराणां पदार्थानां तथाविधैरेव निमित्तैर्यथासंभवं हेतुत्वेन फलत्वेन च संभावनं हेतृत्प्रेक्षा फलोत्प्रेक्षा चोच्यते ।
एताश्च क्वचिन्निष्पन्नशरीराः क्वचिन्निष्पाद्यशरीराश्चेत्येवमाद्यनल्पविकल्पाः संपद्यन्ते । तथापि दिङ्मात्रमुपदर्श्यते ।
आख्यायिकायां जात्यवच्छिन्नस्वरूपोत्प्रेक्षा यथा'तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी' इति । अत्र भागीरथ्यां द्रव्ये जातो वा हिमगिरिसंबन्धी भुजत्वजात्यवच्छिन्नस्तादात्म्येनोत्प्रेक्ष्यते । तत्र च भागीरथीगतानां श्वैत्यशैत्यलम्बत्वजलधिजठरप्रविष्टत्वानां धर्माणां निमित्ततासिद्धये विषयिहिमगिरिभुजगतत्वमवश्यं संपादनीयम् । तेषां च मध्येऽनुपात्तयोः श्वैत्यशैत्ययोहिमगिरिसंबन्धित्वादेव भुजगतत्वं संपनम् । इतरयोरपि संपादनाय तनयमैनाकगवेषणं फलमुत्प्रेक्षितम् । तसाधनताज्ञानस्य लम्बत्वजलधिजठरप्रवेशानुकूलयत्नजनकत्वात् । एवं च विषयिगततादृशगवेषणफलकलम्बत्वजलधिजठरप्रविष्टत्वाभ्यां विषसंबन्धादिरूपा । सापीति । एवं च द्वादश भेदाः संपन्ना इति भावः । तत्र तासां तिसणां मध्ये । द्रव्यति । संज्ञाशब्दाभिप्रायमिदम् । एवमग्रेऽपि । उक्तमेव विशदयति-तत्रति । तासां स्वरूपोत्प्रेक्षाणां मध्य इत्यर्थः । हेतूत्प्रेक्षाफलोत्प्रेक्षे आहउक्तेति । जात्यादिष्वित्यर्थः । एवमग्रेऽपि । अनल्पेति । बहित्यर्थः । तनयेति । हिमगिरेरित्यादिः। लम्बत्वप्रविष्टत्वे भुजविशेषणे। द्रव्ये जातो वेति । संज्ञाशब्दवाच्यायां जातिशब्द वाच्यायां वेत्यर्थः । तेषां च उक्तधर्माणाम् । इतरयोरपि उपात्तयोर्लम्बत्वतत्प्रविष्टत्वयोरपि । तत्साधनतेति । गवेषणसाधनतेत्यर्थः । यत्नेति । अन्यथा गवेषणासंभवादिति भावः । विषयिगतेति।विषयिहिमगिरिभुजगताभ्यामित्यर्थः । तादृशेति ।
For Private And Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
काव्यमाला।
यगतयोः साहजिकलम्बत्वजलधिजठरप्रविष्टत्वयोरभेदाध्यवसानातिशयोक्त्या साधारण्यसंपत्तौ निमित्तता । न चात्र फलस्याप्युत्प्रेक्षणात्फलोत्प्रेक्षेति वक्तुं शक्यम् । उत्प्रेक्ष्यमाणफलनिष्पादितनिमित्तोत्थापितायां स्वरूपोत्प्रेक्षायामेवंविधेयत्वाच्चमत्कृतेर्विश्रामादुत्प्रेक्षाप्रतिपादकस्य प्रत्ययस्य फलेनानन्वयाञ्च तयैवात्र व्यपदेशो युक्तः । अनिगीणविषया चेयमुपात्तानुपात्तगुणक्रियात्मकनिमित्ता निष्पाद्यविशिष्टशरीरा जात्युत्प्रेक्षा । हिमगिरिभुजस्य कविनैव निप्पादितत्वात् । तादात्म्येन गुणस्वरूपोत्प्रेक्षा यथा'अम्भोजिनीबान्धवनन्दनायां कूजन्बकानां समजो विरेजे ।
रूपान्तराक्रान्तगृहः समन्तात्पुञ्जीभवशुक्क इवाश्रयार्थी ॥' अत्रैकाधिकरण्यापन्ने कूजनविशिष्टे बकत्वजात्यवच्छिन्ने विषये पुञ्जीभवनविशिष्टः शुक्लगुणस्तादात्म्येनोत्प्रेक्ष्यते । तत्र बकगतानां कूजननैर्मल्यपुञ्जीभवनानां शुक्लगुणगतत्वमन्तरेण बकशुक्लयोरभेदस्य दुरुपपादत्वात्तत्सिद्धये तेषां विषयिगतत्वं साध्यम् । तत्र नैर्मल्यस्यानुपात्तस्य यथाकथंचिदुत्प्रेक्ष्यमाणे विषयिणि सिद्धत्वात्कूजनपुञ्जीभवनयोर्निप्पादनाय रूपान्तराक्रान्तगृहत्वमाश्रयार्थित्वं च हेतुत्वेनोत्प्रेक्षितम् । इहापि प्राग्वत्साहजिकयोः कल्पिताभ्यामभेदाध्यवसानात्साधारण्यम् । एवमन्यत्राप्यूह्यम् । पूर्व हि यथा फलस्योत्प्रेक्षणेऽपि न फलोत्प्रेक्षा तथेहापि हेतोरिति ।
तनयमैनाकेत्यर्थः । विषयेति। भागीरथीत्यर्थः । विनिगमनाविरहादाह-उत्प्रेक्षेति । प्रत्ययस्य क्यङ: । उपसंहरति-तयैवेति । एवं चेत्यादि । स्वरूपोत्प्रेक्षयवेत्यर्थः । क्वचित् 'तथैव' इति पाठः । सोऽप्युक्तार्थक एव।अत्र भेदानुपपादयति-अनिगीणेति ।भागीरथ्या उपादानात् । उपात्तेति । इदं च यथासंभवं बोध्यम् । न तु यथासख्यम् । निष्पाद्यत्वे हेतुमाह-हिमेति । एवं चैकदेशस्य सिद्धत्वेऽपि विशिष्टस्य निष्पाद्यत्वं स्पष्टमेवेति भावः । अम्भोजिनीति । सूर्यकन्यायां यमुनायामित्यर्थः । समजः संघः । रूपान्तरेति । नीलादीत्यर्थः । ऐकाधिकरण्यापन्न इति । समुदायापन इत्यर्थः । तत्र तयोर्मध्ये । तत्सिद्धये शुक्लगुणगतत्वसिद्धये । तेषामुक्तधर्माणाम् । विषयीति । शुक्लगुणेत्यर्थः । यथाकथंचिदिति । नन्वेवं हेतृत्प्रेक्षैवेयं कुतो नात
For Private And Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२८९
क्रियास्वरूपोत्प्रेक्षा यथा'कलिन्दजा नीरभरेऽर्धमना बकाः प्रकामं कृतभूरिशब्दाः । ध्वान्तेन वैराद्विनिगीर्यमाणाः क्रोशन्ति मन्ये शशिनः किशोराः॥'
अत्र प्रथमान्तविशेष्यकबोधवादिनामभेदसंसर्गेण कलिन्दजानीरार्धमनकृतभूरिशब्दोभयविशिष्टेषु बकेषु विषयेषु ध्वान्तकर्तृकवैरहेतुकनिगरणकर्माभिन्नोत्प्रेक्षितशशिकिशोरतादात्म्योत्प्रेक्षणपूर्वकं क्रोशनकर्तृत्वं धर्म उत्प्रेक्ष्यते । तत्र तादात्म्योत्प्रेक्षणे धर्म्युत्प्रेक्षायां साधारणो धर्मः, संबन्धान्तरेणोत्प्रेक्षणे धर्मोत्प्रेक्षायां तत्समानाधिकरणो धर्मश्च विषयगतो निमित्तमिति स्थिते प्रकते क्रोशनकर्तृत्वरूपधर्मोत्प्रेक्षायां तत्समानाधिकरणनिगरणकर्मत्वरूपधर्मस्य विषयगतत्वसिद्धयेऽनुवाद्यतया शशिकिशोरतादात्म्यमनुपात्तश्चैत्यनिमित्तकमुत्प्रेक्ष्यते । तत्र यथा विशिष्टोपमायामुपमानोपमेयविशेषणतद्विशेषणानामार्थमौपम्यम्, एवमत्रापि विषयबकविशेषणतद्विशेषणयोरर्धमज्जनयमुनाजलयोर्मूलोत्प्रेक्षा विषयिशशिकिशोरविशेषणतद्विशेषणाभ्यां निगरणध्वान्ताभ्यामभेद आर्थः । ततश्च ध्वान्तकर्तृकनिगरणे सिद्धे मुख्योत्प्रेक्षानिर्वाहः । क्रोशनशब्दयोरपि बिम्बप्रतिबिम्बभावनाभेदः । तेन कलिन्दजातीरार्धमनकृतभूरिशब्दोभयाभिन्ना बका ध्वान्तनिगीर्यमाणशशिकिशोरोभयाभिन्नाः क्रोशनक्रियानुकूलव्यापारवन्त इवेति बोवाकारः । आख्याते भावप्राधान्ये त्वभेदेन क्रोशनक्रिआह-पूर्व हीति । कृतभूरीति । यो निमज्जति स शब्दं करोतीति लौकिकम् । वादिनामित्यस्य धर्म उत्प्रेक्ष्यत इत्यत्रान्वयः । शानजर्थमाह-कर्मेति । तदभिन्नत्वेनोत्प्रेक्षितेत्यर्थः । अत्रोत्प्रेक्षितेत्यधिकम् । तयोरभेदस्य स्वारसिकत्वात् । तत्र उत्प्रेक्षयोर्मध्ये । पूर्वीमाह-तादेति । द्वितीयामाह-संवेति । विषयेति । बकेत्यर्थः । तत्कृतचमत्काराभावादाह-अनुवाद्येति । उत्प्रेक्ष्यते । बकेष्विति शेषः । नन्वेवमपि साधारणधर्माभावात्कथं प्रधानोत्प्रेक्षानिर्वाहोऽत आह-तत्रति । तस्मिन्सतीत्यर्थः । मलोत्प्रेक्षेति । मलोत्प्रेक्षाया विषयी यः शशिकिशोर इत्याद्यर्थः । क्रियोत्प्रेक्षोपपादकत्वात्तस्या मूलोत्प्रेक्षात्वम् । सिद्ध इति । बकानामित्यादिः । मुख्योत्प्रेक्षेति । क्रियोत्प्रेक्षेत्यर्थः । प्रकारान्तरेणापि साधारण्यं धर्मस्याह-क्रोशनेति । शशिकिशोरोभयानुकूलकोशेति । 'निगीर्यमाणाभिन्नशशिकिशोराभिन्नाः क्रोशनक्रियानुकूल-' इति युक्तः पाठः । एवं नैयायिकमतेन बोधमुक्त्वा वैयाकरणमतेनाह-आख्यात इति ।
For Private And Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२९०
काव्यमाला |
योत्प्रेक्षा । तत्र शाब्दे वृत्ते बकविशेषणतया प्रतीयमानमपि शब्दनं विषयतयावतिष्ठते । अध्यवसानवशात् । क्रोशनक्रियायां च तादृशबका विशेषणम्, तादृशबकेषु चाभेदेन तादृशशशिकिशोराः, न तु शशिकिशोरा एव साक्षात्क्रियायाम् । एवं च बकानामनन्वयापत्तेः । विषयविषयिविशेषणानां प्राग्वदेव बिम्बप्रतिबिम्बभावेनाभेदप्रतिपत्तिः । तथा'राज्याभिषेकमाज्ञाया शम्बरासुरखैरिणः ।
विशेषः ।
Acharya Shri Kailassagarsuri Gyanmandir
सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ॥'
अत्रापि चन्द्रे विषये तादृशलेपनकर्तृत्वरूपधर्मोत्प्रेक्षेत्येकं दर्शनम् । किरणव्यापने विषये चन्द्रकर्तृकसुधाकरणकलेपनस्य तादात्म्येनोत्प्रेक्षणमिति द्वितीयम् । तत्र प्रथमे मते धवलीकारकत्वरूपनिमित्तानुपादानादनुपात्तनिमित्ता, विषयस्योपादानादुपात्तविषया । द्वितीयेऽपि तस्यैव निमित्तस्यानुपादानादनुपात्तनिमित्ता, विषयस्य निगीर्णतयानुपात्तविषयेति
तादात्म्येन द्रव्यत्वरूपोत्प्रेक्षा यथा
'कलिन्दशैलादियमा प्रयागं केनापि दीर्घा परिखा निखाता । मन्ये तलस्पर्शविहीनमस्यामाकाशमानीलमिदं विभाति ॥' अत्र यमुनायां नीलत्वदीर्घत्वनिमित्तकमाकाशतादात्म्योत्प्रेक्षणम् । नवभेदेन बके तदुत्प्रेक्षा बाधिता अत आह— तत्रेति । उत्प्रेक्ष्यमाणक्रोशनक्रियायामित्यर्थः । वृत्ते बोधे निष्पन्ने वा । अध्यवसानेति । अध्यवसानं च मञ्चाः क्रोशन्तीत्यादिवद्विषयिवाचकशब्देनेति बोध्यम् । तादृशेति । विशेषणद्वयविशिष्टेत्यर्थः । एवमग्रेऽपि । तादृशेति । एकविशेषणविशिष्टेत्यर्थः । क्रियायां कोशनेत्यादिः । एवं च एवं सति । एवं च तादृशशशिकिशोराभिन्नकर्तृत्वं क्रोशनमिति बोध्यम् । अस्या उदाहरणान्तरमाह - तथेति । शम्बरस्येति । मदनस्येत्यर्थः । प्राग्वदत्रापि मतभेदमाह - अत्रापीति । तादृशेति । सुधाकरणकजगन्मध्यकर्मकेत्यर्थः । चन्द्रेति । तदभिनेत्यर्थः । करणकेति । जगन्मध्यकर्मकेत्यपि बोध्यम् । विषयस्य चन्द्रस्य । तस्यैव धवलीकारकत्वस्यैव । विषयस्य किरणव्यापनस्य । निगीर्णेति । सुधाभिर्लिम्पतीत्यनेनेति भावः । कलिन्देति । तदाख्यपर्वतादित्यर्थः । इयं दृश्या गर्तरूपा । आ प्रयागं प्रयागमभिव्याप्य । अस्यां परिखायाम् । इदं दृश्यं यमुनारूपम् । ननु प्राग्वज्जात्युत्प्रेक्षेयं कुतो न अत आह— आकाशेति । इदं च मञ्जूषायां मतं स्पष्टम् ।
For Private And Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२९१
आकाशत्वस्य स्वरूपात्मकत्वाव्योत्प्रेक्षेयम् । अत एवाकाशपदाच्छब्दाश्रयत्वाद्यनुपस्थितिदशायामप्याकाशधीः । नीलत्वरूपनिमित्तस्य विषयिणि सिद्ध्यर्थ तृतीयचरणोपादानम् । दीर्घत्वरूपनिमित्तसिद्ध्यर्थं च पूर्वार्धम् । जात्यादीनामभावोत्प्रेक्षा यथा'बाहुजानां समस्तानामभाव इव मूर्तिमान् ।
जयत्यतिबलो लोके जामदग्न्यः प्रतापवान् ॥' अत्र जात्यवच्छिन्नाभावो विरोधित्वनिमित्तेन तादात्म्येनोत्प्रेक्ष्यते । विनाश इवेत्युक्तौ तु ध्वंसः । 'समस्तलोकदुखानाम्' इति प्रथमचरणे कते गुणाभावः ।
'द्यौरञ्जनकालीभिर्जलदालीभिस्तथा वव्रे ।
जगदखिलमपि यथासीन्निर्लोचनवर्गसर्गमिव ॥' अत्रापि चाक्षुषज्ञानसामान्यशून्यत्वेन निमित्तेन पान्तिकः क्रियाभावो धर्मः । एवं द्रव्याभावोत्प्रेक्षापि स्वयमूह्या । मालारूपाप्येषा संभवति । यथा'द्विनेत्र इव वासवः करयुगो विवस्वानिव
द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव । नन्वाकाशत्वं शब्दाश्रयत्वादिरूपमिति कुतः स्वरूपात्मकमत आह-अत एवेति । तस्य स्वरूपात्मकत्वादेवेत्यर्थः । आदिना शब्दसमवायिकारणत्वपरिग्रहः । विषयिणि आकाशे। तृतीयेति । तलस्पर्शे सति प्रतिबिम्बासंभव इति भावः । सिद्ध्यर्थ चेति । आकाश एवेति शेषः । गर्तोपरितनाकाशस्य तद्दीर्घत्वारोपादिति भावः । बाहुजानां क्षत्रियाणाम् । जामदग्न्यः परशुरामः । जातीति । क्षत्रियत्वेत्यर्थः । विरोधित्वेति। जात्यवच्छिनेत्यादिः । अभावोऽत्यन्ताभावः । अभावपदत्यागेनाह-विनेति । कियाभावोत्प्रेक्षोदाहरणमाह-द्यौरिति । कज्जलवच्छयाममेघपतिभिस्तथाच्छादितेत्यर्थः । नेत्रशन्यजनसमूहसृष्टिरिवेत्यर्थः । निमित्तेनेति । अनुपात्तेनेति भावः । पार्यन्तिक इति । यद्यपि सर्गमिति नपुंसकोक्त्या तत्कं (१) जगदन्तरमिवैतज्जगदिति पूर्वे बोधः, तथापि तादृशजगदन्तराप्रसिद्ध्या अभावोत्प्रेक्षाबाधापत्या चात्रैव धर्मिणि जगति लोचनवर्गस्य सर्गो दानं संसर्गः प्रसरणं वा यत्र दर्शने तदभावो निराबोध्यते इति दर्शनक्रियाभावरूपो धर्म उत्प्रेक्ष्यते । पश्चादित्यर्थः । तदाह-क्रियाभावो धर्म इति । एषा उत्प्रेक्षा । करयुगो भुजद्वयः । क्षमां भूमिम् । 'अध्यारोपेण' इति पाठः। आ
For Private And Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९२
काव्यमाला।
नराकतिरिवाम्बुधिगुरुरिव क्षमामागतो
नुतो निखिलभूसुरैर्जयति कोऽपि भूमीपतिः ॥' अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोधनिवर्तनाय विषयिषु वासवादिष्वारोपेण साधारणीकरणम् । न चात्रोपमा शक्यनिरूपणा । द्विनेत्रत्वादीनामुक्तेर्निप्प्रयोजनकत्वापत्तेः । न चोपमाया निष्पादकं तेषां साधारण्यम् । तदभावेऽपि परमैश्वर्यादिभिः प्रतीयमानस्तस्या निष्पत्तेः । असुन्दरत्वादुपमानिप्पादकत्वेन कवेरनभिप्रेतत्वाच्च । नात्र द्विनेत्रत्वादिभिर्धर्मेसिवादिसादृश्यं राज्ञः कवेरभिप्रायविषयः । एवं द्वितीयत्वादीनां चन्द्रादिप्वारोपोऽप्युपमायां सत्यामनर्थक एव स्यात् । अभेदप्रतिपत्तौ तु सहस्रनेत्रेण सहस्रकरेण विधिसृष्टावेकेन वपुर्विहीनेन जलाकारेण स्वर्गगतेन च तेन तेन कथमस्याभेदः स्यादिति प्रतिकूलधियमपसारयतां विषयिगतानां द्विनेत्रत्वाद्यारोपाणामस्त्येवोपयोगः । अत्रैवेवशब्दस्याभावे दृढारोपं रूपकम् । विषयिगतविशेषणानामभावे उपमा । उभयेषामेकतरस्याप्यभावे शुद्धरूपकमिति विवेकः। एवं स्वरूपोत्प्रेक्षा दिगुपदर्शिता । अथ हेतूत्प्रेक्षा । यथा
'त्वत्प्रतापमहादीपशिखाविपुलकजलैः ।
नूनं नमस्तले नित्यं नीलिमा नूतनायते ॥' अत्र नीलिमासामानाधिकरण्येनोत्प्रेक्षितस्य हेतुत्वेनोत्प्रेक्षणम् । 'कजललेपनैः' इति कृते इयमेव क्रियाहेतृत्प्रेक्षा । रोपेणेति तदर्थः । अतियुक्त पाठे तु स एवार्थः । स आरोपेणेत्यग्रे योज्यः । ननूपमैवात्रास्तु इत्याशङ्कते-न चेति । साधेति । उक्तरोत्येति भावः । तस्या उपमायाः। ननपात्तधर्माभावे प्रतीयमानादरोऽत आह-असुन्दरेति । विच्छित्त्यजनकत्वादित्यर्थः । उक्तधर्मस्येति । उक्तमेव विशदयति-एवमिति । राजसदृशस्य द्वितीयस्य । सत्त्वाद्राज्ञि स्वारसिकं द्वितीयत्वमित्याशयेनाह-चन्द्रादीति । ननुत्प्रेक्षापक्षेऽपि तदुक्तिवैयर्थ्यमत आह-अभेदेति । वासवादीत्यादिः । करेण किरणेन । तेन तेन वासवादिना । अस्य राज्ञः । उभयाभावस्यैकस्मिन्नपि सत्त्वादाह-एकतरेति । उपसंहरति-एवमिति । त्वदिति । राजानं प्रति कव्युक्तिः । उत्प्रेक्षितस्य कज्जलस्य । हेतुत्वेनेति । नूतनीकरण इति भावः । हेतूत्प्रेक्षेति । नीलिम्नः
For Private And Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२९३
गुणहेतृत्प्रेक्षा यथा'परस्परासङ्गसुखान्नतभ्रवः पयोधरौ पीनतरौ बभूवतुः ।
तयोरमृष्यन्नयमुन्नतिं परामवैमि मध्यस्तनिमानमञ्चति ॥' अत्र पूर्वार्धे सुखस्य गुणस्य हेतुत्वं तावत्पञ्चम्यैव निर्दिष्टम् । अपराधे धर्मिविशेषणतया अनूद्यमानस्य गुणाभावस्य त्वार्थम् । यथा 'भोक्ता भुञ्जानो वा तृप्यति' इत्यादौ भोजनादेः ।
यथा वा'व्यागुञ्जन्मधुकरपुञ्जम गीतामाकर्ण्य स्तुतिमुदयत्रपातिरेकात् ।
आभूमीतलनतकंधराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥' क्रियाहेतृत्प्रेक्षा यथा—'महागुरुकलिन्दमहीधरोदरविदारणाविर्भवन्महापातकावलिवेल्लनादिव श्यामलिता' इति । द्रव्यहेतूत्प्रेक्षा यथा'वराका यं राकारमण इति वल्गन्ति सहसा
सरः स्वच्छं मन्ये मिलदमृतमेतन्मखभुजाम् । अमुष्मिन्या कापि द्युतिरतिघना भाति मिषता
मियं नीलच्छायादुपरि निरपायाद्गगनतः ॥' अत्रामृतसरोरूपत्वेनोत्प्रेक्षिते चन्द्रमसि नीलत्वेनाध्यवसिते कलङ्के उपरिवर्तिनभोहेतुकत्वमुत्प्रेक्ष्यते । एतेन द्रव्यस्य हेतुत्वेनोत्प्रेक्षणं नास्तीति प्राचां प्रवादो निरस्तः । प्रतिदिनोपचीयमानत्वं निमित्तम् । अञ्चति गच्छति । अपरार्ध इति । उत्तराध इत्यर्थः । क्वचित्तथैव पाठः । आर्थत्वे हेतुगर्भ विशेषणमाह-धर्माति । मध्येत्यर्थः । गुणाभावस्य मर्षणाभावस्य । भोक्तेत्यत्र कालसामान्यप्रतीतेविशेषोदाहरणमाह-भुजानो वेति । नैयायिकोक्तगुणस्यैव ग्रहणमिति भ्रमनिरासायोदाहरणान्तरमाह—यथा वेति । उदयदिति । उदयन्ती आविर्भवन्ती या लज्जा तस्याः संबन्धात्, आधिक्याद्वेत्यर्थः । भूमिमभिव्याप्य नम्राः कंधराः शाखा येषां तानि । वृक्षाणां समूहरूपाणीत्यग्रिमार्थः । अत्रापि लज्जारूपगुणस्य हेतुत्वं स्पष्टमेव । वेल्लनात्तत्संबन्धात् । अत्र वेल्लनं क्रियेति स्पष्टमेव । श्यामलिता संजातश्यामा । वराका: कृपणाः। यं चन्द्रम् । मिलदमत मिति । 'लसदमृतम्' इति पाठान्तरम् । मखभुजां देवानाम् । अमुष्मिन्सरसि । इयं द्युतिनॆल्यरूपा । मिषतां पश्यताम् । उपरि । वर्तमानादिति शेषः । निरपायादनश्वरातू । नी
For Private And Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९४
काव्यमाला।
एषामेवाभावानां हेतुत्वोत्प्रेक्षा यथा'नितान्तरमणीयानि वस्तूनि करुणोज्झितः ।
कालः संहरते नित्यमभावादिव चक्षुषः ॥' अत्र कालस्य साहजिके संहारकत्वे चतुरभावस्य हेतुत्वेनोत्प्रेक्षा । 'निःसीमशोभासौभाग्यं नताङ्गया नयनद्वयम् ।
अन्योन्यालोकनानन्दविरहादिव चञ्चलम् ॥' अत्र गुणाभावस्य । 'जनमोहकरं तवालि मन्ये चिकुराकारमिदं घनान्धकारम् । वदनेन्दुरुचामिहाप्रचारादिव तन्वङ्गि नितान्तकान्तिकान्तम् ॥"
इह द्वितीयाधैं क्रियाभावस्य । प्रथमार्धे तु जात्यवच्छिन्नस्य जात्यवच्छिन्नाभावस्य वा स्वरूपोत्प्रेक्षैव ।
'न नगाः काननगा यदुदतीषु त्वदरिभूपसुदतीपु ।
शकलीभवन्ति शतधा शङ्के श्रवणेन्द्रियाभावात् ।।' इह श्रोत्रत्वस्य जातिगुणक्रियाभ्योऽतिरिक्तस्य विवेके क्रियमाणे आकाशस्वरूपतया तदवच्छिन्नाभावस्य द्रव्याभावस्य हेतुत्वेनोत्प्रेक्षा । निमित्तं क्रियाभावः । एवं हेतूत्प्रेक्षा दिक् । लत्वेनेति । द्युतिरित्यनेनेति भावः । एषामेव जात्यादीनामेव । करुणोज्झित इति । त्यक्तकरुणः । आहितान्यादित्वानिष्टान्तस्य परनिपातः । इदं जात्यवच्छिन्नाभावहेतुत्वोत्प्रेक्षोदाहरणम् । गुणाभावहेतुत्वोत्प्रेक्षोदाहरणमाह-निःसीमेति । गुणेति । आनन्दरूपेत्यर्थः । हेतुत्वेनोत्प्रेक्षेति शेषः । एवमग्रेऽपि । क्रियाभावहेतुत्वोत्प्रेक्षोदाहरणमाह-जनेति । हे कृशाङ्गि आलि, इह चिकुरे तव मुखचन्द्रकान्तीनामसंबन्धादिव इदं दृश्यं केशसमूहरूप चिकुरवदाकारो यस्य तादृशं जनमोहकरं निबिडान्धकारमहं मन्य इत्यर्थः । यदाशयेनोदाहृतं तमाह-इहेति । प्रचारस्य क्रियात्वादिति भावः । तुरुक्तवैलक्षण्ये । एतेन प्रासङ्गिकत्वमस्य सूचितम् । अतएव व्युत्क्रमणोक्तिः । अन्धकारोऽतिरिक्तः पदार्थ इति मतेनाह-जात्यवच्छिन्नेति । तेजोभाव एव स इति मतेनाह-जात्यवच्छिन्नाभावेति । क्वचिद्वैपरीत्येन पाठः । द्रव्याभावहेतुत्वोत्प्रेक्षोदाहरणमाह-न नगा इति । शष्कुल्यवच्छिन्ननभसः श्रोत्रत्वादाह-विवेक इति । भावस्येत्यस्य व्याख्या द्रव्याभावस्येति । तस्य तत्त्वेनोत्प्रेक्षणे निमित्तमिति । क्रियेति । शकलीभवनरूपेत्यर्थः । उपसंहरति-एवमिति । उक्तप्रकारेणेत्यर्थः ।
For Private And Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२९५
अथ फलोत्प्रेक्षा'दिवानिशं वारिणि कण्ठदने दिवाकराराधनमाचरन्ती ।
वक्षोजतायै किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुजपतिरेषा ॥' अत्र वक्षोजत्वमवयवऋत्ति । जातिस्तलूप्रत्ययार्थः । त्वतलोः प्रकृतिप्रवृत्तिनिमित्ते भावे विधानात् । स एव चात्र तपश्चरणक्रियायाः साहजिकजलावस्थानाभिन्नतयाध्यवसितायाः फलत्वेनोत्प्रेक्ष्यते । न चात्र प्राप्तिक्रियामन्तरेण जातेः शुद्धाया अफलत्वात्क्रियाया एव फलत्वमिति वाच्यम् । प्राप्तेः संसर्गतया तहारैव जात्यादेः फलत्वोपपत्तेः । अन्यथा फलत्वबोधकचतुर्थ्या अनुपपत्तेः । अत एव–'ब्राह्मण्याय तपस्तेपे विश्वामित्रः सुदारुणम्' इत्यादयः प्रयोगाः। गुणफलोत्प्रेक्षा यथा'हालाहलकालानलकाकोदरसंगतिं करोति विधुः ।
अभ्यसितुमिव तदीयां विद्यामद्यापि हरशिरसि [गतः] ।' अत्र विरहिवाक्येऽभ्यसनक्रियायास्तुमुना फलत्वं लभ्यते । एवं लक्ष्यानुसारेण यथासंभवमन्यदप्युदाहार्यम् ।
इह जात्यादयो हि भेदाः प्राचामनुरोधादुदाहृताः । वस्तुतस्तु नैषां चमत्कारे वैलक्षण्यमस्तीत्यनुदाहार्यतैव । चमत्कारवैलक्षण्यं पुनर्हेतुफलस्वरूपात्मकानां त्रयाणां प्रकाराणामेवेति । प्रागुदाहृतेष्वेव पद्येषु वाचकानामिवादीनां त्यागे प्रतीयमाना । अर्थसामर्थ्यावसेयत्वात् । न तु व्यनयेति भ्रमितव्यम् । तस्याः प्रळते प्रसङ्गाभावात् । दिगिति । उपदर्शितेति शेषः । अथ क्रमप्राप्तां फलोत्प्रेक्षामाह-अथेति । तत्रादौ जातिफलोत्प्रेक्षामाह-दिवेति । कण्ठदन्ने कण्ठप्रमाणे । अवयवेति । स्तनेत्यर्थः । स एवेति । जातिरूपतलर्थ एवेत्यर्थः । अफलत्वादिति । तस्यानित्यत्वादिति भावः । क्रियायाः प्राप्तेः । संसर्गतयेति । तथा च लक्षणा नेति भावः । अन्यथा यथाकथंचित्फलत्वानङ्गीकारे । उक्तार्थ द्रढयति-अत एवेति । (वियोगेति ।) अत्र सुखरूपगुणस्य फलत्वेनोत्प्रेक्षणं स्पष्टमेव । हालेति । विषभालनेत्रसर्पाणां संगतिमित्यर्थः । तदीयां विषादीयाम् । प्राचामलंकारसर्वस्वकारादीनाम् । मेवेत्यस्य बोध्यमिति शेषः । एवं वाच्याप्रपञ्चमुक्त्वा प्रतीयमानामाह-प्रागिति । एवं धर्मस्वरूपो
For Private And Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२९६
www. kobatirth.org
काव्यमाला ।
Acharya Shri Kailassagarsuri Gyanmandir
धर्मस्वरूपोत्प्रेक्षा यथा'निधि लावण्यानां तव खलु मुखं निर्मितवतो महामोहं मन्ये सरसिरुहसूनोरुपचितम् । उपेक्ष्य त्वां यस्माद्विधुमयमकस्मादिह कृती कलाहीनं दीनं विकल इव राजानमतनोत् ॥ १ ॥ पूर्वार्धोत्प्रेक्षितमोहरूपधर्मसिद्धये द्वितीयार्धेऽविचार्यकारित्वं तत्सामानाधिकरण्येनोपात्तम् । अस्यां च स्वरूपस्य विषयित्वे निमित्तभूतो धर्म उपमायामिव विम्बप्रतिबिम्बभावादिभिर्भिन्न उपात्तोऽनुपात्तश्च । हेतुफलयोर्विषयित्वे तु यं प्रति हेतुफले निरूपिते स धर्मः कल्प्यमानोऽपि विषयगतसाहजिकधर्माभिन्नतयाध्यवसीयमानो निमित्तं संपद्यते । स चोपात्त एव भवति । अन्यथा के प्रति हेतुफलयोरन्वयः स्यादिति संक्षेपः ।
----
अत्र च प्राचामवचां चानेकधा दर्शनं व्यवस्थितम् । तत्र प्राचामित्थम् — सर्वत्राभेदेनैव विषयिणो विषये उत्प्रेक्षणं न संबन्धान्तरेण । तथा हि धर्मस्वरूपोत्प्रेक्षायाम् ' मुखं चन्द्रं मन्ये' इत्यादौ तावद्विषयिणश्चन्द्रस्याभेदो विषये मुखे स्फुट एव । नामार्थयोर्भेदेन साक्षादन्वयस्याव्युत्पत्तेः । उपात्तविषया चेयम् । एवम् 'अस्यां मुनीनामपि मोहमूहे ' इत्यत्र नैषधपद्ये (७ । ९४) धर्मस्वरूपोत्प्रेक्षायामपि मुनिसंबन्धिनि धर्मान्तरे विषये दमयन्तीविषयकमोहस्य विषयिणो भेदेनैवोत्प्रेक्षा । उत्प्रेक्षा
त्प्रेक्षामुक्त्वा धर्मस्वरूपोत्प्रेक्षामाह - धर्मेति । सरसिरुहसूनोर्ब्रह्मणः । इह जगति । कलाहीनं क्षीणकलम् । विकल इवेत्यंशे उपमा । पूर्वार्धोत्प्रेक्षितेति । ब्रह्मरूपे धर्मिणीति भावः । उपात्तमिति । अकस्मादित्यनेनेति भावः । निमित्तांशे प्रागनुक्तं विशेषमाह – अस्यां चेति । उत्प्रेक्षात्वावच्छिन्नायामित्यर्थः । स्वरूपस्य धर्मिस्वरूपस्य धर्मस्वरूपस्य वा । भावादिभिरिति । आदिना अनुगामित्वादिपरिग्रहः । एवं च चतुर्विध इत्यर्थः । तदाह - भिन्न इति । अपिः स्वाभाविकसमुच्चायकः । अत्र च उत्प्रेक्षाविषये । अवीचामाधुनिकानाम् । दर्शनं मतम् । तत्र तयोर्मध्ये | विषय इति । एतौ च धर्मस्वरूपौ धर्मिस्वरूपौ वेति भावः । तावदादौ । अस्यां दमयन्त्याम् । धर्मस्वरूपोत्प्रेक्षायामपि धर्मान्तरे दर्शनादिरूपे । नन्वेवं कथं विषयस्यानुपादानमत आह- उत्प्रेक्षेति । एवं धर्मिस्वरूपोत्प्रेक्षायां तत्त्वमुक्त्वा धर्मस्वरूपोत्प्रेक्षा
For Private And Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२९७ याश्च साध्यवसानत्वाद्विषयस्यानुपादानं संगच्छते । निमित्तधर्मश्च तत्तदङ्गासक्तंत्तित्वम् । एवम् 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः' इत्यादौ कस्यापि पद्ये न प्रथमान्तार्थे कर्तरि लेपनकर्तृत्वादेरुत्प्रेक्षणम्, तस्याख्यातार्थविशेषणत्वेनैकदेशत्वात् । नापि लेपनादिकर्तुरभेदेन, तस्य क्रियाविशेषणत्वेनाप्राधान्यात् । किं तु तमःकर्तृकमङ्गकर्मकं लेपनमुत्प्रेक्ष्यते । तमःकर्तृकमञ्जनकर्मकं वर्षणं च । उत्प्रेक्ष्यमाणाभ्यां च ताभ्यां विषयस्य तमःकर्तृकव्यापनस्य निगीर्णत्वादनुपादानम् । अत एव एवमादावियमनुपात्तविषयोच्यते । निमित्तधर्मश्च श्यामीकारकत्वादिरनुपात्त एव । अत एव 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' इति लक्षणं विधायोक्तम् 'व्यापनादिलेपनादिरूपतया संभावितम्' इति मम्मटभट्टैः । एवम्
'उन्मेषं यो मम न सहते जातिवैरी निशाया
मिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः । नीतः शान्ति प्रसभमनया वक्रकान्त्येति हर्षा
लना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥' इत्यादौ प्राचीनपद्ये हेतृत्प्रेक्षायामपि न हर्षरूपं हेतुमात्रमुत्प्रेक्ष्यते लक्ष्मीरूपे विषये । किं तु तद्धेतुकं कार्य लगनादिरूपं विषयितादात्म्येन
यामप्युपपादयति-एवमिति । कस्यापि पद्ये इत्यनेन स्वीयत्वं निरस्तम् । वैयाककरणरीत्या आह-तस्येति । प्रथमान्तार्थक रित्यर्थः । तथा च पदार्थः पदार्थेनेति न्यायप्रसिद्धकर्तृत्वादि तु क्रियारूपतया प्रधानमेवेति भावः । एवमग्रेऽपि । अभेदे. नेति । प्रथमान्तार्थ उत्प्रेक्षणमित्यस्यानुषङ्गः । तस्येति । लेपनादिकर्तुरित्यर्थः । वर्षणं चेत्यस्य उत्प्रेक्ष्यत इति शेषः। ननु कुत्र सा अत आह-उत्प्रेक्ष्यति। अत एव निगीर्णत्वादनुपादानादेव । एवमादी इत्यायुदाहरणे । अत्र संमतिं प्रकाशकृत आहअत एवेति । एवमिति । उन्मेषमिति । विकसनमित्यर्थः । नायिका प्रति नायकोक्तिः । यश्चन्द्रः । मम पद्मस्य । हेतूत्प्रेक्षायामपि तत्त्वेनाभिमतायामपि । इदं च
१. शूद्रकप्रणीतमृच्छकटिकस्य प्रथमेऽके पद्यमेतत्. 'असत्पुरुषसेवेव दृष्टिविफलतां गता' इत्यस्योत्तरार्धम्.
For Private And Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८
काव्यमाला। साहजिकलगनादौ विषये । कार्यस्य निमित्ततावादिनापि विषयगततत्समानजातीयेनाभेदाध्यवसानस्यावश्यवाच्यत्वादन्यथाहेतुरूपविषयिधर्मसमानाधिकरणधर्मस्य कार्यरूपस्य विषयावृत्तित्वादुत्प्रेक्षैव न स्यात् । एवम् 'चोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः ।
अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥' इत्यादि परपद्ये फलोत्प्रेक्षायां कण्टकिषु वनान्तेषु विषयेषु न केवलं भालत्वग्विपाटननिमित्तकं ललाटाक्षरदर्शनं फलमुत्प्रेक्ष्यते । किं तु तत्फलकं भालत्वग्विपाटनादिरूपं विषयिकण्टकजविपाटनादौ विषये तादात्म्येनेति सर्वत्राभेदेनैव विषये विषयिण उत्प्रेक्षणमिति दर्शनम् । तत्र विचार्यते-न सर्वत्राभेदेनैवोत्प्रेक्षणमिति नियमे किंचिदस्ति प्रमाणम् । लक्ष्येषु भेदेनाप्युत्प्रेक्षणस्य दर्शनात् । 'अस्यां मुनीनामाप मोहमूहे' इत्यादौ । न च मुनिसंबन्धिनि धर्मविशेपे मोहस्याभेदेनोत्प्रेक्षणमिति वाच्यम् । भेदेनोत्प्रेक्षणे बाधकाभावेनेदृशकल्पनाया निरर्थकत्वात् । नद्यभेदेनैवोत्प्रेक्षणमिति वेदेन बोधितम् । यदर्थमयमाग्रहः स्यात् । लक्षणनिर्माणस्य पुरुषाधीनत्वात् । 'लिम्पतीव तमोऽङ्गानि' इत्यत्रापि लेपनादिकर्तृत्वं तमआदिषु विषयेषत्प्रेक्ष्यत इत्येव युक्तम् । अनुकूलव्यापारात्म
तादात्म्यं परमतेऽप्यावश्यकमित्याह-कार्यस्येति । लक्ष्मीरूपविषये हर्षरूपहेतुमात्रोत्प्रेक्षायां कार्यमेव निमित्तं वाच्यम् । तस्य तत्त्वसिद्धिरुभयसाधारण्यं विनानुपपन्नेत्यभेदाध्यवसानमावश्यकमिति भावः । समानजातीयेन साहजिकलगनेन । तदेव व्यतिरेकमुखेनोपपादयति-अन्यथेति । हेतुरूपेति । हर्षरूपेत्यादिः । धर्मस्य कार्यरूपस्येति । वास्तवहर्षाधिकरणचेतनवृत्तितत्कार्यस्य लगनादेः पद्मलक्ष्म्यावृत्तेरिति भावः । फलोत्प्रेक्षायां तत्त्वमाह-एवमिति । चोलस्येति । चोलनृपस्येत्यर्थः । वनान्ता वनप्रदेशाः । अनुभविष्यतीति पलायितश्चेत्स इति भावः । अक्षराणि भालस्थानि । फलोत्प्रेक्षायां तत्त्वेनाभिमतायाम् । विपाटनेति । तस्य तत्कतकत्वादिति भावः । दर्शनात्स्वरसतया प्रतीतेः । प्रागुक्तं तदीयप्रकारं खण्डयति-न चेति । ननु लक्षणानुरोधेन तथोच्यतेऽत आह-लक्षणेति । नन्वेवमपि लिम्पतीवेत्यादौ नान्यथा निर्वाह इति प्रागुक्तमत आह-लिम्पतीवेति । फलमात्रस्य धात्वर्थत्वादाह--अनुकूलव्यापारेति । यत इत्यादिः । अन्यथा कृतीत्येवोक्तं स्यात् । एवेन धर्मिव्यवच्छेदः ।
For Private And Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२९९ कस्य कर्तृत्वस्यैवाख्यातार्थत्वात् । तस्य च प्रथमान्ते विशेष्ये आश्रयतासंसगैणान्वयान्न दोषः। 'भावप्रधानमाख्यातम्' इत्यस्य 'भावो व्यापारस्तदर्थकमाख्यातं तिङ्' इत्यर्थकरणान्न विरोधः। 'सत्त्वप्रधानानि नामानि' इत्युत्तरवाक्यगतस्य प्रधानशब्दस्याभिधेयपरत्वात् । फलमात्रार्थस्यापि धातोराख्यातार्थव्यापारव्यधिकरणत्वसमानाधिकरणत्वाभ्यामर्थगताभ्यां सकर्मकाकर्मकत्वव्यवहारः । नामार्थयोभैदेनान्वयाभावाच्च भावकदर्थव्यापारस्य न नामार्थेऽन्वयः । अत एव च 'कर्तरि कृत्' इत्यनेन विशिष्टशक्तिबोधकेन न घत्रादिषु भावग्रहणस्य विशेषणशक्तिबोधकस्य गतार्थत्वम् । शब्दानुवृत्तिपक्षस्वीकाराच्च 'कर्तरि कृत्' इत्यत्र धर्मिपरस्यापि कर्तृग्रहणस्य 'ल: कर्मणि-' इत्यत्र धर्मपरतायामपि न दोषः । यद्वा आस्तां फलव्यापारौ । धातोराश्रयश्च तिङोऽर्थः । परं तु देवदत्तः पचमान इत्यादाविव देवदत्तः पचतीत्यादिप्वपि प्रथमान्तार्थ एव तिर्थस्याभेदेन विशेषणत्वं युक्तम् । न तु भेदेन । धात्वर्थभावनायां सर्वजनसिहस्योद्देश्यविधेयभावस्य भङ्गापत्तेः । सत्यां हि गतौ 'प्रत्ययाथै प्रकृत्यर्थो विशेषणम्' इत्यस्योत्सर्गस्या
आख्यातेति । तिडित्यर्थः । प्रथमान्ते तदर्थे । नन्वेवं यास्कोक्तिविरोधोऽत आहभावेति । नाम्नः प्रातिपदिकस्य द्रव्यमात्रार्थत्वेन तत्प्राधान्यमुक्तम् । अर्थद्वयसत्त्व एव तथोक्तेरौचित्यादतस्तत्रार्थान्तरमावश्यकमित्याशयेनाह–सत्त्वेति । ननु धातो
उपारावाचकत्वे सकर्मकत्वाकर्मकत्वविभागोच्छेदापत्तिरत आह–फलेति । व्यापा. रस्योभयत्रान्वयः । अथैति । चस्त्वर्थे । अन्वय इति । आश्रयतासंसर्गेति भावः । 'कर्तरि कृत्' इत्यतः कर्तराति, 'लः कर्मणि-' तत्यत्रानुवर्तते । तत्र तस्यानुकूलव्यापारार्थकले कृद्विधायकेऽपि तथैव स्यात् । पाचको देवदत्त इत्यादौ सामानाधिकरण्यनिर्वाहस्तु लक्षणयेत्याशङ्कापनोदायाह-अत एवेति । तथा सति भावे इति पदं पत्रादि (?)विधायकस्थं व्यर्थ स्यात् । अधिकारसूत्रस्थकर्तरीत्यनेनैव सिद्धेरिति भावः । नन्वेवं लकारविधायकेऽपि तदर्थकत्वापत्तिरत आह---शब्दानुवृत्तीति । चस्त्वर्थे । शब्दाधिकारस्वीकारजगौरवादाह-यद्धति । तिर्थस्य कर्तुः । अभेदेनेति । सामान्यविशेषयोरभेदान्वयादिति भावः । भङ्गापत्तेरिति । एकपदोपस्थाप्ययोस्तत्त्वे एकप्रसरताभङ्गापत्तेरिति भावः । युक्त्यन्तरमाह-सत्यां हीति । विशेषणमिति । प्रकृतिप्रत्ययौ सहाथै ब्रूतः । तयोः प्रत्ययार्थस्य प्राधान्यमिति व्युत्प
For Private And Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००
काव्यमाला।
प्यनुग्रह एव न्याय्यः। 'भावप्रधानमाख्यातम्' इत्यस्य 'भावनार्थको धातुः' इत्यर्थकरणान्न विरोधः । न च वैयाकरणमतविरोधो दूषणमिति वाच्यम् । स्वतन्त्रत्वेनालंकारिकतन्त्रस्य तद्विरोधस्यादूषणत्वात् । प्रपञ्चयिष्यते चैतदधिकमुपरिष्टादिति प्रकृतमनुसरामः । __एवं च 'लिम्पतीव-' इत्यादौ भेदेनाभेदेन वा तिर्थस्यैव प्रथमान्तार्थ एवोत्प्रेक्षणम् । न तु धात्वर्थस्य स्वनिगीणे व्यापनादौ । सर्वजनसिद्धाया इवार्थस्य विधेयताया अनुपपत्तेः । तमःकर्तृक लेपनमिवेत्यस्मादपि उद्देश्यबोधकशून्यवाक्यादुत्प्रेक्षाप्रतीत्यापत्तेश्च । यदि च विषयिसंबन्धिना लेपनादिना विषयसंबन्धिनो व्यापनादेनिमित्ततासंपत्तये स्वतादूप्यसंपादनेन निगीर्णत्वादनुपात्तविषयत्वमध्यवसानमूलत्वं चोच्यते तदा रूपकेऽप्यनुपात्तविषयत्वमुच्यतामध्यवसानमूलत्वं च । 'लोकान्हन्ति खलो विषम्' इत्यादौ खलसंबन्धिनो दुःखदानादेविषसंबन्धिहननात्मनाध्यवसानात् । तस्मानिमित्तांशेऽतिशयोक्तिरेव । एवम् 'उन्मेषं यो मम न सहते' इत्यत्र लक्ष्मीरूपे विषये लगनहेतुत्वेन हर्ष उत्प्रेक्ष्यते । तत्र साहजिकसंबन्धे तादात्म्येनाध्यवसितं लगनमेव निमित्तम् । तथा---
तेरिति भावः । प्राग्वदत्रापि मते निरुक्तविरोधं प्रकारान्तरेण परिहरति-भावति । पूर्वमाख्यातपदेन तिङ् गृहीतः, इदानीं धातुरिति विशेषः । ननु वैयाकरणमतरीत्या तथा प्रागुक्तमिति तद्विरोधोऽत आह-न चेति । पूर्वमतेनाह-भेदेनेति । द्वितीयमतेनाह-अभेदेनेति । क्रमेणैवद्वयव्यवच्छेद्यमाह-न त्विति । इवार्थस्य विधेयताया इति । विषयनिष्ठोद्देश्यतानिरूपितमिवार्थसंभावना विषयः । विषयिणो लेपनादेः प्रतीपमानं यद्विधेयत्वं तस्य भङ्गापत्तेरित्यर्थः । विषयस्य विषयिवाचकेन तव मते निगीर्णत्वादिति भावः । ननु निगीर्णमेव गृहीत्वा तदभङ्गोऽत आहतम इति । अनुवादपुरःसरं दोषान्तरमाह-यदि चेति । विषयीति । विषयिणा तमःसंबन्धिनेत्यर्थः । एवं विषयसंबन्धिन इत्यपि व्याख्येयम् । स्वेति । लेपनेत्यर्थः । रूपकेऽपीति । प्रसिद्धरूपके मुखचन्द्र इत्यादावपीत्यर्थः । विषयानुपादानेनेति भावः। मूलत्वं च लोकानिति । इत्यादौ तन्मूलत्वं चोच्यतामित्यर्थः । अत्र हेतुमाहखलेति । उपसंहरति--तस्मादिति । हेतूत्प्रेक्षायामाह-एवमिति । तत्र तस्यामुत्प्रेक्षायाम् । संबन्धे शोभासंबन्धे । लगनमेव । हर्षहेतुकं लगनमित्यर्थः । उदाहरणा
For Private And Personal Use Only
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३०१
'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुाम् ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥
अत्रापि मौनहेतुत्वेन नूपुरे विश्लेषदुःखमुत्प्रेक्ष्यते । तत्र निश्चलत्वनिमित्तकनिःशब्दत्वाध्यवसितं मौनं निमित्तम् । विश्लेषदुःखसमानाधिकरणत्वे सति नूपुरवृत्तित्वात् । न तु निश्चलत्वनिमित्तके निःशब्दत्वे विषये विश्लेषदुःखहेतुकमौनमभेदेन । उत्प्रेक्षायामिवशब्दान्वितस्योत्प्रेक्ष्यताया उत्सर्गसिद्धत्वात् । विषयस्य निगीर्णतया विषयिणो विधेयत्वानुपपत्तेश्च । निमित्तान्तरगवेषणापत्तेश्च । यद्यप्येककालप्रभवत्वादिरस्ति साधारणो धर्मो निमित्तम् । तथापि तस्याचमत्कारित्वादुपमायामिवोत्प्रेक्षायामप्यप्रयोजकत्वात् । एवं फलोत्प्रेक्षायामपि बोध्यम् । एतेन 'यहा हेतुफलधर्मस्वरूपोत्प्रेक्षोदाहरणेष्वपि तादात्म्येनैवोत्प्रेक्षा' इति प्राचां मतमनुसरता द्रविडपुंगवेन यदुक्तं तदपि परास्तम् । ___ अलंकारसर्वस्वकृता तावदुत्प्रेक्षाया लक्षणमित्थं निगदितम्-'विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः। स च द्विविधः--सिद्धः, साध्यश्च । तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्ये उत्प्रेक्षा । इति । अस्यार्थः-सिद्धत्वं निगीर्णविषयत्वम् । साध्यत्वं च निगीर्यमाणविषयत्वम् । यत्र हि सिद्धत्वं तत्राध्यवसितप्राधान्यम् । यथातिशयोक्त्याडौ । यत्र साध्यत्वं तत्र व्यापारस्याध्यवसानक्रियायाः प्राधान्ये उत्प्रेक्षा' इति । एवमभेदगर्भमुत्प्रेक्षालक्षणं विधाय "सैषा स्थली यत्र' इत्यत्र नपुरगतस्य मौनित्वस्य हेतुत्वेन दुःखं गुण उत्प्रेक्ष्यते । तत्र मौनित्वमेव नूपुरगतनिःशब्दत्वाभेदेनाध्यसितं निमित्तम् ।” इत्युक्तम् । एवं 'यत्र धर्म एव धर्मिन्तरमाह-तथेति । सैषेति । लङ्कात अयोध्यागमनावसरे सीतां प्रति श्रीरामचन्द्रोक्तिः । भ्रष्टमिति । पतितमित्यर्थः । तवेति शेषः । मौनं द्विविधम् -निश्चलत्वहेतुकं दुःखहेतुकं च । तयोरभेदमाह --तत्रेति । निःशब्दत्वाध्यवसितमिति । निःशब्दत्वे तादात्म्येनाध्यवसितमित्यर्थः । तस्योभयनिष्ठत्वमाह-विश्लेषेति । नन्वाकाङ्गादिना तत्रैवान्वयोऽस्तु, अत आह-विषयेति । ननु निगीर्णमादायैव तदत आह-निमित्तान्तरेति । उत्प्रेक्षेतीत्यस्य यदुक्तमित्यत्रान्वयः । द्रविडश्रेष्ठेनाप्पदीक्षितेनेत्यर्थः । अर्वाचां मतमाह-अलंकारेति । तत्र तयोर्मध्ये । एवमग्रेऽपि । तत्र
For Private And Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
काव्यमाला।
गतत्वेन' इत्यादिना धर्मोत्प्रेक्षाप्रसङ्गे "लिम्पतीव तमोऽङ्गानि' इत्यत्र लेपनक्रियाकर्तृत्वोत्प्रेक्षणे व्यापनादि निमित्तम् ।" इत्युक्तम् । तदेतत्सर्व परस्परविरुद्धम् । नहि दुःखगुणोत्प्रेक्षायामभेदगर्भोऽध्यवसायोऽस्ति । मौनांशे सन्नप्यध्यवसायः सिद्धत्वादतिशयोक्तेरेव विषयो भवितुमर्हति, नोत्प्रेक्षायाः । त्वन्मते मौनस्य निमित्तत्वेनानुत्प्रेक्ष्यत्वाच्च । एवं 'लिम्पतीव' इत्यत्र लेपनांशाध्यवसायोऽपि । तस्यापि व्यापनरूपतया स्थितस्य त्वया कर्तृत्वोत्प्रेक्षानिमित्तत्वेनोक्तत्वाच्च । 'व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्यदन्वेष्यं स्यात्' इति त्वयैव वाधकोपन्यासात् । निमित्तांशाध्यवसानं तूपमादावपि स्थितम् । किं च, 'नूनं मुखं चन्द्रः' इत्यादौ कुत्राध्यवसायः । विषयस्य जागरूकत्वात् । न च सिद्धेऽध्यवसाये विघयस्य जठरवर्तित्वम्, साध्ये तु निगीर्यमाणत्वात्प्टथगुपलब्धिरिति वाच्यम् । साध्याध्यवसाने मानाभावात् । अन्यथा रूपकादेरप्यध्यवसानगर्भत्वापत्तेः । किं च, अध्यवसानं लक्षणाभेदः । न चात्र विधेयांशे लक्षणास्ति । अभेदादिसंसगैराहार्यबोधस्यैव स्वीकारात् । तस्मात्प्राचीनानामाधुनिकानां चोक्तयो न क्षोदक्षमाः । __एवं प्राप्ते ब्रूमः---तत्र तावदयुत्प्रेक्षानिष्कर्षः प्राचीनमतपरीक्षावसरे कृत एव । हेतूत्प्रेक्षायां पञ्चम्यर्थों हेतुः अभेदश्च प्रकृतिप्रत्ययार्थयोः संसर्ग इति पक्षे 'विश्लेषदुःखाभिन्नहेतुः पञ्चम्यन्तार्थः । तस्य च प्रयोज्यतासंसर्गेणोत्प्रेक्षणमिवादिना बोध्यते । प्रयोज्यत्वं पञ्चम्यर्थ इति दर्शने निरूपितत्वं प्रकृतिप्रत्ययार्थयोः संसर्गः । आश्रयता संसर्गेण चोत्प्रेक्षणम् । उभयथापि पञ्चम्यर्थ एवोत्प्रेक्ष्यः । तेनैवेवाद्यान्वयात् । उत्प्रेक्ष्यतावच्छेदकसंबन्धेनोत्प्रेक्ष्यसमानाधिकरणश्च धर्मोऽतिशयोक्त्या मौनाभिन्नदुःखरूपगुणोत्प्रेक्षायाम् । अध्यवसाय इति । निःशब्दत्वाभेदेत्यादिः। अध्यवसायोऽपोति । सिद्धत्वादित्याद्य हतोत्यन्तानुषङ्गः । प्राग्वदाह-तस्यापीति । ननु मया तथोक्तमपि नेदं खण्डितमित्युपलक्षणत्वेनोहमत आह-व्यापनादाविति । इदमन्यत्रापि दृष्टमित्याह-निमित्तांशेति । लक्षणाभेद इति । साध्यवसाना सारोपा चेति भेदकरणादिति भावः । अत्र उत्प्रेक्षायाम् । परीक्षेति । विचारेत्यर्थः । उत्प्रेक्ष्यतावच्छेदकसंबन्धेनेति । स च प्रयोज्यत्वादिः । आदिना निःशब्दत्वपरिग्रहः।
For Private And Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
त्वेनाध्यवसितनिश्चलत्वादिनिमित्तम् । बद्धमौनं च विषयः । मौनद्वारकं च बद्धमौनस्य प्रयोज्यत्वं संभाव्यते । एवं प्रयोज्यधर्मके धर्मिणि सर्वत्रापि धर्मद्वारक एव पञ्चम्यान्वयः । यत्र तु धर्म एव किंचिद्धर्माभिन्नत्वेनाध्यवसितः साक्षाद्विषयस्तत्र विषयतावच्छेदकधर्मो निमित्तम् । यथा तत्रैव 'विश्लेषदुःखादिव बदमौनमस्य' इति निर्माणे मौनत्वम् । एवं तृतीयार्थेऽपि बोध्यम् । फलोत्प्रेक्षायां तुमुन्नादेरर्थः फलम् । प्राग्वत्प्रकृत्यर्थप्रत्ययार्थयोरभेदः संसर्गः । तच्च साधनतासंसर्गणान्वेतीति तेनैव संसर्गणोत्प्रेक्ष्यते । यत्र चोत्प्रेक्ष्यते तदंशे विशेषणतया भासमानो धर्मों निमित्तम् । स च धर्मिणि विषये अभिन्नत्वेनाध्यवसितो धर्मस्तथाभूते च धर्मे विषये तद्विशेषणीभूतोऽन्य इति विवेकः । एवं च यत्र समासप्रत्ययगुणीभूते विषये हेतुफलान्वयो न साक्षात्संभवति तत्र प्रधान एव विषये तादृशविशेषणद्वारकप्रयोज्यत्वप्रयोजकत्वाभ्यां संसर्गाभ्यां हेतुफलयोरुत्प्रेक्षा बोध्या । यद्यपि विशेषणेऽपि यथाकथंचि तुफलयोरन्वयाद्विशेषणस्यापि विषयत्वमुचितम् । तथापि विषयविषयिणोरुद्देश्यविधेयभावप्रत्ययस्यानुरोधादियं सरणिराश्रिता । यदि च तस्य नास्त्येवानुरोधस्तदा प्राचां दर्शनमेव रमणीयं स्यात् । किं च प्राचां मते हेतुफलोत्प्रेक्षास्थले तहेतुकतत्फलकयोः कार्यकारणयोरेव निगीणे विषये उत्प्रेक्षणात्स्वरूपस्योत्प्रेक्षायामेव पर्यवसानम् । न हेतुफलयोः । एवं च विभागश्चिरंतनानामुच्छिन्नः स्यात् । अथ स्वरूपतादात्म्याविशेषेऽपि हेतुफलाविशेषणकशुद्ध स्वरूपोत्प्रेक्षाया हेतुफलविशेषणकस्वरूपोत्प्रेक्षायामस्ति हेतुफलकृत एव भेद इति चेत् 'तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविटहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी' इति प्रागुदाहृतायां
तृतीयार्थेऽपीति । हेताविति शेषः । प्राग्वत् प्रागुक्तप्रथमपक्षवत् । तच्च फलं च । तथाभूते च विषयतावच्छेदकधर्माभिन्नत्वेनाध्यवसिते च । तद्विशेषेति। विषयतावच्छेदकधर्म इत्यर्थः । समासेति । समासप्रत्ययाभ्यां गुणीभूते इत्यर्थः । यथाकथंचिद्धे. तुफलयोरिति । 'स्वर्गो ध्वस्तः' इत्यादाविव, 'नीलरूपवान् जातः' इत्यादाविव चेति भावः । तस्य तयोरुद्देश्यविधेयभावप्रत्ययस्य । ननु तत्कोटिप्रविष्टत्वेऽपि तस्य न
For Private And Personal Use Only
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४
काव्यमाला।
स्वरूपोत्प्रेक्षायां तनयमनाकगवेषणरूपस्य फलस्योत्प्रेक्ष्यविशेषणकोटिप्रविष्टत्वात्फलोत्प्रेक्षात्वापत्तेः, उत्प्रेक्ष्ये साक्षाद्विशेषणताया अप्रयोजकत्वात् । इत्यलं स्वगोत्रकलहेन । ___ उत्प्रेक्ष्यमाणेष्वपि यस्य विषयिण उत्प्रेक्षा विधेयतया भासते तदीयोत्प्रेक्षयैव व्यपदेशः । प्राधान्यात् । तेन 'विश्लेषदुःखादिव बद्धमौनम्' इत्यत्र नूपुरगतत्वेन दुःखस्योत्प्रेक्षणेऽपि न तदुत्प्रेक्षाया व्यपदेशो न्याय्यः । तस्या अङ्गत्वेनानुवाद्यत्वात् । किं तु पञ्चम्यर्थोत्प्रेक्षया तस्या एव इवशब्दवेद्यत्वेन विधेयत्वात् । तथा 'चोलस्य' इति यद्यपि वनान्तगतत्वेन न ललाटाक्षरदर्शनोत्प्रेक्षयापि, अपि तु तुमुन्नर्थोत्प्रेक्षयापि । एवं 'तनयमैनाक-' इत्यादिगो न फलोत्प्रेक्षया व्यपदेशः । नापि 'कलिन्दजानीरभरेऽर्धमग्ना' इत्यत्र शशिकिशोरतादात्म्योत्प्रेक्षया, तदुत्थापितया ध्वन्तक र्तृकवैरहेतुकनिगरणकर्मतादात्म्योत्प्रेक्षया वा। प्रागुक्तादेव हेतोरिति दिक् ।
द्विविधो हि तावद्धर्मोऽपि-स्वत एव साधारणः, साधारणीकरणोपायेनासाधारणोऽपि साधारणीकृतश्च । स चोपायः क्वचिद्रूपकं क्वचिच्छेषः क्वचिदपकुतिः क्वचिद्विम्बप्रतिबिम्बभावः क्वचिदुपचारः क्वचिदभेदाध्यवसायरूपोऽतिशयः। यथा--
'नयनेन्दिन्दिरानन्दमन्दिरं मिलदिन्दिरम् ।
इदमिन्दीवरं मन्ये सुन्दराङ्गि तवाननम् ॥' अत्र प्रथमाधगतः प्रथमो धर्मो रूपकेण विषयविपयिसाधारणीकृतः । द्वितीयश्च विलक्षणशोभयोरभेदाध्यवसायेन । केवलशब्दात्मकोऽप्ययं संभवति । तत्र साक्षाद्विशेषणत्वमत आह-उत्प्रेक्ष्ये इति । 'यस्य विषयिणः' इति पाठः । तस्या नपुरगतदुःखोत्प्रेक्षायाः । पञ्चम्यात्प्रेक्षयेति । व्यपदेश इत्यस्यानुषङ्गः । एवमग्रेऽपि । प्रागुक्तादेवेति । अङ्गत्वेनानुवाद्यत्वादित्यस्मादेवेत्यर्थः । द्विविधो हीति । हि यतः । स्वत एवेत्यादि द्वैविध्यं प्राप्तोऽतस्तावद्धर्मोऽपि द्विविध इत्यर्थः । इन्दिन्दिरा भ्रमराः । इन्दिरा शोभा । प्रथम इति । नयनेन्दिन्दिरानन्दमन्दिरत्वरूप इत्यर्थः । द्वितीयश्चेति । मिलदिन्दिन्दिरत्वरूप इत्यर्थः । सायेनेति । विषयेत्याद्यनु
For Private And Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। 'अङ्कितान्यक्षसंघातैः सरोगाणि सदैव हि ।
शङ्के पङ्केरुहाणीति शरीराणि शरीरिणाम् ॥' अयपात्त एव भवति । अर्थमयोऽनुपात्तश्चापि भवति । यथा 'द्विनेत्र इव वासवः' इत्यादौ जगदीश्वरत्वादिः । न चात्र द्विनेत्रत्वादिरूप उपात्त एव साधारणो धर्मः । साधारण्यार्थमेव तस्य विषयिण्यारोपादिति वाच्यम्। तस्यारोपेण साधारणत्वे कृतेऽपि अमुन्दरत्वेनोत्प्रेक्षोत्थापकत्वविरहात् । साधारणीकरणं तु प्रतिबन्धकनिरासार्थमित्युक्तमेव । 'दृष्टिः संभृतमङ्गला बुधमयी देव त्वदीया सभा
काव्यस्याश्रयभूतमास्यमरुणाधारोऽधरः सुन्दरः । क्रोधस्तेशनिभूरनल्पधिषण स्वान्तं तु सोमास्पदं
राजनूनमनूनविक्रम भवान्सर्वग्रहालम्बनम् ॥' अत्रोत्प्रेक्ष्यमाणस्य सर्वग्रहालम्बनस्य धर्मेषु तत्तद्हाश्रिताङ्गकत्वेषु विशेषणीभूतैस्तत्तद्ग्रहैर्विषयस्य राज्ञो धर्मेषु कल्याणाश्रयत्वादिषु विशेषणानां कल्याणादीनां श्लेषेण तादात्म्यसंपादनद्वारा तादृशधर्माणां साधारणतासंपत्तिः । यथा वा'विभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः ।
कपोलपालिं तव तन्वि मन्ये नरेन्द्रकन्ये दिशमुत्तराख्याम् ॥' इहापि विषयविषयिधर्मविशेषयोरलकालकयोः श्रवणवैश्रवणयोश्च श्लेषेणाभेदे धर्मस्य साधारण्यम् । षज्यते । अयं केवलशब्दात्मा । अयमिति । प्रागुक्तोऽर्थमय इत्यर्थः । नन्वेवं तस्य साधारणत्वकरणं व्यर्थमत आह-साधारणीति । निरासार्थमिति । इवशब्दस्य संभावनार्थकत्वाय चेत्यपि बोध्यम् । श्लेषोदाहरणमाह--दृष्टिरिति । राजानं प्रति कव्युक्तिः । मङ्गलपदेन भूमिजः शुभं च । बुधः.पण्डितः सौम्यश्च । काव्यं पद्यं शुक्रश्च। अरुणः सूर्य आरुण्यं च । शनिरशनिश्च । धिषणो गुरुर्धिषणा बुद्धिश्च । सोमास्पदमिति । उमया सहितः सोमश्चन्द्रश्च। यद्वा 'चन्द्रमा मनसो जातः' इति श्रुतेर्जनकतासंबन्धेन मनसि सोमास्पदत्वमुत्प्रेक्ष्यते । तेन चेश्वरत्वमपि व्यङ्गयमित्याहुः । पूर्वमुपात्तोदाहरणं पश्चादनुपात्तोदाहरणमित्यत्र विशेषः । उत्प्रेक्षेति । विषयिण इति शेष: । कल्याणेति । कल्याणाश्रिताङ्गकत्वादिष्वित्यर्थः । श्लेषस्यैवोदाहरणान्तरमाह-यथा
३९
For Private And Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
यथा वा'नासत्ययोगो वचनेषु कीर्ती तथार्जुनः कर्मणि चापि धर्मः ।
चित्ते जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पाण्डुपुत्राः॥' अत्र पाण्डुपुत्रेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां राजाश्रितत्वरूपो विषयिधर्मः श्लेषेण विषयाणां तदाश्रितानां चासत्याभावशुक्लगुणपुण्यपरमेश्वराणामभेदसंपादनद्वारा विषयसाधारणीकृतः । ___ 'स्तनान्तर्गतमाणिक्यवपुर्वहिरुपागतम् ।
मनोऽनुरागि ते तन्वि मन्ये वल्लभमीक्षते ॥' अत्र वल्लभेक्षणस्य मनस्युत्प्रेक्षायां तन्निमित्तमन्तःप्रदेशाद्वहिरागमनमपेक्ष्यम् । तच्च बहिःप्रदेशसंबन्धरूपं माणिक्यमात्रवृत्ति मनसो न संभवतीति माणिक्यापकुत्या मनोगतं क्रियते । बिम्बप्रतिबिम्बभावस्तु 'कलिन्दजानीरभरेऽर्धमग्ना' इत्यत्रैव निरूपितः ।
'माधुर्यपरमसीमा सारस्वतजलधिमथनसंभूता ।
पिबतामनल्पसुखदा वसुधायां ननु सुधा कविता ॥' अत्र कवितायां माधुर्यपानयोर्मुख्ययोरसंभवादास्वादश्रवणयोरमुख्ययोरुपचारेण मुख्याभ्यां साधारणीकरणम् । लक्षणया शक्याभेदेन लक्ष्यबोधनात् । वेति । अलकः अलका च । श्रवणः कर्णः वैश्रवण: कुबेरश्च । राजकन्यां प्रति कव्युक्तिरियम् । प्राग्वदाह-यथा वेति । राजानं प्रत्युक्तिरियम् । नासत्यो नकुलसहदेवौ असत्याभावश्च । अर्जुनः किरीटी श्वैत्यं च । धर्मो युधिष्ठिरो विध्यर्थश्च । जगदिति । वायुपुत्रो भोमो हनूमांश्च । यद्वा पञ्चम्यर्थबहुव्रीहिणा वायुजनकः परमेश्वरः । राजवशंवदेति । विषयिणो वर्णनीयराजवशंवदा ये राजानस्तत्तादात्म्येत्यर्थः । विषयाणां पाण्डुपुत्राणाम् । तदाश्रितानां चेति । राजाश्रितानां चेत्यर्थः । विषयेति । पाण्डुपुत्रेत्यर्थः । अपह्नवोदाहरणमाह-स्तनेति । स्तनमध्यगतमाणिक्यस्वरूपेण बहिरागतमित्यर्थः । नायिकां प्रति सख्युक्तिः । बिम्बप्रतिबिम्बोदाहरणमाह-बिम्बेति । उपचारोदाहरणमाह-माधुयेति । राजानं प्रत्युक्तिः । या माधुर्यस्य परमसीमाधारभूता सारस्वतरूपसमुद्रमथनजा भुवि तां बहुसुखदां सुधारूपकवितां ननु निश्चयेन पिबेत्यर्थः । उपचारेण लक्षणया । मुख्याभ्यामिति । सहाभेदसंपादनद्वारा तयोर्धर्मयोरिति शेषः । ननूपचारेऽमुख्यस्यैव प्रतीत्या मुख्याप्रतीत्या दोषस्तदवस्थ एवात आहलक्षणयति । मात्रपदेन पौनरुक्त्यं परिहृतम् । पूर्व रूपकमिश्र उक्त इति भावः ।
For Private And Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३०७
अभेदाध्यवसायमात्रं यथा प्रागुदाहृतायां हेतूत्प्रेक्षायाम् 'व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीताम्' इत्यत्र शाखानीचत्वकंधरानमनयोरभेदाध्यवसाय एव त्रपाहेतृत्प्रेक्षानिमित्ततयोपात्तस्य कंधरानमनस्य नीचशाखनतकंधरोभयसाधारण्ये बीजम् ।
एवं सर्वत्र हेतुफलयोरुत्प्रेक्षणे यस्य हेतुः फलं वोत्प्रेक्ष्यते सोऽनेन प्रकारेण साधारणीकृतो निमित्तमित्यसकदावेदितम् ।
एवं क्वचिदुपात्तो धर्मो विषयविषयिसाधारण्याभावादसुन्दरत्वाद्वा खयमुत्प्रेक्षणं साक्षादुत्थापयितुमसमर्थोऽपि तदुत्थापनक्षमधर्मान्तरोत्थापनेनानुकूल्यविधानादुपयुज्यते । यथा 'द्यौरञ्जनकालीभिः' इति प्रागुदाहृते पद्ये दिवो जलदालीसमावृतरूपो धर्म उपात्तो जगतो निलॊचनवर्गसर्गत्वोत्प्रेक्षायां वैयधिकरण्यादप्रयोजकोऽपि स्वप्रयोज्यनिबिडान्धकारप्रयुक्तचाक्षुषज्ञानसामान्यशून्यत्वस्य तथाविधोत्प्रेक्षानिमित्तस्योत्थापनेनाविषयोऽप्युपात्तो निरूपित एव । क्वचिदयमपहृतोऽपि भवति । यथा'जगदन्तरममृतमयैरंशुभिरापूरयन्नयं नितराम् । उदयति वदनव्याजाकिमु राजा हरिणशावनयनायाः ॥'
इति रसगङ्गाधर उत्प्रेक्षाप्रकरणम् । अथातिशयोक्तिःविषयिणा विषयस्य निगरणमतिशयः । तस्योक्तिः। तच्च स्ववाचकपदेन शक्यतावच्छेदकरूपेणैवान्यस्य बोधनम् । अत्र च विषये विषयिवाचकपदस्य लक्षणायाः शक्यतावच्छेदकमात्रप्रकारकसाधारण्यसत्त्वेऽप्याह -असुन्दरेति । उपयुज्यत इति । एवं च तदानर्थक्यं नेति भावः। तत्राद्योदाहरणमाह--यथेति। तथाविधोत्प्रेक्षेति । जगतो निर्लोचनवर्गसर्गवोत्प्रेक्षेत्यर्थः । अयं विषयः । जगदन्तरं जगन्मध्यम् । राजा चन्द्रः । विषयापह्नवश्चात्र राजतादात्म्यसंभावनादाायेति बोध्यम् ।। इति रसगङ्गाधरमर्मप्रकाश उत्प्रेक्षाप्रकरणम् ॥ ' अथातिशयोक्ति निरूपयति-अथेति । योगरूढं तदित्याह-विषयीति । निगरणपदार्थमाह-तच्चेति । स्ववाचकपदेनेति । लक्ष्यतावच्छेदकं च मुख्यत्वमेवेति प्रागेव निरूपितं मूले । ननु रूपकादभेदस्तत्राह-अत्र चेति । अतिशयोक्ता
For Private And Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०९
काव्यमाला।
लक्ष्यविशेष्यकबोधत्वं कार्यतावच्छेदकम् । अतः शक्यासाधारणधर्मस्य लक्ष्यासाधारणधर्मस्य च भानाभानयोन विरोधः । परे तु 'मात्रविशेषणं न देयम् । तेन लक्ष्यासाधारणोऽपि धर्मो भासते' इत्याहुः । केचित्तु 'लक्षणया लक्ष्यासाधारणधर्मप्रकारेणैव बोधः । अनन्तरं च व्यापारान्तरेण शक्यतावच्छेदकप्रकारेण लक्ष्यबोधः ।' इत्याहुः । बाधज्ञानस्य च यथा न प्रतिबन्धकत्वं तथोक्तं प्राक् । अत्र चैकपदोपात्तत्वान्नोद्देश्यविधेयभावः । उदाहरणम्'कलिन्दगिरिनन्दिनीतटवनान्तरं भासय
न्सदा पथि गतागतक्लमभरं हरन्प्राणिनाम् । स्फुरत्कनककान्तिभिर्नवलताभिरावेल्लितो
ममाशु हरतु श्रमानतितमां तमालद्रुमः ॥' अत्र तमालेन भगवतो निगरणे कलिन्दनन्दिनीत्यादीनि त्रीणि चरणत्रयगतानि विशेषणानि तदनुग्रहार्थ विषयविषयिणोः साधारणधर्मतया साक्षादुपात्तानि । चतुर्थमपि चतुर्थचरणगतमवैयाकरणानां दर्शने । वैयाकरणानां तूपात्तया तमालाभिन्नकर्तृकया श्रमहरणक्रिययोन्नीतं तादृशकर्तृत्वं तथा तयोः स्थितम् । द्वितीये चरणे चोच्चावचयोनिसंचरणस्य प
वित्यर्थः । एतावानेव विशेष इति भावः । अनन्तरं च लक्ष्यार्थबोधोत्तरं च । व्यापारेति । व्यञ्जनयेत्यर्थः । एतानि मतानि पूर्व निरूपितानि । नन बाधज्ञानसत्त्वात्कथं व्यञ्जनया तथा बोधोऽत आह-बाधज्ञानेति । एवं चाहार्यभेदबुद्धिः । बाधकबुद्धिकालिकस्यैवाहार्यत्वादिति भावः। प्राञ्चस्तु “कमलमनम्भसि-' इत्यादावाह्लादकत्वादिकं लक्ष्यतावच्छेदकम् । तेन रूपेण प्रथमतो बोधे तद्धर्मावच्छिन्ने कमलाभेदप्रत्ययो व्यञ्जनयानाहार्यः । तद्धर्मावच्छिन्ने कमलाभेदबाधबुद्धेरभावात् । अत एव 'गौणसाध्यवसानायां सर्वथैवाभेदावगमः' इति प्रकाशकृतः । रूपके त्वाहार्य एव । अयमेव रूपकादस्या विशेषः” इत्याहुः । वनान्तरं वनमध्यम् । गतागतेति । गमनागमनक्लेशेत्यर्थः । तदनुग्रहार्थ तेन तनिगरणानुग्रहार्थम् । दर्शन इति। तदर्थ तयोस्तत्त्वेन साक्षादुपात्तमिति शेषः । तैः प्रथमान्तार्थविशेष्यकबोधाङ्गीकारादिति भावः । वैयाकरणानां त्विति । दर्शन इत्यनुषज्यते । तथा तदर्थे तयोस्तत्त्वेन साक्षात्तथा अनुपात्तम् । उच्चेति ।
For Private And Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
३०९
थ्यादिना, तृतीयेऽपि लताभिर्गोपीनां निगरणम् । तस्मिन्नेवानुग्राहकतया । एवं च सावयवेयमतिशयोक्तिः । यत्र चानुग्राहकं न निगरणान्तरं किं तु शुद्धं साधारणधर्मादि सा निरवयवा ।
यथा
'नयनानन्दसंदोहतु न्दिलीकरणक्षमा । तिरयत्वाशु संतापं कापि कादम्बिनी मम || '
अत्र भगवतो मूर्तिर्निगीर्णा । नामार्थयोरभेदसंसर्गेण विशेष्यविशेषणभावस्य व्युत्पन्नतया रूपके तावदुचितो विषयविषयिणोस्तेन संसर्गेण विशेष्यविशेषणभावः । न तु प्रकृते । विषयितावच्छेदकरूपेण विषयस्यैव भानादभेदसंसर्गस्याप्रसक्तेः । अभेदप्रधानातिशयोक्तिरिति प्रवादस्तु प्रागुक्ते संसर्गारोपरूपक इव विषयितावच्छेदकस्यैव भेदाभावरूपतया निर्वाह्यः । तच्च विषयितावच्छेदकं क्वचित्प्रकृते निगरणदायय विषयमात्रवृत्तिधर्मस्वसमानाधिकरणधर्मशून्यत्वाभ्यां प्रसिद्धम् । यथा 'कलिन्दगिरिनन्दिनी' इत्यादौ तमालत्वादि । क्वचिदप्रसिद्धमपि कल्पितोपमादावुपमानमिव कविना स्वप्रतिभया कल्पितम् । धर्मिण इव धर्मस्यापि कल्पनाया अविरुद्धत्वात् ।
हीनोत्तमयोनिजन्मेत्यर्थः । तस्मिन्नेवानुग्राहकतयेति । भगवतो निगरणे । तदा वेल्लनकर्मत्वतद्धरणकर्तृत्वस्वरूपे साधारणधर्मौ । साधारणत्वसंपादनमेवानुग्राहकत्वमिति भावः । यत्र च यत्र तु । रूपकतो भेदान्तरमाह - नामार्थेति । एवेन विषयिव्यात्तिः । विषयीति । तमालत्वादेरित्यर्थः । भेदाभावरूपतयेति । 'आस्ये पूर्णशशाङ्कता' इत्यादावन्योन्याभावस्य प्रतियोगितावच्छेदकधर्मरूपतायाः सर्वतन्त्रसिद्धत्वादिति भावः । स्वेति । विषयमात्रवृत्तिधर्मेत्यर्थः । धर्मशून्यत्वाभ्यामिति । धर्मद्वयशून्यत्वं च सामानाधिकरण्यसंबन्धावच्छिन्नप्रतियोगिताकम् | 'नवीनो जलधरः ' इत्यत्र च भगवद्वृत्तिलोकोत्तरत्वतत्समानाधिकरणनवसुधाकरणकव्याप्तिकर्तृत्वे जलधरत्वेन समानाधिकरणेऽसामानाधिकरण्यसंबन्धेन तदुभयविशिष्टजलधरत्वं कविकल्पितम् । कचिदप्रसिद्धमपीति । सामानाधिकरण्यसंबन्धेन तादृशधर्मद्वयविशिष्टतया अप्रसिद्धमपीत्यर्थः । अपूर्वचन्द्र इत्यादावप्येवम् । मुखमपूर्वश्चन्द्र इत्यादी कविकल्पितविशिष्टचन्द्रेणाहार्याभेदप्रतीते रूपकम् | केचित्तु 'कविकल्पिततादृशचन्द्रत्वस्य मुखत्वेन
For Private And Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१०
काव्यमाला।
यथा-'स्मृतापि तरुणातपम्' । यथा वा--
'जगज्जालं ज्योत्स्नामयनवसुधामिर्जटिलय___ जनानां संतापं त्रिविधमपि सद्यः प्रशमयन् । श्रितो वृन्दारण्यं नतनिखिलवृन्दारकनुतो
___ मम स्वान्तध्वान्तं तिरयतु नवीनो जलधरः ॥' अत्र विषयधर्मविशिष्टतया कल्पितेन लोकोत्तरजलधरत्वेन रूपेण भगवतः प्रतिपादने तत्समानाधिकरणत्वेन कल्पितानां विशेषणानामानुगुण्यम् । एवं च निगरणे सर्वत्रापि विषयितावच्छेदकधर्मरूपेणैव विषयस्य भानम्, न विषय्यभिन्नत्वेनेति स्थिते "रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः' इत्युक्त्वा 'अत्रातिशयोक्तौ रूपकविशेषणं रूपके दर्शितानां विधानामिहापि संभवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम् । तेनात्राप्यभेदातिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति कुवलयानन्दे यदुक्तं तन्निरस्तम्" इति नव्याः । प्राञ्चस्तु 'रूपक इवात्रापि विषय्यभेदो भासते । परं तु
विरोधाभावादनाहार्येव विषयितावच्छेदकप्रकारधीरूपकलक्षणे चाहार्यत्वं न देयम्। अतिशयोक्तिरनाहार्येव । रूपके त्वाहार्या अनाहार्या च धीः' इत्याहुः । अन्ये तु 'प्रस्तुतस्य यदन्यत्वमित्यतिशयोक्तिरेषु प्रकृतस्य विविक्ताकारवस्त्वन्तरत्वेनान्यवस्तुत्वेन वाध्यवसानमिति तदर्थः । अस्ति हि प्रकृतस्य मुखस्य चन्द्रत्वेनाध्यवसानम् । आहार्यत्वाभावाच्च न रूपकम्' इत्याहुः । विषयधर्मति । लोकोत्तरवेत्यर्थः । सामानाधिकरण्यसंबन्धेन तद्वैशिष्टयं बोध्यम् । एवं चेत्यस्य निरस्तमित्यत्रान्वयः । विधानां प्रकाराणाम् । अतिदेशेनेति । अन्यत्रान्यशब्दप्रयोग इति न्यायादिति भावः । अत्रापि अतिशयोक्तावपि । तन्निरस्तमिति । अत्रेदं चिन्त्यम्-काव्यप्रकाशादिरीत्या तदुक्तम् । निर्बाधकत्वात् । किं च त्वयाप्यभेदाप्रधानातिशयोक्तिरिति प्राचीनव्यवहारसंगमनाय विषयितावच्छेदकमेवाभेद इत्यवश्यं वक्तव्यम् । एवं च तथैवाभेदातिशयोक्तिरिति व्यवहारो मयापि सूपपादः । 'कोऽयं गलितहरिण:-' इत्यादौ प्रसिद्धविषयितावच्छेदकप्रकारकबोधस्य बाधबुद्धिपराहतत्वात्कोऽयमित्यनेन निरस्तत्वाचावश्यं चन्द्रकार्यकारित्वप्रकारकबोधोऽङ्गीकार्यः । एषैव च ताद्रूप्यातिशयोक्तिः । अत्रापि विषयितावच्छेदकप्रकारकधीहारायैव । तद्धर्मविशिष्टे शक्यसंबन्धग्रहोऽपि तथैव । तद्ध
For Private And Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
उदाहरणम्
रसगङ्गाधरः ।
३११
निगीर्णे विषये । इति रूपकादस्या विशेषः । अध्यवसायस्य सिद्धत्वेनाप्राधान्यान्निश्चयात्मकत्वाच्च साध्याध्यवसानायाः संभावनात्मकोत्प्रेक्षाया वैलक्षण्यम्' इत्याहुः । कथं तर्हि 'कमलमिदमनम्बुजातं जयतितमां कनकलतिकायाम्' इत्यादाविदत्वादेर्विषयतावच्छेदकस्योछेखान्निगरणमिति चेत्, न । इदमित्यस्य कमलत्वविशिष्टे विशेषणत्व एवातिशयोक्तिः, उद्देश्यतावच्छेदकत्वे तु रूपकमेव । एवं 'गौरयम् ' ' आयुरेवेदम्' इत्यादावपि बोध्यम् । अत एवातिशयोक्तावभेदोऽनुवाद्य एव न विधेय इति प्राचामुक्तिः संगच्छते । एवमेकः प्रकारोऽतिशयस्य यत्र भेदेऽप्यभेदः । अथ प्रकारान्तरम् — यत्राभेदेऽपि भेदो लोकोत्तरत्वप्रतिपत्त्यर्थः । इदमेव प्रस्तुतस्यान्यत्वमित्यनेनोक्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
'अन्या जगद्धितमयी वचसः प्रवृत्तिरन्यैव कापि रचना वचनावलीनाम् । लोकोत्तरा च कृतिराकृतिरार्तहृद्या
विद्यावतां सकलमेव चरित्रमन्यत् ॥'
एवमन्यः प्रकारः —— यत्रासंबन्धेऽपि संबन्धो वण्यत्कर्षार्थः ।
यथा
'धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः । उन्मदवारणबुद्ध्या मध्येजठरं समुच्छलति || '
अत्र सिंहीवचने समुच्छलनासंबन्धेऽपि समुच्छलनसंबन्धोक्तिः शौर्यातिशायिका ।
वैशिष्टयमपि लक्ष्यस्यारोपितमेवेति बोध्यम् । अस्या विशेष इति । आहार्यत्वानाहार्यत्वकृतो विशेष इत्यर्थः । उत्प्रेक्षातोऽत्र वैलक्षण्यमाह-अध्यवेति । इदमिति । यत इत्यादि । अत एव सर्वथा विषयानुपादानेऽस्या अङ्गीकारादेव । एवमिति । उक्तप्रकारेणेत्यर्थः । निरूपित इति शेषः । इदमेव प्रकारान्तरमेव । उक्तमिति । प्रकाशकृतेति शेषः । अन्या जगदिति । विद्वद्वर्णनमिदम् । कृतिश्चेष्टा । आर्तहृद्या । आकृ तिः शरीरावयवसंस्था च लोकोत्तरेत्यर्थः । चरित्रं व्यवहारः । मध्येजठरमिति । 'पारे मध्ये
।
1
For Private And Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
यथा वा'गिरं समाकर्णयितुं यदीयां सदा रसज्ञैरनुभावनीयाम् ।
समीहते नित्यमनन्यचेता नभस्वदात्मभरिवंशनेता ॥' यथा वा'तिमिरशारदचन्दिरतारकाः कमलविद्रुमचम्पककोरकाः।
यदि मिलन्ति कदापि तदाननं खलु तदा कलया तुलयामहे ॥' पूर्वत्र निर्णीयमानः, इह तु संभाव्यमान इति विशेषः । तथान्यः प्रकारः-यत्र संबन्धेऽप्यसंबन्धः । यथा'पीयूषयूषकल्पामल्पामपि ते गिरं निपीतवताम् ।
तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेकः ।।' अत्र तोषसंबन्धेऽप्यसंबन्धः ।
एवमेवान्योऽपि प्रकारः—यत्र प्रयोजकस्य प्रयोज्यस्य च पौर्वापर्यविपर्ययः । स च द्वयोः सहभावासहभावात्, प्रयोजकस्य प्रयोज्यानन्तरभावाद्वेति द्वेधा । ___ आद्यो यथा-'प्रतिखरनिकरशिलातलसंघट्टसमुच्छलद्विद्युहल्लीकृतविस्फुलिङ्गच्छटापटलानां वाजिनाम्' इति हयवर्णने समुच्छलनविद्युदल्लीकरणयोः सहोत्पत्तिर्गम्यते ।
षष्ठया वा' इति समासः । यदीयामिति । प्रकृतवर्णनीयराजकीयामित्यर्थः । नभस्वदिति । नभस्वता वायुना आत्मानं विभ्रति ये सर्पास्तेषां वंशस्य कुलस्य नेता नायकः । शेष इत्यर्थः । अत्र तदाकर्णनसमीहासंबन्धेऽपि तदुक्तिस्तद्वैदुष्यातिशायिका । चन्दिरेति । चन्द्रेत्यर्थः । मिलन्ति एकत्र तिष्ठन्ति । तदाननं तस्या वाया नायिकाया मुखम् । कलया न तु सर्वांशेन । पूर्वत्र पूर्वयोः । इह त्विति । यदीत्यस्य संभावनाबोधकत्वादिति भावः । यथेति । पीयूषममृतमेव यूषो मण्डविशेषस्तेन ईषन्न्यूनाम् । ते वर्णनीयस्य राज्ञः । समुच्छलनेति । विस्फुलिङ्गानामित्यादिः । सहोत्पत्तिरिति । शतप्रत्ययेनेति भावः । 'शत्रा समुच्छलन' इति पाठे तु ततः प्रागडेति शेषः । वस्तुतः
For Private And Personal Use Only
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
द्वितीयो यथा'पुरः पुरस्तादरिभूपतीनां भवन्ति भूवल्लभ भस्मशेषाः ।
अनन्तरं ते भृकुटीविटङ्कात्स्फुरन्ति रोषानलविस्फुलिङ्गाः ॥' अत्र भेदद्वये प्रयोजकातिशयकृतः प्रयोज्यशैध्यातिशयो गम्यः । एवं च 'एतद्भेदपञ्चकान्यतमत्वमतिशयोक्तिसामान्यलक्षणम्' इति प्राचीनाः । अन्ये तु.---'संबन्धेऽसंबन्धः असंबन्धे संबन्ध इति भेदद्वयं नातिशयोक्तिः । एतादृशातिशयस्य रूपकदीपकोपमापइत्यादिषु स्वभावोक्तिभिन्नेषु प्रायशः सर्वेप्वलंकारेषु सत्त्वात् । नहि यथास्थितवस्तूक्तावस्ति काचिद्विच्छित्तिः। कार्यकारणपौर्वापर्यविपर्ययस्यापि तेनैव व्याप्ततया भेदान्तरतानापत्तेश्च । तस्माद्विषयिणा निगीर्याध्यवसानं विषयस्य, तस्यैवान्यत्वम्, यद्यादिशब्दैरसंभविनोऽर्थस्य कल्पनम्, कार्यकारणपौर्वापर्यविपर्ययश्वेत्येतदन्यतमत्वमतिशयोक्तित्वम्' इत्याहुः । नव्यास्तु-'निगीर्याध्यवसानमेवातिशयोक्तिः । प्रभेदान्तरं त्वनुगतरूपाभावादलंकारान्तरमेव । ननु प्रस्तुतान्यत्वभेदे भेदेनाभेदस्य, असंबन्धे संबन्ध इति भेदे संबन्धेनासंबन्धस्य, संबन्धेऽसंबन्ध इति भेदे असंबन्धेन संबन्धस्य, कार्यकारणपौर्वापर्यविपर्यये च तेनैवानुपूर्वी । अस्य च निगरणं रत्नाकरविमर्शिनीकारायुक्तप्रकारेण संभवतीति चेत्, न । अन्यत्वादिभिरनन्यवस्तुप्रतीतेखे चमत्कारित्वम् । न त्वनन्यत्वादिभिः । तेषामनुभवासंगतेः । न चासमुच्छलनं तत्र हेतुरिति बोध्यम् । पुर इति । राजवर्णनमिदम् । हे भूवल्लभ, पुरः पुरस्तात् पूर्वपूर्व शत्रुरूपाणां गज्ञां भस्मरूपाः शेषा अवशेषा भवन्ति पश्चात्तव भृकुट्येव विटङ्कं कपोलपालिका तस्माक्रोधरूपानेविस्फुलिङ्गाः स्फुरन्तीत्यर्थः । अत्र भेदद्वये बाधितत्वं परिहरति-अति । स्वभावोक्तो सर्वथा तदसत्त्वादाह-स्वभावोक्तीति । अन्यत्रापि क्वचिदसत्त्वादाह-प्रायश इति । सत्त्वादिति । तथा च तेषामप्यतिशयोक्तित्वापत्तिरिति भेदेन तत्कथनासंगत्यापत्तिरिति भावः । ननु तहि तत्र कोऽलंकारोऽत आह-नहीति । अभ्युपेत्याप्याह-कार्येति । तेनैव प्राचीनोक्तभेदद्वयेनैव । अभेदस्येत्यादि षष्ठयन्तानां वक्ष्यमाणनिगरणेऽन्वयः । विपर्यये च विपर्यय इति भेदद्वये च । तेनैव कार्यकारणपौर्वापर्यविपर्ययेणैव । न त्वनन्यत्वादिभिरिति ।
१. हे भूवल्लभ, पुरस्तात् प्रथमं अरिभूपतीणां शत्रुनृपाणां पुरो नगर्यो भस्मशेषा भ. वन्ति अनन्तरं-इत्यादि समुचितोऽर्थः.
For Private And Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४
काव्यमाला।
न्यतमत्वमनुगतमिति शक्यते वक्तुम् । विच्छित्तिवैलक्षण्ये सत्यन्यतमत्वस्याप्रयोजकत्वात् । अन्यथोपमारूपकादिकतिपयान्यतमत्वं सकलान्यतमत्वं वा तल्लक्षणम् । उपमादयश्च तद्भेदा इत्येव किं न ब्रूयाः। अलंकारान्तरत्वे गौरवमित्यपि न वाच्यम् । नह्यत्रालप्तपदार्थकल्पनं येन गौरवं स्यात् । प्रधानोत्कर्षतारूपस्यालंकारत्वस्य त्वयापि स्वीकारात् । अलंकारविभाजकोपाधिपरिगणनस्य च पुरुषपरिकल्पितत्वात् ।' इत्यपि वदन्ति । _ 'गगनचरं जलबिम्बं कथमिव पूर्ण वदन्ति विद्वांसः ।
दशरथचत्वरचारी हृज्ज्वरहारी विधुस्तु परिपूर्णः ॥' इत्यादौ विषयिणः स्वाभाविकस्य निह्नवेन दृढाध्यवसानातिशयोक्तिः । यत्तु कुवलयानन्दे'यद्यपह्नवगर्भत्वं सैव सापह्नवा मता ।
त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यन्ति तां विधौ ।' इत्यत्र पर्यस्तापह्नुतिगर्भामतिशयोक्तिमाहुस्तच्चिन्त्यम् । पर्यस्तापद्भुतेरपगुतित्वं न प्रामाणिकसंमतमिति प्रागेवावेदनात् । यदपि तैरेवोक्तम्'संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् ।
सौधाहानि पुरस्यास्य स्टशन्ति विधुमण्डलम् ॥” इति । तथा च तेन रूपेण कदापि बोधाभावे न तद्रूपस्याभेदस्य भेदेन त्वदुक्तं निगरणमसंगतमिति भावः । तेषामननुगतत्वादिति निगीर्य प्रकृतस्य समेनाध्यवसानं भेदेनाभेदस्य संबन्धेनासंबन्धस्येत्यादिसकलसाधारणस्यैकस्य धर्मस्याभावादतिशयोक्तिलक्षणस्याननुगतत्वापत्तिरिति भावः । वैलक्षण्ये सतीति । तथा च भिनभिन एवालंकार इति भावः । अभ्युपेत्याह-अन्यथोपमेति । प्रागुक्तरोत्या आह-कतिपयेति । यस्य कस्यचिदतिशयस्य सर्वत्र सत्त्वादाह-सकलेति । तल्लक्षणमति. शयोक्तिलक्षणम् । तद्भेदा अतिशयोक्तिभेदाः । ननु गौरवादाधिक्यं नात आह-- अलंकारान्तरेति । कृप्तत्वमेवाह--प्रधानोत्कर्षेति । ननु सामान्यतोऽलंकारसत्त्वेऽपि तद्विभाजकोपाधिमध्येऽपाठादाधिक्येन गौरवं तदवस्थमेवात आह- अलंकारेति । दृढाध्यवसानातिशयोक्त्युदाहरणमाह-गगनेति । गगनगामीत्यर्थः । जलबिम्बं चन्द्ररूपम् । विधुस्तु श्रीरामचन्द्रस्तु । स्वाभाविकेति । गगनरूपेत्यर्थः । निगवेनेति । कथमिवेत्यनेनेति भावः । मूल एव कुठार इत्याह-पर्यस्तेति ।
मापनाता
.
For Private And Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
तदपि न । अत्रैव 'स्टशन्तीवेन्दुमण्डलम्' इति कृते कोऽलंकारः । उत्प्रेक्षेति चेत्, तीवादेरभावागम्योत्प्रेक्षेयमुचिता। इवादिसत्त्वे या वाच्योत्प्रेक्षा सैवेवाद्यभावे गम्योत्प्रेक्षेति नियमस्य सर्वसंमतत्वात् । 'त्वकीर्तिभ्रमणश्रान्ता विवेश स्वर्गनिम्नगाम्' इति त्वदुक्तगम्योत्प्रेक्षायाः 'सौधाहानि' इत्यस्य चोत्प्रेक्षांशे विशेषानुपलम्भात् । तथा हि 'त्वत्कीतिर' इत्यादौ बहुदूरगमने स्वर्गगमने वा स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षेति नये स्वर्गसंबन्धित्वरूपानुपात्तधर्मनिमित्तेयम् । कीर्ती स्वर्गङ्गाकर्मकप्रवेशकर्तृत्वोत्प्रेक्षेति नये तादृशगमनरूपानुपात्तधर्मनिमित्ता । विशेषणीभूतभ्रमणभ्रान्तत्वरूपहेतृत्प्रेक्षेति नये तु तादृग्गमनतादात्म्याध्यवसितस्वर्गङ्गाप्रवेशरूपोपात्तधर्मनिमित्तेति सर्वथा गम्यैव । 'सौधाहानि-' इत्यत्र परमोध्वदेशसंयोगे चन्द्रमण्डलस्पर्शतादात्म्योत्प्रेक्षायां परमोर्ध्वदेशवृत्तित्वरूपानुपात्तधर्मनिमित्ता । तादृशस्पर्शकर्तृत्वोत्प्रेक्षायां तु परमोर्ध्वदेशसंयोगरूपानुपात्तधर्मनिमित्तेति । इयमपि गम्योत्प्रेक्षैव । तस्मादुत्प्रेक्षासामग्री यत्र नास्ति तादृशमुदाहरणमुचितम् । यथास्मदीयं धीरध्वनिभिर्-' इत्यादि । सुन्दरत्वे सत्युपस्कारकत्वमलंकारसामान्यलक्षणमिहापि न विस्मरणीयम् ।
तैरेव अप्पदीक्षितेरेव । तदपि नेति । सिद्धान्तविरोधादिति शेषः । तमेवाह-अ. त्रैवेत्यादिना। नन्वन्यसंमतत्वेऽपि तथा न मम संमतमत आह-त्वत्कीर्तिरिति । इत्यस्य चति । उत्प्रेक्षाया इति । षष्ठीति भावः । ननु तस्या भूमण्डले बहुदूरगमनेऽपि स्वगङ्गाप्रवेशतादात्म्योत्प्रेक्षा तत्र न संभवतीत्यत आह-स्वर्गेति । विशेषेति कोर्तावित्यादिः । तादृशेति । स्वर्गगमनेत्यर्थः । परमोर्वेति । गृहाग्राणामित्यादिः । इयमपि गम्योत्प्रेक्षवेति । अत्रदं चिन्त्यम् -'नूनं मुखं चन्द्रः' इत्यादौ नूनंपदाभावे प्रतीयमानस्य रूपकस्यानापत्तेरुत्प्रेक्षाया आपत्तेश्च । 'त्वत्कीर्तिभ्रमणश्रान्ता' इत्यत्र तु बहुदूरगमने स्वर्गगमने वा स्वर्गङ्गाप्रवेशतादात्म्योत्प्रेक्षा कीतौं स्वर्गङ्गाप्रवेशकर्तृत्वोत्प्रेक्षयावश्यं स्वीकार्या । अन्यथा भ्रमणश्रान्तत्वरूपविशेषणवैयर्थ्यापत्तः । तद्वत्प्रकृते उत्प्रेक्षासाधकं नास्ति येन तथा स्यात् । भ्रमणश्रान्तत्वरूपहेतूत्प्रेक्षायां तु न कश्चिद्दोषः । स्वर्गसंबन्धित्वं स्वर्गगमनं स्वर्गङ्गाप्रवेशरूपोपात्तो वा धर्मो निमित्तमिति बोध्यम् । उदाहरणमिति । संबन्धातिशयोक्तेरिति भावः । दुःखयोरि
For Private And Personal Use Only
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६
काव्यमाला।
इयं चातिशयोक्तिवैदेऽपि दृश्यते । यथा'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाहत्यनभन्नन्यो अभिचाकशीति ॥" स्मृतौ च
'या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥' अथास्या ध्वनिः
'देव त्वदर्शनादेव लीयन्ते पुण्यराशयः ।
किं चादर्शनतः पापमशेषमपि नश्यति ॥' पुण्यपापयोः सुखदुःखभोगमात्रनाश्यतया दर्शनादर्शनाभ्यां तज्जन्यसुखदुःखयो राश्यशेषशब्दाभ्यां च जन्मशतोपभोग्ययोस्तयोरेवाक्षेपादग्रिमाभ्यां पूर्वयोनिगरणं व्यज्यते । न च पूर्वाभ्यामग्रिमयोरेव निगरणं किं न स्यात्, इति वाच्यम् । नाशोक्तिसामञ्जस्याय नाशकतावच्छेदकावच्छिन्नत्वेन प्रत्ययस्यावश्यकतया तन्निगरणासंभवात् । उपमानेन महता क्षुद्रस्योपमेयस्य महत्त्वाधानाय निगरणस्यौचित्याच्च । एतेन 'तदप्राप्ति. महादुःख-' इत्यादि काव्यप्रकाशो व्याख्यातः ।
इति रसगङ्गाधरेऽतिशयोक्तिप्तकरणम् ।
त्यस्याक्षेपादित्यत्रान्वयः । तयोरेव सुखदुःखयोरेव । अग्रिमाभ्यां पूर्वयोरिति । जन्मशतोपभोग्यसुखदुःखाभ्यां देवदर्शनादर्शनजन्यसुखदुःखयोरित्यर्थः । न च पूर्वाभ्यामिति । दर्शनादर्शनजन्यसुखदुःखाभ्यामेव जन्मशतोपभोग्यसुखदुःखयोरित्यर्थः । नाशकतावच्छेदकेति । पुण्यराशिनाशत्वपापराशिनाशत्वरूपकार्यतावच्छेदकावच्छिन्नकारणतावच्छेदकं सकलजन्मोपभोग्यसुखत्वादिकमेव । न तु दर्शनजन्यसुखत्वादिकम् । तत्तत्सुखानां स्वस्वफलोपहितपुण्यनाशकताया एव कृप्तत्वादिति भावः । उपेति । जन्मशतोपभोग्यसुखदुःखे उपमानम् । महत्त्वात् । दर्शनादर्शनजन्ये च ते उपमेये । क्षुद्रत्वात् । ध्वनित्वं चात्र प्राचीनरीत्या बोध्यम् ।। इति रसगङ्गाधरमर्मप्रका. शेऽतिशयोक्तिप्रकरणम् ॥
For Private And Personal Use Only
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३१७ अथ तुल्ययोगिता
प्रकृतानामेवाप्रकृतानामेव वा गुणक्रियादिरूपैकधर्मान्वयस्तुल्ययोगिता।
औपम्यं चात्र गम्यम् । तत्प्रयोजकस्य समानधर्मस्योपादानात् । वाचकाभावाच्च । अत एवालंकारिकाणामपि सादृश्यं पदार्थान्तरम् । न तु साधारणधर्मरूपमिति विज्ञायते । अन्यथा औपम्यस्यात्र गम्यत्वोक्तेरनुपपत्तेः । केचित्तु-'सादृश्यभाव एवातिरिक्तः । सादृश्यं तु तत्तत्साधारणधर्मात्मकमेव । स चेवादिपदानां शक्यतावच्छेदकः । तत्तत्साधारणधर्मवाचकैस्तु तत्तत्साधारणधर्मस्य स्वशक्यतावच्छेदकतत्तद्धर्मरूपेण बोधने. ऽपि सादृश्यभावरूपेण बोधो व्यञ्जनसाध्य एव' इत्यपि वदन्ति । उदाहरणम्"प्रिये विषादं जहिहीति वाचं प्रिये सरागं वदति प्रियायाः ।
वारामुदारा विजगाल धारा विलोचनाभ्यां मनसश्च मानः ॥' अत्र मानिन्या वर्ण्यत्वात्तदीयत्वेन प्रकृतयोः कोर श्रुमानयोर्विगलनक्रिया समानधर्मत्वेनोपात्ता । विलोचनमनसोरपादानयोश्च । कारकाणां सर्वेषामपि क्रियान्वयस्य तुल्यत्वात् । एवं चतुर्णा क्रियारूपधर्मेक्येऽपि द्वयोईयोरेवौपम्यं प्रतीयते न परस्परं चतुर्णाम् । तदपादानस्य तत्कर्तृत्वरूपे विशेषे सामान्यस्य पर्यवसानात् । शेषमुपरिष्टाद्वोध्यम् ।
तुल्ययोगितां निरूपयति–अथेति । विनिगमनाविरहादाह-अप्रकृतेति । ननु नायं नियमोऽत आह-वाचकेति । अत एव औपम्यस्यात्र गम्यत्वादेव । अपिना वैयाकरणादिसमुच्चयः । निरूपितं चैतत्कुवलयानन्दव्याख्यायां मञ्जूषायां च । सादृश्यभावः सादृश्यत्वम् । स च सादृश्यभावश्च । केचिदिति । अरुचिबीजं तु 'अन्ते रण्डा-' इति न्यायविरोधापत्तिरिति । वदतीति सप्तम्यन्तम् । प्रियाया नेत्राभ्यां हृदश्च जलानां बही धारा मानश्च च्युत इत्यर्थः । विलोचनेति । उक्तरीत्या प्रकृतयोरित्यादिः । दानयोश्चेति । विगलनेत्याद्यनुषज्यते । ननु कोंः क्रियान्वयात्तथा संभवेऽपि कथमपादानयोस्तथा । तत्रान्वयस्यैवाभावात् । अत आह--कारकेति । द्वयोर्द्वयोरेवौपम्यं प्रतीयत इति । तत्प्रतीतावपि नात्र तत्कृतश्चमत्कारोऽनुभवसिद्धः । किं तु तत्सहकृतकधर्मान्वयकृत एवेति पृथगलंकारता । न च गम्योपमयैव निर्वाहः ।
१. 'अन्ते रण्डाविवाहश्चेदादावेव कुतो नहि' इति.
For Private And Personal Use Only
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
काव्यमाला।
'न्यञ्चति वयसि प्रथमे समुदश्चति किं च तरुणिमनि मुदृशः ।
उल्लसति कापि शोभा वचसां च दृशां च विभ्रमाणां च ॥ अत्र गुणः । यदि च 'विलसन्त्यहमहमिकया वाचो गतयश्च विभ्रमाश्च भृशम्' इत्युत्तरार्धं तदा क्रिया । यदि 'दधति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम्' इति क्रियते तदा गुणविशिष्टा क्रिया । केवलगुणेन साक्षात्संबन्धाभावात् केवलक्रियायाश्चाहृद्यत्वात् । अप्रकृतानामेव यथा'न्यञ्चति बाल्ये सुदृशः समुदञ्चति गण्डसीनि पाण्डिमनि ।
मालिन्यमाविरासीद्राकाधिपलवलिकनकानाम् ॥' अत्र गुणः । आविर्भावक्रियायाः साक्षाद्धर्मिभिरनन्वयात् । 'न्यञ्चति राकाधिपतिर्लवली पुरटं च पुण्डरीकं च' इति कृते क्रिया । 'धवलीभवत्यनुदिनं लवली कनकं कलानिधिश्चायम्' इति कृते गुणविशिष्टक्रिया।
'त्वयि पाकशासनसमे शासति सकलं वसुंधरावलयम् ।
विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि ।' अत्रोभयसाधारणयोर्गुणक्रिययोरभावाच्छब्दमात्रम् । श्लेषमूलेनाभेदाध्यवसानेन पिण्डीकृतोऽर्थो वा।
यत्त्वलंकारसर्वस्वछता, तदनुगामिना कुवलयानन्दकृता च 'गुणक्रियाभिः संबद्धत्वे गुणक्रियारूपैकधर्मान्वयः' इति चोक्तं तदापाततः । विद्यमानस्यापि सादृश्यस्यासुन्दरसाधारणधर्मकत्वेनासुन्दरत्वादिति बोध्यम् । सामान्यस्य क्रियान्वयित्वरूपकारकत्वस्य । प्राचां मतेनेदं क्रियोदाहरणमुक्त्वा गुणोदाहरणमाह-न्यञ्चतीति । तिरोभूते सतीत्यर्थः । गुण इति । शाभारूप इत्यर्थः । आदिपदग्राह्योदाहरणमाह-यदीति । ननु केवलस्यैव तत्त्वं कुतो नात आह---केवलेति । कारकाणां मिथः क्रियाद्वारकसंबन्धादाह-साक्षादिति । लवलिः 'हरफारेवडी' । गुणो मालिन्यरूपः । धामभिश्चन्द्रादिभिः । तेषामकारकत्वात् । पुरटं सुवर्णम् । आदिसंग्राह्यान्तरोदाहरणमाह--त्वयीति । पाकेति । इन्द्रतुल्य इत्यर्थः । वर्षन्ति वर्षणं कुर्वन्ति । संवत्सरवदाचरन्तीत्यर्थः । उभयेनेति । नेत्रादिनेत्यर्थः । शब्दमात्रमिति । वर्षन्तीति शब्दमात्रमित्यर्थः । तस्य तदुभयवृत्तित्वाभावादाह-लेषेति । पिण्डीकृत एकीकृतः । यथाक्रममाह-गुणेति । यद्वा जातिक्रियाद्रव्यातिरिक्त
For Private And Personal Use Only
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
'शासति त्वाय हे राजन्नखण्डावनिमण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥' इत्यत्राभावरूपस्यैव धर्मस्यान्वयात् । गुणक्रियेत्युपलक्षणं वा धर्ममात्रस्य । एवम् 'एकस्त्वं दानशीलोऽसि प्रत्यर्थिषु तथार्थिषु' इत्यादावपि दानशीलरूपैकान्वयालक्षणत्रवृत्तिः । यथाकथंचिदनेकत्रैकान्वयस्य चमत्कारिणोऽपेक्षितत्वात् । एतेन -
'हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता । प्रदीयते पराभूतिर्मित्र शात्रवयोः समा ॥'
३१९
For Private And Personal Use Only
-
इत्यादिना तुल्ययोगितायाः प्रकारान्तरं यत्कुवलयानन्दकृता लक्षितमुदाहृतं च तत्परास्तम् । अस्या अपि 'वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता ।' इति पूर्वलक्षणाक्रान्तत्वात् । एकानुपूर्वी बोधितवस्तुकर्मकदानपात्रत्वस्य परम्परया तादृशशब्दस्य प्रागुक्तमार्गेणार्थस्य वा धर्मस्यैक्यात् । 'यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याद्यैः सर्वस्य कटुरेव सः ॥
धर्ममात्रं गुण इति वैयाकरणमतेनेदम् । किं च ' न मनागपि निश्चिन्ते' इत्यत्र चिन्ता - भाववद्भेदस्य चिन्तानतिरिक्ततया गुणस्यैव साधारणधर्मलमित्यपि वक्तुं शक्यम् । दानेति । द्रव्यस्य पराभवस्य वेति भावः । एतेनेत्यस्यार्थमाह - अस्या अपीति । पूर्वलक्षणाक्रान्तत्वादिति । अत्रेदं चिन्त्यम् - हिताहितविषयक तुल्य व्यवहार कर्तृत्वप्रतीतिकृतचमत्कारे एषा । यथोक्तधर्मिणामेकधमन्वयकृत एव यत्र चमत्कारस्तत्राद्येति भेदात् । 'प्रदीयते पराभूतिः' 'यथ निम्बं -' इत्यनयोः पद्ययोर्न तादृशधर्मान्त्रयतयात्र कृतश्चमत्कारः । किंतु राजनिम्बयोर्हिताहितविषयक शुभाशुभान्यतरैकजातीयकर्तृकव्यवहारकृत एवेति सहृदयहृदयमेवात्र प्रमाणम् । अत एव 'जगाल मानो हृदयादमुष्या विलोचनाभ्यामिव वारिधारा' इत्यत्र न तुल्ययोगिता | चन्द्र इव सुन्दरं मुखं इत्यत्र न दीपकम् । तत्र सादृश्यप्रतीतिकृत चमत्कारकस्यैव सत्त्वात् । नन्वेवमलंकारान्तरत्वमेव वक्तुं युक्तम् । इति चेत् सत्यम् । अत एवास्वरसात्कुवलयानन्दकृता 'इयं सरस्वती - कण्ठाभरणोक्ता' इत्युक्तम् । न च तुल्ययोगितायां सादृश्यस्य गम्यतया गम्योपमयैव निर्वाहः । तावन्मात्रकृतचमत्काराभावात् । एकधर्मान्वयकृतस्यापि सत्त्वात् । प्रतोयमा
1
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२०
काव्यमाला ।
इत्यत्रापि कटुत्वविशिष्टस्य निम्बस्यैव परम्परया छेदकसेचकपूजकधर्मत्वसंभवात् । न चात्र वृत्तिनियामकसंबन्धेन धर्मिवृत्तित्वं विवक्षितं धर्मस्य । वक्ष्यमाणकारकदीपकादावव्याप्त्यापत्तेः । अथ चन्द्र इव सुन्दरं मुखमित्याद्युपमायां चन्द्रमुखयोरेकधर्मान्वयादतिव्याप्तिः । न चात्र प्रकतानामेवाप्रकतानामेवेत्युक्तत्वान्न तथेति वाच्यम् । प्रागुक्ते 'प्रिये विषादं-' इति पद्ये 'जगाल मानो हृदयादमुष्या विलोचनाभ्यामिव वारिधारा।' इत्युत्तरार्धे कते प्रकृतयोर्मानवारिधारयोरुपमायां तथाप्यतिव्याप्तेः । चन्द्र इव सुन्दरं मुखमित्यत्रापि वक्ष्यमाणदीपकलक्षणातिव्याप्तेश्च । न चौपम्यस्य गम्यत्वे सतीत्यपि विशेषणीयमिति वाच्यम् ।
'चन्द्रांशुनिर्मलं वारि चन्द्रो हंससमद्युतिः ।
हंसास्तु शरदि स्मेरपुण्डरीकमनोरमाः ॥' इत्यत्र वाचकाभावाद्गम्योपमायां तथाप्यतिप्रसङ्गात् । यदि चात्र न व्यङ्गया उपमा, किं तु समासस्य वाच्या पूर्वपदस्य लक्ष्या चेति सूक्ष्ममीक्ष्यते तथापि 'हंसास्तु मानसभुवश्चन्द्रा एव न संशयः' इत्यादिरूपकादिप्वतिप्रसङ्गः । नह्यत्रापि चन्द्रादिसादृश्यविशिष्टे चन्द्रादिपदानां लाक्षणिकत्वादुपमा लक्ष्यैवेति शक्यते वक्तुम् । रूपके लक्षणा नास्तीति प्रागेव प्रतिपादनात् इति चेत्, न । यत्र यथोक्तानां धर्मिणां यथोक्तधर्मान्वय एव चमत्कारी तत्र तुल्ययोगिता, दीपकं वा । यत्र तादृशधर्मान्वयप्र
नस्यापि सादृश्यस्यासुन्दरसाधारणधर्मकत्वेनासुन्दरत्वादिति बोध्यम् । परम्परया छेदकेति । स्वकर्मकक्रियाश्रयत्वरूपयेत्यर्थः । वक्ष्यमाणकारकेति । 'वसु दातुं यशो धातुमतीव निपुणो भवान्' इत्यादावित्यर्थः। वक्ष्यमाणदीपकेति। प्रकृताप्रकृ. तत्वसत्त्वादिति भावः । इवस्य सत्त्वानोक्तदोषद्वयमित्याशयेनाह-न चेति । चन्द्रांशनिर्मलमिति । अत्र द्वितीयचरणे नातिप्रसङ्ग विषयः । समशब्दस्य सत्त्वात् । तदंशे प्रक्रमभङ्गश्च काव्यदोषो बोध्यः । अतिप्रसङ्गादिति । तुल्ययोगिताया इत्यादिः । शरदृतुवर्णने सर्वेषां प्रकृतत्वात् । एवमग्रेऽपि बोध्यम् । वैयाकरणमतेनाह--समासस्येति । नैयायिकमतेनाह-पूर्वति । यथोक्तानामिति । प्रकृतानामेवाप्रकृतानामेव वा प्रकृताप्रकृतानां वेत्यर्थः । यथोक्तति । गुणादीत्यर्थः । इत्यसदिति ।
For Private And Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३२१ युक्तं सादृश्यमभेदो वा तत्रोपमारूपकादिकमेवालंकारताप्रयोजकम् । सुन्दरत्वे सत्युपस्कारकत्वमित्यसकृदावेदनात् । अन्यथा सादृश्यस्यात्र प्रत्ययात्तदादायोपमाव्यवहारस्यापत्तेरिति दिक् । एवं च
'दधीचिबलिकर्णेषु हिमहेमाचलाब्धिषु ।
अदातृत्वमधैर्य च दृष्टे भवति भासते ॥' इत्यादौ रशनारूपैपा यथासंख्यावष्टब्धा ।
'दृष्टः सदसि चेदुग्राश्चन्द्रचन्दनचन्द्रिकाः ।
अथ त्वं संगरे सौम्याः शेषकालानलाब्धयः ॥' इत्यत्र च स्वरूपद्वयेन राजविषयकरतिभावभूषणतया स्थिता । __ यत्र च प्रकृतानामेवाप्रकृतानामेव वा क्रियाणामेककारकान्वयः सा कारकतुल्ययोगिता। यथा
'वसु दातुं यशो धातुं विधातुमरिमर्दनम् ।
त्रातुं च सकलां पृथ्वीमतीव निपुणो भवान् ॥' अत्र राज्ञः स्तावकवाक्ये प्रकृतानां क्रियाणामेकेन का साधारणेन धर्मणौपम्यम् । यथा वा
'दूरीकरोति कुमति विमलीकरोति
चेतश्चिरंतनमघं चुलकीकरोति । भूतेषु किं च करुणां बहुलीकरोति
सङ्गः सतां किमु न मङ्गलमातनोति ॥' इत्यस्यासकृदित्यर्थः । अन्यथा उक्तव्यवस्थानङ्गीकारे । अत्र तुल्ययोगितायाम् । प्रत्ययाद्गम्यमानत्वात् । अपिना सांकर्य सूचितम् । एवं च अस्या अतिरिक्तत्वे च । रशनारूपैषेति । दधीचिरिव बलिर्बलिरिव कर्ण इत्यादिप्रतीतेरिति भावः । यथासंख्येति । बल्यादिष्वदातृत्वं हिमालयादिध्वधैर्यमिति भावः । राजवर्णनमिदम् । दृष्ट इति । इदमपि राजवर्णनम् । हे राजन्, त्वं सभायां दृष्टश्चेच्चन्द्रादय उग्रा दृश्यन्ते । अथ त्वं रणे दृष्टश्चच्छेषादयः सौम्या दृश्यन्त इत्यर्थः । स्वरूपद्वयेनेति । शान्तोग्ररूपेणेत्यर्थः । रतीति । कविनिष्ठेत्यादि । धातुं संपादयितुम् । विधातुं कर्तुम् । चुलकी
For Private And Personal Use Only
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२
काव्यमाला।
अत्रार्थान्तरन्यासान्विता ।
केऽपि स्मरन्त्यनुसरन्ति च केचिदन्ये
पश्यन्ति पुण्यपुरुषाः कति च स्टशन्ति । मातर्मुरारिचरणाम्बुजमावि गङ्गे
भाग्याधिकाः कतिपये भवती पिबन्ति ॥' अत्रैकं कर्मक्रियाणां साधारणम् । व्यङ्गयैषा यथा'अये लीलाभनत्रिपुरहरकोदण्डमहिम
कथा यत्रोदञ्चत्यतुलबलधैर्यस्य भवतः । अयं को वा तत्र प्रसृमरफणाकोणनिहित
क्षितिः शेषः श्रीमान्कमठकुलचूडामणिरपि ॥' अत्र को वा इत्यनेन वाच्यलक्ष्यव्यतिरिक्तस्यागणनीयत्वस्य शेषकमठाभ्यामप्रकृताभ्यामन्वयः प्रतीयते ।
इति रसगङ्गाधरे तुल्ययोगिताप्रकरणम् । अथ दीपकम्प्रकृतानामप्रकृतानां चैकसाधारणधर्मान्वयो दीपकम् ।
प्राग्वदेवात्राप्यौपम्यस्य गम्यत्वम् । प्रकृतार्थमुपात्तो धर्मः प्रसङ्गादप्रकृतमपि दीपयति प्रकाशयति सुन्दरीकरोतीति दीपकम् । यद्वा दीप इव दीपकम् । संज्ञायां कन् । दीपसादृश्यं च प्रकृताप्रकृतप्रकाशकत्वेन बोध्यम् । करोति नाशयति । न्यासान्वितेति । कारकतुल्ययोगितेति शेषः । विशेषस्य सामान्येन समर्थनात्तन्मिश्रत्वमिति भावः । अम्बुजमावि कमलमकरन्दरूपे । अये इति । श्रीरामवर्णनमिदम् । अत एव तयोरप्रकृतत्वम् । हे राम, यत्र स्थले तव कथा निःसरति तत्र शेषः कूर्मश्च भूधारकः को वा । न कोऽपीत्यर्थः । इत्यनेनेति । व्यज्यमानस्येति शेषः । अत एव वाच्येति ॥ इति रसगङ्गाधरमर्मप्रकाशे तुल्ययोगिताप्रकरणम् ॥
अथ दीपकं निरूपयति-अथेति । अत्राप्यौपम्यस्येति । परंतु प्रकृतमुपमेयमप्रकृतमुपमानमिति बोध्यम् । योगरूढं दीपकपदमित्याह-प्रकृतेति । प्रकाशनासंभवादाह-सुन्दरीति । नन्वेवमत्राभाव्यमत आह-यद्वेति । 'संज्ञायां कन्' इति
For Private And Personal Use Only
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यथा वा
www. kobatirth.org
-
रसगङ्गाधरः ।
उदाहरणम्
'अमृतस्य चन्द्रिकाया ललितायाश्चापि कवितायाः । सुजनस्य च निर्माणं जनयति नहि कस्य संतोषम् ॥'
Acharya Shri Kailassagarsuri Gyanmandir
'सुधायाश्चन्द्रिकायाश्च संजीविन्या महौषधेः । दयादृष्टेच ते राजन्विश्वसंजीवनं गुणः ॥ '
यथा वा-
'मृतस्य लिप्सा कृपणस्य दित्सा विमार्गगायाश्च रुचिः स्वकान्ते । सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ नहि दृष्टपूर्वा ॥' अत्राभावः साधारणो धर्मः ।
३२३
कस्यचित्प्रकृतत्वे दीपकम् । अन्यथा तुल्ययोगितैव । यत्र क्रिया साधारणो धर्मस्तत्र यावतां कर्त्रादिकारकाणां संनिधानं तेषां स्वसजातीयेनान्येन सह तुल्ययोगिता, दीपकं वा ष्टथक्टथग्भवति । औपम्यस्यापि पृथगेव भासमानत्वात् ।
यथा
'सुजनाः परोपकारं शूराः शस्त्रं धनं कृपणाः । कुलवत्यो मन्दाक्षं प्राणात्यय एव मुञ्चन्ति || '
अत्र कर्तृकर्मणोः । एवं वक्ष्यमाणे 'लावण्येन प्रमदा - ' इत्यत्र कर्तृकरणयोः । ' दिवि सूर्य - ' इत्यत्र कर्त्रधिकरणयोः ।
अमुनैव न्यायेनानेकासां क्रियाणामेककारकान्वये कारकदीपकम् ।
यथा—
'वसु दातुं यशो धातुं विधातुमरिमर्दनम् । त्रातुं च मादृशान्राजन्नतीव निपुणो भवान् ॥'
For Private And Personal Use Only
कन् । अमृतस्येति । अत्र ललितत्वविशेषणोक्तेः कवितायाः प्रकृतत्वं बोध्यम् । इदं गुणस्योदाहरणम् । क्रियोदाहरणमाह - सुधाया इति । अत्र राजवर्णनेन दयादृष्टेरेव प्रकृतत्वम् । अभावोदाहरणमाह-- मृतस्येति । विमार्गेति । परपुरुषगामिन्या इत्यर्थः । अत्राह — कस्यचिदिति । प्रकरणादिनेति भावः । कर्त्रादीति । आदि
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
काव्यमाला।
अत्र वृत्तिहीनस्य कस्यचिद्दीनस्य वचने वसुदानवत्राणलक्षणयोः क्रिययोः प्रकृतयोः, अरिमर्दनस्य चाप्रकृतस्य, यशोधानस्य चोभयात्मनः साधारणं कर्तृकारकम् । यथा वा-- 'वासयति हीनसत्त्वानतिसत्त्वानुद्धतान्विवासयति ।
त्रासयति सकलशत्रून्नीतिविदामग्रणीनराधिपतिः ॥' अत्र कस्यचिद्दीनसत्त्वस्य, सत्त्वाधिकमसहमानस्य वा, शत्रुपरिपीडितस्य वा कस्यचिद्राजानं कंचित्प्रत्युक्तौ सामान्यविशेषरूपायामप्रस्तुतप्रशंसायामेकस्याः क्रियायाः प्रकृतायाः इतरयोश्चाप्रकृतयोः साधारणं तत् । यदि तु प्रागुक्तवक्तृभिन्नस्य कस्यचिद्राजस्तोतुर्नीतिमात्रबोधकस्य चेयमुक्तिस्तदा क्रियाणां प्रकृताप्रकृतरूपत्वाभावात्तुल्ययोगितैव । यत्तु
'सहृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् ।
सैव क्रिया बहीषु कारकस्येति दीपकम् ॥' इति लक्षणमुक्त्वा 'स्विद्यति कूणति वेल्लति [विवलति] निमिपति विलोकयति तिर्यक् ।
अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणयाः वधूः शयने ।' इति द्वितीयं दीपकमुदाहृतं काव्यप्रकाशकद्भिः । तत्र विचार्यतेप्रथमार्धगतलक्षणेनैव दीपकद्वयस्यापि संग्रहाहितीयं लक्षणं व्यर्थम् । गुणिनां कारकाणां च गुणक्रियारूपधर्मस्येव क्रियाणामपि कारकरूपधर्मस्य सद्वृत्तेः साम्राज्यात् । न च क्रियाणां प्रकृताप्रकृतात्मताविरहेऽपि शुद्धप्रकृतत्वे शुद्धाप्रकृतत्वेऽपि वा कारकस्य सद्वृत्तेर्दीपकत्वम्, क्रियाभिन्नानां तु प्रकृताप्रकृतात्मतायामेव क्रियादेर्धमस्येति वैलक्षण्याल्लक्षणना कर्मकरणाधिकरणानि ग्राह्याणि । मन्दाक्षं लज्जाम् । वृत्तीति । जीवनेत्यर्थः । पद्यक्रमेणोक्तिक्रममाह-अत्रेति । अप्रस्तुतप्रशंसाया अनेकविधत्वादाह-सामान्येति । पूर्वार्धेन सामान्यतो राजस्तुतिः, उत्तरार्धेन विशेषत इति भावः । एकस्या इति । यदोयोक्तिस्तदीयाया इत्यर्थः । तत्कटकारकम् । नीतिविदामग्रणीरित्युक्तत्वादाह-नीतीति । धर्मस्य क्रियादेः । त्मनां कारकाणाम् । सैव सकृदृत्तिरेव । कूणति संकुचति । वेलात श्लिष्यति । क्रियाभिन्नानामिति । गुणिनां कारकाणां चेत्यर्थः ।
For Private And Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
इयमिति वाच्यम् । कारकतुल्ययोगितोच्छेदापत्तेः सकलालंकारिकसिद्धान्तविरोधापत्तेश्च । लक्षणद्वयस्यानुगतत्वाच्च । तादृशलक्षणद्वयान्यतरवत्त्वस्य लक्षणत्वे गौरवादुपलवप्रसङ्गाच्च । एवं च 'स्विद्यति कूणति - ' इत्याद्युदाहरणमपि न संगच्छते । क्रियाणां शुद्धप्रकृतत्वात् । किंव दीपक तुल्ययोगित्वादौ गम्यमानमौपम्यं जीवातुरिति सर्वेषां संगतम् । न चात्र स्वेदनकुणनादीनामेककारकान्वितानामप्यौपम्यं कविसंरम्भगोचरः । तस्मात्समुच्चयालंकारच्छायात्रोचिता । अस्मदुदीरितानां वसुदानादीनां हीनसत्त्वत्वासनादीनां च राजकर्तृकाणां पद्यद्वयगतानामौपम्यप्रतीतौ सहृदयहृदयमेव प्रमाणमिति न प्रतिवन्दिदानावसरः । यदि तु स्वेदनादीनामौपम्यं प्रतीयत एवेत्याग्रहस्तथापि क्रियाणां शुद्धप्रकृतत्वात्तुल्ययोगिता स्यादपि न तु दीपकमित्यास्तां तावत् । यदपि विमर्शिनीकृतोदाहृतम्"आलिङ्गितुं शशिमुखीं च सुधां च पातुं
,
कीर्ति च साधयितुमर्जयितुं च लक्ष्मीम् । त्वद्भक्तिमद्भुतरसां हृदये च कर्तुं
मन्दादरं जनमहं पशुमेव मन्ये ॥' अत्रालिङ्गनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्ट इति ।" तदपि चिन्त्यम् | आलिङ्गनादीनां क्रियाणां मन्दादरत्वेनैकाश्रयकत्वस्याश्यकत्वेSपि परस्परमेकाश्रयकत्वस्यानावश्यकत्वात् । यः शशिमुखीमालिङ्गितुं
For Private And Personal Use Only
३२९
-
धर्मस्येति । सकृद्वृत्तेर्दा पकत्वमित्यर्थः । उच्छेदापत्तेरिति । त्वद्रीत्या कारकदीपकेनैव तत्र भाव्यमिति भावः । इष्टापत्तावाह -- सकलेति । तत्रापीष्टापत्तावाहलक्षणेति । अनुगमसत्त्वान्नायं दोषोऽत आह - तादृशेति । नन्वगत्या गौरवस्वी - कारोऽत आह- उपप्लवेति । प्रागुक्तरीत्यान्यतमवत्त्वेन सर्वेषामैक्ये उपमायुच्छेदापतेरित्यर्थः । एवं च उक्तभेदानङ्गीकारे च । प्रकृताप्रकृतत्वे एव तदङ्गीकारादाह-क्रियाणामिति । कविसंरम्भगोचर इति । केवलं तादृशनायिका स्वभाववर्णनस्यैव तत्त्वादिति भावः । चकाराभावादाह - छायेति । अत्र स्विद्यतोत्यादौ । नन्वेवं त्वदुदाहरणेऽप्यौपम्ये तदविषयत्वात्कथमेतदुदाहरणत्वमत आह- अस्मदिति । आलिङ्गितुमिति । ईश्वरं प्रति भक्तोक्तिः । इदं सर्वे कर्तुं यो मन्दादरस्तं जनमहं पशुमेव मन्ये इत्यर्थः । आवश्यकत्वेऽपीति । मन्दादरत्वस्य सर्वत्र विशेषणत्वादिति
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६
काव्यमाला।
यश्च सुधां पातुं योऽपि कीर्ति साधयितुं यश्च लक्ष्मीमर्जयितुं यश्चापि त्वद्भक्तिं कर्तुं मन्दादरस्तं सर्वमपि जनं पशुं मन्ये इति तुमुन्नन्तानां भिनकर्तृत्वेऽप्युपपत्तेरेककारकान्वयकृतं क्रियाणामौपम्यं चमत्कारीति न शक्यते वक्तुम् । किं तु शशिमुखीसुधाकीर्तिलक्ष्मीत्वद्भक्तीनां बिम्बप्रतिबिम्बभावकतम् । नापि चात्रैककर्तृत्वे काचिदर्थस्यास्ति परिपुष्टिः । प्रत्युत प्रातिकूल्यम् । सर्वेषां पशुत्वोक्त्यपेक्षया सकलतादृशक्रियाकरणमन्दादरस्यैकस्य पशुत्वोक्तेररमणीयत्वात् । यदि तु विमर्शिनीकारोक्तिवश्यं समर्थनीयेत्याग्रहस्तदेत्थं समर्थ्यताम्---क्रियाणां कर्तुरेकत्वाभावेऽपि कर्तृतावच्छेदकस्य मन्दादरत्वस्यैक्यात्तस्यैव च परम्परासंबन्धेनानेकक्रि. यासाधारणधर्मस्य सद्वृत्तिरस्तीति न दोषः । कारकस्येव कारकविभाजकोपाध्यवच्छेदकस्यापि सकृद्दृत्तेः कारकदीपकत्वेन परिभाषितुं शक्यत्वात् । कारकसकद्वत्तेस्त्वस्माभिरुक्तमेवोदाहरणमनुसतव्यम् ।
अत्रेदं बोध्यम्-तुल्ययोगितातो दीपकं न पृथग्भावमर्हति । धर्मसकृत्तिमूलाया विच्छित्तेरविशेषात् । विच्छित्तिवैलक्षण्यस्यैवालंकारविभागहेतुत्वात् । न च धर्मस्य सद्वृत्तेरविशेषेऽपि धर्मिणां प्रकृतत्वाप्रकृतत्वाभ्यां प्रताप्रकतत्वेन च तुल्ययोगितायां दीपकस्य विशेष इति वाच्यम् । तवापि तुल्ययोगितायां धर्मिणां केवलप्रकृतत्वस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकारद्वैतापत्तेः । श्लेषेऽपि द्वैतापत्तेश्च । सर्वेषामप्यलंकाराणां प्रभेदवैलक्षण्याद्वैलक्षण्यापत्तेश्च । न च दीपके वास्तवमौपम्यं गम्यम् । उपमानोपमेययोः प्रकृताप्रकृतरूपयोस्तत्र सत्त्वात् । तुल्ययोगितायां च वैवक्षिकम् । उपमानोपमेयस्वरूपाभावात् । अतो वैलक्षण्यमिति वाच्यम् । उपमेयोपमानत्वयोः प्रताप्रकृतरूपत्वे मानाभावात् । 'खमिव जलं जलमिव खम्' इत्याद्युपमेयोपमायां प्रतीपे भावः । नन्वेवमपि कारकस्य सकृद्वत्तेरभावात्कथं तत्त्वमत आह-कारकस्येवेति । कारकशब्द उभयपर इति भावः । तहि कारकदीपकस्य किमुदाहरणमत आह-कारकेति । क्रमेणाह-प्रकृतत्वेति । न केवलमत्रैव दोषोऽपि वन्यत्रापीत्याह--श्लेषेऽपीति । भङ्गाभङ्गभेदादिति भावः । न केवलमेतावदित्याह-सर्वेषामिति ।
For Private And Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३२७ चौपम्यानापत्तेश्च । तस्मात्तुल्ययोगिताया एव त्रैविध्यमुचितम् । प्रकतानामेव धर्मस्य सहदृत्तिः, अप्रकृतानामेव, प्रकृताप्रकतानां चेति । एवं च प्राचीनानां तुल्ययोगितातो दीपकस्य प्रथगलंकारतामाचक्षाणानां दुराग्रहमात्रमिति नव्याः । ___ अमुं चालंकारं धर्मस्य गुणक्रियाद्यात्मकस्यादिमध्यावसानगतत्वेन त्रि. विधमामनन्ति । यथा
'न भाति रमणीयोऽपि वैराग्येण विना यतिः ।
वैदुष्येण विना विप्रो नरलोकस्त्वया विना ॥' 'लावण्येन प्रमदा मदातिरेकेण वारणाधिपतिः । भाति विभवेन भवकान्राजन्भवता च वसुमतीवलयम् ॥' 'आखण्डलेन नाकः कुण्डलिकुलकुण्डलेन पातालम् । नरमण्डन रिपुखण्डन भवता भूमण्डलं विभातितमाम् ॥' एवं तुल्ययोगितायामप्यूह्यम् ।
वस्तुतस्तु धर्मस्यादिमध्यान्तगतत्वेऽपि चमत्कारवैलक्षण्याभावात्रैविध्योक्तिरापातमात्रात् । अन्यथा धर्मस्योपाद्युपमध्योपान्त्यगतत्वे ततोऽपि किंचिन्न्यूनाधिकदेशवृत्तित्वे चानन्तभेदप्रसङ्गात् ।
एवं केवलानुगामिसाधारणधर्मतायां दर्शितं दीपकम् । बिम्बप्रतिबिम्बभावेनाप्येतत्संभवति । यथा
'शीलभारवती कान्ता पुष्पभारवती लता।
अर्थभारवती वाणी भजते कामपि श्रियम् ॥' 'लता कुसुमभारेण शीलभारेण सुन्दरी ।
कविता चार्थभारेण श्रयते कामपि श्रियम् ॥' नापत्तश्चेति । वैपरीत्यादिति भावः । गतत्वेन निष्ठत्वेन । रमणीयोऽपि श्रुताचारसंपन्नोऽपि । यतिः संन्यासी । राजवर्णनमिदम् । एवमग्रेऽपि । मदेति । मदोत्कर्षेणेत्यर्थः । वारणेति । गजेन्द्र इत्यर्थः । भवकानित्यकच्प्रत्ययः । भवानित्यर्थः । 'भगवान्' इत्यपपाठः । कुण्डलीति । सर्पसमूहकुण्डलेनेत्यर्थः । नरेत्यादि संबोधनद्वयम् । आमनन्तीति सूचितामरुचिमाह -वस्तुतस्त्विति । अन्यार्थवैलक्षण्याभावेऽपि भेदाङ्गोकारे। उपादीत्यादि । आदिसमीपेत्याद्यर्थः । उपसंहरति~एवमिति । इद
For Private And Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३२८
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
इदमेव लतादिष्वन्यतमस्य प्राकरणिकत्वे दीपकस्योदाहरणम् । अन्यथा तुल्ययोगितायाः । अत्र बिम्बप्रतिबिम्बतायां न केवलं क्रियारूपमनुगामिमात्रं चमत्कारकारणम्, अपि तु कुसुमादिविम्बप्रतिविम्बकरम्बितम् । इयांस्तु विशेषः — यत्केवलविम्बप्रतिबिम्बभावेनाप्युपमादीनां भवति निष्पत्तिः । यथा 'कोमलातपवाला - ' इत्यादौ । प्रकृते तु न यथा । अनुगामिनं विना धर्मस्वरूपस्यैवानिष्पत्तेः । नहि विम्बप्रतिबिम्बमात्रेण धर्मस्य सकृद्वृत्तिः संभवति । तथा 'मृतस्य लिप्सा -' इत्यादि प्रागुक्ते मृतादीनाम् । कारकदीपके कारकतुल्ययोगितायां च 'वसु दातुं - ' इत्यादौ क्रियाणां धर्मित्वात्तद्विशेषणानां वस्वादीनां च विम्बप्रतिविम्बता बोध्या ।
उत्तरोत्तरस्मिन्पूर्वपूर्वस्योपकारकतायां मालादीपकम् । यथा'आस्वादेन रसो रसेन कविता काव्येन वाणी तया लोकान्तःकरणानुरागरसिकः सभ्यः सभा चामुना । दारिद्र्यानलदह्यमानजगतीपीयूषधाराधर
क्षोणीनाथ तया भवांश्च भवता भूमण्डलं भासते ॥ ' एतच्च प्राचामनुरोधादस्माभिरिहोदाहृतम् । वस्तुतस्त्वेतद्दीपकमेव न शक्यं वक्तुम् । सादृश्यसंपर्काभावात् । किं त्वेकावलीप्रभेद इति वक्ष्यते । अस्मिश्वालंकारद्वये क्रियादेर्धर्मस्यैकरूप्येण धर्मिष्वनन्वयो दोषः । यथा प्रागुक्ते पद्ये रसिकाः सामाजिकास्तैः सभा इति कृते एकवचनान्तैर्धर्मिभिरैकरूप्येणान्वयेऽपि सामाजिकैरनन्वयात् । वचनविपरिणामेनान्वये उपमायामिव स्यादेव दोषः । एवं जहल्लिङ्गनामार्थस्य धर्मस्य सहहृत्तौ लिङ्गभेदोऽपि दोषः । यथा
‘जगति नरजन्म तस्मिन्वैदुष्यं तत्र सत्कविता । कवितायां परिणामो दुष्प्रापः पुण्यहीनेन ||'
मेव उदाहरणद्वयमेव । बिम्बेति । विलक्षणशोभाश्रयणानामित्यादिः । तुल्ययोगितायां चेति । अस्याग्रेऽन्वयः । वस्वादीनां चेति । चेन मृतादीनां समुच्चयः । उपमायामिव स्यादेवेति । तेन धर्मेणोपमा गम्या न स्यादिति भावः । लिङ्गभेदोऽपीति । धर्मिणामिति शेषः । एवमग्रेऽपि । जगतीति । अत्र दुष्प्राप इति
For Private And Personal Use Only
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
३२९
यदि तु 'तपसा नाल्पेन शक्यते लब्धुम्' इत्याख्यातान्तं क्रियते तदा लिङ्गभेदो न दूषणम् । एवमजहल्लिङ्गनामार्थस्य सत्तावपि न दोषः । यथा—'फलमतिशयितं तपस्यायाः' इति चतुर्थचरणनिर्माणे । एवं पुरुषस्यैकरूप्याभावे दोषः । यथा
'दिवि सूर्यो भुवि त्वं च पाताले पन्नगाग्रणीः । दिक्षु दिक्पालवर्गश्च राजपुंगव राजते ॥'
यदि त्वमित्यत्र भवानिति क्रियते तदा न दोषः । एवं कालभेदेऽप्युह्यम् । एतेन -
सङ्गामाङ्गणमागतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरमला कीर्त्या च लोकत्रयम् ॥' इति प्राचीनानां पद्यं दीपकांशेऽपि सदोषमेव ।
इति रसगङ्गाधरे दीपकप्रकरणम् ।
अथ प्रतिवस्तूपमा
तत्र तावत्सादृश्यस्य यत्र चमत्कारिता तत्रोपमेत्युक्तम् । तस्यां च साधारणधर्मस्य सर्वेऽपि प्रकारा यथासंभव निरूपिताः । सादृश्योपस्कृतस्य वस्त्वन्तरस्य चमत्कारितायां भेदाभेदान्यतरप्रधाना अन्येऽलंकाराश्च । तेष्वपि साधारणधर्माणां यथावसरं यथासंभवं च स्थितिः प्रदर्शितैव । इदानीं वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मोत्थापितावाक्यार्थगता प्रतिवस्तूपमा निरूप्यते । न चास्या वाक्यार्थगतत्वेनैवोपमातो भेद इति भ्रमित
नामार्थो धर्मः । स च जहलिङ्ग: । तस्य सर्वलिङ्गत्वात् । न दूषणमिति । तस्य तत्रान्वय संभवादिति भावः । एवमग्रेऽपि बोध्यम् । एवमुक्तप्रकारेण । एवं लिङ्गभेददोघवत् । एवमुक्तप्रकारेण । अन्यांशेऽपि दोषस्य प्रागुक्तत्वादाह - अपीति ॥ इति रसगङ्गाधर मर्मप्रकाशे दीपकम् ॥
प्रतिवस्तूपमां निरूपयति — अथेति । अथात्र विशेषं वक्तुं प्रागुक्तं सर्व संग्रहेणानुवदति - तत्रेति । निरूपणीयायां तस्यामित्यर्थः । अलंकाराश्चेति । निरूपिता
४२
For Private And Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३०
काव्यमाला ।
व्यम् । 'दिवि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि' इत्यादौ वाक्याथेऽप्युपमायाः संभवात् । अत एव भिन्नशब्दोपात्तैकधर्मकत्वेनापि न वैलक्षण्यं वक्तुं शक्यम् । प्रकृते भातिभ्राजतिभ्यां धर्मस्यैकस्यैव प्रतितपत्तेः । तस्माल्लक्षणानुसारेणालंकारान्तरेभ्यो लक्षण्यमस्या बोध्यम् । अथ किमस्या लक्षणम्'वाक्यार्थगतोपमात्वम्' इति चेत्, प्रागुक्तवाक्यार्थोपमायामतिव्याप्तेः । न चार्थत्वन तद्विशेषणीयमिति वाच्यम् । ६. ष्टान्तालंकारे तथाप्यतिप्रसङ्गात् । वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकत्वेनापि तद्विशेषणीयमिति चेत्, तथापि
'तावत्कोकिल विरसान्यापय दिवसान्वनान्तरे निवसन् ।
यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥' इत्यप्रस्तुतप्रशंसायामतिप्रसङ्गादिति मैवम् । अप्रस्तुतप्रशंसायां वस्तुप्रतिवस्तुभावस्य भिन्नशब्दोपात्तैकप्रतिपाद्यरूपस्यासंभवात् । एवं च
वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकवाक्यार्थयोरार्थमौपम्यं प्रतिवस्तूपमा ।
'आननं मृगशावाझ्या वीक्ष्य लोलालकावृतम् ।
भ्रमद्भमरसंभारं स्मरामि सरसीरुहम् ॥' इत्यत्र स्मरणालंकारेऽतिप्रसङ्गवारणाय वाक्यार्थगतमिति । अत्रौपम्यस्यार्थत्वेऽपि पदार्थगतत्वमेव । न तु वाक्यार्थगतत्वम् । स्मरणस्य तदसंपर्कात् । पदान्तरकृत्यं तूक्तमेव । इत्यनुषज्यते । भिन्नेति । अस्या इत्यादिः । अत एवेत्यस्यार्थमाह-प्रकृत इति । प्रागुक्ते 'दिवि भाति' इत्यादावित्यर्थः । तत वाक्यार्थगतोपमात्वम् । एवमग्रेऽपि । तथापि यथातथाशब्दस्य तद्वाचकस्य सत्त्वात्तत्र दोषाभावेऽपि । तथापि दृष्टान्ते विम्बप्रतिबिम्बभावापनसाधारणधर्मकत्वेन दोषाभावेऽपि । यापय अतिक्रमय । एवं च अप्रस्तुतप्रशंसायास्तेनैव वारणे च । वस्तुप्रतिवस्तुभावापन्नेति । तद्विशेषणानां तापचापादीनां बिम्बप्रतिबिम्बभावे 'तापेन भ्राजते' इत्यादी क्वचित्सत्यपि साक्षापमानोपमेयवृत्तिधर्मो वस्तुप्रतिवस्तुभावापन एव । दृष्टान्ते तु साक्षात्तदृत्तिधर्मस्यापि बिम्बप्रतिबिम्बभाव इति दृष्टान्ताद्विशेषः । अत एव वस्त्वित्यादिना दृष्टान्तवारणम् । एकस्यैव धर्मस्य पृथक्छब्दाभ्यामुपादानं वस्तुप्रतिवस्तुभावः । 'दिवि भाति यथा भानुस्तथा त्वं भासि वै भुवि' इत्यादी वाक्यार्थोपमायामतिव्याप्तिवारणायार्थमिति । तद्ध्वनयन्वक्ष्यति-पदान्तरेति । स्मरणस्य तदसंपादिति । यथा वाक्यार्थोप
For Private And Personal Use Only
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३३१
उदाहरणम्'आपद्गतः खलु महाशयचक्रवर्ती
विस्तारयत्यकृतपूर्वमुदारभावम् । कालागुरुर्दहनमध्यगतः समन्ता
ल्लोकोत्तरं परिमलं प्रकटीकरोति ॥' अत्र विस्तारप्रकटने वस्तुत ऐकरूप्येणाभिमते । यथा वा'विश्वाभिरामगुणगौरवगुम्फितानां
रोपोऽपि निर्मलधियां रमणीय एव । लोकप्टणैः परिमलैः परिपूरितस्य
कालागुरोः कठिनतापि नितान्तरम्या ॥'
मायां गगनाधिकरणकभानुकटकशोभा विशिष्टभूम्यधिकरणकत्वत्कर्तुकशोभेति बोधः । वैशिष्टयनियामकसंबन्धश्च स्वकर्तृसदृशकर्तृकत्वमेव । संबन्धविशेषतात्पर्यग्राहको च यथातथाशब्दौ । नैवं प्रकृते स्मरणान्तर्भावेणोपमानोपमेयभावः । किं तु तादृशपद्मसदृशं तादृशमाननमित्येव । न च वाक्यार्थीपमायां तादृशशोभाश्रयभानुसदृश इंदृशशोभाश्रयस्त्वमिति बोधः । क्रियाविशेषणस्य प्रथमान्तार्थस्योपमानवेनान्वयायोगात् । प्रतिवस्तू. पमायां तु तादृशसंबन्धद्योतकपदाभावाद्गम्यतेवौपम्यस्येति विशेषः । यद्वा वाक्यार्थोपमायां तादृशसंबन्धोऽपि यथातथापदद्योत्यत्वात्प्रकार एव । 'यत्र वाक्यद्वयगतानां पदार्थानां सर्वेषां परस्परसाम्यं तत्र प्रतिवस्तूपमा' इति शरदागमकृतः । आपढ़त इति । अत्रोदाहरणे आपद्गत: सत्पुरुषोऽपूर्वोदार्यवान् स्वकीर्तित्वादित्यर्थविशेषरूपे न कालागरोदृष्टान्तता । यथा पर्वत एतदहिमान् एतद्भूमात् इत्यत्र महानसस्य । तस्माकालागुरुरुपदृष्टान्तेन तत्तिसामान्यधर्मावच्छिन्नयोर्व्याप्तिसिद्धौ ‘यत्सामान्ययोव्याप्तिस्तद्विशेपयोः' इति न्यायेन पूर्वोक्तविशेषनियमसिद्धिः । उपमा चापगतः सत्पुरुषो दहनमध्यगतकालागुरुसदृश इति । साधारणधर्मथ विम्बप्रतिविम्बभावापन्नापर्वोदार्यलोकोत्तरपरिमलविशेषणकं विस्तारणम् । न वस्तुप्रतिवस्तुभावापानम् । एवं वैयधिकरण्येऽपि व्यतिरेक आक्षिप्यते । तत्र च पूर्वोक्तरीत्या एकविशेषेऽपरविशेषस्य दृष्टान्तत्वाभावात्तद्वत्तिसामान्यावच्छिन्नव्यतिरेक आक्षिप्यते । सिद्धे च तस्मिस्तद्विपरीतदृष्टान्तेन तादृशमा. मान्यावच्छिन्नान्वयनियमसिद्धौ यत्सामान्ययोरिति न्यायेन तादृशविशेषावच्छिन्नकाव्योतान्वयनियमसिद्धिरिति बोध्यम् । विश्वाभिरामेति । जगद्रमणीयेत्यर्थः । गुम्फि
For Private And Personal Use Only
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३२
काव्यमाला ।
वैधयेणाप्येषा संभवति'वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः ।
नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥ यथा वा-- 'गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम् । अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ।' अत्र शाब्देन दृष्टान्तेन तद्गतः सामान्यावच्छिन्नव्यतिरेकसहचार आक्षिप्यते । तेन च सामान्यावच्छिन्नान्वयनियमसिद्धिद्वारा प्रकृतो विशेषावच्छिन्नान्वयनियमः सिध्यतीति प्रायशः सर्वत्र वैधयें स्थितिः । एवमन्वयेन प्रतिवस्तूपमायामपि नियमविशेषस्य प्रकृतवाक्यार्थत्वेऽन्वयदृष्टान्तेन सामान्यान्वयनियमसिद्विद्वारा तत्सिद्धिः । नियमविशेषरहितकेवलार्थमात्रस्य प्रकृतत्वे त्वप्रकृतवाक्यार्थनिरूपितमौपम्यमात्रं गम्यम् । नतु नियमः । अप्रयोजकत्वात् । यथा 'भैरभ्रे भासते चन्द्रो भुवि भाति भवान्बुधैः' इत्यादौ । __ननु कथमस्मिन्नलंकारे सर्वत्रौपम्यं गम्यमित्युच्यते । यावता प्रागुपदर्शितायां वैधर्म्यप्रतिवस्तूपमायां वाक्यार्थयोरौपम्यस्य बाधात् । नहि पचतिनपचतीति वाक्यार्थयोः पाकक्रियामात्रसाम्यादौपम्यं गम्यते । निषेधप्रतियोगित्वेनोत्तरवाक्याथै तस्या अप्ररोहादिति चेत्, न । प्रकृतवाक्यार्थाक्षिप्तस्य स्ववैपरीत्यस्यैवौपम्याश्रयत्वात् । न च वाक्यार्थयोरौपम्यमिति यदुक्तं तत्कथं संगच्छतामिति वाक्यवेद्यस्यैव प्रकृते वाक्यार्थत्वेनेष्टत्वात् । तथा हि
'तत्त्वं किमपि काव्यानां जानाति विरलो भुवि ।
मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् ॥' तानां रचितानाम् । लोकंपृणोकपूरकैः । वंशभव इति । महिमाभावव्याप्यतुम्धीफलरहितवीणादण्डसदृशः सङ्गविशेषाभावव्याप्यपूज्यत्वाभाववान्पुरुष इत्युपमाकारोऽत्र बोध्यः । एवमग्रेऽपि । अत्र उदाहरणद्वये । प्रतिपादितमिदं सर्वमनुपदमेव । भैनक्षत्रः । वाक्यार्थयोविधिनिषेधयोः । नह्येत्यस्य एवमिति शेषः । वेद्यस्यैवेति । यथाकथंचिद्वाक्यजन्यप्रतोतिविषयस्यैवेत्यर्थः । तत्त्वमिति । अत्रापि मधुव्रता तिरिक्तज्ञानाविषय
For Private And Personal Use Only
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
३३३
अत्र विरलो जानातीति विधिमुखोऽपि प्रकृतवाक्यार्थः पुरुषविशेषं विना न सर्वे जानन्तीत्यर्थविशेषमादायैव पर्यवसितो भवतीति निषेधरूपवाक्यार्थस्य तादृशेनैव द्वितीयवाक्यार्थेन सह गम्यते सादृश्यं स्फुटमेव । यत्र तु 'वंशभवः' इत्यादौ प्रागुदाहृते प्रकृतवाक्यार्थो विधिरूपः सङ्गविशेषहेतुकत्वस्य पूजनादौ विधेयत्वादवसीयते तत्रापि हेतुतावटकव्यतिरेकस्य गुणतया प्रतीयमानस्योपम्यं निर्वाधमिति न दोषः । इयं च वाक्यार्थयोः सामान्यविशेषभावानापन्नयोर्भवति । तत्रैौपम्यस्य गम्यत्वात् । सामान्यविशेषयोस्त्वौपम्याप्रतीतेः समर्थ्यसमर्थकयोरर्थान्तरन्यासो वक्ष्यते ।
यत्तु कुवलयानन्दकृता वैधर्म्यमुदाहृतम् -
Acharya Shri Kailassagarsuri Gyanmandir
'विद्वानेव हि जानाति विद्वज्जनपरिश्रमम् ।
नहि वन्ध्या विजानाति गुर्वी प्रसववेदनाम् ॥' 'यदि सन्ति गुणाः पुंसां विकसन्त्येव ते स्वयम् । नहि कस्तूरिकामोदः शपथेन विभाव्यते ||' इति ।
तत्र 'विद्वानेव हि जानाति' इति पद्यं भवतु नाम यथाकथंचिद्वैध
तत्त्वकमकरन्दसदृशं साधारणसकलपुरुषज्ञानाविषयतत्त्वककाव्यमित्युपमाकारो बोध्यः । इयं च प्रतिवस्तूपमा च । यथाकथंचिद्वैधर्म्यस्येति । अत्रेदं चिन्त्यम् - यद्यपि 'विद्वानेव - ' इत्यस्य एवकारबलेन अविद्वान जानातीत्यप्यर्थः । तस्य चोत्तरवाक्यार्थः सुधर्मा एव । तथापि भूतल एवं वन्ध्यापुत्र इत्यादिप्रयोगवारणाय भावान्वयस्यापि विवक्षितत्वमस्त्येवेति न दोषः । नहि वन्ध्येत्यनेनाक्षिप्तस्य प्रसवित्र्येव जानातीत्यस्य वाक्यार्थस्योपमानत्वेन विवक्षणाद्वैधर्म्य बोध्यम् । आक्षिप्तव्यतिरेकसजातीयार्थनिबन्धने वयस्यैवोपात्तस्वस्वव्यतिरकयोः स्वव्यतिरेकसजातीयार्थस्यैव निबन्धने तदाक्षिप्ततयतिरेकेणोपात्तस्योपमाया गम्यत्वेऽपि तत्त्वौचित्यात् । तत्राप्युपात्तभावरूपार्थस्य नहि बन्ध्येत्याक्षिप्तेनोपमाप्रतीतेः सत्त्वात् । यदि सन्तीत्यत्रापि गुणाः स्वयमेव प्रकाशन्ते इति भावान्वयविधर्मभूते कस्तूरिकामोद : शपथेन न ज्ञायते इति वाक्यार्थस्तदाक्षिप्तेन स्वयमेव प्रकाशन्त इति वाक्यार्थेन भावान्वयवाक्यार्थ एवोपम्यं बोध्यम् । यद्वा यदि सन्तीत्यत्र एवकारस्य क्रियासमभिव्याहतत्वादत्यन्तायोगव्यवच्छेद एवार्थः । परतो न प्रकाशन्त इत्येतदाक्षेपलभ्यमेत्र । तत्र हि द्वितीयार्धेन स्वतः प्रकाशन्त एवेत्येतत्समानजातीगार्थवर्णनम् । किं तु परतो नेत्येतत्समानजातीयस्यैव । यत्तु शपथेन न प्रकाशन्ते किं तु
For Private And Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४
काव्यमाला।
य॑स्योदाहरणम्, 'यदि सन्ति' इति तु न युक्तम् । वैधोदाहरणं हि प्रस्तुतधर्मिविशेषोपारूढार्थदााथ स्वाक्षिप्तस्वव्यतिरेकसमानजातीयस्य धर्म्यन्तरारूढस्याप्रकृतार्थस्य कथनम् । प्रकृते च यदि सन्ति तदा स्वयमेव प्रकाशन्त इत्यर्थस्य प्रस्तुतस्य व्यतिरेकस्तु असन्त उपायान्तरेणापि न प्रकाशन्त इति । नह्यत्र द्वितीयाधैन तत्सजातीयोऽर्थी निबध्यते । निवध्यते च स्वयं प्रकाशन्ते, न परेणेत्यस्य प्रस्तुतस्यैव सजातीयः शपथेन न विभाव्यते, किं तु स्वयमेवेति प्रकृतार्थानुरूपतयैव पर्यवसानात् । नहि वैधये प्रकृतानुरूप्यं जातुचिवटते । व्याघातात् । तस्मात्साधयेणेवेदमुदाहरणं संगतम्, न वैध\ण । न चोपायान्तरनिवृत्त्यघटितप्रस्तुतवाक्यार्थेन कथं नाम तद्वटित उत्तरवाक्यार्थः साधर्म्यमहतीति वाच्यम् । स्वयमित्यत्रासष्टेन एवकारेणैवोपायान्तरनिवृत्तेः प्रस्तुतवाक्याथें निवेशितत्वात् । अत्यन्तायोगव्यवच्छेदस्योत्तरवाक्यार्थाननुगृहीतत्वेन क्रियासमभिव्याहारायोगात् ।
'सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् ।
आमोदो नहि कस्तूर्याः शपथेनानुभाव्यते ॥' अत्र स्वतोऽनुभूयत इत्यत्र पर्यवसितेनोत्तरवाक्यार्थेन पूर्ववाक्यार्थस्य यथा साधर्म्यमेव, न वैधयं, तथा 'यदि सन्ति-' इति पद्येऽपीति नञ्मात्रश्रवणादेव वैधय जगदे । न तु निपुणतरं निरीक्षितमायुष्मता । यदि तु 'यदि सन्ति-' इति पद्यस्य 'नहि कस्तूरिका-' इत्याद्युत्तरार्ध स्वत एवेत्यर्थवर्णनं तत्र स्वत एवेत्यंशो न वाच्यः । किं त्वाक्षेपलभ्यः । आक्षेपेण च 'मार्मिकः को मरन्दानाम्' इति भवदुदाहृतेऽपि मधुव्रतं विना को जानाति मधुव्रत एव जानातीत्यर्थप्रतीतेयधिकरणोदाहरणलं न स्यात् । अस्तु वा एक्कारापकर्षणेन न परत इति प्रस्तुतवाक्यार्थः । तथापि व्यतिरेकसजातीयार्थनिबन्धनादन्वयसजातीयार्थानिवन्धनाच्च विद्वानेवेत्यादिवदस्यापि वैधोदाहरणपरता । न त्वाक्षिप्तव्यतिरेकसजातीयार्था निबन्धन एव वैधर्योदाहरणत्वमिति राजाज्ञास्ति । तस्मायुक्तमित्यन्तं सर्वमयुक्तमिति बोध्यम् । अयुक्तत्वमेवोपपादयति--वैधम्यादाहरणं हीति । जातुचित् कदाचित् । नन्वेवकारस्यात्यन्तायोगव्यवच्छेदार्थकत्वेन कथमाकर्षणमत आह-अत्यन्तोति । साधर्येणैवेदमुदाहरणमित्युक्तदृष्टान्तपूर्व टयति-सन्त इति । विद्यमाना इत्यर्थः । कथं तर्हि तैस्तथोक्तमत आह-नमिति । जगदे कथितवान् । आयुष्मता
For Private And Personal Use Only
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
दूरीकृत्य 'वाचा वाचस्पतेयोनि विलसन्ति न वल्लयः' इति क्रियते तदा वैधयं प्रकृतविपरीतार्थघटनाद्युक्तम् । अथ'खलास्तु कुशलाः स्वीयहितप्रत्यूहकर्मणि ।
निपुणाः फणिनः प्राणानपहत निरागसाम् ॥' इत्यत्रासंष्ठुलवाक्यार्थेऽतिप्रसङ्गः । कुशलनिपुणपदाभ्यामेकस्यैव धर्मस्योपादानात् । न चात्रौपम्यं न गम्यमिति वक्तुं शक्यम् । निपुणकुशलपदाभ्यां प्रतिपादितेन शुद्धसामान्यात्मना धर्मेण खलफणिनोरौपम्यस्य प्रत्ययात् । नापि धर्मिणोरौपम्येऽपि विशिष्टवाक्यार्थयोस्तत्र तथेति वाच्यम् । अवयवद्वारा तयोरपि तस्य तथात्वात् । स्वभावसिद्धत्वेनानुपात्तधर्मेणौपम्यस्य गम्यत्वाच्चेति चेत्, मैवम् । साधारणधर्मस्य वस्तुप्रतिवस्तु. भावोत्या तदितरपदार्थानां बिम्बप्रतिविम्बभावो घटनाया आनुरूप्यं च विवक्षितम् । प्रकृते च खल फणिनोः प्राणहितयोश्च सत्यपि बिम्बप्रतिबिम्बभावे हरणप्रत्यूहकरणयोर्नाशप्रागभावपर्यवसितयोरनानुरूप्यान्न बिम्बप्रतिबिम्बभाव इति न दोपः । यद्वा अस्त्वत्र प्रतिवस्तूपमा । परं त्वसंष्टुलतारूपस्य वाक्यार्थसामान्यदोषस्य सत्वादचमत्कारिणी । दुष्टोपमादिवत् । वाक्याथों हि गाढतरव्युत्पत्तिनिपुणीकृतान्तःकरणैर्नानाविधपदार्थरचनापरिवृत्तिसमथरेव कविभी रचितः कामपि कमनीयतामाधत्ते । नेतरः।
अप्पदीक्षितेन । वाचेति । बृहस्पतेरुक्त्यापीत्यर्थः । स्वसिद्धान्ते आक्षिपति-अथेति । स्वीयहितेति । स्वायानां यानि हितानि तत्प्रतिबन्धकर्मणीत्यर्थः । नापीत्यस्य वाच्यमित्यत्रान्वयः । तत्र तथेति । औपम्यं गम्यमित्यर्थः । तयोरपि विशिष्टवाक्यार्थयोरपि । तस्येति । औपम्यस्य गम्यत्वादित्यर्थः । स्वभावसिद्धत्वेनानुपात्तेति । एतद्रूपानुपात्तधर्मेणेत्यर्थः । तादृशौपम्यस्यैकधर्मस्य संबन्धिभेदेन द्विरूपादानरूपवस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकत्वाभावान्न प्रतिवस्तूपमोपयोगितेति चिन्त्यमिदम् । विवक्षितं अत्रेति शेषः । ननु तयोरभावत्वेनानुरूप्यादस्त्येव बिम्बप्रतिबिम्बमा. वोऽत आह--यद्वेति। घटना अननुरूपेति भावः । असंष्ठुलतारूपस्यति । पूर्ववाक्यार्थघटकहितप्रत्यूहकर्मणीति नामार्थविभक्त्यादीनामुत्तरवाक्यार्थघटके प्राणा
For Private And Personal Use Only
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३३६
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
तथा हि
'उपासनामेत्य पितुः स्म रज्यते दिने दिने सावसरेषु बन्दिनाम् ।
पठत्सु तेषु प्रतिभूपतीनलं विनिद्ररोमाजनि शृण्वती नलम् ॥' अस्मिन्नैषधीयपद्ये ( १ । ३४) द्वयोः क्रिययोरुद्देश्यविधेयभावेन गुणप्रधानभावमकुर्वता बन्दिनः षष्ठयन्ततया सप्तम्यन्ततया च द्विः परामृशता कविना वाक्यार्थः क्रमेलकवदसंष्टुलतां प्रापितः । यदि च स एव वाक्यार्थः प्रकारान्तरेण निर्मीयते
'उपासनार्थ पितुरागतापि सा निविष्टचित्ता वचनेषु बन्दिनाम् । प्रशंसतां द्वारि महीपतीनलं विनिद्ररोमाजनि शृण्वती नलम् ॥' इति । तदा ललनाङ्गसंनिवेश इव कीदृशीं कमनीयतामावहेदिति स - हृदयैराकलनीयम् ।
एवम् —
'तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति ।
स्थितेरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ॥' इति कुवलयानन्दोदाहृते आलुवन्दारुस्तोत्रपद्ये वीक्षणमात्रस्यावर्जनीयस्य प्रतिषेधानर्हत्वादिच्छापूर्वक वीक्षणप्रतिषेधस्य च ' सविशेषणे हि - ' इति न्यायेनेच्छाप्रतिषेधधर्मपर्यवसायितया यद्यपि धर्मैक्यं सुसंपादम् । अस्तु वा दृष्टान्तालंकारः । तथापि पादपङ्कजे निवेशितात्मेत्याधारसप्तम्याः स्थितेऽरविन्दे इति सतिसप्तमी वस्तुप्रतिवस्तुविम्बप्रतिविम्वभावयोरन्यतरेणापि प्रकारेण नानुरूपा, इत्यसंष्टुलता स्थितैव । 'स्थितोऽरविन्दे मकरन्दनिर्भरे' इति चेत्क्रियते तदा तु रमणीयम् ।
नपहर्तुमित्यत्राभावादेः संष्टुलतेति भावः । क्रमेलकवत् उवत् । तवेति । शिवं प्रति भक्तोक्तिः । इक्षुरकं ‘तालमखाणा' इति प्रसिद्धौषधीपुष्पम् । काशपुष्पमिति कश्चित् । गोक्षुरमित्यन्यः । आलुवन्दारुस्तोत्रेति । अवर्जनीयेति । अनिष्टेऽपि स्वसामग्री - वशाज्जायमानस्येत्यर्थः । धातोरिच्छापूर्वकवीक्षणे लक्षणया आह - इच्छापूर्वकेति । सुसंपादमिति । तथा च प्रतिवस्तूपमोदाहरणत्वोक्तिस्तेषां संगतेति भावः । उक्तप्रकारेण धर्मैक्यानादरे त्वाह- अस्तु बेति । इति सतिसप्तमीति । इति सत्सप्तमीत्यर्थः । रमणीयमिति । तत्राप्याधारसप्तमीसंपत्तेरिति भावः । घटनाया
For Private And Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
Acharya Shri Kailassagarsuri Gyanmandir
तस्मादेवंजातीयकेप्वलंकारेषु पूर्ववाक्यार्थघटकनामार्थानुरूपैर्नामार्थैस्तकविभक्त्यनुरूपाभिर्विभक्तिभिस्तदन्वयारूपेण चान्वयेन भाव्यमिति महृदयहृदयं प्रष्टव्यम् ।
'वहति विपरान्पटी र जन्मा शिरसि मषीपटलं दधाति दीपः । विधुरपि भजतेतरां कलङ्कं पिशुनजनं खलु विभ्रति क्षितीन्द्राः ॥ ' अत्र वहनाधानभजनभरणानां वस्तुत ऐकरूप्यात्प्रतिवस्तूपमेयं माला
रूपा ।
इति रसगङ्गाधरे प्रतिवस्तूपमाप्रकरणम् ।
३३७
'सत्पुरुषः खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त एव ।
आराधितः कथय केन करैरुदारेरिन्दुर्विकासयाते कैरविणीकुलानि ॥' अत्रानन्दनविकासयोरपि विम्बप्रतिबिम्बभावः ।
अथ दृष्टान्तालंकारः
प्रकृतवाक्यार्थघटकानामुपमादीनां साधारणधर्मस्य च विम्बम
तिविम्वभावे दृष्टान्तः ।
तदुक्तम् — 'दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिविम्वनम्' इति ।
उदाहरणम्---
-
For Private And Personal Use Only
अस्य चालंकारस्य प्रतिवस्तूपमया भेदकमेतदेव यत्तस्यां धर्मो न प्रतिविम्बितः, किं तु शुद्धसामान्यात्मनैव स्थितः । इह तु प्रतिविम्बितः ।
विमर्शिनीकारस्तु – “प्रतिवस्तूपमायामकृतार्थपादानं तेन सह प्रकृतार्थस्य सादृश्यप्रतिपत्त्यर्थम् । दृष्टान्ते तु तदुपादानमेतादृशोऽर्थोऽन्यआनुरूप्यं सर्वथा अपेक्षितमित्युपसंहरति-तस्मादिति । मालारूपप्रतिवस्तूपमामुदाहरति - वहतीति । पटीरजन्मेति । मालारूपेति । पटीरजन्मेव दीप इत्यादिप्रतीतेरित्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे प्रतिवस्तूपमाप्रकरणम् ॥
―
दृष्टान्तं निरूपयति- अथेति । बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मादिकं वाक्यार्थयोरार्थमौपम्यं दृन्त इति निष्कर्षो बोध्यः । करैः किरणैः । कुलानि समूहान् । अपिना इन्दुपुरुषादिसंग्रहः । प्रतिबिम्बित इत्यस्य इतीति शेषः । तदुपेति । अप्रकृता
४३
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
त्रापि स्थित इति प्रकृतार्थप्रतीतेविशदीकरणमात्रार्थम् । न तु साहश्यप्रतिपत्त्यर्थम् । अतः सादृश्यप्रतीत्यप्रतीतिभ्यामनयोरलंकारयोर्भेदः' इत्याह । तन्न । प्रकृताप्रकृतवाक्यार्थयोरुपादानस्यालंकारद्वयेऽप्यविशिष्टत्वादेकत्र सादृश्यप्रत्ययः, अन्यत्र नेत्यस्याज्ञानमात्रत्वात् । वैपरीत्यस्यापि सुवचत्वाच्च । एतादृशोऽर्थोऽन्यत्रापि स्थित इति प्रकृतार्थप्रतीतिविशदीकरणस्य त्वदभिहितस्य सादृशापरपर्यायत्वाच्च । अत एव प्रायशः सत्कविनिर्मितेषु लक्ष्येषु प्रकृतवाक्यार्थवटकप्रकृतिप्रत्ययाथानुरूपप्रकृतिप्रत्ययार्थघटित एवाप्रतवाक्यार्थो दृश्यते । न च भवदुतमपि वैलक्षण्यं नानयोः पृथगलंकारतायां प्रयोजकम् । औपम्याख्यसामान्यलक्षणाक्रान्ततया उपमाभेदवदेकालंकारभेदत्वापत्तेरिति वाच्यम् । तवापि दीपकतुल्ययोगितयोरेकभेदत्वापत्तेः । इष्टापत्तिरिति चेत्सवात्रापि दृश्यताम् । प्राचीनविभागस्य भवतैव शिथिलीकृतत्वात् । औपम्यरूपसामान्यलक्षणसत्वाद्वहूनामलंकाराणामुपमावान्तरभेदत्वापत्त्या सकलालंकारिकसिद्धान्तभङ्गप्रसङ्गाच्च । 'अब्धिलवित एव वानरभटैः-' इत्यादिमुरारिपद्ये यद्यपि ज्ञानार्थ एको धर्मो निर्दिष्टस्तथापि नैतन्निबन्धनमौपम्यं विवक्षितम् । यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनमिति त्वन्मूलग्रन्थविरोधाच्च । न च यन्निबन्धनं च विवक्षितमित्यत्रार्थालंकारत्वं विशेष्यं शेषपूरणेन योज्यम्, न पुनरौपथोपादानमित्यर्थः । स्थित इति । इत्यस्य विशदीकरणेऽन्वयः । स्पष्टार्थ मात्रपदव्य. वच्छेद्यमाह-न त्विति । अभ्युपेत्याप्याह-वैपरीत्येति । इष्टावत्तावाह--एतादृश इति । अतएव उक्तरीत्या दृष्टान्ते मादृश्यप्रतीतेरेव । कचित्तदभावेऽपि न क्षतिरि. त्याह-प्रायश इति । सदित्यनेनासत्कविव्यावृत्तिः । तथा च तत्र तदभावेऽपि न क्षतिरिति भावः। लक्ष्येष्विति । दृष्टान्तेत्यादिः। भवदुक्तमपीति। धर्मस्य प्रतिबिम्बितत्वाप्रतिबिम्बितत्वकृतमिति भावः । एकालंकारेति । उपमालंकारेत्यर्थः । एकभेदत्वेति । एकालंकारत्वेत्यर्थः । अलंकारभेदो न स्यादिति यावत् । सैव इष्टापत्तिरेव । नन्वेवं प्राचीनविभागोच्छेदापत्तिरत आह-प्राचीनेति । दीपकतुल्ययोगितास्थल इति भावः । एवं प्रतिवन्दीमुक्त्वा दोषमाह - औपम्येति । बहूनां अनन्वयादीनाम् । तत्रापीष्टापत्तावाह-अब्धिरिति । ज्ञानरूपोऽर्थ इत्यर्थः । यद्यप्येकत्र ज्ञानमेकत्र संस्पर्श इति भेदस्तथापि बिम्बप्रतिबिम्बभावनाभेद इति भावः । यन्निवन्धनमिति । अब्धिलङ्घनादिप्रयुक्तमित्यर्थः । औपम्यमित्यस्यानुषङ्गः । त्वन्मूलति । अलं.
For Private And Personal Use Only
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
यथा वा
रसगङ्गाधरः ।
३३९
म्यमिति वाच्यम् । औपम्यं न विवक्षितमित्यत्रैकवारं निष्ठया परामृष्टस्यैव पुनस्तया परामर्शस्य व्युत्पत्तेः । न चैत्रार्थमोदनः पक्वः । यदर्थं च पकः स मैत्रः इत्यादौ द्वितीयपक्वादिशब्दानामव्याहृतशाकादिपरत्वे असंगतेः स्फुटत्वात् । तस्मादस्मदक्तेनैव पथा प्राचीनैर्विहितो ऽलंकारयोरनयोविभागः संगमनीयः । यदि तु न तेषां दाक्षिण्यं तदैकस्यैवालंकारस्य द्वौ भेदौ – प्रतिवस्तूपमा, दृष्टान्तश्च । यच्चानयोः किंचिद्वैलक्षण्यं तत्प्रभेदताया एव साधकम्, नालंकारताया इति सुवचम् |
वैयेणायं यथा-
Acharya Shri Kailassagarsuri Gyanmandir
'जनयन्ति परप्रीति नराः सत्कुलसंभवाः । नहि कारस्करः क्वापि तापनिर्वापणक्षमः ||
इति रसगङ्गाधरे दृष्टान्तप्रकरणम् ।
'तापत्रयं खलु नृणां हृदि तावदेव
यावन्न ते वलति देव कृपाकटाक्षः । प्राचीललाटपरिचुम्बिनि भानुबिम्बे पङ्केरुहोदरगतानि कुतस्तमांसि ॥' प्रीतिजननतापनिर्वापणाभावयोस्तापत्रयावस्थानतमो दूरीकरणायोश्च वै
धम्येणात्र विम्बप्रतिबिम्बभावः ।
-
अथ निदर्शना
उपात्तयोरर्थयोरार्थाभेद औपम्यपर्यवसायी निदर्शना । अतिशयोक्त्यादीनां ध्वन्यमानरूपकस्य च वारणाय उपात्तयोरिति ।
For Private And Personal Use Only
कार सर्वस्वेत्यर्थः । तया निष्टया । तत्र हेतुमाह---न चैत्रार्थमिति । असंगतेरिति । कव्यभिप्रायाप्रतिपादनादिति भावः । उपसंहरति- तस्मादिति । यथा मार्गेण । तेषां प्राचीनानाम् । एकस्येवेति । उपमारूपस्यैवेत्यर्थः । प्रभेदेति । उपमाप्रभेद - ताया एवेत्यर्थः । परप्रीति परेषां प्रीतिम् । कारस्करः ['कुचला' इति प्रसिद्धो वृक्ष: । ] तापत्रयमाध्यात्मिकादिदुःखत्रयम् । वलति प्रविशति । वैधम्यैणेति । उपपादितमिदमधस्तात् ॥ इति रसगङ्गाधर मर्मप्रकाशे दृष्टान्तप्रकरणम् ॥
I
अथ निदर्शनां लक्षयति--अथेति । औपम्यपर्यवसायी औपम्यमूलः । नन्वतिशयोक्त्यादनार्थद्वयमत आह- ध्वन्यमानेति । न वार्थत्वमर्थसंबन्धित्वम् । तथा च
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www. kobatirth.org काव्यमाला।
३४०
वाच्यरूपवारणाय आर्थ इति । आर्थत्वं च प्राथमिकान्वयबोधाविषयत्वम् । यदि च विशिष्टोपमायां विशेषणयोरभेदः प्रतीयते तदा बिम्बप्रतिबिम्बभावानापन्नत्वमपि प्रधानविशेषणम् । तद्विशेषणानां तु बिम्बप्रतिबिम्बभावो न निवार्यते । इदं च श्रौत्या निदर्शनाया लक्षणम् । आर्थीसाधारणं लक्षणं तु ललितालंकारप्रकरणे वक्ष्यते । उदाहरणम्'त्वामन्तरात्मनि लसन्तमनन्तमज्ञा
स्तीर्थेषु हन्त मदनान्तक शोधयन्तः । विस्मृत्य कण्ठतटमध्यपरिस्फुरन्तं
चिन्तामणि क्षितिरजःसु गवेषयन्ति ॥' अत्र तवान्यत्र परिशोधनं कण्ठस्थस्य चिन्तामणे पांमुप गवेषण चाभिन्नमिति तत्सादृश्यमूला धीः । यथा वा'अन्यैः समानममरैर्जगदन्तरात्म
न्ये चन्द्रशेखर वदन्ति भवन्तमज्ञाः । ते किं न हन्त तुलयन्ति नभो निरन्तं
वातायनोदरगतैर्विवरान्तरालैः ॥' पूर्वत्रैकवाक्यगतः, इह तु भिन्नवाक्यगतः । पूर्वत्र वस्तुमात्रयोरौपम्यमूलोऽभेदः, इह त्वौपम्ययोरौपम्यमूलः म इति विशेषः । एषा वाक्यार्थनिदर्शनेत्युच्यते । विशिष्टार्थयोः प्रकृतकर्मिगतयोराभेदे वाक्यार्थनिदर्शनाया इप्टेः । अस्यां च बटकपदार्थानां विम्वप्रतिविम्वभाव आवश्यकः ।
वाच्यरूपके दोषस्तदवस्थः । अत आह-आर्थत्वं चेति । प्रतीयत इति । तथा च तत्रातिव्याप्तिरिति भावः । प्रधानविशेषणमितिातद्विशेषणानांतु प्रधानविशेषणानां तु । स्वामिति। ईश्वरं प्रति भक्तोक्तिः। एवमग्रेऽपि । कण्ट एव तटं तन्मध्ये लभ्यं तमित्यर्थः । तव शिवस्य । विवरेति । तद्र परन्तरालरित्ययः । एकवाक्यति । क्रिययोरैक्यात् । भिन्नेति । तद्भेदात् । भेदान्तरमाह- पूर्वत्रेति । इह त्वौपम्य
For Private And Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
३४१ पदार्थनिदर्शना यथा-- 'अगण्यैरिन्द्राद्यैरिह परमपुण्यैः परिचितो
जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः । प्रसर्पत्पीयूषाम्बुधिलहरिलीलाविलसितो
ढगन्तस्ते मन्दं मम कलुषरन्दं दलयतु ॥ अत्र दृगन्ताम्बुधिलहरिलीलयोराश्रयभेदाद्भिन्नयोरपि सादृश्यमूलस्तादृप्याभिमानः । आरोपो वा ढगन्ते लहरिलीलायाः ।
यथा वा'पाणौ कृतः पाणिरिलासुतायाः सस्वेदकम्पो रघुनन्दनेन । हिमाम्बुमन्दानिलविह्वलस्य प्रभातपद्मस्य बभार शोभाम् ॥'
अत्र हिमाम्बुजनितविह्वलता हिमकणकीर्णतारूपा वा । तज्जनितविदलता च विधुतिरूपा । एताभ्यां च सस्वेदतासोत्कम्पितत्वयोः प्रतिबिम्बनमिति पूर्वस्मादुदाहरणाद्रेदः । प्रभातपदसांनिध्याच्च पद्मस्येषद्विकासमुद्रणयोः प्रत्ययात्पाणावपि तत्सिद्विः । अस्यां चोपमानोपमेयगतधर्मयोरार्थाभेदप्रतिपत्तिः । अतः पदार्थनिदर्शनोच्यते । बिम्बप्रतिबिम्बभाववस्तूपमानोपमेययोः सविशेषणत्वे भवति, अन्यथा तु न इति विवेकः । ननु वाक्यार्थनिदर्शनायां विशिष्टवाचकशब्दाभ्यां विशेषणयोरप्युपादानात अस्तु नाम उपात्तयोरार्थोऽभेदः । पदार्थनिदर्शनायां तूपमानशोभादेरन्यतरस्यैवोपात्तत्वम्, न द्वयोरिति चेत् शोभाशब्देन शोभात्वेन द्वयोरप्युपात्तत्वात् । नापमानोपमेयतावच्छेदकरूपेणोपात्तत्वं विवक्षितम् येनाव्याप्तिः स्यात् । यहा प्रागुक्तलक्षणं वाक्यार्थनिदर्शनाया योरिति । तज्ज्ञानयोरित्यर्थः । म अभेदः । परिचितोऽनुभृतः । जगदिति । जगदु. पत्तिस्थितिमंहारकारक इत्यर्थः । अत्र दृगन्ताम्वुधीति । दृगन्तसमुद्रलहोर्ये लीले तयोरित्यर्थः । दगन्तलीलाप्रतिपादकशब्दाभावे न तथा दुवंचमत आह-आरोपी वेति । पाणौ कृत इति । सीताविवाहवर्णनम् । श्रीरामचन्द्रेण स्वहस्ते कृतः स्वदकम्पाभ्यां युक्तो भसुताया:सीतायाः पाणिहिमाम्बुमन्दवायुभ्यां विद्वलस्य कमलस्य शोभां दधावित्यर्थः । विधुतिरूपा कम्परूपा। चस्त्वयं । तसिद्धिः ईघद्विकासमुद्रणयोः सिद्धिः । अस्यां च पदार्थनिदर्शनात्वेनोदाहतायां च । शोभादेरिति । आदिना लीलापरिग्रदः । पमेयतावच्छेदकेति । तद्विशेषणतयेत्यर्थः । तथा च विवक्षायामाह-यद्वेति।
For Private And Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२
काव्यमाला।
एव । न पदार्थनिदर्शनायाः । अस्यास्तु उपमानोपमेययोरन्यतरधर्मस्यान्यतरत्रारोपो लक्षणमस्तु । नन्वेवमपि वाक्यार्थनिदर्शनायां रूपकध्वनिना, पदानिदर्शनायां च निगीर्याध्यवसानरूपयातिशयोक्त्या गतार्थतेति चेत्, न । वाक्यार्थनिदर्शनायां रूपकस्य गुणीभूतत्वेन तवनित्वायोगात् । अन्यथा गुणीभूतयोपमया रूपकस्यापि गतार्थतापत्तेः । किं च अस्याश्च शरीरं तादृशपदार्थयोः परस्पराभेदमात्रमुभयत्र विश्रान्तम् । रूपकस्य तूपमेयगत उपमानाभेदः, अतिशयोक्तेश्च । निगरणानिगरणाभ्यां च तयोविशेष इत्यन्यत् । ___ एवं च स्फुटमेवास्या रूपकातिशयोक्तिभ्यां वैलक्षण्यम् । अत एव 'वामन्तरात्मनि-' इति पद्ये गवेषयन्तीत्यत्र गवेषयन्त इत्यनद्य शोधयन्त इत्यत्र शोधयन्तीति विधाने, अर्धयोः पौर्वापर्ये च न सौन्दर्यहानिः । रूपकादौ तूच्यमाने व्यङ्ग्यकक्षोद्देश्यविधेयभावस्यापि वाच्यकसोद्देश्यविधेयभावानुसारितया उपमाने उपमेयाभेदसिद्धावसामञ्जस्यापत्तेरिति सुधीभिराकलनीयम् । अलंकारसर्वस्वकारस्तु
'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥'
अस्यास्तु पदार्थनिदर्शनायास्तु । उपमानोपमेयेति । 'आस्ये पृणेशशाङ्कला' इति भवदुक्तरूपकोदाहरणे इदमतिव्याप्तमिति चिन्न्यम् । रूपकस्य गुणीभूतत्वेनेति । कत्रभेदरूपवाच्यसिद्ध्यङ्गत्वेनेत्यर्थः । तद्धनित्वेति । रूपकल. नित्वेत्यर्थः । द्वितीयशङ्कायां समाधत्ते-किं चेति । अस्याच पदार्थनिदर्शनायाश्च । तादृशेति । उपमानोपमेयेत्यर्थः । अतिशयोक्तेश्चति । उपमेयगत उपमानाभेदः शरीरमित्यर्थः । नन्वेवं रूपकातिशयोक्तयोरेक्यापत्तिगत आह--- निगरणेति । तयोविशेष इति । रूपकातिशयोक्त्योविशेष इत्यर्थः । उपसंहरति-एवं चेति । अस्यां निदर्शनात्वावच्छिन्नायाम् । अत एव उत्तरीत्या ताभ्यां लक्षण्यसत्त्वादेव । अर्धयोः पूर्वोत्तराधयोः । रूपकादो तूच्यमाने इत्यस्य असामजस्यापत्तरित्यनेनान्वयः । आदिना अतिशयोक्तिपरिग्रहः । उच्यमाने इत्यस्य तथेत्यादिः । असामञ्जस्यापत्ती हेतुर्व्यङ्गयेत्यादि तृतीयान्तम् । उपमेयाभेदसिद्धाविति । निदश
For Private And Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
इति पद्यं वाक्यार्थनिदर्शनायामुदाजहार । आह च—'यत्र तु प्रकतवाक्याथै वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदर्शनैव युक्ता' इति । तन्न । वाक्यार्थरूपकस्य दत्तजलाञ्जलित्वापत्तेः । न चेष्टापत्तिः। वाक्यार्थनिदर्शनैव निर्वास्यताम्, स्वीक्रियतां च वाक्यार्थरूपकमिति पर्यनुयोगस्यापि तुल्यत्वात् । युक्तं चैतत् । पदार्थरूपके मुखं चन्द्र इत्यादौ क्लुप्तस्य श्रौतस्याभेदारोपस्य रूपकजीवातुत्वकल्पनाया औचित्यात् । ‘इन्दुशोभा वहत्यास्यं' इत्यादि पदार्थनिदर्शनायामभेदारोपस्याभावात् तज्जीवातुत्वायोगाच्च । रूपके विम्बनं नास्तीति तु शपथमात्रम् । युक्त्यभावात् । अस्मदुक्तोदाहरणे वाक्यार्थनिदर्शनायाः मावकाशत्वाच्च ।
यत्तु तेनैव लक्षणं निर्मितम्-'संभवता असंभवता वा वस्तुसंबन्धेन गम्यमानमौपम्यं निदर्शना' इति । तदपि न। रूपकातिशयोक्त्यादिष्वतिव्यापनात । यत्त्वलंकारसर्वस्वकारानुसारिणा कुवलयानन्दकृतोक्तम् ---- 'वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना ।
यद्दातुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता ॥' इति । तत्तु तन्मतदूषणेनैव निवेदितरहस्यामिति न पुनराकुलीक्रियते । नायां तथाभावे तु बीजं चिन्त्यम् । पर्यनुयोगस्य आक्षेपस्य । कल्पनाया इति । वाक्यार्थरूपकस्थले इति भावः । ननु तस्य निदर्शनाबीजलमेव कुतो न अत आहइन्दुशोभामिति । तज्जीवातुत्वेति । निदर्शनाजीवातुत्वेत्यर्थः । ननु निदर्श. नायां बिम्बप्रतिविम्बभावः, न रूपके इति कथं तेनास्या निरासोऽत आह-रूपके इति । अस्मदुक्तोदेति । त्वामन्तरात्मनीत्यत्रेत्यर्थः । रूपकस्य तत्र विषयाभावात् वाक्यार्थद्वयाभावात् । एवं च रूपकविषयभूतं वाक्यार्थनिदर्शनायां यदुदाहृतं यचोपपादितं तदसंगतम् । तद्विविक्तोदाहरणसंभवादिति भावः । तेनैव अलंकारसर्वस्वकारेणेव । अतिव्यापनादिति । प्रागुक्तरोत्येति भावः । तत्तु तन्मतदूषणेनैवेति । अत्रेदं चिन्त्यम् ---वामन्तरात्मनि लसन्तमिति भवदुदाहृतेऽपि गम्यरूपकेणैव निर्वाहे निदर्शनाया उच्छेदापत्तिः । अन्यथा वाक्यार्थरूपकोच्छेदवद्गम्यवाक्यार्थरूपकोच्छेदापत्तिश्च । न चैवं मुखमिव चन्द्र इति वाच्योपमा, मुखं चन्द्र इति गम्योपमैव स्यादिति रूपकोच्छेद इति वाच्यम् । तत्राभेदप्रतीतिकृतचमत्कारस्यैव सत्त्वात् । सादृश्यकृतस्य तस्याभा
For Private And Personal Use Only
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३४४
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
यदि तु
'त्वत्पादनखरत्नानि यो रञ्जयति यावकैः । इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥'
इति पद्यं निर्मीयते तदा निदर्शना युक्ता । न चास्मदुक्ता वाच्या निदर्शना, इयं तु प्रतीयमानेति वाच्यम् । 'मुखं चन्द्र इव' इति वाच्योपमा, 'मुखं चन्द्र:' इति प्रतीयमाना । न त्वलंकारान्तरम् । इत्यस्यापि सुवचत्वात् । एवं चारोपाध्यवसानमार्गबहिर्भूत आर्थ एवाभेदो निदर्शनाजीवितम् । स च कर्त्राद्यभेदप्रतिपादनद्वारा प्रतिपाद्यते वाक्यार्थनिदर्शनायाम् । अत एव मम्मटभट्टेरुदाहृतम्
'क सूर्यप्रभवो वंशः क चापविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ||' इति ।
नन्वत्र निदर्शना नैव संगच्छते । विषयिण उपादानेऽपि विपयस्यानुपात्तत्वात् । उभयोपादानं हि तत्रावश्यकम् । अतो ललितालंकार उचित इति चेत्, ललितालंकारनिराकरणावसर एवैतद्वक्तमुपपादयिष्यामः ।
परे तु 'त्वत्पादनखरत्नानां -' इत्यत्र दृष्टान्तालंकारमाहुः । तदप्यसत् । बिम्बप्रतिविम्बभावापन्नपदार्थवटितस्य निरपेक्षवाक्यार्थद्वयस्यैव दृष्टान्तत्वात् । तस्मात् 'त्वत्पादनखरत्नानां' इत्यत्र वाक्यार्थरूपकमेव । न निदर्शनेति स्थितम् । एवमसंभवद्वस्तुसंबन्धनिबन्धना पदार्थवाक्यार्थनिदर्शना दर्शिता ।
वाच्च । किं च त्वदुदाहृते कर्त्री रूपकमेवास्तु | प्रतीयमानोऽपि क्रिययोरभेदो विशिष्टरूपके विशेषणाभेदवन्नालंकारान्तरम् । अन्यथा अलकावृतकामिनीमुखं भ्रमन्द्रमरसंभारं पद्ममित्यादौ अलकभ्रमरयोरभेदस्याप्यलंकारान्तरत्वं स्यात् । तस्माद्गम्यतामात्रेणालंकारान्तरतेति रिक्तं वचः । ननु प्राचीनैरलंकारान्तरत्वेन परिगणनात् गम्यत्वेऽयम्, वाच्यत्वे रूपकमित्युच्यते तर्हि प्राचीनसेतुविघटनं व्यर्थमेवेति बोध्यमिति । यावकैरलक्तकैः । प्रतीयमानेति । उपमेत्यस्यानुषङ्गः । उपसंहरति - एवं चेति । अत एव अस्यास्तदुभयबहिर्भूतनिमित्तकत्वेन प्रागुक्तभवदीयोदाहरणासंभवादेव । तत्र
For Private And Personal Use Only
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३४५
'चूडामणिपदे धत्ते योऽम्बरे रविमागतम् ।
सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥' अत्र 'कारीषोऽग्निरध्यापयति' 'भिक्षा वासयन्ति' इतिवदानुकूल्ये णिचः प्रयोगात् गिरेश्च सूर्योदयदेशावच्छिन्नशिरस्कतारूपस्य गृहमेधिगतसदातिथ्यकरणविषयकबोधानुकूलाचरणस्य संभवात् मया इवान्येनाप्यतिथिसेवा कार्या इत्यौपम्यसद्भावाच्च संभवद्वस्तुसंबन्धमूलापि निदर्शना संभवति । __न च बोधयन्निव बोधयन्निति प्रतीयमानेयमुत्प्रेक्षा 'व्यालिम्पति तमोऽङ्गानि नभो वर्षति कजलम्' इत्यादाविवेति वाच्यम् । वस्तुनः संभवेनैव तस्या अप्रसक्तः इत्याहुः ।
इदं च 'धातुनोक्तक्रिये नित्यं कारके कर्तृतेप्यते' इत्युक्तपथेन धातूपात्तव्यापाराश्रयत्वं कर्तृत्वमिति मते संगच्छते । यदि तु कृताळतविभागानुपपत्तेर्यत्नार्थकात्कृञस्तृचि सविषयार्थकधातूत्तरकर्तृप्रत्ययस्याश्रत्वये निरूढलक्षणया यत्नाश्रयः कर्तृपदार्थः, स एव च कर्तृप्रत्ययानां मुख्यार्थः, अचेतनस्तु भाक्त इति नयपथेन निरीक्ष्यते तदा बोधयन्नित्यत्र प्रतीयमानोत्प्रेक्षा संभवत्येव ।
अमुमेव चाशयं मनसिकृत्य मम्मटभट्टैः ‘स्वस्वहेत्वन्वयस्योक्तिः-' इत्यादिलक्षणं निदर्शनान्तरस्य कृत्वा उदाहृते
'उन्नतं पदमवाप्य यो लवुर्लीलयैव स पतेदिति ध्रुवम् ।
शैलशेखरगतो ढपत्कणश्चारुमारुतधुतः पतत्यधः ॥' निदर्शनायाम् । 'अत्र' इति पाठ उचितः । पदे स्थाने । य उदयाचलः । अत्रेति । बोधयन्नित्यत्रेति शेषः । ननु गिरौ आनुकूल्याचरणं कथमत आह-गिरेश्चेति । देशेति । सर्योदयप्रदेशावच्छिन्नशिखरतेत्यर्थः । नन्वेवमप्यौपम्याभावोऽत आह-मया इवेति। तस्याः प्रतीयमानोत्प्रेक्षायाः । वैयाकरणमतमाह ---इदं चेति । नित्यमित्यस्य करीतेत्यत्रान्वयः । कर्ततेवेति तदर्थः । कृताकृतेति । नैयायिकमतमिदम् । नन्वेवं रथो गच्छतीत्यादौ दोषोऽत आह-अचेतनस्त्विति । भाक्तो गौणः । बोधयन्नित्यत्र प्रतीयमानोत्प्रेक्षेति । सुखार्थविषया । तत्रापि मते लाक्षणिकार्थपरत्वे त्वियमेवेति बोध्यम् । अमुमेवेति । नैयायिकरीत्या प्रतीयमानोत्प्रेक्षायास्तत्र तत्सत्त्वेन संभवरूपमित्यर्थः ।
४४
For Private And Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६
काव्यमाला। इति पद्ये इतिपदोत्तरं बोधयन्बोधयितुं वा इत्यस्याभावादुत्प्रेक्षाया असंभवे बोधननिदर्शना युक्ता।
'हालाहलं खलु पिपासति कौतुकेन
कालानलं परिचुचुम्बिपति प्रकामम् । व्यालाधिपं च यतते परिरधुमन्हा
यो दुर्जनं वशयितुं कुरुते मनीषाम् ॥'
यथा वा
व्योमनि बीजाकुरुते चित्रं निर्माति सुन्दरं पवने ।
रचयति रेखाः सलिले यस्तु खले चरति सत्कारम् ॥' बीजाकरणं बीजप्रक्षेपपूर्वकं कर्षणम् । इदं चापरं बोध्यम् ---
'यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा ।
तिर्यग्ग्रीवं यदद्राक्षीत्तन्निप्पत्राकरोजगत् ॥' अत्र 'भावप्रधानमाख्यातं' इति यास्कोक्तरीत्या क्रियाविशेष्यकबोधवादिनां शाब्द एवाभेदारोपः क्रिययोराित मुखं चन्द्र इत्यादाविव रूपकमुचितम् । प्रथमान्तविशेप्यकबोधवादिनां त्वार्थः स इति निदर्शनेति भेदः । निप्पत्राकरणं च सपुङशरस्यापरपार्श्वे निर्गमनात्पत्रराहित्यकरणम् ।
इति रसगङ्गाधरे निदर्शनाप्रकरणम् । अथ व्यतिरेकः-- उपमानादुपमेयस्य गुणविशेषवत्वेनोत्कर्षों व्यतिरेकः ।
अन्यथा वैयाकरणरीत्या तत्सत्त्वेऽपि तदप्रसकन्या तथोक्तिसंगतिः स्यादिति भावः । क्त्वा. न्तयोरुदाहृते इत्यत्रान्वयः। प्रकाममत्यन्तम् । प्रक्षेपेति । प्रक्षेपस्य पूर्वकमित्यर्थः । तत्फलकम् । तेन सहेति यावत् । 'कृओ द्वितीय-' इति डाच । भेदान्तरमाह-इदं चेति । मः क्रिययोरभेदः । पत्रराहित्येति । स्वार्थ घ्यञ् । बहुव्रीहिः । पत्ररहितकरणमित्यर्थः । 'मपत्र-' इति डाचप्रत्ययः ॥ इति ग्मगङ्गाधरमर्मप्रकाशे निदर्शनाप्रकरणम् ॥ व्यतिरेकं निरूपयति-अथेति । नन गुणविशेषवत्त्वेनेत्युक्तावपि तत्रातिप्रसङ्ग एव ।
For Private And Personal Use Only
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३४७
प्रतीपादिवारणाय तृतीयान्तं वैधर्म्यपरम् । तत्र चोपमानतामात्रकृत एवोत्कर्षः, न वैधर्म्यकृतः । साधर्म्यस्यैव प्रत्ययात् । अधिकगुणवत्त्वमात्रम्, उपमानगतापकर्षमात्रं वा न व्यतिरेकस्वरूपम् । तयोरुपमेयोत्कपांक्षेपमन्तरेणासुन्दरत्वात् । अत एव न सादृश्याभावमात्रम् । उपमानादुपमेयस्यापकर्षेऽपि तत्संभवात् । तस्य च वास्तवत्वेनासुन्दरत्वात् । उपमेयोत्कर्षविशिष्टत्वेन सादृश्याभावविशेषणे तस्यैवालंकारत्वौचित्यात् । उदाहरणम्'अनिशं नयनाभिरामया रमया संमदिनो मुग्वस्य ते ।
निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम् ।।' अयं चोपमेयोत्कर्षकोपमानापकर्षकयोधर्म्ययोर्द्वयोरप्युपादानानुपादानाभ्यामेकतरानुपादानेन च तावच्चतुर्धा । सोऽप्युपमायाः श्रौतीत्वार्थीत्वाक्षिप्तात्वैादशविधो भवन्सश्लेषनिःश्लेषत्वाभ्यां चतुर्विंशतिप्रकार इति प्राश्नः । उदाहरणम्-~'कटु जल्पति कश्चिदल्पवेदी यदि चेदीदशमत्र किं विदध्मः ।
कथामिन्दुरिवाननं त्वदीयं सकलङ्कः स कलङ्कहीनमेतत् ॥' अत्रोभयोरुपादानम् । उपमा च श्रौती । अत्रैव 'कथामिन्दुरिवाननं तवेदं द्युतिभेदं न दधाति यत्कदापि' इति कृते, 'द्युतिभेदं खलु यो दधाति उपमेयस्योपमानत्वरूपगुणविशेषवत्त्वेनोत्कर्षस्य सत्त्वात् । अत आह-वैधयेति । तथा च ततस्तस्य वैधयंणोत्कर्षः स इति लब्धम् । नैवमतिप्रसङ्ग इत्याह-.-तत्र चेति । प्र. तीपादो चेत्यर्थः । उपमेयस्येति शेषः । मात्रपदेनोत्कर्षव्यावृत्तिः । तयोः अधिकगुणवत्त्वोपमानगतापकर्षयोः । मात्रं न व्यतिरेक इत्यनुपज्यते । अत एवेन्यस्यार्थमाह-उपमानादिति। तत्संभवात् साहश्याभावसंभवात् । इष्टापत्तावाह--तस्य चेति । वास्तवत्त्वेनेति । हीनगणस्योपमेयत्वादिति भावः । विशेषणे तस्य विशेषत्वाकरणे । तस्यैव उपमेयोत्कर्षस्येव । आधिकनिवेशे प्रयोजनाभावादिति भावः । संमदिन इति । सर्वदा नेत्रयो रमणीयया शोभया हेतुना हर्षयुक्तस्य तव मुखस्य गत्री निः शोभं कमलं अंशेनापि कथं तुल्यं कुर्म इत्यर्थः । नायकं प्रति तद्वयस्योक्तिः । अत्र सर्वदा सशोभत्वेन हृष्टत्वं वैधम्यम् । तत्र रात्री तदभाव इति भावः । सोऽपि चतुविधोऽपि । कदिति । नायिका प्रति नायकोक्तिः । चेच्छब्दः शङ्कायाम् । ईशं तवाननमिन्दुतुल्यमित्येवंरूपम् । अत्र उसीभाषणविषये । विदध्मः कुर्मः । स इन्दुः । एतत, आननम् । उभयो: सकलङ्कत्वतद्धी
For Private And Personal Use Only
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४८
काव्यमाला।
नित्यम्' इति वा कृते एकतरानुपादानम् । सा च । 'कथामिन्दुरिवाननं मृगाक्ष्या भवितुं युक्तमिदं विदन्तु सन्तः' इति कृते हेतुसामान्यानुपादानम् । सा च । हेतुद्वये हि यस्यैवानुपादानं तस्याक्षेपेणावगतिः । उभयोरप्यनुपादाने तथैव । न त्वनवगतिः । व्यतिरेकस्योत्कर्षापकर्षरूपत्वात् । तयोश्च प्रयोजकज्ञानमन्तरेणानवबोधात् । एवम्
'नयनानि वहन्तु खञ्जनानामिह नानाविधमङ्गभङ्गभाग्यम् ।
सदृशं कथमाननं सुशोभं सुदृशो भङ्गुरसंपदाम्बुजेन ।' अत्रोभयोपादानम् । आर्थी च । 'वदनं तु कथं समानशोभं सुशो भङ्गुरसंपदाम्बुजेन' [इति], 'शाश्वतसंपदम्बुजेन' इति च कृते एकतरानुपादानम् । सा च । 'सदृशं कथमाननं मृगाक्ष्या भविता हन्त निशाधिनायकेन' इति कृते उभयानुपादानम् । सा च । पूर्वार्धे तु निदर्शनैव ।
'कतिपयदिवसविलासं नित्यमुखासङ्गमङ्गलसवित्री ।
खर्वयति स्वसिं गीर्वाणधुनीतटस्थितिर्नितराम् ॥ अत्रैवादेः सादृश्यमात्रशक्तस्य सदृशादेश्च तद्विशिष्टशक्तस्य शब्दस्याभावाच्छ्रत्यर्थमागोल्लचिनी खर्वीकरणेनाक्षिप्तैवोपमा । अत्रैव 'निःसङ्गैरभिलषिता' इत्याद्यचरणनिर्माणे 'संपातदुरन्तचिन्तयाकुलितम्' इति द्वि
नत्वरूपवैधhयोस्तादृशयोः । सा च श्रौती च । एवमग्रेऽपि । ननूभयानुपादाने उत्कर्षाप्रतीत्या कथमयं तद्भेदोऽत आह-हेतुद्वये हीति । तयोर्मध्ये इत्यर्थः । हि यतः । तोत्थमत उभयोरुपादानेऽपि तथैवेत्यर्थः । सर्वथा अबोधो नेत्याह-न त्विति । उस्कर्षेति । अपकर्षनिरूपितोत्कर्षरूपत्वादित्यर्थः । प्रयोजकेति । वैधय॑त्यर्थः । श्री. तीमुदाहृत्यार्थीमुदाहराति एवमिति । इह भूवलये नायिकानां नयनानि खजरीटानामनेकप्रकारमङ्गसंबन्धिमोटनसंबन्धिरचनाप्रकारं वहन्तु परंतु अस्याः सुदृशो नायिकायाः समीचीनशोभं मुखमनियतशोभेन कमलेन कथं सदृशमित्यर्थः । 'भङ्गीम्' इत्युचितः पाठ इति केचित् । आर्थीति । इवादेरभावादिति भावः । शाश्वतेति । आननविशेषणमिदम् । सा च आर्थी च । एवमग्रेऽपि । आर्थीमुक्त्वा आक्षिप्तामाह-कतीति । इदं स्वासविशेषणम् । गीर्वाणधुनी देवनदी । गङ्गातीरस्थितिविशेषणमाह-नित्येति । श्रुत्यर्थेति । श्रुत्यर्थयो? मार्गों तदुल्लविनीत्यर्थः । अत एवैवोक्तिग्ये (१) यथासंख्येनात्र पूर्वयोरन्वयः । निःसङ्गैयोगिभिः । संपातेति । स्वर्गाद्भशेत्यर्थः । मा च
For Private And Personal Use Only
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
तीयचरणनिर्माणे वा एकतरानुपादानम् । सा च । 'सर्वानर्वाचीनान्निर्वा स्य मनोरथाननन्यजुषाम्' इति पूर्वार्धे तदनुपादनमिति । 'क्रूरसत्वाकुलो दोषाकरभूस्तोयधिर्यथा । न तथा त्वं यतो भूप स्थिरधीरसि निर्मलः ॥' अत्रोपमा श्रौती । श्लेषस्तु स्फुट एव ।
'राजन्प्रचण्डमार्तण्डमण्डलोद्दण्डशासन । कथमक्रूरसत्वस्त्वं पयोधिरिव गोयसे ॥' इति, 'कथं वार्धिरिवासि त्वं यतः स विषभागयम्' इति वाकृते एकतरानुपादानम् ।
३४९
'महेन्द्रतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयामः । भवान्सहस्त्रैः समुपास्यमानः कथं समानस्त्रिदशाधिपेन ॥
अत्रार्थी | त्रिर्दश त्रिदशास्त्रिंशत् । तेषामधिपः । ' संख्ययाव्ययासनादूराधिकसंख्याः संख्येये' इति बहुव्रीहौ, 'बहुव्रीहौ संख्येये-' इति डचि च तत्पुरुषः । वृत्तौ गतार्थत्वात्सुचो न प्रयोगः । त्रयो वा दश वा इति बहुव्रीहिर्वा । 'भवान्सदा रक्षितगोत्रपक्षः समानकक्षः कथमस्य युक्त:' इति, 'कथं निरस्ताखिलगोत्रपक्षः समानकक्षस्तव युज्यते सः ' इति वा कृते एकतरानुपादानम् ।
आक्षिप्ता च । अर्वाचीनान् ऐहिकान् । अनन्यजुषां स्वान्यासेवकानाम् । पूर्वार्धे कृते इति शेषः । तद्नुपेति । उभयानुपादानमित्यर्थः । आक्षिप्ता चेत्यपि बोध्यम् । इतरेतद्भेदसमाप्तौ । सश्लेषमुदाहरति-क्रूरेति । सत्त्वानि जलजन्तवः । दोषाकर चन्द्रः । हे भूप, त्वं तथादोषस्थानं क्रूरप्राणिव्याप्तश्च न यत इत्याद्यर्थः । ' अन्तः सत्त्वा' इति पाठः क्वचित् । तत्रान्तः अभ्यन्तरे सत्त्वैर्यादोभिराकुलः । अन्यत्र सत्त्वगुणः । तेनाकु
For Private And Personal Use Only
श्वेत्यर्थः । श्रौती । तादृशयथाशब्दसत्त्वात् । प्रचण्डसूर्यमण्डलवदप्रतिहताज्ञः । यतः सोऽयं वाधिविषभागित्यर्थः । यद्वा यतोऽयं सविषं क्रूरलं भजति तथेत्यर्थः । एकतरेति । उपमानेतीत्यादि तु प्राग्वत् । आयुपमाक (?) प्रमुदाहरति - महेन्द्रेति । परमैश्वर्यवत्तुल्यमित्यर्थः । सहसैर्जनैः । त्रिदशेति । इन्द्रेणेत्यर्थः । आर्थी तुल्यशब्दप्रयोगात् । त्रिदशा देवाः । श्लेषेण द्वितीयार्थमाह - त्रिरिति । तत्पुरुष इति । तेषामपि इत्युक्तरूप इति भावः । सुजर्थान्तर्भावेण बहुव्रीह्यङ्गीकारादाह-- वृत्ताविति । तदनन्तर्भावजलाघवादाह - त्रयो वा दश वेति । प्रक्रिया पूर्ववत् । अग्रे तत्पुरुषोऽपि प्राग्वत् । आद्ये गोत्रपक्षः स्ववंशपक्षः । द्वितीये गोत्रपक्षाः पर्वतपक्षाः ।
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५०
काव्यमाला।
इदं तु बोध्यम्-इहोभयानुपादानभेदत्रयं दुरुपपादम् । वैधानुपादाने हि किमाश्रयः श्लेषः स्यात् । न च यत्र द्विजसुरालयमातरिश्वादिशब्दवेद्येषूपमानोपमेयेषु स्वशब्दोपात्त एव श्लेषो व्यतिरेकोत्थापकस्तत्रैव तदुदाहरणं सूपपादमिति वाच्यम् । तत्र स्वशब्दवेद्यस्यैव वैधर्म्यस्य संभवात् । इत्थं च चतुर्विशतिभेदा इति प्राचामुक्तिविपुलोदाहरणाभिज्ञैयथाकथंचिदुपपादनीया । किं चोपमाप्रभेदाः सर्व एवात्र संभवन्तीत्यलं चतुर्विशतिभेदगणनया । नन्वस्यालंकारस्य वैधर्म्यमूलस्योपमाप्रतिकूलत्वमेवोचितम्, न तृपमागर्भत्वम् । तस्याः साधर्म्यमूलकत्वात् । अस्य च तनिषेधरूपेणैव प्रत्तेः । न चेष्टापत्तिः । सिद्धान्तभङ्गप्रसङ्गात् । सत्यम् । यगुणपुरस्कारेण यस्य यत्सादृश्यनिषध उत्कर्षपर्यवसायी तस्य तद्गुणपुरस्कारेण तत्सादृश्यस्याप्रतिष्ठानेऽपि गुणान्तरेण मादृश्यप्रत्ययस्य दुरित्वात् । यदि च तत्सादृश्यसामान्यनिषेधो विवक्षितः स्यात् गुणविशेषपुरस्कारोऽनर्थकः स्यात् । धनेनायमस्मादधिक इत्युक्ते विद्यया रूपेण कुलेन च सम इति सर्वजनीनप्रत्ययात् । एवं च प्रतीयमानमपि सादृश्यं गुणान्तरकृतनिषेधोत्थापितेनोत्कर्षेण हतप्रभमिव वन्दीकतमिव न चमत्कारविशेषमाधातुं प्रभवतीति प्राचामाशयः । प्राञ्च इत्यनेन सूचितामरुचिमाह-इदं तु बोध्यमिति । इह प्रागुक्तभेदानां मध्ये । नुपादानभेदेति । अनुपादानरूपभेदत्रयमित्यर्थः । तन्निषेधेति । माधयनिषधेत्यर्थः । गुणान्तरेण सादृश्यप्रत्ययस्य दुवारत्वादिति । अत्रेदं चिन्त्यम्--'कमिन्दरिवाननं त्वदीयं' इति पद्ये कलङ्कवत्त्वेन तद्राहित्येन वा सादृश्यं न प्रसिद्धमुपपत्तिवि - पयो वा । यस्य निषेधे कथंशब्देन प्रतिपादिते गुणान्तरसादृश्यं प्रतीतिपथमवतरेत् । किं त्वन्यधर्मेण प्रसिद्धसादृश्यस्यैवेदशाधिक्यन्यूनत्वप्रतिपादनद्वाराभावः प्रतिपाद्यते । अपकर्षा वा । स चाविशेषात्सर्वधर्मप्रयुक्तस्यैवेति गुणान्तरेण मादृश्यप्रत्यय इति रिक्तं वचः । 'कथं तुलयामः कलयापि पङ्कजम्' इत्यादो मर्वथैव सादृश्य निषेधप्रतीतेश्च । तस्माद्ययोरेतादृशन्यूनत्वाधिक्यवर्णनाभावे सादृश्यं पर्यवस्थतीत्येतावतेवोपमागर्मत्वव्यवहारः सोऽपि 'कुमदादतिरिच्यते मुखं' इत्यादा व्यतिरेकस्यालंकारत्वाभावाय । किं च व्यतिरेके गुणान्तरे कथिते गुणान्तरसादृश्यमपि चमत्कारि । यथा देवदत्तेन सहशो यज्ञदन्तः । धनमस्याधिकमित्याद। । तत्र विद्यादिकृतसादृश्यस्यापि चमत्कारित्वात् । उत्कटविद्यत्वेन देवदत्तस्य प्रमिद्धत्वात् इति बोध्यम् । गुणान्तरकृतनि
For Private And Personal Use Only
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
३५१
अत्र चालंकारे कस्यचिच्छाब्द सादृश्यनिषेधाक्षिप्तावुप मेयोत्कर्षोपमानापकर्षो, क्वचिच्च शाब्देनोपमेयोत्कर्षेणाक्षिप्तावुपमानापकर्षसादृश्याभावौ, क्वचित्तादृशेनोपमानापकर्षेणाक्षिप्तावुपमेयोत्कर्षतदभावौ तथा । तत्राद्यः प्राचीनरीत्या सभेद उदाहृतः । द्वितीयतृतीयावपि प्रायशस्तादावेव । तत्र दिङ्मात्रमुदाह्रियते'निशाकरादालि कलङ्कपङ्किलागुणाधिकं निर्मलमाननं ते । अनल्पमाधुर्यकिरोऽवरादिमा गिरोऽधरा गुप्तरसाः कवीनाम् ॥' अत्र पूर्वार्धे उपमेयोत्कर्षः शाब्दः । उपमानापकर्षसादृश्याभावावाक्षिप्तौ । द्वितीया उपमानापकर्षः शाब्दः । उपमेयोत्कर्षसादृश्याभावावाक्षिप्तौ । एवं कचियोस्त्रयाणां वा शाब्दत्वं संभवदपि नातीव हृद्यमिति नोदाहृतम् । क्वचिच्च त्रयमप्याक्षिप्तमेव ।
यथा
'अपारे किल संसारे विधिनैको ऽर्जुनः कृतः । की निर्मलया भूप त्वया सर्वेऽर्जुनाः कृताः ॥' 'अशीतलो श्रण्डांशुरनुप्रशिशिरः शशी । उग्रशीतस्त्वमेकोऽसि राजन्कोपप्रसादयोः ॥
यथा वा
स तु वर्षति वारि वारिदस्त्वमुदाराशय रत्नवर्षणः । स कुहूरजनी मलीमसस्त्वमिहान्तर्बहिरेव निर्मलः ॥' अत्रोपमानतद्विशेपणोपादानसामर्थ्यादाक्षिप्त एव व्यतिरेकः, न तु
त्थापीति । गुणान्तरकृत सादृश्यनिषेधोत्थापीत्यर्थः । अत्र चालंकारे इति । व्यतिरेकालंकार इत्यर्थः । तादृशेन शाब्देन । तदभावी सादश्याभावौ । तथा चमत्क तिजनकौ । तत्र तेषां मध्ये | तावद्भेदावेव चतुर्विंशतिभेदावेव । केषांचिदसंभवादुक्तं प्रायश इति । तत्र तयोर्विषये | आलीति संबोधनम् । नायिकां प्रति वयस्योक्तिः । गुप्तरसाः कवीनामिमा गिरस्ते बहुमाधुर्यवर्षकादधरादधरा अपकृष्टा इत्यर्थः । शाब्द इति । गुणाधिकमित्युक्तेरिति भावः । शाब्द इति । अधरा इत्युक्तेरिति भावः । एवं उक्तप्रकारेण । त्रयमपि उपमेयोत्कर्षोपमानापकर्षसादृश्याभावरूपम् | अर्जुनाः श्वेताः । उग्रशीत इति । यथासंख्यमन्वय: । उदाराशयेति संबोधनम् । कुहूरजनी अमारात्रिः । एवव्यावर्त्यमाह--न त्विति । व्यय इति तु कदापि न भ्रमितव्यमि -
For Private And Personal Use Only
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२
काव्यमाला ।
व्यङ्गय इति कदापि भ्रमितव्यम् । सत्यनुपपत्तिलेशे व्यञ्जनाया अप्ररोहात् । इह च राजविशेषणस्य यथाकथंचित्स्तुत्यर्थत्वेऽप्युपमानतद्विशेषयोपादानस्य नृपोत्कर्षमन्तरेणानुपपत्तेर्जागरूकत्वात् । यत्र तूपमानतद्विशेषणोपादानमन्तरेणैवोपमेयविशेषणैः ‘सुन्दरो देवदत्तः' इत्यादाविव वस्तुस्थितिप्रकाशनेन कृतार्थैरप्याकूतविशेषेण स्वविलक्षणविशेषणविशिष्टधर्म्यन्तरापेक्षया वर्ण्यस्योत्कर्षः प्रतीयते स व्यञ्जनाविषयः । यथा'न मनागपि राहुरोषशङ्का न कलङ्गानुगमो न पाण्डुभावः ।
उपचीयत एव कापि शोभा परितो भामिनि ते मुखस्य नित्यम् ॥' अयं व्यतिरेकध्वनिरर्थशक्तिमूलः । । यत्त्वलंकारसर्वस्वकार उपमानादुपमेयस्य न्यूनत्वेऽपि व्यतिरेकमाह । वैलक्षण्यमात्रस्यैव व्यतिरेकत्वात् । उदाजहार च
'क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि यौवनमनिवति यातं तु ॥' यच्च तद्व्याख्याता विमर्शिनीकारः सपूर्वपक्षसिद्धान्तं व्याचख्यौ तथाहि-'नन्वत्रोपमानादुपमेयस्य न्यूनत्वं व्यतिरेक इति न युक्तम् । तस्य हि वास्तवत्वेनाहृद्यत्वात् । यौवनस्य चास्थिरत्वे प्रतिपाद्ये चन्द्रापेक्षयाधिकगुणत्वमेव विवक्षितम् । यदेतच्चन्द्रवद्यातं सन्न पुनरायातीति यतोऽत्र चन्द्रवद्गतं सद्यौवनं यदि पुनरागच्छेत्तत्प्रियं प्रति चिरमीाद्यनुबन्धो युज्येत । इदं पुनर्हतयौवनं यातं सत्पुन गच्छतीतीर्खाद्यन्तरायपरिहारेण निरन्तरतयैव प्रियेण सह जनुः सफलयितव्यम् । धिगी
ाम् । त्यज प्रियं प्रति मन्युम् । कुरु प्रसादम् । इति प्रियवयस्योपदेशे प्रियं प्रति कोपोपशमाय चन्द्रापेक्षया यौवनस्यापुनरागमनं न्यूनगु. त्यर्थः । उपमानतद्विशेषणोपादानस्येति । 'उपमानतद्विशेषणस्य' इति पाठेऽप्ययमेवार्थः । नृपोत्कर्ष तद्बोधनम् । आकूतेति । अभिप्रायेत्यर्थः । स्वेति । उपमेयविशेषणेत्यर्थः । मात्रपदेन विशिष्यप्रतियोग्यनुयोगिनिवेशव्यवच्छेदः । यदसंगतम्। सिद्धान्तमाह--असदिति । अत इति । तत्तदा युज्यतेति । कालान्तरेऽपि यौवनस्य प्रियावलोकनादिना सफलीकार: स्यादिति भावः । हतेति । दुर्भाग्येत्यर्थः । उक्तहेतोरिति भावः । गुणत्वेन तत्त्वेनैव । गमयितुं यौवनमित्यस्यानुषङ्गः । असांप्रतम
For Private And Personal Use Only
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। णत्वेन विवक्षितमिति न्यूनत्वमपि व्यतिरेकः । रसपोषकतया चास्यापि हृद्यत्वम्' इति तदुभयमप्यसत् । अस्मिन्हि प्रियहितकारिण्या वचने चन्द्रादप्यधिकगुणत्वमेव विवक्षितम्, न न्यूनगुणत्वम् । चन्द्रो हि पुनःपुनरागमनेन लोके सुलभः । अत एव न तादृशमाहात्म्यशाली । इदं च पुनर्योवनमपुनरागमनेनातिदुर्लभतरत्वादत्युल्कृष्टमिति मानादिभिरन्तरायैः शठजनश्लाघनीयविदग्धया भवत्या मुधा गमयितुमसांप्रतमिति तावदुपात्तगुणकृतमुत्कृष्टत्वं स्फुटमेव । सकलसुखनिदानत्वाद्यनुपात्तगुणकतोऽप्युत्कर्षोऽत्र वाक्यार्थपरिपोषाय सहृदयहृदयसरणिमवतरति । अन्यथा किमित्यस्य कदर्ययौवनस्य कृते मया मानाद्विरस्यते यातु नाम यौवनमिति प्रतिकूलेनार्थेन प्रकृतार्थस्यापुष्टतापत्तेः । किं च यत्र क्वापि शाब्द उपमेयस्यापकर्षस्तत्रापि स तस्य वाक्यार्थपर्यवसायितयोत्कर्षात्मना परिणमति । यथा
'द्रोहो निरागसां लोके हीनो हालाहलादपि ।
अयं हन्ति कुलं साग्रं भोक्तारं केवलं तु सः ॥' अत्र हीन इत्यपकर्षों दारुणताधिक्यरूपोत्कर्षात्मना परिणमति । एवम्
'इन्दुस्तु परमोत्कृष्टो यः क्षीणो वर्धते मुहः ।
धिगिदं यौवनं तन्वि क्षीणं न पुनरेति यत् ॥' इत्यादावुपात्तस्यापुनरावर्तित्वस्य तद्धर्मस्य मानप्रतिकूलतया द्वेषेणैव धिक्कारादिकथनम्, न तु वास्तवापकर्षेण । दुर्लभत्वस्य प्रियसमागमोल्लासकत्वस्य चोत्कर्षकस्य स्फुटत्वात् ।
यदपि कुवलयानन्दकृतालंकारसर्वस्वोक्तार्थानुवादकेन न्यूनतायामुदाहृतम्--- युक्तम् । निदानत्वाद्यनुपात्तेति । निदानत्वादिरूपों योऽनुपात्तो गुणस्तत्कृत इत्यर्थः । अन्यथेति । उपात्तानुपात्तगुणकृतोत्कर्षानङ्गीकार इत्यर्थः । अस्या अपुष्टतापत्तेरित्यत्रान्वयः । स तस्येति । उपमेयस्योत्कर्ष इत्यर्थः । 'वाक्यार्थपरिपोषकतयोत्कर्षात्मना' इति पाठः । अयं द्रोहः । स हालाहलः । 'हालाहलोऽस्त्री' इति कोषा
For Private And Personal Use Only
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२४
काव्यमाला। र "रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः ।
सर्व तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥' अत्र सशोकत्वेनाशोकापेक्षयापकर्षः पर्यवस्यति" इति, तदपि चिन्त्यम् । रत्याद्यनुकूलतया कुतश्चिदङ्गादूषणापसारणं यथा शोभाविशेपाय भवति एवं प्रकृते उपमालंकारदरीकरणमात्रमेव रसानुगुणतया रमणीयम्, न व्यतिरेकः । अत एवासमालंकारं प्राञ्चो न मन्यन्ते । अन्यथा तवालंकारान्तरतया तत्स्वीकारापत्तेः । यथा--- 'भुवनत्रितयऽपि मानवैः परिपूर्ण विबुधैश्च दानवैः ।
न भविष्यति नास्ति नाभवनृप यस्ते भजते तुलापदम् ॥' अत एव ध्वनिकता सहृदयधुरंधरेण 'सुकविस्तु रसानुसारेण क्वचिदलंकारसंयोगं क्वचिदलंकारवियोगं च कुर्यात्' इत्युक्त्वा 'रक्तस्त्वं-' इति पद्यं सादृश्यदूरीकरणे उदाजहे । अत एव च मम्मटभट्टैः 'आधिक्यत्पुंस्त्वमपि । तद्धर्मस्य यौवनधर्मस्य । रक्त इति । सीतापहारोत्तरं श्रीरामस्याशोकतरुं प्रतीयमुक्तिः । रक्तो रक्तवर्ण: अनुरक्तश्च । शिलीमुखा बाणा भ्रमराश्च । कान्ता. पादेति । कामिनीपादाघातेनाशोकस्य पुष्पोद्गम इति प्रसिद्धिः । नायके तु पद्माख्य. बन्धाभिप्रायेण । तदुक्तम् -'धृतैकपादा जघने कुर्वत्यन्यपदाहतिम् । शनैः शनैनिधुवने पद्मवन्धस्तदा मतः ॥' इति । रत्याद्यनुकूलतयेति । अत्रेदं चिन्त्यम् ---उपमानाद्धयुपमेये वर्ण्यमानं वैलक्षण्यमेव गुणाधिक्यकृतं व्यतिरेकः । तच्च वचिदपमेयोत्कर्षपर्यवसायि, कचित्तदपकर्षपर्यवसायि, कचित्तदनुभयपर्यवसायि । आधिक्यन्यूनत्वशब्दावप्युत्कर्षापकर्षपरावेव । तत्रापकर्षपर्यवसायि रक्तस्त्वमित्यत्र । अत्रोपमेये सशोकत्वादिगम्यचेतनत्वसहृदयत्वादिभिः शोकरहितत्वशोकसहितत्वाभ्यां च तत्तद्गुणाधिक्यप्रतीतावपि शोकस्य स्वरूपेणापकृष्टत्वाद्विहिवाक्यत्वाच्च वरमचेतनत्वमेव सम्यक् । न पुनः प्रियावियोगादिजन्यशोकास्पदचैतन्यादीति प्रतीतिपर्यवसानात् विरहानुगुणकविनिबद्धतापर्यविषयकोऽपकर्षः पर्यवस्यति । अत एव प्रियावियोगाद्यपि तुमित्यर्थकमावयोः सर्व तुल्यमिति वाक्यं चरितार्थम् । एतेन रत्याद्यनुकूलेत्यादि उदाजद इत्यन्त. मपास्तम् । सशोकत्ववर्णनेऽपि रक्तत्वादिधर्में: सादृश्यस्य विप्रलम्भपरिपोषकतया चमकारिणः सत्त्वेन तदपनवस्य कर्तुमशक्यत्वात् । अन्यथा औनत्यादिकृतसादृश्यस्यापि
For Private And Personal Use Only
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
मानं व्यतिरेकः' इत्युक्तम् । निरस्तं च न्यूनत्वं व्यतिरेके इति । तस्म, दुपमानादुपमेयस्योत्कर्ष एव व्यतिरेकालंकारः, नापकर्ष इति स्थितम् यदि तु न्यूनत्वमपि व्यतिरेक इत्याग्रहस्तदेदमुदाहार्यम्
'जगत्रयत्राणधृतव्रतस्य क्षमातलं केवलमेव रक्षन् ।
कथं समारोहसि हन्त राजन्सहस्रनेत्रस्य तुलां द्विनेत्रः ॥' अत्र धर्मद्वयेनैव न्यूनोऽसि धर्मान्तरेण तु सम इति प्रतीतिकृतविच्छित्तिविशेषादलंकारता । एवं च लक्षणेऽपकर्षोऽप्येवंजातीयो देयः ।
यदपि कुवलयानन्दकृतानुभवपर्यवसायिनो व्यतिरेकस्योदाहरणमुक्तम
'दृढतरनिबद्धमुष्टेः कोपनिपणस्य मह जमलिनस्य ।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥' तन्न निपुणं निरीक्षितमायुष्मता । तथा हि किमत्रोपमानादुत्कर्षरूपो व्यतिरेकोऽनुभवपर्यवसायी आहोस्वित्सर्वस्वकारायुक्तदिशापकर्षरूपः । प्रतीत्यनापत्तेः । अलंकारवियोगोदाहरणं तु भुवनत्रितयेऽपीत्यादि बोध्यमिति बोध्यम् । अन्यथा उपमादूरीकरणस्या हृद्यत्वे । एवंजातीयः धर्मान्तरकृतसाम्यसमानाधिकरणः । न तु प्रागुक्तः साधारण इति भावः । दृढतरेति । कृपणस्य दानकथाशून्यस्य । कृ. पाणस्य च खड्गस्य । आकारतः तद्रूपदीर्घवर्णात् आकृतेश्च केवलं भेदो वैलक्षण्यम् । प्रकारान्तरेण तु साम्यमेव । तदेवाह दृढतरेत्यादि विशेषणत्रयेण । धनव्ययवैमख्येन दृढतरं निबद्धा मुष्टियेन । मुष्टिग्राह्यो भागो यस्येति च।कोषो भाण्डागारः पिधानं च। निषण्णस्योपविष्टस्य स्थितस्य च । सहजेन स्वभावेन मलिनस्य मलिनवेषस्य । अनज्ज्वलस्येति यावत् । कृष्णवर्णस्य च । अत्रेदं वैलक्षण्यं न न्यूनत्वपर्यवसायि नाप्याधिक्यपर्यवसायि किं तु स्ववैचित्र्यमात्रविश्रान्तमिति भावः । आयुष्मतेति । अत्रेदं चिन्त्यम्-श्लेषेऽपि नात्राभेदाध्यवसायः सर्वदोमाधव इतिवत् । किं तु परस्परान्वि. तये दीर्घाक्षरादवयवसंस्थानाच्च भेद इत्यर्थद्वयमितरान्वयि । किं चाभेदाध्यवसायेऽपि नास्य साधारण्यम् । भेदशब्देन तस्य तिरस्कारेणोपमानिष्पादकत्वाभावेन सकलकलमित्यादिवैलक्षण्यात् । यदपि तस्योपमानवृत्तित्वेनेत्यादि तदपि न । उपमानत्वं हि सादृश्यप्रतियोगित्वम् । तच्च प्रतीपालंकारविधया कृपाणस्यास्त्येव । दोर्घाक्षरत्वरूपगणस्याधिक्यस्य तदन्यस्मिन्कृपाणे सत्त्वाच। अकलङ्कमुखसदृशो न सकलङ्कश्चन्द्र इत्यादौ व्यतिरेकस्यैवमेव निर्वाह्यत्वात् । यदप्यनुभवपर्यवसायिनो व्यतिरेकस्योदाहरणमित्यादि तदपि न । उत्कर्षापकर्षोभयापर्यवसायीत्यर्थकानुभवपर्यवसायीति तद्न्थपाठात् । अनुभवपर्यवसायित्वेन चैतदेवोच्यते यत्प्रकृतानुगुणोत्कर्षापकर्षपर्यवसायित्वाभावेन विद्यमा
For Private And Personal Use Only
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
:
३५५६
काव्यमाला |
(द्यः । उत्कर्षप्रयोजकधर्मस्यात्रानुपस्थितेः । न च श्लेषेण दीर्घाक्षरस्योपस्थितिरस्त्येवेति वाच्यम् । तस्योपमानवृत्तित्वेनोपमेयानुत्कर्षकत्वात् । अर्थान्तरेणाकृतिरूपेण सह श्लेषमूलकाभेदाध्यवसायेन साधारणीकरणाच्च । अन्यथा श्लेषमूलकोपमोच्छेदापत्तेः । 'चन्द्रविम्बमिव नगरं सकलकलम्' इत्यादावपि कलकलसहितत्वकलासाकल्ययोर्वस्तुतो वैधर्म्यरूपत्वात् । न च सकलकलमित्यत्रोपमायामेव कवेर्निर्भरः प्रकृते तु भेदशब्दोक्त्या वैलक्षण्ये स इति भ्रमितव्यम् । यद्यत्रोपमाविवटनरूपो व्यतिरेको निभैरमहः स्यात् आकारशब्दश्लेषोऽनर्थकः स्यात् कृपणस्य कृपाणस्य भेदो दीर्घाक्षरादेवेत्येव ब्रूयात् । न ह्यत्र व्यतिरेके श्लेषोऽनुकूलः । प्रत्युत प्रतिकूल एव । उपमायां पुनरनुकूलः । प्रतिकूलस्य दीर्घाक्षररूपवैधर्म्यस्य साधारणीकरणात् आकृतिभेदस्य चोपमानोपमेययोरपि सत्त्वात् । एवं हि कवेराशयः -- यत्कृपणकृपाणयोस्तुल्यतैव । गाढतरेत्यादिविशेषणसाम्यात् । अक्षरभेदस्त्वाकार भेदत्वादविरुद्ध एवेति सहृदयै - राकलनीयम् ।
न द्वितीयः । तस्योक्तिमात्रेणाप्यसंगतेः अहृद्यत्वाच्च । तस्मादत्र गम्योपमैव सुप्रतिष्ठितेत्यास्तां कूटकार्षापणोद्घाटनम् । प्रकृतमनुसरामः । अलंकारान्तरोत्थापितोऽप्ययं संभवति । यथा
'ईश्वरेण समो ब्रह्मा पिता साक्षान्महेश्वरः ।
पार्वत्या सदृशी लक्ष्मीर्माता मातुः समा भुवि ॥ पितास्य काष्ठसदृशः स्वयं पावकसंनिभः ॥'
Acharya Shri Kailassagarsuri Gyanmandir
अत्र रूपकानन्वयोपमा उपमेयोत्कर्षस्योपमा एवोपमानापकर्षस्य च हेतवः ।
नस्यापि व्यतिरेकस्य नालंकारत्वम् । किं तु वस्तुतामात्रमिति । अलंकारश्चात्र गम्योपमैव कृपणकृपाणयोः षलब्धा कृते दीर्घाक्षराच्च भेदेऽपि इतरत्सर्वे तुल्यमेवेति पर्यवसानात् । तत्कृतचमत्कारस्यैव सत्त्वाच्चेति बोध्यम् । उपमेयानुत्कर्षति । उपमेयोत्कर्षप्रयोजकत्वाभावादित्यर्थः । अर्थान्तरेणेति । तस्येत्यस्यानुषङ्गः । स निर्भरः । उपमायामिति । अत्रेत्यस्यानुषङ्गः । कुदेति । मिथ्याकार्षापणेत्यर्थः । अलंकारान्तरोत्थापीति । श्लेषान्यालंकारोत्थापितोऽपीत्यर्थः । अयं व्यतिरेकः | अत्रेति ।
For Private And Personal Use Only
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
अस्य चालंकारस्य सादृश्यगर्भत्वात् सादृश्यस्य च त्रिविधधर्मोत्थापितत्वात् अत्रापि तत्प्रकारानुगमो बोध्यः । तत्रानुगामिनि धर्मे यथा'अरुणमपि विद्रुमद्रं मृदुलतरं चापि किसलयं बाले ।
अधरीकरोति नितरां तवाधरो मधुरिमातिशयात् ।।' अत्रारुण्यम्रदिमानावनुगामिनौ । बिम्बप्रतिबिम्बभावापन्ने यथा---'जलजं ललितविकासं सुन्दरहासं तवाननं हसति' । अत्र हामविकासयोर्बिम्बप्रतिबिम्बभावः । लालित्यसौन्दर्ययोः शुद्धसामान्यता । श्लेषोपात्तं जडजत्वं स्वाश्रयापकर्षहेतुः । ___ एवं सादृश्यनिषेधालीढो व्यतिरेको निरूपितः । अभेदालीढोऽप्येष संभवति यथा
'निष्कलङ्क निरातङ्क चतुःषष्टिकलाधर । सदा पूर्ण महीप त्वं चन्द्रोऽसीति मृषा वचः ॥'
इति रसगङ्गाधरे व्यतिरेकप्रकरणम् । अथ सहोक्तिःगुणप्रधानभावावच्छिन्नसहार्थसंबन्धः सहोक्तिः। हृद्यत्वं चालंकारसामान्यलक्षणागतं सकलालंकारसाधारणमेवेत्यसकदुकम् । तच्चात्र कार्यकारणपौर्वापर्यविपर्ययात्मिकया श्लेषभित्तिकाभेदाध्यवसानात्मिकया केवलाभेदाध्यवसानात्मिकया चातिशयोक्त्यानुप्राणने भवतीति वदन्ति । रूपकोपमाया आद्यार्धे उपमेयस्य पितुरुत्कर्षिका । द्वितीयार्धेऽनन्वयोपमा तादृशमातुस्तथा । तृतीयार्ध शुद्धोपमैव तादृश्यस्य पितुः स्वस्य चापकर्षिकेत्यर्थः । उपमा एवेति । एवेन रूपका दिव्यावृत्तिः। त्रिविधेति । अनुगामिबिम्बप्रतिबिम्बभावापन्नशुद्धसामान्यरूपेत्यर्थः । तृतीयस्यापीदमेवोदाहरणमित्याह-लालित्यति । स्वाश्रयेति । कमलेत्यर्थः । 'अभेदनिषेधालीढोऽपि' इति पाठः । यथेति । चन्द्रस्तु सकलङ्कः (उपरुगि) सातङ्कः षोडशकलः सदा न पूर्ण इति व्यतिरेकः ॥ इति रसगङ्गाधरमर्मप्रकाशे व्यतिरेकप्रकरणम् ॥
सहोक्ति लक्षयति-अथेति । गुणेति । गुणप्रधानभावावच्छिन्नयोरर्थयोः सहार्थसंबन्ध इत्यर्थः । तच्च हृद्यत्वं च । श्लेषेति । श्लेषमूलकेत्यर्थः । केवलेति । निगीर्या
For Private And Personal Use Only
Page #374
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३५८
www. kobatirth.org
काव्यमाला |
'अनुकूल भावमथवा पराङ्मुखत्वं सहैव नरलोके । अन्योन्यविहितमन्त्रौ विधिदिल्लीवल्लभो वहतः ॥' इत्यत्र प्रसङ्गवारणायावच्छिन्नान्तम् ।
उदाहरणम्
'केशैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम् ।
त्वया रणे निष्करुणेन राजंश्चापस्य जीवा चकृषे जवेन || अत्र चापाकर्षणकार्याणां केशाकर्षणादीनां पौर्वापर्यविपर्ययेणानुप्राणितः सहभावः, निष्करुणत्वेन च पौर्वापर्यविपर्ययः ।
यथा वा-
'भाग्येन सह रिपुणामुत्तिष्ठमि विष्टरात्कुवाविष्टः । महसैव तसि तेषु क्षितिशासन मृत्युना साकम् ॥' पूर्व तु कर्मणः सहोक्तिः इह कर्तुरिति भेदः ।
WAS
Acharya Shri Kailassagarsuri Gyanmandir
'त्वयि कुपिते रिपुमण्डलखण्डलपाण्डित्य संपदुद्दण्डे । गिरिगहनेऽरिवधूनां दिवसैः सह लोचनानि वर्षन्ति ॥ अत्र वर्षणवर्षवदाचरणयोः श्लेषेणाभेदाध्यवसितिः ।
यथा वा
'बहु मन्यामहे राजन्न वयं भवतः कृतिम् । विपद्भिः सह दीयन्ते संपदो भवता यतः ॥' पूर्वा कर्तृसहोक्तिः, इयं तु कर्मसहोक्तिर्व्याजस्तुतिसंवलिता । 'पद्मपत्रैर्नृणां नेत्रैः सह लोकत्रयश्रिया । उन्मीलन्तो निमीलन्तो जयन्ति सवितुः कराः ॥'
व्यवसानरूपयेत्यर्थः । अतिशयोक्त्या तत्सहकारेण । अन्वयानुयोगिना इति शेषः । अनुप्राणने पोषणे । अन्योन्येति । अन्योन्यं विहितो मन्त्रो विचारो याभ्यां तौ । अदृष्टादिलीशावित्यर्थः । अत्र तादृशहार्थ (?) संबन्धसत्त्वेऽपि तयोः समप्राधान्येन गुणप्रधानभावाभाव इति भावः । प्रतिभूपतीनामित्यस्य त्रिषु संबन्ध: । जोवा प्रत्यञ्चा । ननु विपर्यय एव कथमत आह--निष्केति । 'कुधाविष्ट:' इति पाठः । 'क्रोधाविष्ट:' इत्यपपाठः । तेषु रिपुषु । क्षितिशासनेति । द्वितीयभेदोदाहरणमाह- त्वयीति । कृतिक्रियां (?) । अत्र शत्रूणां विपन्मित्राणां संपदिति बोध्यम् / तृतीयभेदोदाहरणमाह - पद्मेति ।
For Private And Personal Use Only
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
अत्रोन्मीलननिमीलनयोः पद्मपत्राद्याश्रयभेदेन भिन्नयोरपि प्रकटत्वाप्रकटत्वाद्येकोपाध्यवच्छिन्नतयाभिन्नीकृतयोरुपादानमित्यस्त्येकक्रियासंबन्धः । अत्र एव न श्लेषः। तस्य प्रतिपाद्यतावच्छेदकभेद एव स्वीकारात् । एषूदाहरणेषु सहयोगतृतीयाप्रयुक्तो गुणप्रधानभावः । प्राधान्येन क्रियान्वये तु यथायथं तुल्ययोगिता दीपकं वा भवति । सहादिशब्दप्रयोगाभावेऽप्येषा संभवति । 'हो यूना-' इति निर्देशेन तृतीयायाः साम्राज्यात् । परं त्विवादिशब्दरहितोत्प्रेक्षादिवद्गम्या । अप्रधानभावस्तु शाब्द एव । ननु कथमप्रधानभावः शाब्द इत्युच्यते । यावता आर्थक्रियाद्यन्वयितारूपः स स्यात् पदार्थान्तररूपो वा । उभयथाप्यस्य वाचकशब्दाभावादशाब्दत्वमेवेति चेत् न । अस्ति तावत्सखण्डमखण्डं वा प्रधानत्वम् । यद्वशात् अयमस्मिन्नगरे प्रधान मुख्य इत्यादयो व्यवहारा आ पामरमुल्लसन्ति । तदभावरूप चाप्रधानत्वे 'सहयुक्तेऽप्रधाने' इति शास्त्रेण तृतीयायाः शक्तबोधनात्तस्य कथमशाब्दत्वम् । न च सहार्थेन युक्त वस्तुतोऽप्रधाने तृतीयेति तस्यार्थः न त्वप्रधानेऽर्थे वाच्ये इति । तथा च नोक्तार्थसिद्धिरिति वाच्यम् । एवं चाप्रधानग्रहणवैयापत्तेः । 'पुत्रेण सहागतः पिता' इत्यादौ पित्रादिभ्योऽन्तरङ्गत्वात्प्रथमोत्पत्तेरेवौ
कराः किरणाः ।प्रकटेति । उन्मीलनपदार्थप्रकटवादिरूपैकोपाधिवैशिष्टयेनाभिनीकृतयोरित्यर्थः । आदिना निमीलनपदार्थाप्रकटत्वपरिग्रहः । अत एवेत्यस्यार्थमाहतस्यति । श्रेषस्येत्यर्थः । एवं च निगीर्याध्यवसानरूपातिशयोक्तेरयं विषय इति भावः । प्राधान्येनेति । द्वयोरित्यादिः । यथायशमिति । प्रकृतत्वमात्रादौ प्रकृ. ताप्रकृतत्वे वेत्यर्थः । एषा सहोक्तिः । निर्देशति । अर्थयोगे तृतीया न तु शब्दयोगे इत्यनेन ज्ञापनादिति भावः । गम्येति । सहोक्तिरिति शेषः । शाब्द एवेति । तत्प्रयोगाभावेऽपीति भावः । यावता यस्मात् । सः अप्रधानभावः । पदार्थान्तरेति । अखण्डेत्यर्थः। चेन्नेति । तथानङ्गीकारादिति शेषः । तमेवाह अस्तीत्यादिना । सखण्डमिति । विशेष्यताख्यविषयतया प्रतीयमानत्वरूपस्येति तस्येत्यर्थः । अप्रधानस्यति तदर्थः । शाब्दक्रियान्वयत्वरूपं वेत्यर्थः । तदभावेऽपि तत्प्रतीतेराह-अखण्डं वेति। अनुभवबलादेव वैपरीत्यं नेति भावः । तदाह-यद्वशादिति । 'अप्रधानत्वे सहयुत्ते' इति पाठः । 'अप्रधानत्वेऽप्राधान्यत्वेन सह' इत्यपपाठः । वक्ष्यमाणग्रन्थविरोधात् । नन्वेवमपि प्रथमाया अविषये दोष एव अत आह-पुत्रेणेति । कारकैति । षष्ठ्या
For Private And Personal Use Only
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६०
काव्यमाला।
चित्यात् । 'पुत्रेण सह पितुरागमनम्' इत्यादौ कारकविभक्तेः प्राबल्याच । अन्यथा 'षष्ठी शेषे' इत्यत्रापि विशेषणग्रहणापत्तेः । तस्माद्यथा 'हेतौ नृतीया' इत्यादिशास्त्रं हेतुशक्तिग्राहकमेवं 'सहयुक्तेऽप्रधाने' इत्यप्रधानशक्तिग्राहकम् । यथैव तत्र प्रकृत्यर्थस्याभेदेन विभक्त्यर्थेऽन्वयस्तथेहापि शक्यो वक्तुम् । धर्मिशक्तावपि कर्मत्वादीनामिवाप्राधान्यस्यापि शाब्दत्वमव्याहतमेव । षष्ठीस्थले तु विशेषणशब्दाभावान्नैवमिति स्फुटमेव वैलक्षण्यम् । एतेन 'अप्रधानग्रहणं शक्यमकर्तुम्' इति वदन्तो मनोरमाकाराः परास्ताः । उक्तप्रकारेण सार्थक्यसिद्धौ मुनिवचनस्य वैयर्थ्यकल्पनाया अन्याय्यत्वात् । 'न च पुत्रेण सहागतः पिता' इत्यादी पुत्राभिन्नाप्रधानसहित इति बोधस्याप्रामाणिकत्वान्नोक्तार्थसिद्धिरिति वाच्यम् । 'दण्डेन घटः' इत्यादौ दण्डजन्यतावान् घट इति हि सर्वजनीने बोधे 'हेतौ तृतीया' इति मुनिवचनावलम्बन दण्डाभिन्नहेतुको घटः इति बोधं वदता भवतैवास्याः सरणेर्दर्शितत्वात् । ‘भावप्रधानमाख्यातं' इत्याद्यनेकैर्मुनिवचनैस्तत्र तत्र त्वत्कृतबोधवैपरीत्यस्यानुपपत्तेश्चेति कृतमप्रसक्तविचारेण ।
प्रकृतत्वाप्रकृतत्वे प्रायेणोपमेयतोपमानतयोनिर्णायके इत्युक्तत्वादिह न ताभ्यां तयोनिर्णयः । प्रकृतयोरपि साहित्यसंभवात् । किं तु प्राधान्याप्राधान्याभ्यामिति । हृद्यत्वं चास्या अतिशयोक्तिकृतमित्युक्तम् ।
इत्यर्थः । नन्वेवमप्युक्तार्थतात्पर्याग्राहकत्वेन तदावश्यकमत आह-अन्यथेति । एव. मपि तदङ्गीकारे । आपत्तेरिति । विशेष्ये षष्ठीवारणतात्पर्यग्राहकत्वेनेति भावः। उपसंहरति-तस्मादिति । तत्र हेतुटतीयायाम् । नन्वप्रधाने इत्युक्तेः समप्रधानत्वे शक्तिरिति धर्मिणः शाब्दत्वं न तस्येति प्रागुक्तं विरुध्यत अत आह-पष्टीति । एते. नेत्यस्यार्थमाह-उक्तति । कृतमिति ।अत्रेदं सर्व चिन्त्यम् । अप्रधानग्रहणप्रत्याख्यानपरभाध्यविरोधापत्तेः । अप्रधानभृत्यैः सह गतो राजेत्यत्र तृतीयानापत्तेश्च । राज्ञा सह सेना गच्छतीत्यादौ तृतीयापत्तेश्च । अन्तरङ्गत्वस्य दुर्वचत्वेन तथोक्तरसांगत्याच्च । बोधस्यान्यथा इष्यमाणत्वाच्च । सहोक्तिलक्षणं च यत्रैकस्य शाब्दः क्रियान्वयोऽपरस्य सहार्थबलादार्थ: सा सहोक्तिरिति । काव्यप्रकाशकृतामेवमेवोक्तिः। स्पष्टं चेदं सर्व मनपायाम् । साविति शेषः (६) । अस्याः सहोक्तेः । सा अतिशयोक्तिः। अतिशयोक्ते.
For Private And Personal Use Only
Page #377
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
यत्र तु सा नास्ति तत्र 'पुत्रेण सहागतः पिता' इत्यादौ न सहोक्तिरलंकारः।
अत्र विचार्यते- 'केशैर्वधूनां' इत्यादौ पौर्वापर्यविपर्ययानुप्राणिता सहोक्तिरलंकार इति न युक्तम् । अतिशयोक्तेरेवात्र चमत्कृत्याधायकत्वेन सहोक्तेर्नाममात्रत्वात् । 'तव कोपोऽरिनाशश्च जायते युगपन्नृप' इत्यस्मादतिशयोक्त्यलंकारात् 'तव कोपोऽरिनाशेन सहैव नृप जायते' इत्यत्र गुणभावमात्रकृतवैलक्षण्येऽपि विच्छित्तेरविशेषात्तस्यैव चालंकारविभाजकत्वात् । न च सादृश्यानुप्राणितस्य रूपकादेरप्यप्टथग्भावापत्तिः । 'निशाकरसमानोऽयमयं साक्षान्निशाकरः' इत्यादौ विच्छित्तिवैलक्षण्यस्य जागरूकत्वात् । अन्यथा तत्प्रयुक्तस्य व्यतिरेकस्यानुत्थानापत्तेः । अपि च सादृश्यप्रयुक्तरूपकादिषु सादृश्यस्य गुणत्वाच्चमत्कृतिविश्रान्तिधामभ्यो रूपकादिभ्यो यथा न पृथग्व्यपदेश्यत्वं तथा सहभावोक्त्याविर्भूतायाः कार्यकारणपौर्वापर्यविपर्ययात्मिकाया अतिशयोक्तेः सकाशादस्याः सहोक्तेरप्टथग्भाव एवोचितः । नन्वेवं सति सहोक्तेनिविषयत्वं स्यात् । सहोक्त्यन्तरस्याप्यभेदाध्यवसानरूपातिशयेन कवलीकारादिति चेत् न । अभेदाध्यवसानमूलायां हि सहोक्तावभेदाध्यवसानेन सहोक्तिरुपस्क्रियत इति न गुणेन प्रधानस्य तिरस्कारः । अपि तु प्रधानेन गुणस्येत्युक्तदिशा सावकाशैव सहोक्तिः । गुणप्रधानभावश्च निराग्रहैः सूक्ष्मदृशावधानीयः । किं च परस्पराभेदाध्यवसानमात्रमतिशय एव । नातिशयोक्तिः । रिति । उक्तरूपेत्यादि । एवमग्रेऽपि । विच्छित्तेश्चमत्कृतेः । तस्येव विच्छित्तिविशेषस्यैव । अप्रथगिति । उपमात इत्यादिः । इत्यादाविति । मिथ इति शेषः । अन्यथा तद्वैलक्षण्येऽप्यपृथग्भावे । तत्प्रयुक्तस्य व्यतिरेकस्येति । निशाकरसमानत्वेन वणितापेक्षया साक्षानिशाकरत्वेन वणिते भाममानस्य साक्षानिशाकरत्ववर्णनप्रयुक्तस्य व्यतिरेकस्येत्यर्थः । सहभाचोक्त्याविरिति । अनेनास्या गुणत्वं दर्शितम् । अभेदाध्यवसानेति । इदमुपलक्षणं शेषमूलाभेदाध्यवसानस्यापि । हि यतः । उपस्क्रियते मस्क्रियते । ननु स्यादेवं यदि सहोक्तेः प्राधान्यमतिशयोक्तेश्च गुणत्वं निश्चितं स्यात् । तदेव तु न । वैपरीत्यस्यापि संभवात् । अत आह-गुणेति । श्लेषमूलाभेदाध्यवसानमूलायामपि सावकाशत्वमाह-किं चेति । तस्य मिथोऽभेदाध्यवसानस्य । सा तु
For Private And Personal Use Only
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६२
काव्यमाला।
तस्य श्लेषादावपि सत्त्वात् । सा तूपमानेनोपमेयस्य निगरणम् । एवं च 'वर्षन्त्युन्मीलन्तो निमीलन्तः' इत्यादिष्वेकेनापरनिगरणाभावान्नातिशयोक्तिगन्धोऽपि । अतिशयमानं तु प्रायशः साधारणधर्माशे बहूनामलंकाराणामुपस्कारकम् । नहि 'शोभते चन्द्रवन्मुख' इत्यादौ चन्द्रमुखशोभयोर्वस्तुतो भिन्नयोरभेदाध्यवसानमन्तरेणोपमा समुल्लसति । तस्मात् 'कार्यकारणपौर्वापर्यविपर्ययमूलः सहोक्तेरेकः प्रकारः' इति सर्वस्वकारादीनामुक्तिराग्रहमूलैव । अभेदाध्यवसानमूलस्तु प्रकारो भवतु नाम सहोक्तेविषयः । यदि तु दीपके तुल्ययोगितायां चोपमानोपमेययोः प्राधान्येन क्रियादिरूपधर्मान्वयः । इह तु गुणप्रधानभावेनैवेति विशेषः सन्नपि विच्छित्तिविशेषानाधायकतया नालंकारान्तरताप्रयोजकः । अपि तु तदवान्तरभेदतायाः इति विभाव्यते, निरस्यते च प्राचीनमुखदाक्षिण्यं तदा निविशतामियमपि कृप्तालंकारेप्वेव । किंचिद्वैलक्षण्यमात्रेणैवालंकारभेदे वचनभङ्गीनामानन्त्यादलंकारानन्त्यप्रसङ्गादिति सत्यं गुणप्रधानभावालिङ्गितस्य सहभावस्थालंकारान्तराद्विच्छित्तिविशेषमनुभवन्तः प्राचीना एव सहोक्तेः पृथगलंकारतायां प्रमाणम् । अन्यथा एवंजातीयोपप्लवेन बहु व्याकुली स्यात् । नैव प्रमाणीकुर्महे वयं मृषा मुकुलितविलोचनान्प्राचः । निवेश्यतां चेयमलंकारान्तरभवनोदरं वराकी इति तु प्रभुत्व केवला । न सहृदयत्वम् । अतिशयोक्तिस्तु । श्लेषोदाहरणमाह-वर्षन्तीति । कवलाभेदाध्यवसानोदाहरणमाह-उन्मीलन्त इति । एकेनेति । उपमानेनोपमेयस्येत्यर्थः । गन्धोऽपि लशो. ऽपि । नैवमत्रैव किं त्वन्यत्रापीत्याह-अतीति । कचिदनुगामिन्यभावादाह-प्रायश इति । उपसंहरति-तस्मादिति । निविषयत्वं परिहरति-अभेदेति । इदमपलक्षणं प्राग्वत् । इह तु सहोक्ती तु । तदवान्तरोति । अलंकारावान्तरेत्यर्थः । निरस्यते त्यज्यते । दाक्षिण्यं संकोचः । इयमपि अवशिष्टा द्विविधापि । किंचिदिति । उक्तरीत्या अन्वयतेत्यर्थः (१) । वचनभङ्गीनां वचनरचनानाम् । प्राचीना एवेति । एवं च एतदनुभवबलेनैव गुणप्रधानभावकृतविच्छित्तिविशेषमाश्रित्य सर्वस्वकारायुक्तः कार्यकारणपौर्वापर्यविपर्ययमूलोऽपि सहोक्तः प्रकार आश्रयणीय इति तत्खण्डनं प्रागुक्तं चिन्त्यमिति बोध्यम् । अन्यथा तदनुभवप्रामाण्यानङ्गीकारे । व्याकुलीतिं । प्रागुपपा
For Private And Personal Use Only
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३६३
एवं क्रियायाः साधारणधर्मत्वे इयमुदाहृता । गुणस्य तथात्वे यथा
'मान्थर्यमाप गमनं सह शैशवेन
रक्तं सहैव मनसाधरबिम्बमासीत् । किं चाभवन्मृगकिशोरदृशो नितम्बः
सर्वाधिको गुरुरयं सह मन्मथेन ।' अत्र यद्यपि क्रियापि गुणेन सह समानधर्मतामनुभवति तथापि तस्यानान्तरीयकत्वेनासुन्दरत्वाद्गुणस्यैव पर्यवसाने समग्रभरसहिष्णुत्वम् । शोणत्वासक्तत्वाभ्यामधिकभारत्वोपदेशकर्तृत्वाभ्यां च भिन्नयोरप्युपमेयोपमानगतयोनिरुक्तगुणयोः श्लेषेण पिण्डीकरणात्सहभावोपपत्तिः । एवं श्लेषाभावेऽपि केवलाध्यवसानेन बोध्यम् । यत्रैकमेवोपमेयं विलक्षणसहोत्यालम्बनं सा मालासादृश्यान्मालासहोक्तिः । वैलक्षण्यं च सहोक्तेः स्वसमानाधिकरणसहोक्त्यन्तरापेक्षया बोध्यम् । 'केशैर्वधूनां' इत्यत्र केशैः सह कोषैः सह प्राणैः सहेत्युपमानभेदेन साहित्यस्यानेकत्वेऽपि कर्षणैक्यात्सहोक्तेरभेदः । सति वा यथाकथंचिद्दे न वैलक्षण्यम् । धर्मक्यात् । धर्मोपमानोभयकृतवैलक्षण्यस्य चात्र विवक्षणात् । 'उन्मीलन्तो निमीलन्तः' इत्यत्र च धर्मवैलक्षण्येऽप्युन्मीलनधर्मोत्थापितसहोक्तिघटकोपमानानां पद्मपत्रादीनामेव निमीलनधर्मोत्थापितायामपि सहोक्तो घटकत्वान्न मालारूपत्वम् । 'भाग्येन सह रिपूणां-' इति तदाहरणमेव । दितमिदम् । तथात्वे साधारणधर्मत्वे । मान्थयं मन्दत्वम् । क्रियापीति । प्राप्त्यादिरित्यर्थः । एवं च गुणस्य तथात्वोदाहरणत्वोक्तिरयुक्तति भावः । नान्तरीयकत्वेनति । तां विना वाक्यार्थासमाप्तेरिति भावः । समग्रेति । विच्छित्याधायकत्वेत्यादिः । नन्वेवपि मान्थयोशे तथात्वेऽपि रक्ताद्यशे धर्मयोर्भेदात्कथं तत्त्वमत आह-शोणत्वेति । अधरे शोणत्वं मनस्यासक्तत्वं नितम्बेऽधिकभारत्वं कामे उपदेशकर्तत्वमिति बोध्यम् । तृतीयभेदेऽप्येवमेव पिण्डीकरणमित्याह-एवमिति । ननु प्रागुक्तसहोक्त्यपेक्षया न वै. लक्षण्यमत आह-वैलक्षण्यं चेति। तथा च विलक्षणेत्यस्य मिथो भिन्नेत्यर्थः सूचितः । नन्वेवं केशरित्यत्रापीयं भवेदत आह-के शैरिति । ननु धर्मेक्येऽपि तद्भेदेनेयं स्यादेवात आह-सतीति । सत्यपीत्यर्थः । यथाकथंचिदिति । धर्मोपमानान्यतररूपेणेत्यर्थः । प्रकृताभिप्रायेणाह-धमक्यादिति । अत्र मालासहोक्तिलक्षणे। क्वचिद्धर्मवैलक्षण्येऽप्युपमानाभेदान्नैवमित्यभिप्रायेणाह-उन्मीलन्त इति । नन्वेवं तहि किमस्या उदाहरणमत आह-भाग्येनेति । तत्र धर्मोपमानयोर्भेदादिति भावः ।
For Private And Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
यथा वा--
'उन्मीलितः सह मदेन बलाबलारे____ रुत्थापितो बलभृतां सह विस्मयेन । नीलातपत्रमणिदण्डरुचा सहैव
पाणौ धृतो गिरिधरेण गिरिः पुनातु ।' अत्र नीलातपत्रमणिदण्डरुचो गिरिधरणोत्तरकालिकत्वादुत्तरार्धगता पौर्वापर्यविपर्ययानुप्राणितैव सहोक्तिनिदर्शनानुप्राणिता च । पूर्वार्धगते तु प्रकारद्वयेनापि संभवतः ।
. इति रसगङ्गाधरे सहोक्तिप्रकरणम् । अथ विनोक्तिःविनार्थसंबन्ध्येव विनोक्तिः।
हृद्यत्वं चानुवर्तते । तच्च विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वाभ्यां भवति । यथा
'संपदा संपरिष्वक्तो विद्यया चानवद्यया ।
नरो न शोभते लोके हरिभक्तिरसं विना ।' यथा वा'वदनं विना सुकवितां सदनं साध्वीं विना वनिताम् ।
राज्यं च विना धनितां न नितान्तं भाति कमनीयम् ॥' रमणीयत्वे यथा---
‘प विना सरो भाति सदः ग्वलजनैर्विना ।
कटुवर्णेविना काव्यं मानसं विषयविना ॥' उन्मलित: समलं खण्डितः । बलागेरिन्द्रस्य । एवेन श्लेषादिप्रकारद्वयव्यावृत्तिः । निदर्शनेति । सदृशवाक्यार्थयोरेक्यारोपादिति भावः । गते तु सहोक्ती इति शेषः । प्रकारद्वयेनेति । श्लेषभिनप्रकारद्वयेनेत्यर्थ: ।। इति रसगङ्गाधरमर्मप्रकाशे सहोक्तिप्रकरणम् ॥
विनोक्ति लक्षयति-अथेति । 'विनार्थसंबन्ध एव' इति पाठः। तच्च हृद्यत्वं च । उद्देशक्रमपरीत्येनारमणीयत्वे तावदाहगति--यथेति । सदः सभा । मानममन्तःकरण
For Private And Personal Use Only
Page #381
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। पूर्वा तु केवला, इयं तु दीपकानुकूला । मिश्रिता यथा--
'रागं विना विराजन्ते मुनयो मणयस्तु न ।
कौटिल्येन विना भाति नरो न कबरीभरः ॥' अत्र प्रतिवस्तूपमानुकूला।
'त्रासैविना विराजन्ते शूराः सन्मणयो यथा ।
न दानेन विना भान्ति नृपा लोके द्विपा इव ।।' अत्र श्लेषमूला उपमानुकूला।
'यथा तालं विना रागो यथा मानं विना नृपः ।
यथा दानं विना हस्ती तथा ज्ञानं विना यतिः ॥' पूर्व क्रियागुणादिसंबन्ध आवश्यकः इह तूपमामाहात्म्यावदगम्यते स इति न तथा ।
इयं च न केवलं विनाशब्दस्य सत्त्व एव भवति । अपि तु विनाशब्दार्थवाचकमात्रस्य । तेन नज-निर-वि-अन्तरेण ऋते-रहित-विकल इत्यादिप्रयोगे इयमेव ।
'निर्गुणः शोभते नैव विपुलाडम्बरोऽपि ना ।
आपातरम्यषप्पश्रीशोभितः शाल्मलिर्यथा ॥' अलंकारभाष्यकारस्तु 'नित्यसंबन्धानामसंबन्धवचनं विनोक्तिः' इत्याह । तस्य मते तु नैतान्युदाहरणानि । इदं तूदाहरणम्म् । पूर्वा अरमणीयत्वोदाहृतत्वावच्छिन्ना । तयोर्नरराजयोवर्णनेन तदीयत्वेन सर्वेषां प्रकृतत्वात् । इयं रमणीयलोदाहृता । मिश्रिता यथेति । विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वाभ्यां मिश्रितेत्यर्थः । रागमनुरागं लौहित्यं च । कौटिल्येन वक्रान्तःकरणेन वक्रतया च । वासो भयं दोषश्च । दानं वितरणं मदजलं च । द्विपा गजाः । अत एवाह-अत्रति । इदं पर्वोदाहरणेऽपि बोध्यम् । दीपकासंसृष्टं विषयं प्रदर्शयन्नरमणीयत्वे उदाहरति-यथेति । न शोभते इति सर्वत्र बोध्यम् । ताल: संगीतशास्त्रप्रसिद्धो ध्वनिविशेषः । यति: संन्यासी । स क्रियादिसंबन्धः । तथेति । नावश्यक इत्यर्थः । अयमेव पूर्वतो विशेष इत्यर्थः । इयं च विनोक्तिश्च । आदिना अनादिसंग्रहः । निर्गुण इति । बबादम्बरोऽपि ना पुरुषः निर्गुणः मन्नैव शोभत इत्यर्थः । चेतना बुद्धिः तस्याः
For Private And Personal Use Only
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
'मृणालमन्दानिलचन्दनानामुशीरशेवालकुशेशयानाम् ।
वियोगदूरीकृतचेतनाया विनैव शैत्यं भवति प्रतीतिः ॥' अत्र शैत्यस्याविनाभावेऽपि विनाभावो निबद्धः । यथा वा
'शैत्यं विना न चन्द्रश्रीन दीपः प्रभया विना ।
न सौगन्ध्यं विना भाति मालतीकुसुमोत्करः ।।' अलंकारान्तरसमालिङ्गनाविभूतमेवास्या हृद्यत्वम्, न स्वतः । तेनालंकारान्तरत्वमपि शिथिलमेवेत्यपि वदन्ति ।
अथास्या ध्वनिःयथा'विशालाभ्यामाभ्यां किमिह नयनाभ्यां फलमसौ
न याभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यकारः श्रवणयुगलस्य त्रिपथगे
। यदन्त यातस्तव लहरिलीलाकलकलः ॥' अत्र त्वदर्शनं विना नयनयोः, त्वल्लहरिकोलाहल श्रवणं विना श्रवणयोश्चारमणीयत्वं फलप्रश्नधिक्काराभ्यां व्यज्यते । तस्य च भावध्वन्यनग्राहकत्वेऽपि ध्वनिव्यपदेश्यत्वमव्याहतम् । अन्यथानुग्राहकत्वलक्षणसंकरोच्छेदापत्तेः । एवं च'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन ॥' इति कस्यचित्कवेः पद्यं विनोक्तिध्वनिरेव । परंतु परस्परविनोक्तिवशाद्वैलक्षण्यशालि।
इति रसगङ्गाधरे विनोक्तिप्रकरणम् । शैत्यं विनैव तेषां प्रतीतिर्भवतीत्यर्थः । शैत्यस्येति । मृणालादीति सहेति शेषः । एवं रमणीयत्वे उदाहरणं दत्त्वा अरमणीयत्वे उदाहरति—यथेति । आलीढा दृष्टा । न्यक्कारस्तिरस्कारः । यदन्तरिति । श्रवणयुगलान्तरित्यर्थः । त्वद्दर्शनं भागीरथीदर्शनम् । तस्य च व्यज्यमानारमणीयत्वस्य । भावेति । कविनिष्टगङ्गाविषयकेत्यादिः । अन्यथा अनुग्राहकत्वात्तव्यपदेशानङ्गीकारे । एवं च तस्य तद्व्यपदेश्यत्वे च । वैलक्षण्योत । पूर्वोदाहरणापेक्षयेति भावः ।। इति रसगङ्गाधरमर्मप्रकाशे विनोक्तिप्रकरणम् ॥
For Private And Personal Use Only
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३६७ अथ समासोक्तिः
यत्र प्रस्तुतर्मिको व्यवहारः साधारणविशेषणमात्रोपस्थापिताप्रस्तुतर्मिकन्यवहाराभेदेन भासते सा समासोक्तिः।।
साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रकृतधर्मिकव्यवहाराभिन्नत्वेन भासमानप्रकृतर्मिकव्यवहारत्वमिति चैकोक्तिः । शब्दशक्तिमूलध्वनि वारणाय मात्रेति । तत्र विशेप्यस्यापि श्लिष्टतया प्रकृतेतरधर्म्युपस्थापनद्वारा तादृशधर्मिकव्यवहारोपस्थापकत्वात् । एवमपि 'आबध्नास्यलकान्निरस्यसि तमां चोलं रसाकाङ्क्षया
लङ्कायावशतां तनोषि कुरुषे जङ्घाललाटक्षतम् । प्रत्यङ्गं परिमर्दनिर्दयमहो चेतः समालम्बसे
वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमत्यद्भुतम् ॥ इत्यत्र प्रकृतधर्मिकप्रकृताप्रकृतव्यवहारविषयके श्लेषेऽतिव्याप्तेर्वारणाय प्रस्तुताप्रस्तुतत्वे धर्मिविशेषणतयोपात्ते । व्यवहारविशेषणत्वेन तयोरुपादाने तु साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रकृतशृङ्गारटत्तान्ताभिन्नत्वेन स्थित एवात्र प्रकृतो वीरवृत्तान्त इति स्यादेवातिप्रसङ्गः । न चात्र राज्ञो वर्णनस्य प्रस्तुतत्वात्तद्गतयोईयोरपि वृत्तान्तयोः प्रस्तुतत्वमिति कथमतिप्रसङ्ग इति वाच्यम् । न स्यादतिप्रसङ्गः, यदि वर्णनमात्रं प्रस्तुतं स्यात् । तत्सङ्ग्रामादौ वीरतामात्रवर्णनप्रस्तावे तु स्यादेवातिप्रसङ्गः ।
'मलिनेऽपि रागपूर्णा विकसितवदनामनल्पजल्पेऽपि ।
त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥' समासोक्ति निरूपयति-अथेति । वाक्येनोक्तमर्थ सामस्त्येनाह–साधारणेति । मात्रपददानफलमाह-शब्दति। तत्र शब्दशक्तिमूलध्वनौ। अपिना विशेषणसमुच्चयः । तादृशेति । अप्रकृतेत्यर्थः । अलकाः केशाः, अलका कुबेरपुरी । चोल: कञ्चकः, देशश्च । रसाकाइयेति पूर्वान्वयि । रसः शृङ्गारः, वीरश्च । अलं कायस्यावशताम्, लङ्काया वशतां च । जवाललाटसमाहारक्षतम्, जङ्घाल-लाटदेशयो शं चेत्यर्थः । अहो इत्याश्चर्ये । हे नृपेन्द्र, भवतः परिमर्द निर्दयं चतः प्रत्यङ्गं प्रत्यवयवं अङ्गमङ्गदेशं च समालम्बते । वामानां सुन्दरोणाम्, वक्राणां शत्रूणां च । प्रकृतति । राजेत्यर्थः । तयोः प्रस्तुतत्वाप्रस्तुतत्वयोः । तत्सङ्ग्रामादौ राजसङ्ग्रामादौ । मात्रवर्णनेति । वर्णनमात्रेत्यर्थः । क्वचित्तथैव पाठः । मलिनपीत्यादिसप्तम्यन्तानि लयीत्यस्य विशेषणानि । उपात्तत्वं विशेष्ये अन्वे.
For Private And Personal Use Only
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३६८
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
इत्याद्यप्रस्तुतप्रशंसायामप्रकृतव्यवहारः साक्षादुपात्तत्वाद्विशेष्येणा
प्युपस्थापित एवेति न तत्रातिव्याप्तिः ।
यदि तु जलक्रीडादौ भ्रमरवृत्तान्त एव प्रस्तुतस्तदा भवत्येवेयं समासोक्तिः ।
ति । विशेष्येणापीति । अपिना विशेषणपरिग्रहः । तथा च विशेषणमात्रोपस्थापितत्वाभावान्नातिप्रसङ्ग इति मात्रपदस्यैवं कृत्यमिति भावः । ननु तर्हि किमिति द्वितीयमिदं दत्तमत आह-यदि त्विति । समासांक्तावप्रस्तुतवृत्तान्तसमारोप एव चारुताहेतुरिति प्राञ्चः । तेषामयमाशयः --- अयमैन्द्रोत्यादौ श्लिष्टविशेषणप्रतीतप्रस्तुताप्रस्तुतवृत्तान्तयोः श्लेषभित्तिकाभेदाध्यवसायेनाभिन्नयोः प्रस्तुत चन्द्रादिवृत्तिता । तत्र तयोरृत्तान्तयोः परस्परं विशेष्यविशेषणभावे कामचारेऽपि प्रस्तुतवृत्तान्तो विशेष्यः । तद्बोधकबोध्याप्रस्तुतस्तु अभेदेन तद्विशेषणम् । एवं चाप्रस्तुताभिन्नप्रस्तुतस्य चन्द्रेणान्वयः । तत्र यद्यपि प्रस्तुतस्य स्वासाधारणधर्मेण चन्द्रेऽन्वययोग्यतास्ति तथाप्यप्रस्तुताभेदमापन्नस्य नसास्तीति तद्रूपावच्छिन्नस्य तस्याप्रकृते धर्मिण्यारोपः । एवं चाप्रस्तुतव्यवहारसमारोपपदेन प्रस्तुतव्यवहारसमारोपपदेन च प्रस्तुतव्यवहारतादात्म्यापन्नसमारोप उच्यते । न च तत्तादात्म्यापन्नत्वे ऽपि विशेष्यतायाः प्रस्तुते एव सत्त्वे नारोपं विनाप्यन्वययोग्यतेति वाच्यम् । दृगब्जेन वीक्षते इत्यादी विशेष्यस्य स्वरूपेणेतरान्वयायोग्यस्येतरतादात्म्यापत्त्या तद्योग्यत्ववत्स्वतोऽन्वययोग्यस्यापीतरतादात्म्यापच्या तदयोग्यत्वस्यापि सत्त्वात् । न च रूपकवत्समासोक्तावपि प्रस्तुतेऽप्रस्तुतरूपसमारोप एव चाहता हैतुरस्तु । तद्वाचकपदसमभिव्याहाराभावेन तस्यासंभवात् । नचाक्षिप्तनायकादिना आक्षिप्तरूपकं भवतु । ‘निरीक्ष्य विद्युन्नयनैः पयोदः' इत्यत्र पयोदे दृष्ट्रपुरुषरूपकाक्षेपकनिरीक्षणवदाक्षेपकाभावात् । न च विशेषणसाम्यप्रतीताप्रकृतवृत्तान्त एवाक्षेपकोऽस्तु । अप्रस्तुतस्य प्रस्तुते विशेषणतया तस्य प्राधान्याभावेनानाक्षेपकत्वात् । एतेनाक्षेपासंभवेsपि परनायिकामुखचुम्बनस्य श्लेषमर्यादया प्रतीतस्य प्रकृतधर्मिणि चन्द्रे आरोप्यमाणस्य जारासाधारणधर्मत्वेन प्रकृतधर्मिणि जारत्वव्य अकता सुवचा । न च चन्द्रे जारत्वारोपमन्तरेणापि जारव्यवहारारोपसिद्धिरनुपपत्त्यभावान्न जारत्वं गमयेदिति वाच्यम् । व्यञ्जनाया अनुपपत्ति विनापि प्रसरात् । गतोऽस्तमर्क इत्यादी तथैव दर्शनात् । अन्यथा अर्थापत्त्या गतार्थत्वेन व्यञ्जना वैयर्थ्यप्रसङ्गादित्यपास्तम् । किं चैवं सति वाच्यार्थबोधोत्तरं तद्व्यङ्गयप्रतीतिः । सापि न केवलव्यवहारमात्रात् । अपि तु तादृशनायकानायिकासंबन्धविशिष्टव्यवहारज्ञानात् । एवं च वाच्यार्थबोधकालिक चमत्कारबीजगात्रमत्र निरूप्यते इत्यदोष: । अपि च तादृशव्यङ्ग्यस्याधिकचमत्कारकारित्वेन ध्वनिव्यवहारयोग्यतया नालंकारशरीरघटकता । एवं च समासोक्तेस्तादृशध्वन्युपस्कारकतयाधि
For Private And Personal Use Only
Page #385
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
कचमत्कारकारित्वमलंकारत्वं च । न चैवं समासोक्तौ रूपकध्वनिनैव निर्वाहे पृथगलंकारत्वं न स्यादिति वाच्यम् । वाच्यार्थबोधकालिकचमत्कारस्यापहोतुमशक्यत्वेनालं. कारत्वस्य दुरपह्नवत्वात् । विपरीतनायकत्वारोपव्यञ्जनस्य समासोक्त्यन्तीव(वद)तो ध्वनित्वस्य दुर्वारत्वाच तद्व्यङ्गयस्याधिक चमत्कारकारित्वेन प्रधानत्वात् । न च श्लिष्टशब्दोपस्थापितयोवृत्तान्तयोः परस्परमभेदेनान्वये मानाभावः । सहृदयहृदयस्यैव प्र. माणत्वात् । अत एव 'आगत्य संप्रति वियोगविसंष्ठुलाङ्गीम्' इत्यत्रार्थशक्तिमूलो नायकना. यिकावृत्तान्तो वाच्यरविकमलिनीवृत्तान्ताध्यारोपेणैव स्थित इति प्रदीपकृतः । प्राचीनानुभवमपलप्यापि यद्येकत्र द्वयमिति रीत्या प्रस्तुताप्रस्तुतवृत्तान्तयोविशेष्येणैवान्वयः स्वीक्रियते एवमपि वाक्यार्थबोधकाले प्रस्तुते धर्मिणि नाप्रस्तुतजारत्वारोपप्रत्याशा । तथाहि यद्यप्यनयोभिन्नपदोपात्तविशेषणयोरिव विशेष्येणैव साक्षादन्वयात्समप्राधान्यमस्तीति स्वीक्रियते तथाप्यप्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुतेऽप्रस्तुतरूपसमारोपः । प्रस्तुतेऽप्रस्तुतवृत्तान्तारोपेणैव सिद्धेः । अप्रस्तुतरूपसमारोपेऽपि प्रस्तुतवृत्तान्तान्वयायोग्यतायास्तदवस्थत्वाच । नन्वेवं सति विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिरिति प्राचीनलक्षणासंगतिः । अप्रस्तुतमिव्यञ्जनस्य त्वयानपेक्षणादिति चेत् न । स्वरूपतोऽप्रस्तुतवृत्तान्तारोपस्याचमत्कारित्वम् किं त्वप्रस्तुतकामुकादिसंबन्धित्वेनावगम्यमानस्यैव तस्यारोपः । अतः श्लेषादिमहिन्ना विशेषणपदैः स्वरूपतः समर्पितेन चुम्बनादिना ऐन्द्री चन्द्र इत्येतद्तस्त्रीलिङ्गपुंलिङ्गसहकृतेन तत्संबन्धिनि कामुकादावभिव्यक्ते पुनस्तदीयत्वानसंधानात् । विशेषणसाम्येन वाच्योपस्कारकस्याप्रस्तुतव्यञ्जनस्याक्षेपणात् । अप्रस्तुतस्येत्यस्याप्रस्तुतव्यवहारस्येत्यर्थो वा । एतेन वदनचुम्बनस्य पुत्रादिसाधारण्यात्कथं कामुकाभिव्य अकत्वम् किं च 'अहर्मुखं चुम्बति भानुबिम्बं' इत्यत्रापि नायकाद्यभिव्यक्त्यापत्तिरित्यपास्तम् । यत्तु चन्द्र ऐन्द्रीपदगतलिङ्गाभ्यामभिव्यक्तनायकयोः स्वव्यञ्जकपदोपस्थापिताभ्यामभेदेनैवान्वय उचितः । समानपदोपात्तत्वप्रत्यासत्तेरिति तन्न । एवं हि वदता व्यवहारावच्छेदकत्वं तयोः स्वीक्रियते न वा । आद्ये एकस्यार्थस्योभयत्रान्वयोऽव्युत्पत्तिग्रस्तः । अन्त्ये रसाननुगुणत्वम् । यद्यप्यैन्द्रयादौ नायिकात्वाभाने केवलं व्यवहारावच्छेदकत्वमात्रस्वीकारे बाधः । नायिकात्वानालीटकेवलैन्द्रीमुखचुम्बनरूपस्य व्यवहारस्य नायकासंबन्धित्वात् । नहि दिक्तादात्म्यं विना नायिकायाः पृथन्मुखं विशेपयितुं सामर्थ्यमस्तीति तदपि न । मुखशब्दश्लेषसामर्थेन ऐन्द्रीमुखमित्यस्य समस्तत्वेऽपि ऐन्यशे मोषेण केवलमुखचुम्बनस्योपस्थितेः । तदेतदुक्तं कुवलयानन्दे -श्लेषादिमहिना स्वरूपतः समर्पितेन वदनचुम्बनादिनेति । नय॑न्द्रीपदशब्दार्थेन दिग्रूपेण वदनरूपमुखपदार्थस्यान्वयो वक्तुं शक्यः सहृदयैः । नन्वेतादृशकुमृष्टिकल्पनापेक्षया विशेषणसाम्यमहिना प्रतीतोऽप्रकृतवाक्यार्थः स्त्रीलिङ्गपुंलिङ्गाभ्यामभिव्यक्तनायिकाद्यभिन्नचन्द्रादिघटितप्रकृतवाक्याथै स्वावयवतादात्म्यापन्नतदवयवोऽवतिष्ठते इत्येव कल्पयितुं युक्तम् । एवं च नायिकाभिन्न इन्द्रदिशासंबन्धिवदनाभिन्नप्रारम्भकर्मकचुम्बनरूपसंबन्धाश्रयो नायकाभिन्नश्चन्द्र इति बोध इति चेत् न । एवं हि ऐन्यां नायिकाभेदप्रतीतौ मुखच
For Private And Personal Use Only
Page #386
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
तत्र तावत्
'विबोधयन्करस्पर्शः पद्मिनी मुद्रिताननाम् ।
___ परिपूर्णानुरागेण प्रातर्जयति भास्करः ॥' इत्यत्र किरणस्पर्शकरणकमुकुलितपद्मिनीकर्मकविकासानुकूलव्यापारवदभिन्नो भास्करो जयतीति वाक्यार्थः शक्त्यैव तावत्प्रतीयते । हस्तस्पर्शकरणकनायिकाविशेषकर्मकानुनयानुकूलव्यापारवदभिन्न इत्यादिश्चापरोम्बनादौ वदनचुम्बनाद्यभेदप्रतीतावपि वदनचुम्बने साक्षान्नायिकासंबन्धाप्रतीत्या रसोद्वोधानापत्तेः । न च व्यञ्जनया तत्प्रतीतिरस्ति एवमस्मिन्पदभेदः तत्संबन्धिनि तत्संबन्ध्यभेद इति न्यायेन वा मानसिकी तत्प्रतीतिः तत एव चमत्कार इति वाच्यम् । तदपेक्षया साक्षाच्चमत्कारोपपादकवाच्यार्थबोधव्युत्पादनस्यवौचित्यात् । नन व्यन्जनया अ. प्रकृतार्थ बोधः । शक्तेः प्रकरणादिना नियन्त्रणात् । ततो व्यञ्जनमाहात्म्यादेव प्रकृतवाक्यार्थतादात्म्येनावतिष्ठते इति चेत् ताहि वैयअनिकोऽप्रकृतार्थबोधो नायिकाद्य विशेषितो विशेषितो वा । नाद्यः। रसाननुगुणत्वात् । अन्त्ये स्वपदोपस्थापिताभ्यां लिङ्गाभ्यां नायिकाद्यभेदबोधो व्यर्थोऽसंभवी च । नायिकाविशेषणकव्यवहारबोधनेन कृतार्थत्वात् । अपि च तथा सति जारकर्तृकसानुरागपरनायिकामुखचुम्बनाभिन्नप्राचीप्रारम्भसंयोगाश्रयो जाराभित्रश्चन्द्र इति बोधकदर्थनमेव स्यात् । तस्माद्य अनया शक्त्या वा उपस्थिताप्रस्तुतवृत्तान्तेन व्यञ्जनयोपस्थितनायकादिसंबन्धित्वेन गृहीतेनाभेदमापनः प्रस्तुतवृत्तान्तारोपः । प्रकृतविशेष्ये नव्यमते श्लेषस्थले प्रकृतोपस्थितेः शक्त्यैव व्यवस्थापयिष्यमाणत्वेन तन्मते शक्त्यैवाप्रकृतार्थोपस्थितिः । प्राचां तु व्यञ्जनयेत्येतावान्विशेषः । एवं च वाच्यार्थबोधोत्तरं यदि चन्द्रादौ नायकत्वादिप्रतीतिरपि सहृदयानुभवसाक्षिकी तदास्तु इत्युपपादितमेव प्राक् । एतेन 'निर्लक्ष्मीकाभवत्प्राची प्रतीची याति भास्करे । प्रिये विपक्षरमणीरक्त का मुदमञ्चति ॥' इत्यत्र पूर्वार्धगतायां समासोक्तौ नायकत्वाप्रतीतावुत्तरार्धे प्रियवादिना समर्थनायाः सर्वथैवानुपपत्तिरिति परास्तम् । प्रस्तुतप्राचीवृत्तान्ते आरोप्यमाणाप्रस्तुतखण्डितनायिकाविशेषवृत्तान्तसमर्थनाय तस्यावश्यकलाच । एवं च सानुरागपरनायिकामुखचुम्बनाभिन्नप्राचीप्रारम्भसंयोगाश्रयश्चन्द्र इत्येव बोधः । एतेन अयमेन्द्रीत्यादौ शक्तिव्य अनाभ्यां प्राचीप्रारम्भसंबन्धाश्रयश्चन्द्रो जारसंबन्धिमानुरागपरनायिकामुखचुम्बनाश्रय इति बोधः । अप्रस्तुतवृत्तान्ताभिनत्वेनाध्यवसितस्य प्रस्तुतत्तान्तस्य तादात्म्येनाप्रस्तुतारोपविषये प्रस्तुतधर्मिण्यन्वय इति मते तु सानुरागपरनायिकामखचम्बनाभिन्नप्राचीप्रारम्भसंयोगजाराभित्रश्चन्द्र इति बोध इत्यपास्तम् । समासोक्तिर्गुणीभूतव्यङ्गयेति व्यवहारस्तु प्रकृतव्यवहारेऽप्रकृतव्यवहाराभेदस्य व्यन्जनया प्रतीतेनिबाध एवति दिक् । तत्र उदाहरणीयसमासोक्तौ । तावत् आदौ । अस्य इत्यत्रेत्यनेनान्वयः । नैयायिकमतेनाह-किरणेति । तावत्प्रतीयते आदी प्रतीयते । नायि
For Private And Personal Use Only
Page #387
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
ऽर्थ उभयत्रानुपक्तया तयैव शक्त्या शक्त्यन्तरेण व्यक्त्या वा सर्वथैव प्रतीयत इत्यत्र सहृदया एव प्रमाणम् । एवं च द्वाविमौ वाक्यार्थी सव्येतरगोविषाणवदत्यन्तासंसृष्टौ यदि स्यातां तदा भगवतो भास्करस्य कामुकत्वं कमलिन्या नायिकात्वं च सकलप्रतीतिसिद्ध विरुद्धं स्यात् । द्विप्रधानत्वेन वाक्यभेदश्चापद्येत । यदि चापरोऽर्थः प्रकृतकर्तर्यारोप्यते तदा कमलिनीविकासकर्ता नायिकानुनयकर्ता च सूर्य इत्येकत्र द्वयमिति विषयताशाली बोधः स्यात् । न तु पूर्वोक्तानुपपत्तिपरिहारः । यदि च श्लेषमूलाभेदाध्यवसानेन कमलिन्यादीनां नायिकात्वादिप्रत्यय उपपाद्यते तथाप्यश्लिष्टपदोपस्थितो भगवान्नायकत्वानाघात एव । पद्मिनीशब्दस्थाने नलिनीशब्दोपादाने सापि नायिकात्वेन कथं नाम प्रतीतिपथमियात् । तस्माद्विशेषणसाम्यमहिम्ना प्रतीतोऽप्रकृतवाक्यार्थः स्वानुगुणं नायिकादिमर्थमाक्षिप्य तेन परिपूर्णविशिष्टशरीरः प्रकृतवाक्याथै स्वावयवतादात्म्यापन्नतदवयवोऽभेदेनावतिष्ठते । स च परिणाम इव प्रकृतात्मनैव कार्योपयोगी । स्वात्मना च रसाधुपयोगी । अत्र चाप्रकृतार्थस्य पृथक्शब्दानुपादानाद्रूपकाद्वाक्यार्थसंबन्धिनो वैलक्षण्यं पदार्थरूपकात्तु स्फुटमेव । आक्षिप्तार्थघटितत्वाञ्च वाक्यार्थश्लेषात् । एवं चात्र शक्त्याक्षेपाभ्यां काविशेषेति ! खण्डितेत्यर्थः । आदिना नायकपरिग्रहः । अनुषक्तया संबद्धया । तयैव पूर्वार्थबोधिकयैव । तस्या नियन्त्रणादाह-शक्त्यन्तरेणेति । अस्यापि दुर्वचत्वादाह-व्यक्त्या वेति । व्यञ्जनयेत्यर्थः । एवं च उभयप्रतीतो च । वैयाकरणमतेनाह-द्विप्रधानेति । वाक्यभेदमुद्धति-यदि चेति । बोधः स्यादिति । तथा च न वाक्यभेद इति भावः । एवमपि प्रथमदोषानुद्धार एवेत्याह-न त्विति । तमप्युद्धरति-यदि चेति । अश्लिष्टेति । भास्करेतीत्यर्थः । भगवान्सू. यः । दोषान्तरमाह-पद्मिनीति । पद्मिनीशब्दवनलिनीशब्दस्याश्लिष्टत्वादिति भावः । तेनेति । आक्षिप्तनायिकाद्यर्थेन । यतः परिपूर्णमत एव विशिष्टं शरीरं यस्येत्यर्थः । स्वेति । प्रकृतवाक्याथेत्यर्थः । एवमग्रेऽपि । तदिति । प्रकृतवाक्यार्थेत्यर्थः । स च अप्रकृतवाक्यश्च । स्वात्मना चेति । चस्त्वर्थे । रूपकाद्भेदकं प्राह-अत्र चेति । समासोक्तो चेत्यर्थः । स्फुटमेवेति । अस्या वाक्यार्थनिष्ठत्वादिति भावः । वैलक्षण्यमित्यस्यानुषङ्गः । एवमग्रेऽपि । उपसंहरति-एवं चेति । उक्तदोघे चेत्यर्थः । कचित् श्लेषाभावेऽपि प्रकारान्तरेण, न विशेषणसाम्यात्तदर्थप्रतीतिस्तत्राक्षेपाभावेनानि
For Private And Personal Use Only
Page #388
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७२
काव्यमाला।
सर्वार्थनिर्वाह इति भामहोद्भटप्रभृतीनां चिरंतनानामाशयः । 'निशामुखं चुम्बति चन्द्र एषः' इत्यादौ निशाचन्द्रशब्दयोरश्लिष्टत्वान्मुखचुम्बनमात्रस्य च पुत्रादिसाधारण्येन कथं तावन्नियतनायकाक्षेपकत्वम्, कथं वाक्षिप्तस्यापि नायकादेर्निशाचन्द्रयोरेवाभेदेनान्वयः, न भेदेन चुम्बनादौ । तथात्वे च तयो यकताताटस्थ्ये रसानुबोधापत्तेः । तस्मात् 'निशामुखं चुम्बति चन्द्रिकैषा', 'अहर्मुखं चुम्बति चण्डभानुः' इत्यादावप्रतीयमानं नायकत्वम् । प्रकृते टाप्प्रथमाभ्यां प्रतिपादितेन प्रकृत्यर्थगतेन स्त्रीत्वेन पुंस्त्वेन च स्वाधिकरण एवाभिव्यज्यते । एवं च निशाशशिनो यकत्वसिद्धिः श्लिष्टविशेषणैः । व्यञ्जनव्यापारेणैवाप्रकृतार्थबोधनम् । शक्तेः प्रकरणादिना नियन्त्रणात् । तदित्थं व्यञ्जनमाहात्म्यादेवाप्रकृतवाक्याथतादात्म्येन प्रकृतवाक्यार्थोऽवतिष्ठते । गुणीभूतव्यङ्ग्यभेदश्चायमिति तु रमणीयः पन्थाः। __अलंकारसर्वस्वकारस्तु-विशेषणसाम्याडि प्रतीयमानमप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते । अवच्छेदकत्वाच्च व्यवहारसमारोपः, न तु रूपसमारोपः । रूपसमारोपे त्ववच्छादितत्वेन प्रकृतरूपरूपित्वाद्रुपकमेव स्यात्' इत्याह । तदेतदुक्तिमात्ररमणीयम् । अप्रकृतव्यवहारः प्रकृतकर्तरि नायकादिकस्वकर्तृविशेषित आरोप्यते तदविशेषितो वा । नाद्यः । एवं च सति चन्द्रादेनीयकव्यवहाराश्रयत्वेन नायकसाम्यं सि
हो भामहादीनां मते इति सूचयितुमाह-निशेति । कादाचित्कसंभवादाह-नियतेति । ननु कादाचित्क एवास्तामत आह-कथं वेति । आक्षिप्तस्याक्षेपकेणवान्वयनियमादिति भावः । इष्टापत्ति निराचष्टे-तथात्वे चेति । भेदेन मुखचुम्बनादावन्वये चेत्यर्थः । तयोः निशाचन्द्रयोः । नायकेति । 'स्त्रीपंवच्च' इत्येकशेषः । एवमग्रे सर्वत्र । व्यतिरेकं दर्शयति--निशामुखेति । स्वाधीति । स्त्रीत्वपुंस्त्वाधिकरण एवेत्यर्थः । नन्वेवं क्वचिदाक्षेपेण क्वचिद्व्य अनया निर्वाह इति वैरूप्यं स्यादत आह–श्लिष्टेति । तैरपीत्यर्थः । एवेनाक्षेपव्यावृत्तिः । ननु शक्त्यैव कुतो नात आह-शक्तेरिति । शक्त्यन्तरं तु दुर्वचमिति भावः । इदं मतमुपसंहरति--तदिति । एवः प्राग्वत् । व्यङ्गयाप्रकृतवाक्यार्थस्य प्रकृतपरिपोषकत्वादाह-गुणीति । तु महादिमतवैलक्षण्यसूचकः । स्वेति । अप्रकृतव्यवहारेत्यर्थः । चो ह्यर्थे । यत इति तदर्थः । व्यवहाराश्रयत्वेनेति । सजातीव्यवहाराश्रयत्वेनेत्यर्थः । तदाश्रयत्वस्य
For Private And Personal Use Only
Page #389
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३७३
ध्येत । तच्च श्लेषादिभित्तिकाभेदाध्यवसायेन व्यवहाराभेदं प्रतिपिपादयिषतः कवेरनभिप्रेतमेव । अभिप्रेतं तु नायकत्वम् । तच्च नायकस्य व्यवहारविशेषणत्वेन सिध्यति । किं च 'निशामुखं चुम्बति चन्द्रः' इत्यत्र चन्द्रे नायकव्यवहारसमारोप एव, न नायकत्वारोपः । एवमेव निशायामपि न नायिकात्वारोपः । तुल्यन्यायत्वात् । एवं च मुखचुम्बनमात्रस्य नायिकानिर्मुक्तस्यासुन्दरत्वान्नायकासाधारणव्यवहारत्वायोगाच्च किमारोपेण । यदि च निशायां स्त्रीलिङ्गव्यङ्गचं नायिकात्वमिति निरीक्ष्यते तदा चन्द्रगतपुंलिङ्गव्यङ्गयं नायकत्वमपि निरीक्ष्यताम् । न द्वितीयः । नायकसंबन्धित्वेनाज्ञातस्य मुखचुम्बनमात्रस्याहृद्यत्वात् । 'तितीषुर्दुस्तरं मोहादुडुपेनास्मि सागरम्' इति निदर्शनातो वैलक्षण्यायास्मदुक्तवैधर्म्यस्यैवास्थेयत्वाच्च । शिष्टमनुपदमेव वक्ष्यामः । ___ यत्तु सर्वस्वकाराज्ञानुवर्तिना कुवलयानन्दकता सपूर्वपक्षसिद्धान्तमुक्तम्-“अत्र च विशेषणसाम्यात्सारूप्याहा यदप्रस्तुतवृत्तान्तस्य प्रत्यायनं तत्प्रकृते विशेष्ये तत्समारोपार्थम् । सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भगोचरत्वायोगात् । ततश्च समासोक्तावप्रस्तुतव्यवहारसमारोपश्चारुताहेतुः । न तु रूपक इव प्रस्तुते अप्रस्तुतसमारोपोऽस्ति । 'मुखं चन्द्रः' इत्यत्र मुखे चन्द्रत्वारोपहेतुमुखशब्दसमभिव्याहारवत् 'रक्तश्चम्बति चन्द्रमाः' इत्यादौ समासोक्त्युदाहरणे चन्द्रादौ जारत्वाद्यारोपब्रह्मणापि दुर्वचत्वादिति भावः । अत एवाह-नायकसाम्यमिति । तच्च साम्यं च । विशेषणत्वे सतीति शेषः। एवं सति व्यवहारसमारोपः क्वचिझ्यर्थः स्यादित्याह-किं चेति । व्यवहारसमारोप एवेति । त्वया वाच्य इति शेषः । एवव्यावय॑माह-न नायकेति । रूपसमारोपस्य वयानङ्गीकारादिति भावः । तथा सति दोषमाह-एवं चेति । व्यवहारमात्रारोपे चेत्यर्थः । नायिकेति । नायिकासंबद्धस्येत्यर्थः । नायकासाधारणेति । मुखचुम्बनस्य पुत्रादिसाधारण्यादिति भावः । इमं दोषमुद्धरति-यदि चेति । निरीक्ष्यति । तथा च रूपसमारोपो नेति त्वदुक्तिरसंगतेति भावः । अस्मदुक्तेति । अत्र चाप्रकृतेत्यादिनोक्तेत्यर्थः । अत्र समासोक्तौ च । विशेष्ये चन्द्रादौ । सर्वथैव आरोपानागेपान्यतरविधया । कविसंरम्भेति । स्वप्रतीत्युद्देश्यकशब्दसंदर्भरूपकविव्यापारेत्यर्थः । फलितमाह-ततश्चेति । अप्रस्तुतेति । अप्रस्तुतसंबन्धिव्यवहारेत्यर्थः । अप्रस्तुतेति । अप्रस्तुतरूपेत्यर्थः । तद्वाचकेति । जारवाचकेत्यर्थः ।
For Private And Personal Use Only
Page #390
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
हेतोस्तद्वाचकपदसमभिव्याहारस्याभावात् । न चेह 'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः' इत्यत्र निरीक्षणानुगुणनयनोपादानं यथा पयोदस्य द्रष्टुपुरुषत्वस्य गमकं तथा किंचिजारत्वस्यास्ति । न वा 'त्वय्यागते किमिति वेपत एष सिन्धुस्त्वं सेतुमन्थकदतः किमसौ बिभेति' इत्यत्र सेतुमन्थकृत्त्वं विष्णोः कार्य यथा राज्ञो विष्णुत्वस्य तथा किंचिदस्ति । तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्रमिह चारुताहेतुः । यद्यपि विशेषणसमर्पितयोईयोरप्यर्थयोरविशिष्टं प्राधान्यम्, तथाप्यन्यतराश्रये धर्मिण्यन्यतरारोपस्यावश्यकत्वे श्रुते प्रकृतव्यवहारधर्मिण्येवाप्रकृतव्यवहारस्यारोप उचितः । तस्य च स्वरूपतो ज्ञातस्यारोपे चारुत्वाभावात्कामुकाद्यप्रस्तुतधर्मिसंबन्धित्वेनावगम्यमानस्य रसानुगुणत्वादारोपः । कामुकादेश्च पदादनुपस्थितस्यापि चुम्बनादिना व्यञ्जितस्य व्यवहारविशेषणत्वम् । तस्मात् 'अयमैन्द्रीमुखं पश्य रक्तश्रुम्बति चन्द्रमाः' इत्यत्र जारसंबन्धितादृशचुम्बनरूपव्यवहाराश्रयश्चन्द्र इत्येव बोधः” इति । तदेतत्सर्वमसंगतम् । यत्तावदुच्यते 'मुखं चन्द्रः' इत्यत्र मुखे चन्द्रत्वारोप इति तन्न । नामार्थयोरभेदेनैवान्वयान्मुखे चन्द्रस्यारोपः, न चन्द्रत्वस्य चन्द्रविशेषणस्य । यदप्युच्यते जारादिपदसमभिव्याहारस्य हेतोविरहान्न चन्द्रादौ जारत्वारोप इति तत्र श्रौतारोपे तादृशसमभिव्याहारस्य हेतुत्वम्, न त्वर्थारोपे । अन्यथा रूपकध्वनेरुच्छेदापत्तेः । न च रूपकध्वनावारोप्यमाणासाधारणधर्मोक्तिरारोप्यमाणतादात्म्यव्यञ्जिका, न चेह तथा किंचिदस्तीति वाच्यम् । इहापि परनायिकामुखचुम्बनस्य श्लेषमर्यादया व्यञ्जनमर्यादया वा प्रतीतस्य प्रकएतेन शाब्द आरोपो न संभवतीत्युक्तम् । नन्वाक्षिप्तनायिकादिना आक्षिप्तरूपकं भवत्वत आह-न चेहेति । अस्तीत्यत्रान्वयः । इह रक्त इत्युदाहरणे । जारेत्यस्य गमकमित्यस्यानुषङ्गः । एवमग्रेऽपि । विनिगमकमाह-श्रुते इति । तथा च श्रुतप्रस्तुताथोंपस्कारकतया विच्छित्तिविशेषशालित्वमिति भावः । स्वरूपतः अप्रकृतव्यवहारत्वेन । चन्द्रविशेषणस्येति । तादात्म्येन चन्द्रारोपे तादात्म्यस्यापि संबन्धविधया आरोपविषयत्वात् तस्य चन्द्रवानतिरेकात् चन्द्रलारोपेत्युक्तम् । न तु प्रकारतया चन्द्रतारो. प: । अन्यत्र विशेषणत्वेनोपस्थितस्यान्यत्र प्रकारतया आरोपायोगादिति तदाशयाचिन्त्यमिदम् । भामहादिमतेनाह-श्लेषेति । स्वमतेनाह-व्यञ्जनेति । इदं सर्वे पूर्व.
For Private And Personal Use Only
Page #391
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३७५
तर्मिणि चन्द्रे आरोप्यमाणस्य जारासाधारणधर्मत्वेन जारत्वव्यञ्जकतायाः स्फुटत्वात् । एतेन 'विद्युन्नयनैः' इत्यत्र 'त्वं सेतुबन्धनकत्' इत्यत्र च यथा द्रष्ट्रत्वविष्णुत्वगमकं तथेह नास्तीति निरस्तम् । न च जारत्वस्य चन्द्रादावारोपमन्तरेणापि जारव्यवहारारोपः सिध्यन्ननुपपत्तेरभावान्न जारत्वं गमयेदिति वाच्यम् । गमकं हि द्विविधम्-आक्षेपकं व्यञ्जकं च । तत्राक्षेपकमनुपपद्यमानमेव गमयति । व्यञ्जकं तु नानुपपत्तिमपेक्षते । 'गतोऽस्तमर्कः' इत्यादौ तथैव दर्शनात् । अन्यथा अर्थापच्या गतार्थत्वेन व्यञ्जनावैयर्थ्यप्रसङ्गात् । किं च त्वयापि हि जारादेरप्रकृतर्मिणः प्रतीतिरवश्यं वाच्या । आरोप्यमाणव्यवहारविशेषणार्थम् । अन्यथा स्वरूपतो ह्यप्रकृतव्यवहारारोपे चारुतानापत्तेः । एवं चावश्योपस्थाप्यस्य जारादेस्तादृशचुम्बनकर्तरि चन्द्रादावेव तादात्म्येन विशेषणत्वमुचितम्, न तु व्यवहाराभेदेन । चन्द्रस्य जारभिन्नतावगमे परनायिकावदनचुम्बनस्याहद्यत्वात् । अपि च 'निशामुखं चुम्बति चन्द्र एषः' इत्यत्र स्त्रीलिङ्गपुंलिङ्गाभ्यां मुखचुम्बनरूपार्थसचिवाभ्यां नायिकात्वं नायकत्वं च व्यज्यत इति हि निर्विवादम् । अन्यथा 'निशामुखं चुम्बति चन्द्रिकैषा', 'अहर्मुखं चुम्बति भानुबिम्बम्' इत्यत्रापि नायकप्रतीत्यापत्तेः। एवं च सामानाधिकरण्येनैव संसर्गेण व्यज्यमानं नायकत्वं निशाशशिनो यकत्वारोप एव पर्यवस्यति । अपरित्यक्तस्वरूपयोनिशाशशिनो यकताख्यधर्मविशिष्टयोः प्रतीतेरिति त्वदुपजीव्यग्रन्थविरोधश्च । अविनाभावादप्रकृतव्यवहारेणाक्षिप्तेन धर्मिणैव प्रस्तुतो धर्म्यवच्छिद्यत इति तट्टीकाविरोधश्च । किं च चुम्बमेव दूषितम् । जारेति । सिध्यन् जारव्यवहारारोप इत्यर्थः। दर्शनादिति । अनुपपत्ति विनापि नानार्थव्य जनदर्शनादित्यर्थः । अन्यथा अनुपपत्तेस्तद्धेतुत्वे । अन्यथा तदप्रतीत्या तद्विशेषणत्वानङ्गीकारे । एवं च तदर्थ तत्प्रतीतौ च ।सचिवाभ्यां सहिताभ्याम् । अन्यथा ताभ्यां न व्य जनम् किं तु केवलचुम्बनेन तदङ्गीकारे । एवं च अतिप्रसङ्गभगाय तत्सहिताभ्यां तदङ्गीकारे च । सामानेति । स्त्रीत्वपुंस्त्वेत्यादिः । पर्यवसितार्थानङ्गीकारे आह-अपरीति । त्वदुपजीव्येति । कुवलयानन्दोपजीव्यालंकारसर्वस्वेत्यर्थः । अत एव तदाज्ञानुवर्तिनेति प्रागुक्तम् । अविनाभावात् नियतसंबन्धात् । तडीकेति । अलंकारसर्वस्वटीका विमर्शिनीत्यर्थः । तदुक्त्यन्तरं खण्डयति-किं
For Private And Personal Use Only
Page #392
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
नादिव्यवहारेणाभिव्यक्तस्य नायकस्य व्यवहारविशेषणत्वमेव, न त्वभेदेन चन्द्रादिविशेषणत्वम् । चन्द्रादिपदसमानाधिकरणपदानुपस्थापितत्वादित्युक्तं तत्र तुल्यन्यायत्वान्निशायामपि न नायिकात्वारोपः, अपि तु नायकवदभिव्यक्ताया नायिकाया अपि व्यवहारसंबन्धित्वेनैवावस्थानमिति वक्तव्यम् । तच्च बाधितम् । नायिकात्वानालीढकेवलरात्रिमुखचुम्बनरूपस्य व्यवहारस्य नायकासंबन्धित्वात् । नहि रात्रितादात्म्यं विना नायिकायाः पृथङ्मुखं विशेषयितुमस्ति सामर्थ्यम् । अपि च ।
'निर्लक्ष्मीकाभवत्प्राची प्रतीची याति भास्करे।
प्रिये विपक्षरमणीरक्त का मुदमञ्चति ॥' । इत्यत्र पूर्वार्धगतायां समासोक्तौ भास्करादीनां नायकत्वाप्रतीतावुत्तराधे प्रियवादिना समर्थनायाः सर्वथैवानुपपत्तेः । अन्यच्च अप्रकृतव्यवहारः प्रकृतविशेष्ये प्रकृतव्यवहारताटस्थ्येनारोप्यते तदभिन्नतया वा । नाद्यः । एवं च प्रकृतविशेप्ये प्रकृताप्रकृतव्यवहारयोरेकत्र द्वयमिति विषयताशाली बोधः स्यात् । स चासिद्ध इत्युक्तमेव । न द्वितीयः । इतोऽपि प्रकृतव्यवहार एवाप्रकृतव्यवहारस्याभेदेनारोपो वरीयान्, न तु भेदसंसर्गेण प्रकृतविशेष्ये । अभेदांशे व्यवहारांशे चारोपस्वीकारप्रसङ्गात् । मम त्वमेदांशमात्र इति स्फुट एव विशेषः । तस्मादप्रकृताभिन्नतया व्यवसितः प्रकृतव्यवहारः स्वविशेष्ये तद्विशेष्याभिन्नतयावस्थिते भासते तत्राप्रकृतार्थ उपस्कारकतया गुण इति प्रकार एव रमणीयः । स च न वाक्यार्थरूपके 'त्वत्पादनखरत्नानां' इत्यत्रेव विशिष्टस्य विशिष्ट। चेति । यदपीत्यर्थः । तदनालीढत्वादेव केवलत्वम् । दोषान्तरमाह-अपि चेति । यातीति सप्तम्यन्तम् । अञ्चति प्राप्नोति । आदिना प्राच्यादिपरिग्रहः । नायकत्वेति। एकशेषात्त्वः । दोषान्तरमाह--अन्यच्चेति । एवं चेति । यत एवं सतीत्यर्थः । स चासिद्ध इति । अप्रकृतव्यवहारस्य प्रकृतासंबन्धित्वादिति भावः । प्रकृतव्यवहारापन्नाप्रकृतव्यवहारस्य भेदसंसर्गेण प्रकृतविशेष्ये समारोपे प्रकारतया अभेदांशे विशेष्यतया, व्यवहारांशे आरोप इति गौरवादाह--वरीयानिति । उपसङ्ग इति(?)। तस्मादिति । रमणीय इत्यस्यान्वयः । स्वेति । अप्रकृतव्यवहारविशेष्ये प्रकृत इत्यर्थः । तदिति । प्रकृतव्यवहारविशेष्यप्रकृतेत्यर्थः । तत्र प्रकृते । स च आरोपश्च । वाक्यार्थरूपकमेवाह-त्वत्पादेति । तयोः प्रकृताप्रकृतवाक्यार्थयोः । वैशिष्टयस्यैव
For Private And Personal Use Only
Page #393
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
समासोक्तौ तयोः पृथक्छब्दवेद्यत्वाभावात् । किं तु प्रकृतवाक्यार्थघटका: पदार्थास्तादात्म्येनाप्रकृतघटकपदार्थालीढा एव वैशिष्ट्यमनुभवन्तो महावाक्यार्थरूपेण परिणमन्तीति सूक्ष्ममीक्षणीयम् । अतिशयोक्ताविवाप्रकृतेन प्रकृतस्य निगरणं तु न वाच्यम् । तस्य शब्दवाच्यत्वात् । अथास्याः केवलभेदा निगद्यन्ते
विशेषणसाम्यं श्लेषेण भवति शुद्धसाधारण्येन वा । तदपि धर्मान्तरपुरस्कारेण कार्य पुरस्कारेण वेति प्रत्येकं द्विविधम् । तत्र 'विबोधयन्कर - स्पर्शैः' इत्यत्र धर्मान्तरपुरस्कारेण श्लेषे समुदाहृतमपि विशेषणसाम्यं पुनरुदाह्नियते—
-
Acharya Shri Kailassagarsuri Gyanmandir
'उत्सङ्गे तव गङ्गे पाय पायं पयोऽतिमधुरतरम् । शमिताखिलश्रमभरः कथय कदाहं चिराय शयिताहे ॥'
अत्र शिशुजननीवृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्तः । श्लिष्टकार्यपुरस्कारेणाप्युदाहृतं 'संगृह्णास्यलकान्निरस्यसि -' इत्यत्र । शुद्धसाधारण्येन धर्मान्तर पुरस्कारेण यथा
'अलंकर्तु कर्णी भृशमनुभवन्त्या नवरुजां ससीत्कारं तिर्यग्वलितवदनाया मृगदृशः । कराव्जव्यापारानतिसुकृतसारान्रसयतो
जनुः सर्वश्लाघ्यं जयति ललितोत्तंस भवतः ॥
अत्र नवकान्तया क्लेशेन कर्णे क्रियमाणस्योत्तंसस्य वृत्तान्तः प्रत्यग्रखण्डिताधरकामुकवृत्तान्ताभेदेन स्थितः । यथा वा
३७७
For Private And Personal Use Only
वाक्यार्थता । तदाह – वैशिष्ट्यमिति । अवान्तरवाक्यार्थयोभिन्नत्वादाह - महेति । तस्येति । प्रकृतस्य विशेषणमात्रप्रतिपाद्यत्वादित्यर्थः । तदपि द्विधा तत्साम्यमपि । धर्मान्तरेति । कार्यातिरिक्तधर्मपुरस्कारेणेत्यर्थः । कार्यातिरिक्तधर्मप्रतिपादकविशेषणसाम्येनाप्रकृतार्थोपस्थापनं कार्यरूपधर्मप्रतिपादकतत्साम्येन वेति द्वैविध्यमिति भावः । उत्सङ्गे ऊरौ मध्ये च | पायें पायं पीत्वा पीत्वा । पयो जलं दुग्धं च । शयिताहे इति लुडुत्तमपुरुषस्यैकवचनम् । रुजाशब्दष्टावन्तः । तिर्यग्वलितेति । अतिचक्रीकृतेत्यर्थः । अतिसुकृतेति । अतिपुण्यसाररूपानित्यर्थः । रसयतोऽनुभवतः । हे रमणीक - भूषण, सर्वस्तुत्यं तत्र जन्म जयतीत्यर्थः । नवकान्तया नवोदया | प्रत्ययेति ।
८८
Page #394
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
३७८
काव्यमाला |
'अन्धेन पातभीत्या संचरता विषमविषयेषु । दहि मया गृहीता हिमगिरिशृङ्गादुपागता गङ्गा ॥ ' अत्र गिरिशृङ्गप्रभववेणुयष्टिव्यवहाराभेदेन । कार्यसाधारण्येन यथा
'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना । क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति
द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ॥' कार्यधर्मान्तरयोः संकरेण साधारण्यं यथा—
‘उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यक्कृताः
Acharya Shri Kailassagarsuri Gyanmandir
पादाम्भोजयुगं रुषा परिहृता दुरेण चेलाञ्चलम् | गृहन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां
यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ॥ अत्र कण्टकचितत्वेन कबरीग्रहणादि संकीर्णम् । समासोक्तौ व्यज्य मानस्याप्रकृतव्यवहारस्योपस्कारकत्वमेव, न प्राधान्यम् । तदुपस्कृतवाच्यस्यैव तु प्राधान्यमित्युक्तम् । तत्र यदि व्यङ्ग्यस्यैव प्राधान्यं स्यात् न वाच्यस्य तदा 'देव त्वां परितः स्तुवन्तु -' इति प्रागुदाहृतपद्ये निदाव्याजेन स्तुतौ पर्यवसानं न स्यात् । स्तुतिनिन्दयोः प्रकृताप्रकृतव्यवहाराश्रयत्वादिति ध्येयम् । यत्तु
इदानीमेव खण्डितोऽधरो येनेत्यर्थः । अन्धेन चक्षुनेन अज्ञानिना च । पातः पतनं नरकपातश्च । विषयेषु देशेषु नायिकादिषु च । दृट्टमिति क्रियाविशेषणम् । व्यवहाराभेदेनेति । गङ्गावृत्तान्तः स्थित इति भावः । कार्येति । कार्यरूपधर्मकृतशुद्ध साधारण्येनेत्यर्थः । देवेति । राजानं प्रति कव्युक्तिः । भवितासि । अपि तु न । दुराचारसंबन्धित्वात् । तदेवाह - यस्येति । 'न ना कोडो भुजान्तरम्' । आशा दिशः । अगम्यामपि अमरावतीमपीत्यर्थः । उत्क्षिप्ता इति । ऊर्ध्व क्षिप्ता इत्यर्थः । विवलिता वत्रीकृताः । न्यकृता अधः कृताः । के के न गृह्णन्ति । अपि तु सवैऽपीत्यर्थः । अत्र कण्टकचितत्वं कार्याऽन्यधर्मः । रोमाञ्श्वव्याप्तत्वं कण्टकयुतत्वं च तस्यार्थः । कबर्यादिग्रहणं कार्यरूपो धर्मः । तस्यैव प्रतिपाद्यत्वात् । आदिना पार्श्वद्वयग्रहणादिसंग्रहः । एवं पूर्वोदाहरणेष्वपि यथायथं बोध्यम् । तत्र तयोर्मध्ये । तत्र तद्वयवहारप्रतीतौ । अ
For Private And Personal Use Only
Page #395
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३७९
"तन्वी मनोहरा बाला पुप्पाक्षी पुष्पहासिनी ।
विकासमेति सुभग भवदर्शनमात्रतः ॥' अत्र तनुत्वादिविशेषणसाम्यालोलाक्ष्यां लताव्यवहारप्रतीतिः । तत्र लतैकगामिविकासाख्यधर्मसमारोपः कारणम् । अन्यथा विशेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः । विकासश्च प्रकृते उपचरितो ज्ञेयः" इत्यलंकारसर्वस्वकार आह, तत्र विचार्यते-नात्र विशेषणसाम्यमात्रेण लताव्यवहारप्रतीतिः, अपि तु लतारूपाप्रकृतासाधारणविकासारोपमहिनेति भवतैवोक्तम् । तथा च विशेषणसाम्यादप्रस्तुतस्य गम्यत्वमिति त्वदुक्तसमासोक्तिलक्षणस्य कथमत्र प्रवृत्तिः । न च लक्षणे विशेषणसाम्यमात्रगम्यत्वं न विवक्षितम्, अपि तु विशेषणसाम्यगम्यत्वम् । प्रकृते च विकासस्याप्यधिकस्य गमकत्वम् । न त्वेतावता विशेषणसाम्यस्य गमकताहानिरिति वाच्यम् । श्लेपेऽतिव्याप्त्यापत्तेः । न च विशेषणमात्रसाम्यगम्यत्वं विवक्षितम् । एवं च न श्लेषेऽतिव्याप्तिः नापि 'तन्वी मनोहरा' इत्यत्र लक्षणस्यावर्तनमिति वाच्यम् । 'तन्वी मनोहरा' इत्यत्र समासोक्तेरेवाभावात् । यत्र साधारणविशेषणमहिनाप्रकृतस्य स्फूर्तिस्तत्र समासोक्तिः, यत्र त्वसाधारणमहिना तत्र व्यङ्गयरूपकमिति विषयव्यवस्थापनात् । एवं च प्रकते साधारणविशेषणसत्त्वेऽपि न तन्महिना लतायाः स्फूर्तिः, अपि तु विकासमहिनेति व्यङ्गयरूपकमुचितम् । यथा
'चकोरनयनानन्दि कहाराहादकारणम् ।
तमसां कदनं भाति वदनं सुन्दरं तव ॥' इत्यादौ सुन्दरमिति साधारणविशेषणसत्त्वेऽपि रूपकमेव तथेहापि । न्यथा तत्समारोपस्याकारणत्वे । विशेषणेति । तेषामन्यसाधारण्यादिति भावः । कादाचित्कस्य संभवादाह-नियतेति । श्लेषेऽतिव्यायापत्तरिति । तत्र विशेष्यस्य श्लिष्टत्वेऽपि विशेषणसाम्यस्याक्षतेरिति भावः । विशेषणमात्रेति । मा. त्रपदेन विशेष्यसाम्यव्यावृत्तिर्न धर्मान्तरविकासादेरिति भावः । न श्लेष इति । तत्र विशेष्यस्यापि श्लिष्टत्वादिति भावः । समासोक्तरेवेति । सर्वस्वग्रन्थसिद्धान्ताप्रकृतेऽप्रकृतलताप्रतीतावपि क्रियारूपतद्वयवहारस्य कस्यचिदप्रतीतेात्र समासोक्तिरित्यपि बोध्यम् । एतेन यदपोत्याद्यपि सर्वस्वग्रन्थः परास्त इति दिक । एवं च उक्त
For Private And Personal Use Only
Page #396
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८०
काव्यमाला।
क्वचिद्गुणीभूतं क्वचित्प्रधानमित्यन्यदेतत् । साधारण्येन विशेषणसाम्यमूलायाः समासोक्तेस्तु 'अन्धेन पातभीत्या संचरता-' इत्यादिः प्रागस्माभिरुदाहृतो विषय इति न निरवकाशत्वम् । तत्र ह्यसाधारणधर्मारोपमन्तरेण साधारणविशेषणमहिम्नवाप्रकृतप्रतीतेः । एतेन 'तदेवं साधारण्येन समासोक्तविशेषणसाम्येऽप्यप्रकृतसंवन्धिधर्मकार्यसमारोपमन्तरेण तद्वयवहारप्रतीतिर्न भवति' इति विमर्शिनीकता यदुक्तं तन्निरस्तम् । तस्मादेवं संभवति विषयविभागे 'तन्वी मनोहरा-' इत्यत्र समासोक्तिवचनमहृद्यम् । यदपि “औपम्यगर्भत्वेनापि विशेषणसाम्यं संभवति । यथा
'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी।
केशपाशालिवृन्देन मुवेषा हरिणेक्षणा ।।' अत्र हरिणेक्षणामात्रवृत्तेः सुवेषत्वस्य विशेषणस्य महिना दन्तप्रभासदृशानि पुप्पाणीत्यादि योजनां विहाय दन्तप्रभाः पुप्पाणीवेत्याधुपमितसमासाश्रयेण कृते योजने प्रकृतार्थसिद्धौ सत्यां उत्यन्तरेण त्यताया एव योजनायाः पुनरुज्जीवने पुष्पपल्लवालिवृन्दैरुपमेयैराक्षिप्ताया लतायाः प्रत्ययात्तद्वयवहारारोपः । एवं मुवेषेत्यपहाय परीतेति कते उपमारूपकसाधकबाधकप्रमाणाभावात्तदुभयसंशयरूपसंकराश्रयेण कृते योजने पश्चात्पूर्वोक्तरीत्या लताप्रतीतेः समासोक्तिरेव । समासभेदेनार्थभेदेऽपि शब्दैक्यमादाय श्लिष्टमूलायामिव विशेषणसाम्यं बोध्यम् । आदावन्ते वा रूपकाश्रयेण दन्तप्रभा एव पुष्पाणीति योजने कृते तु हरिणेक्षणांशे आक्षिप्तलतातादात्म्यकेनैकदेशविवर्तिरूपकेणैवाप्रकृतार्थप्रत्ययोपपत्तेर्नार्थः समासोक्तेरत्र" इति तेनैवोक्तं तदपि न विचारसहम् । दन्तव्यवस्थाङ्गीकारे च । उक्तमेव सदृष्टान्तमाह-यथेति । तत्र हि अन्धेनेत्यत्र हि । धर्मकार्येति । धर्मकार्ययोः समारोपमित्यर्थः । अयं तदीय उपसंहारग्रन्थः । उपसंहरति-तस्मादिति । प्रकृतार्थेति । सुवेषत्वरूपेत्यर्थः । वृत्त्यन्तरेण व्यञ्जनया । योजनाया 'उपमानानि' इति समासरूपायाः । तद्वयवहारेति । लताव्यवहारेत्यर्थः । उपमेति । यथासंख्यमन्वयः । पूर्वोक्तरीत्येति । वृत्त्यन्तरेणेत्या शुक्तरीत्येत्यर्थः । नन्वेवं कथं विशेषणसाम्यमर्थभेदादत आह---समासेति । हरिणेक्षणांशे आक्षिप्तत्वेनाशाब्दत्वादाह-एकदशेति । अत्र उक्तपद्ये । एवमग्रेऽपि । तेनैव अलंकारसर्वस्वकारेणैव । तुल्ययुक्त्या आह-दन्तप्रभा इति । तथोक्तं तदा ममासो
For Private And Personal Use Only
Page #397
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। प्रभाः पुष्पाणीवेत्युपमागर्भत्वेनाप्यादौ योजने कते हरिणेक्षणांशे आक्षिप्तलतोपमानिकया एकदेशविवर्तिन्या उपमयैव गतार्थत्वात्समासोक्तेरानर्थक्यादत्राप्रसक्तेः । न चोद्भटमते एकदेशविवर्तिनोरुपमासंकरयोरखीकारात्तथोक्तमिति वाच्यम् । अनुपदमेव स्वयं तत्स्वीकारात् ।
'हालाहलसमो मन्युरनुकम्पा सुधोपमा ।
कीर्तिस्ते चन्द्रसदृशी भटास्तु मकरोद्भटाः ॥' इत्यादौ गत्यन्तराभावात्तेनाप्येकदेशवयुपमाया एव स्वीकरणत्वाच्च अवश्यक्लप्तेनोपपत्तौ भेदान्तरकल्पनानौचित्यात् । तस्मादौपम्यगर्भविशेषणोत्थापितः समासोक्तिप्रकारो न संगच्छते । यत्र श्लिष्टविशेषणेन शुद्वसाधारणविशेषणेन वा सहचरितमौपम्यगर्भविशेषणं तत्र यद्यप्यस्ति समासोक्तिस्तथापि नासावौपम्यगर्भविशेषणोत्थापितस्तृतीयः प्रभेदो भवितुमीष्टे । स्वतन्त्रविषयत्वाभावात् । यथा
'निर्मलाम्बररम्यश्रीः किंचिद्दर्शिततारका ।
हंसावलीहारयुता शरद्विजयतेतराम् ॥' अत्र पूर्वार्धगतश्लिष्टविशेषणोत्थापितैव समासोक्तिरुत्तरार्धगतेनौपम्यगर्भविशेषणेन विद्वदुत्थापिता युक्तिस्तदनुगामिना मूर्खेणेवानुमोद्यते । एवं 'दत्तानन्दा समस्तानां प्रफुल्लोत्पलमालिनी' इति पूर्वार्धे कृते शुद्धसाधारणविशेषणोत्थापितैव । क्तिरित्युक्तम् । स्वयं अलंकारसर्वस्वकृता । तदिति। उपमासंकरयोरित्यर्थः । हालाहलेति । राजानं प्रति कव्यक्तिः । हे राजन् तवेति शेषः । मकरेति । मत्स्यविशेघेत्यर्थः । तेनापि उद्भटेनापि । राज्ञि रत्नाकरसाम्यस्याशाब्दत्वादाह-एकेति । ननु हालाहलेत्यत्र तदावश्यकत्वेऽपि तन्वी मनोहरेत्यत्र समासोक्तिरेव तादृश्यास्तामत आह-अवश्यति । उपमाभेदेनेत्यर्थः । भेदान्तरेति । समासोक्तरित्यादिः । क्वचि. संभवोऽस्तीत्याह-योति । स्वतन्त्रेति । तथा चोक्तान्तर्भाव एवेति भावः । अम्बरं वस्त्रमाकाशश्च । तारका नक्षत्राण्यक्षिकनीनिकाश्च । एवेनौपम्यगर्भविशेषणव्यव. च्छेदः। विशेषणेन हारसदृशहंसपलियतेत्यनेन । अनुमोदने दृष्टान्तमाह-विद्वदिति । श्लिष्टविशेषणात्यापितामुक्त्वा साधारणविशेषणोत्थापितां तामाह-एवंदत्तानन्दोति। अत्रापि व्यवहारस्य किंचिनिबन्धनाभावात्कथं समासोक्तिरिति चिन्त्यमिदम् । एतादृशस्थले व्यङ्गयरूपकमुपमा वेति तु युक्तमेव प्राग्वत् । एवं च उभयान्तीवेन तृतीय
For Private And Personal Use Only
Page #398
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२
काव्यमाला।
__ एवं च
'परिफुल्लाब्जनयना चन्द्रिकाचारुहासिनी ।
हंसावलीहारयुता शरद्विजयतेतराम् ॥' इत्यत्रोपमारूपकयोः साधकस्य बाधकस्य चाभावात्संकरालंकारस्वीकर्तृनये तदुभयसंशयात्मक एकदेशविवर्ती संकरालंकार एव । तदस्वीकर्तृनये च यदोपमितसमासस्फूर्तिस्तदैकदेशविवर्तिन्युपमा, विशेषणसमासस्फूर्ती तथाविधमेव रूपकमिति प्रथमयोजनैवाप्रकृतार्थावगतेर्द्धितीययोजनायाः 'परिफुल्लाब्जानीव नयनानीत्युपमागर्भाया वैयर्थ्यादनुत्थानमेव । यदा तु 'शरवर्षासखी बभौ' इति चतुर्थचरणं निर्मीयते तदा तु शरन्मात्रहत्तेर्वर्षासखीत्वस्योपादानादब्जचन्द्रिकाहंसप्रधानस्योपमितसमासस्यावश्यकत्वात्प्रथमप्रादुर्भूतया नयनहासहाराक्षिप्तकामिनीरूपोपमानिकया अतएवैकदेशविवर्तिन्योपमयैव निर्वाह इति निवेदितमपि सहृदयप्रीतये पुनर्निवेदितम् । 'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा ।
कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥' इति कस्यचित्पद्ये प्रावृष एकदेशविवर्तिरूपकेणाङ्गनात्वसिद्धिरिति नोत्तरार्धगतार्थान्तरन्यासानुपपत्तिः । प्रथमचरणे तूपगृहनसाम्यादस्तु नाम समासोक्तिः। यत्तु कुवलयानन्दे “सारूप्यादपि समासोक्तिदृश्यते । यथा
'पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां _ विपर्यासं यातो घनविरलभावः क्षितिरुहाम् । बहोर्टष्टं कालादपरमिव मन्ये वनमिदं
निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥' भेदानङ्गीकारे च । उपमेति । यथासंख्यमन्वयः । तदिति । संकरालंकारेत्यर्थः । चस्त्वर्थे । विशेषणेति । मयूरव्यंसकेतीत्यर्थः । तथाविधमेव एकदेशविवयैव । 'चर. णोऽस्त्रियाम्' इत्युक्तेर्नपुंसकत्वम् । तुरुक्तवैलक्षण्ये । एकदेशविवर्तीति । शान्ततडित्कटाक्षेत्यत्रत्येनेत्यर्थः । उपगृहनेति । आलिङ्गनेत्यर्थः । सारूप्यात सादृश्यात् । पुरेति । उत्तरराघवे सीतात्यागानन्तरं कदाचिद्वनं गतस्य श्रीरामस्योक्तिरियम्
For Private And Personal Use Only
Page #399
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
३८३
अत्र वनवर्णने प्रस्तुते तत्सारूप्यात्कुटुम्बिषु धनसंतानादिसमृद्ध्यसमृद्धिविपर्यासं प्राप्तस्य तत्समाश्रयस्य ग्रामनगरादेवृत्तान्तः प्रतीयते" इत्युतं तदसत् । समासोक्तिजीवातोविशेषणसाम्यस्यात्राभावेन समासोक्तिताया एवानुपपत्तेः । न च विशेषणसाम्यात्सादृश्याहा यत्राप्रस्तुतव्यवहारः प्रस्तुतेन व्यज्यते सा समासोक्तिरिति लक्षणं निर्मास्यत इति वाच्यम् । समासोक्तौ हि प्रकृतवृत्तान्तोऽप्रकृतवृत्तान्ताभेदेन स्थित इति सर्वसंमतम् । त्वयापि च 'प्रकृतधर्मिण्यप्रकृतव्यवहार आरोप्यते' इत्युक्तम् । एवं स्थिते नात्र स्रोतोवृक्षादिविपर्यासो धनसंतानविपर्यासाद्यभेदेन प्रतीयते । नापि वनादौ धनसंतानविपर्यास इति समासोक्त्यन्तरात्सत्यपि वैलक्षण्ये यद्यसौ समासोक्तिरिति शपथः क्रियते तदा अलंकारान्तरमपि समासोक्तिकुक्षावेव निक्षिप्यताम् । एवं तर्हि 'पुरा यत्र स्त्रोतः पुलिनमधुना तत्र सरिता' इत्यत्र कोऽलंकारः । अप्रकृतेन वाच्येन प्रकतव्यवहाराभिव्यक्तिरूपाया अप्रस्तुतप्रशंसाया अत्रासंभवात्प्रकृतस्यैव वाच्यत्वादिति चेत्, साधु पृष्टमायुष्मता । समाधानमस्य सप्रपञ्चमप्रस्तुतप्रशंसाप्रकरण एव निवेदयिष्याम इति । किं चालंकारसर्वस्वकता 'साक्षितिरुहां तरूणाम् । वनवर्णने वनवृत्तान्ते। तत्सारूप्यात वनसादृश्यात् । ग्रामादो वनसादृश्यमाह-कुटुम्बिष्विति । कुटुम्बिगतो यो धनसंतानादिसमृद्ध्यसमृद्ध्योविपर्यासस्तं प्राप्तस्येत्यर्थः । तत्समाश्रयस्य तादृशकुटुम्बिसमाश्रयस्य । जीवातोरिति । चिन्यमिदम् । विशेषणसाम्यगम्यसादृश्यगम्यत्वेऽपि तत्त्वानपायात् । नात्र स्रोतोवृक्षादिविपर्यास इति । न प्रतीयत इत्यत्र शपथारिक्तं प्रमाणमन्विष्यतामिति चिन्त्यमिदम् । विपर्यास इति । प्रतीयत इत्यस्यानुषङ्गः । निक्षिप्यतामिति । तथा च बहुव्याकुली स्यादिति भावः । समाधानमस्येति । अप्रस्तुतप्रशंसैवात्रालंकारः । अप्रस्तुतस्य प्रशंसेति न तदर्थः, किं लप्रस्तुतेन प्रस्तुतस्य प्रशंसेति । एवं च वाच्येन व्यक्तेन वाप्रस्तुतेन वाच्यं व्यक्तं वा प्रस्तुतं यत्र प्रशस्यते सादृश्याद्यन्यतमप्रकारेण साप्रस्तुतप्रशंसेति । न तु वाच्येनैव व्यङ्गयमेवेतीति भावः । चिन्त्यमिदम् । युक्त्यसहत्वात् । तथा हि प्रशंसनमत्र किमुत्कर्षाधानं प्रतीतिमात्रं वा । नाद्यः । प्रतीयमानार्थानध्यारोपविषयेष्वप्रस्तुतप्रशंसोदाहरणेष्वव्याप्तः । नहि ताटस्थ्येनावस्थितोऽप्यर्थ उत्कर्षकर इति युक्तम् । नान्त्यः । प्रकृतेऽभावात् । नपत्राप्रस्तुतेन प्रस्तुतस्य प्रतीतिः। वाच्यत्वात् । न चान्यतरत्वेनानयोः संग्रहः । समासोक्तेरेवान्यतरत्वघटितलक्षणकरणे बाध. काभावात् । अतिशयोक्त्यादौ कृप्तत्वाच्च । किंचेत्यादिना सर्वस्वकारादिविरोधोद्भावन
For Private And Personal Use Only
Page #400
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८४
काव्यमाला।
दृश्यगर्भविशेषणोत्थापिता सादृश्यमूला समासोक्तिः' इत्युक्तम् । तत्र हि विशेषणसाम्यसत्त्वादुक्तिसंभवोऽप्यस्ति, न तु त्वदुक्तायामिति मूलग्रन्थानवबोधस्तद्विरोधो वा स्फुट एवेति दिक् ।
सेयं लौकिके व्यवहारे लौकिकस्य व्यवहारस्य शास्त्रीये शास्त्रीयस्यारोपेण, एतद्विपर्ययेण च चतुर्धा । तत्राद्या प्रागभिहितैव । द्वितीया यथा
'गुणवृद्धी परे यस्मिन्नैव स्तः प्रत्ययात्मके ।
बुधेषु सदिति ख्यातं तद्ब्रह्म समुपास्महे ॥' अत्र वेदान्तशास्त्रसिद्धव्यवहारे व्याकरणसिद्धस्य शतृशानव्यवहारस्य । लौकिके शास्त्रीयस्य यथा'परार्थव्यासङ्गादुपजहदथ स्वार्थपरता
मभेदैकत्वं यो वहति गुणभूतेषु सततम् । स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा
समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥' अत्र समर्थसूत्रगतमहाभाष्यार्थस्य । तत्र हि 'अथ ये वृत्ति वर्तयन्ति किं त आहुः' इत्यादिना जहत्स्वार्था वृत्तिरजहत्स्वार्था वृत्तिरिति पक्षद्वयं निरूपितम् । तत्रैवोपसर्जनाथै अभेदैकत्वसंख्यापि ध्वनिता । प्रकटीकता च हरिणा
'यथौषधिरसाः सर्वे मधुन्याहितशक्तयः ।
अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥' इति । सामर्थ्यमप्येकार्थीभावबोधकतारूपं तत्रैवोक्तम् । मप्यसंगतमेव । तच्छिक्षकत्वात् । ईदृशाप्रस्तुतप्रशंसाया अपि तैरनङ्गीकारेण तवापि तद्विरोधस्य सत्त्वाच्च । प्राचामाशयस्य प्रागुक्तत्वाच्चेति दिक् । सेयं चतुर्विधा समासोक्तिः। यस्मिन् शटशानपे आनन्दरूपे च । प्रत्ययसंज्ञके चिद्रूपे च । परत उत्कृष्ट च । अदेङादैच । सत्त्वादिगुणवर्धने च । देवेषु वैयाकरणेषु च । सत्संज्ञकं सपं च । ब्रह्म शब्दरूपमर्थरूपं चेत्यर्थः । वर्तयन्ति निष्पादयन्ति । एकाथीभावबोधकतेति । एका
For Private And Personal Use Only
Page #401
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
शास्त्रीये लौकिकस्य यथा'कृत्वा सूत्रैः सुगूढाथैः प्रकृतेः प्रत्ययं परम् ।
आगमान्भावयन्भाति वैयाकरणपुंगवः ॥' अत्र राजव्यवहारस्य । एवं शास्त्रान्तरव्यवहारेऽपि बोध्यम् । इयं चालंकारान्तरेषु बहुप्वानुगुण्येन स्थिता । यथा
'स्थितेऽपि सूर्ये पद्मिन्यो वर्तन्ते मधुपैः सह ।
अस्तं गते तु सुतरां स्त्रीणां कः प्रत्ययो भुवि ।' अत्र समर्थ्यत्वेन स्थितार्थान्तरन्यासानुगुण्यमाधत्ते ।
'उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते ।
राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ॥' इह समर्थकत्वेन । 'व्यागुञ्जन्मधुकरपुञ्जम गीतामाकर्ण्य स्तुतिमुदयत्रपातिरेकात् । आभूमीतलनतकंधराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥'
अत्र हि परकृतनिजस्तुत्याकर्णनकंधरानमनादि विशेषणसाम्योत्थापितया समासोक्या सजनव्यवहाराभिन्नतया स्थित एव तरुव्यवहारे भूशाखासंबन्धाभेदाध्यवसितमस्तकमूलनमननिमित्तोत्थापिता त्रपारूपहेतृत्प्रेक्षा संभवति । अन्यथा कितवकृतग्रीवानमनस्यापि त्रपोत्थापकतापत्तेः । इत्युत्प्रेक्षानुगुणा समासोक्तिः । एवम्
'राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः ।
सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ॥' इत्यत्रापि स्वामिसेवकव्यवहारमूला सुधालेपनोत्प्रेक्षा । अमुयैव दिशा अचेतनव्यवहारे प्रकृते चेतनव्यवहारसंबन्धिस्वरूपहेतुफलोत्प्रेक्षायां चेतनव्यवहारे प्रकृते चाचेतनव्यवहारसंबन्धिखरूपहेतुफलोत्प्रेक्षायां च समासोक्तिरेव मूलम् ।
इति रसगङ्गाधरे समासोक्तिप्रकरणम् । थाभावापनार्थबोधकतारूपमित्यर्थः । प्रकृतेः प्रातिपदिकादितः अविद्यायाश्च । परमग्रिम भिनं च । प्रत्ययं तत्संज्ञक ज्ञानरूपं च कृत्वा । आगमान् तत्संज्ञकान् उपनिषदनश्चाद्यर्थः (?) । राजपक्षे त्वर्थ उह्यः । प्रत्ययो विश्वासः । राजप्रियाश्चन्द्रप्रियाः। दिशा रीत्या । स्वरूपहेतुफलानां त्रयाणामुत्प्रेक्षायामित्यर्थः । एवमग्रेऽपि ॥ इति रसगङ्गाधरमर्मप्रकाशे समासोक्तिप्रकरणम् ।।
For Private And Personal Use Only
Page #402
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अथ परिकरःविशेषणानां साभिप्रायत्वं परिकरः।
तच्च प्रकृतार्थोपपादकचमत्कारिव्यङ्गयकत्वम् । अत एवास्य हेत्वलंकाराद्वैलक्षण्यम् । तत्र व्यङ्गयस्यानावश्यकत्वात् । उपपादकता चोपस्कारकनिष्पादकसाधारणी । व्यङ्गयस्य गुणत्वाच्च न ध्वनित्वं व्यपदिश्यते । यथा'मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः ___ त्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतग्रावभिः । वीचिक्षालितकालियाहितपदे वर्लोककल्लोलिनि ___त्वं तापं तिरयाधुना भवभयव्यालावलीढात्मनः ।।' अत्रात्मनो भागीरथीकर्तृकस्य भवव्यालदंशजनिततापदरीकरणस्याशंसनं हि वाक्यार्थः । तत्र भगवत्या भवतापनाशिकात्वस्य सुप्रसिद्धत्वात्परिणामेन भवरूपविषयतादात्म्यापत्त्या व्यालजनितसंतापनाशिकात्वं तावत्सूपपादमेव । 'स्थास्नुजङ्गमसंभूतविषहव्यै नमो नमः' इत्याद्यागमबलाञ्च विषयतादात्म्यं विनापि शुद्धव्यालजनितसंतापनाशिकात्वमपि स्वभावसिद्धमेव । एवं वाच्यार्थस्य सत्यामपि निष्पत्तौ सौन्दर्यविशेषाधानाय साकूतं विशेषणं वीचिक्षालितेत्यादि । अत्र नामान्तरस्य सत्त्वेऽपि कालियाहितशब्दोपादानसामर्थ्याद्भगवतश्चरणे फणागणनृत्यनिःसारीकतकालिये लोकोत्तरविपहरणशक्तिरुत्पत्तिसिदैवासीत् । सा च तयोर्वीचिभिः
परिकर लक्षयति-विशेषणेति । तच साभिप्रायत्वं च । अत एवेत्यस्यार्थमाह--- तत्रेति । हेत्वलंकार इत्यर्थः । वनावतिव्याप्तिवारणाय प्रकृतार्थोपपादकेति । परिकरारेतिव्याप्तिवारणाय विशेषणेति । मीलितं निमीलितम् । स्रस्तं गलितम्। गरुडसंबन्ध्यपले रक्तमणिभिश्च । वीचिभिः क्षालितो कालियाख्यसर्पशत्रुकृष्णपादौ यया तत्सं. बोधनम् । स्वर्गङ्गे । संसाररूपसर्पदष्टात्मन इत्यर्थः । 'प्रार्थने लोट्' इत्याशयेनाह-आशंसनमिति । तत्र वाक्यार्थे । परिणामेन तदलंकारेण । तथा च मयूरव्यंसकादित्वासमासो बोध्यः। तादा.पत्त्या व्यालरूपविषयिणीति शेषः । आगमेति । पुराणेत्यर्थः । धानाय तत्करणाय । नामान्तरेति।वीचिक्षालितवासुदेवचरणे इत्यादेरित्यर्थः। सा शक्तिः।
For Private And Personal Use Only
Page #403
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यथा वा
www. kobatirth.org
रसगङ्गाधरः ।
३८७
क्षालनाद्गङ्गायां स्वाश्रयरेणुद्वारा संक्रान्तेति गम्यते । न च शक्तेः पूर्वमेव क्षालनात्कथं चरणेनार्वाक्कालियस्य विषहरणं शक्तिरहितेन संभवतीति वाच्यम् । क्षालितावशिष्टा लेशरूपा शक्तिश्चरणे काचित्स्थितासीत् यया संप्रति कालियस्य विषमहारीत्यप्याकृतान्तर्गतमेवेति नानुपपत्तिः । एवं हि वाच्योपस्कारकतयात्र गुणीभावः, न वाच्यसिद्ध्यङ्गतया ।
--
Acharya Shri Kailassagarsuri Gyanmandir
'मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव तावकम् ।
धृतशार्ङ्गगदारिनन्दक प्रतिकर्षन्ति कथं न वीक्षसे ॥'
अत्राप्युपेक्षानौचित्यस्य तावकशब्दप्रतिपादितेन स्वामिभृत्यभावेनैव निष्पन्नशरीरस्य प्रकर्षकं धृतशार्ङ्गत्यादिविशेषणम् । अमोघशस्त्रास्त्रसंपन्नस्य समक्षमेव रिपुभिः कृष्यमाणं दासमुपेक्षमाणस्याकीर्तिर्भवित्री तवेत्याकूगर्भम् । ननु निष्प्रयोजनविशेषणोपादानेऽपुष्टार्थदोषस्योक्तत्वात्सप्रयोजनविशेषणं दोषाभावमात्रं कष्टत्वाद्यभाववद्भवितुमर्हति न त्वलंकार इति । अत्र विमर्शिनीकारादय आहुः - 'विशेषणानां बहुत्वमत्र विवक्षितम् । साभिप्रायविशेषणगतबहुत्वकृत एव चात्र वैचित्र्यातिशयः । एकविशेषणं तु दोषाभावमात्रस्यावकाशः' इति । तदसत् । विशेषणाने। कत्वं हि व्यङ्गव्याधिक्याधायकत्वाद्वैचित्र्यविशेषाधायकमस्तु नाम । न तु प्रकृतालंकारशरीरमेव तदिति शक्यं वक्तुम् । वीचिक्षालितकालियाहितपदे इति प्रागुक्ते एकस्यैव विशेषणस्य चमत्कारिताया अनपहवनीयत्वात् । 'अयि लावण्यजलाशय तस्या हा हन्त मीननयनायाः । दूरस्थे त्वयि किं वा कथयामो विस्तरेणालम् ||' अत्रैकैकविशेषणमात्रेणैव सकलवाक्यार्थसंजीवनाच्च ।
तयोः पादयोः । स्वशब्देन नाशनशक्तिः । पूर्वमेव कृष्णावतारात्प्रथममेव । अर्वाक् कृष्णजन्मानन्तरम् । एवमग्रेऽपि । उपसंहरति - एवं हीति । प्रकारान्तरेण सिद्धायास्तस्या विशेषणेन पोषणे होत्यर्थः । मदेति । विष्णुं प्रति भक्तोक्तिः । त्वत्पुर एव त्वदग्र एव । तावकं माम् । अरिशब्देन चक्रम् | अपुष्टार्थेति । अपुष्टार्थत्वेत्यर्थः । एasu | कष्टत्वादीति । यथा कष्टत्वाद्यभावो दोषाभावमात्रं न त्वलंकारस्तथेत्यर्थः । अत्र परिकरलक्षणे । चो हेतौ । अत्र परिकरे । हि यतः । तत् विशेषणा - नेकत्वम् । अयीति । नायिकावृत्तान्तं नायकं प्रति कश्चिद्वक्ति । अभावेनेति । ताव
I
For Private And Personal Use Only
Page #404
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८८
काव्यमाला।
यत्तु कुवलयानन्दकार आह-"श्लेषयमकादिप्वपुष्टार्थदोषाभावेन तत्रैकस्यापि विशेषणस्य साभिप्रायस्य विन्यासे विच्छित्तिविशेषाभावात्परिकरत्वोपपत्तिः । यथा-'क्षितिभृतैव सदैवतका वयं वनवतानवता किमहिगुहा' इति गोवर्धनपर्वतविषयके नन्दादीन्प्रति भगवद्वाक्ये" इति । तदप्यसत् । यो हीममलंकारं दोषाभावान्तःपातितयालंकारमध्यावहिर्भावयति स किं त्वदुक्तश्लेषयमकादिशब्दचित्रातिरिक्तस्थले साभिप्रायविशेषणेषु विच्छित्तिविशेष मन्यते न वा । आद्ये दोषाभावमात्रेण विच्छित्तिविशेषस्यालंकारप्रयोज्यस्यालंकारमन्तरेणानिष्पत्तेः सिद्धं सर्वत्र परिकरस्यालंकारत्वम् । द्वितीये अन्यत्रेव यमकादिप्वपि विच्छित्तिविशेषो नास्तीति तेन सुवचत्वात् । तथा हितैव साफल्येन श्लेषादेस्तदपवादत्वादिति भावः । विशेषाभावादिति । तदापत्तेरित्यर्थः । जायमानतदथे तद्विन्यासस्यावश्यकत्वं तत्रेतीति शेषः । परिकरेति । परिकरस्यालंकारत्वोपपत्तिरित्यर्थः । उद्भटालंकारसंपत्त्या सहृदयवैमुख्यरूपदूषकताबीजाभावादिति भावः। 'साभिप्रायस्य विन्यासे विच्छित्तिविशेषसद्भावात्' इति क्वचित्पाठः। क्षितीति । यमकोदाहरणमिदम् । प्रशस्तवनयुक्तेन गोवर्धनेन । अरक्षकेणेन्द्रेणेत्यर्थः । 'अहिर्वृत्रासुरे सर्प' इति विश्वः । यमकादीति । तद्रूपशब्दचित्रेत्यर्थः । सर्वत्र श्लेषादौ तदन्यत्र च । तेन सुवचत्वादिति । अत्रेदं चिन्त्यम्-दोषाभावमध्ये एनमन्तर्भावयता एक विशेषणे चमत्कारविशेषस्यानङ्गीकारात्त्वद्दाहरणासंगतिः । यदि त्वनुभवबलात्तत्तद्दोषाभावकृतचमत्कारादप्यधिकचमत्कारोऽस्ति वाद्यनङ्गीकारस्त्वप्रयोजक इत्युच्यते तहि समं प्रकृतेऽपि । किं च अपि तु पोषायेति वदता भवतापि श्लेषयमकादिषु विशेषणस्य चमत्कारिताभ्युपेतैव । चमत्कारातिशयजनकतारूपाया एव पुष्टेः काव्ये स्वीकारात् । यदि तु विवक्षितार्थबोध एव पोषः विवक्षितार्थबाधप्रयोजकानुपादानत्वं च पुष्टत्वं तथाप्यापत्कालेऽक्रियमाणं मृत्तिकाशौचादि यथा न दोपाय नापि लोकनिन्दायै, क्रियमाणं चाधिकस्तुतयेऽधिकफलाय च भवति तथा यमकादिषु पुष्टत्वमक्रियमाणं न दोषाय, क्रियमाणं त्वधिकचमत्कारायेति वक्तुं शक्यम् । न च कवेः स्तुतये भवतु, न चमत्कारायेति वाच्यम् । नित्ये फलस्यापि स्वीकारेण तदतिशयस्य तेन जननवदुपपत्तेः । इह तु फलं चमत्कार एव । अयि लावण्येत्यत्र तु पुष्टत्वमक्रियमाणं दोषाय, क्रियमाणं तु विवक्षितार्थावाधरूपपोषायैव नाधिकचमत्काराय । यथानापद्यक्रियमाणं मृच्छौचादि दोषाय, क्रियमाणं तु नाधिकफलायेत्यतो यमकपर्यन्तानुधावनम् । वस्तुतः संध्याद्यकरणस्य दोषत्वेऽपि तदभावो न दोषाभावमात्रम्, अपि तु फलायापि, एवं यमकाद्यतिरिक्तेऽपि साभिप्रायैकविशेषणोपादाने दोषत्वा
For Private And Personal Use Only
Page #405
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३८९ 'अनापदि विना मार्गमनिशायामनातुरः ।
मृत्तिकाशौचहीनस्तु नरो भवति किल्बिषी ॥' इत्यत्र पर्युदस्तेऽप्यापत्कालादौ यथा केनचिन्मृत्तिकाशौचादिक्रियमाणं न केनापि प्रतिषिध्यते कर्तुः सामर्थ्यगमकं च भवति तथा प्रकतेऽपि दोषनिषेधविधौ पर्युदस्तेऽपि यमकादौ पुष्टतारूपदोषाभावः कविना संपाद्यमानो न दोषाय भविष्यति, अपि तु रसपोषायैवेति । यदि च यमकेऽनुभवं विच्छित्तिविशेषे प्रमाणं ब्रूषे ब्रूहि तदान्यत्रापि तमेव प्रमाणमिति यमकपर्यन्तानुधावनं निरर्थकमेव । तस्मात्पुष्टार्थतारूपेण दोषाभावेन परिकरालंकारस्य विषयविभागो दुःशक इति प्राप्ते ब्रूमः । सुन्दरत्वे सत्युपस्कारकत्वमलंकारत्वम् । चमत्कारापकर्षकाभावत्वं च दोषाभावत्वम् । तदेतद्धर्मद्वयं विविक्तविषयं यदि दैवादेकस्मिन्विषयविशेषे समाविशेत्तदा का हानिः स्यात् । उपधेयसंकरेऽप्युपाध्यसंकरात् । यथा ब्राह्मणस्य मूर्खत्वं दोषः, विद्या तु दोषाभावश्च भवति गुणश्च, तथेहाप्युपपत्तिः । न च दोषाभावतया प्राप्तस्यापि परिकरस्य किमित्यलंकारेषु गणनागौरवमिति वाच्यम् । उभयात्मकत्वेनेतरवैलक्षण्यज्ञापनार्थतया गणनोपपत्तेः । यथा गुणीभूतव्यङ्ग्यभेदतया संगृहीतापि समासोक्तिरलंकारगणनायां पुनर्गण्यते । यथा वा प्रासादवासिषु गणितोऽप्युभयवासी
भावश्चमत्कारश्चेत्यलंकारत्वम् । किं च यथा तत्र दोषाभावस्याङ्गवैकल्येऽपि सिद्ध साङ्गतत्करणं फलातिशयायैव एवं दोषाभावस्य विशेषणानुपादानेऽपि संभवेन साभिप्रायैकविशेषण निबन्धनोऽपि चमत्कारो दुरुपदव इति बोध्यम् । तदेतदपि चैकपदार्थहेतुकमित्यादिना ग्रन्थेन कुवलयानन्दे स्फुटमिति दिक् । इत्यत्र मृत्तिकाशौचाभावनिषेध. विधौ । पर्युदस्तेऽपि दोषाभाववत्तया प्रतिपादितेऽपि । सामर्थ्यावगमं च सामर्थ्यगमकं च । क्वचित्तथैव पाठः । दोषनिषेधेति । अदोषं काव्यमित्यत्र । पुष्टतेति । तद्पो यो दोषाभाव इत्यर्थः । उपसंहरति-तस्मादिति । विविक्तेति । परिकरातिरिक्त सामानाधिकरण्याभावादिति भावः । एकस्मिन् परिकरे । यथेति । विद्यायां गुणत्व. दोषाभावत्वयोः । समावेशेऽपि तयोरसांकर्य यथेत्यर्थः । उभयति । अलंकारदोषाभावरूपत्वेनेत्यर्थः । इतरेति । परिकरान्यालंकारत इत्यर्थः । अस्याग्रेऽप्यन्वयः । अत एवाह-यथेति । महाभाष्यकारोक्तं दृष्टान्तमाह-प्रासादेति । उर्ध्वदेशेत्यर्थः ।
For Private And Personal Use Only
Page #406
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९०
काव्यमाला।
भूवासिगणनायां पुनर्गण्यते तथेहापीति न कश्चिद्दोषः । अन्यथा प्राचां काव्यलिङ्गमप्यलंकारो न स्यात्। तस्यापि निहेतुरूपदोषाभावात्मकत्वात् ।
'द्विजराज कलाधार विश्वतापनिवारण ।
कथं मामबलां क्रूरैः करैर्दहसि निर्दय ॥' इत्यादौ विशेषणाधिक्याब्यङ्गयाधिक्ये चमत्काराधिक्यम् ।
अयं च वाच्यसिद्ध्यङ्गव्यङ्गयगर्भत्वेनोपस्कारकव्यङ्गयगर्भत्वेन द्विधाभवन् व्यङ्गयस्य वाच्यायमानत्वतद्विपर्ययाभ्यां चतुर्धा ।
आद्यो यथा'विहाय संसारमहामरुस्थलीमलीकदेहादिमिलन्मरीचिकाम् । कृपातरङ्गाकुल मन्मनोमृगो विगाढुमीश त्वयि गाढमीहते ॥ अत्र गाहनसिद्ध्यङ्गं कृपेत्यादेः समुद्ररूपं व्यङ्गयं वाच्यायमानम् । द्वितीयो यथा--
'खर्वीकतेन्द्रगर्व त्वरया चक्रेण भिन्ननक्रमुख ।
लीलात्तकोलमूतॆ मामुद्वर्तुं कथं न शक्तोऽसि ॥ अत्र गोवर्धनगजेन्द्रवसुंधराणामुद्वारो वाच्यतास्पर्शशून्य एवोपालम्भसिद्ध्यङ्गम् । तृतीयस्तु 'धृतशाङ्गदारिनन्दक' इत्यत्र, चतुर्थः 'वीचिक्षालितकालियाहितपदे' इत्यत्र च बोध्यः ।
इति रसगङ्गाधरे परिकरालंकारप्रकरणम् । अथ श्लेषःश्रुत्यैकयानेकार्थप्रतिपादनं श्लेषः । तच्च द्वेधा । अनेकधर्मपुरस्कारेणैकधर्मपुरस्कारेण च । आद्यं द्वेधा ।
विपक्षे बाधकमप्याह-अन्यथेति । एवं सत्यपि तस्य तत्त्वानहोकार इत्यर्थः । अत एवापिः प्रयुक्तः । अनेकविशेषणानां साभिप्रायले उदाहरति--द्विजेति । चन्द्रं प्रत्युक्तिरियम् । परिकरस्य भेदमाह-अयं चेति । कोलेति । वराहेत्यर्थः । वाच्यतास्पर्शति । वाच्यायमानतेत्यर्थः । अत एव स्पर्शपदसार्थक्यम् । तद्गमकाभावात्तस्य गूढत्वमिति भावः ।। इति रसगङ्गाधरमर्मप्रकाशे परिकरप्रकरणम् ।। श्लेषं लक्षयति-अथेति । तत्र आद्यभेदयोर्मध्ये । अत्र एषां भेदानां मध्ये ।
For Private And Personal Use Only
Page #407
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३९१ अनेकशब्दप्रतिभानद्वारा एकशब्दप्रतिभानद्वारा चेति त्रिविधः श्लेषः । तत्राद्यः सभङ्गो द्वितीयो ह्यभङ्ग इति वदन्ति । तृतीयस्तु शुद्धः । एवं त्रिविधोऽप्ययं प्रकृतमात्राप्रकृतमात्रप्रताप्रकतोभयाश्रितत्वेन पुनस्त्रिविधः । अत्राद्ये भेदे द्वितीये च विशेष्यस्य श्लिष्टतायां कामचारः । तृतीयभेदे तु विशेषणवाचकस्यैव श्लिष्टत्वं न विशेष्यवाचकस्य । तथावे तु शब्दशक्तिमूलध्वनेरुच्छेद एव स्यात् । विशेषणमात्रश्लिष्टतायामपि प्रकताप्रतधर्मिणोरुपादान एव श्लेषः । प्रकृतर्मिमात्रस्योपादाने तु समासोक्तेरेव विषयः । तदित्थं प्रकृतमात्रविशेष्यकानेकार्थविशेषणं यत्र स एकः । एवमप्रकृतेत्यादिर्द्वितीयः । पृथगुपात्तप्रकृताप्रकतोभयविशेष्यकनानार्थविशेषणं तृतीयः । एतदन्यतमत्वं च लक्षणं पर्यवसितम् । क्रमेणोदाहरणानि
संभूत्यर्थ सकलजगतो विष्णुनाभिप्रपन्नं ___ यन्नालं स त्रिभुवनगुरुवेदनाथो विरिञ्चिः। ध्येयं धन्यालिभिरतितरां स्वप्रकाशस्वरूपं
पद्माख्यं तत्किमपि ललितं वस्तु वस्तुष्टयेऽस्तु ॥' अत्राशीःप्रकरणे तुष्टिजननसमर्थत्वेन लक्ष्मीभगवन्नाभिकमलयोरुभयोरपि प्रकृतत्वात्प्रकृतमात्राश्रितोऽयमेकया श्रुत्या पदद्वयप्रतिभानद्वारा भिन्नधर्मपुरस्कारेणानेकार्थप्रतिपादनात्सभङ्गः । विशेष्ययोरश्लिष्टत्वेऽप्ययं संभवति । यथात्रैव 'पायादाद्यं कमलमथवा योगमायास्वरूपम्' इति तुरीयचरणनिर्माणे । आये प्रकृतमात्राश्रिते । द्वितीये अप्रकृतमात्राश्रिते । तृतीयभेदे उभयाश्रिते । तथात्वे विति । विशेष्यस्यापि शिष्टत्वे होत्यर्थः । अत्र विशेष्यस्य श्लिष्टत्वेऽपि श्लेषाङ्गीकारे शब्दशक्तिमूलध्वन्युच्छदापत्तिरित्याखण्डलार्थः । तृतीये विशेषमाह-विशेषणे. ति । विशेषणस्यैव लिष्टतायामित्यर्थः । भेदानुपसंहरति-तदित्थमिति । अनुगतं लक्षणमाह-एतदिति । संभूत्यर्थमिति । संभूतिरुत्पत्तिः सम्यगैश्वर्य च। विष्णुनाभि प्राप्तं विष्णुना अभिप्रपन्नं प्राप्तं च । स तादृशो ब्रह्मापि यस्य कमलस्य नालं नालदण्डः यस्मादलं समर्थो न च । धन्येभ्रमरैर्धनिकपतिभिश्च । पद्माख्यं कमलसंज्ञकं कमलासंज्ञकं च । अयं प्रकृतमात्राश्रितः । एवमग्रेऽपि । आद्यं भगवन्नाभिसंबन्धि ।
For Private And Personal Use Only
Page #408
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९२
काव्यमाला। अयमेवाभङ्गात्मको यथा'करकलितचक्रघटनो नित्यं पीताम्बरस्तमोरातिः ।
निजसेविजाड्यनाशनचतुरो हरिरस्तु भूतये भवताम् ॥' विशेष्ययोरश्लिष्टत्वे यथा 'जाड्यहरणो विष्णुः सूर्यश्च वः पातु' इति तस्यैव शेषे कृते । अर्थश्लेषो यथा
'अर्जुनस्य गुरुमायामनुजः परमः पुमान् ।
गुञ्जापुञ्जधरः पायादपायादिह कोऽपि वः ॥' एवमेते त्रयोऽपि प्रकृतविषया एव भेदाः । 'हरिकरसङ्गादधिकं रमणीयाप्यतुलरागसंवलिता ।
सुन्दरि तवाननाग्रे कमलामा विगलितप्रतिभा ॥' अयमप्रकृतमात्रविषयः । प्रकृतस्याननस्य श्लेषाविषयत्वात् । कमलाभेति विशेप्यांशे अधिकमिति विशेषणांशे च सभङ्गः, अन्यत्राभङ्गः । __ अप्रकृतयोर्विशेष्ययोरश्लिष्टत्वे यथात्रैव 'कमलायाः कमलस्य च शोभा गलिता तवाननस्याने' इत्युत्तरार्धनिर्माणे । प्रकृताप्रकृतोभयविषयो यथा'अलं हि मानी परिदीर्णगात्रः समापितः फाल्गुनसंगमेन । अत्यन्तमाकाङ्कितकृष्णवर्मा भीष्मो महात्माजनि माघतुल्यः ॥'
करकलितेत्यादि । करो हस्तः किरणाश्च । चक्र सुदर्शनं कालचक्रं च । अम्बरमाकाशो वस्त्रं च । तमो राहुरन्धकारश्च । जाड्यमज्ञानं मूर्खत्वं च । हरिः सूर्यो विष्णु. श्च । अयं प्रकृताप्रकृतोभयाश्रितः । जाड्येति । निजसेवीत्यस्येत्यादिः । समर्थ इत्यग्रे शेषो बोध्यः । शुद्धश्लेषं तृतीयमुदाहरति-अथेति । अर्जुनस्य गुरुरित्यत्र च गुरुपदं श्लिष्टं पर्यायपरिवृत्तिसहं च । शिक्षकादिपदोपादानस्यापि संभवादिति बोध्यम् । एवं च गुरुरुपदेष्टा बृहस्पतिश्च । उपसंहरति-एवमिति । अप्रकृतविषयमुदाहरति-हरीति । हरिविष्णः सूर्यश्च । करो हस्त: किरणश्च । अधिकमतिशयेन । के इत्यधि. कम् । अव्ययीभावः । जले इत्यर्थश्च । सङ्गादिति । पञ्चम्यन्तमतुलरागेत्यत्राप्यन्वे. ति । कमलामा कमलकान्तिर्लक्ष्मीकान्तिश्च । विगलितप्रतिभा निःसारा । अन्यत्र हरिकरादौ । अत्रैव उक्तपद्य एव । अलमिति । अलमत्यन्तम् । होति निश्चयेन ।
For Private And Personal Use Only
Page #409
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
३९३
अत्र
प्रकृताप्रकृतयोर्भीष्ममावयोरश्लिष्टत्वाद्विशेषणानां च श्लिष्टत्वाद्भवति तृतीयो भेदः । परं तूपमया संकीर्णः । यदि च 'माघो महात्मा - जनि हन्त भीष्मः' इत्यप्रकृतांशमपि षग्रस्तं कृत्वा रूपकं क्रियते, तथापि प्रकृतविशेष्यस्य माघस्याश्लिष्टत्वादखण्डित एव श्लेषः । न चात्र समासोक्तिरिति भ्रमितव्यम् । अप्रकृतधर्मिणोऽपि शब्दवाच्यत्वात् । यत्र त्वप्रकृतव्यवहार एव शब्दशक्ति सहेतापि, न त्वप्रकृतधर्मी तत्र समासोक्तेरिष्टेः ।
अत्र विचार्यते - अयं चालंकारः प्रायेणालंकारान्तरस्य विषयमभिनिविशते तत्र किमस्य बाधकत्वं स्यादाहोस्वित्संकीर्णत्वमुताहो बाध्यत्वमिति । अत्राहुरुद्भटाचार्याः - "येन नाप्राप्ते य आरभ्यते स तस्य वाधकः' इति न्यायेनालंकारान्तरविषय एवायमारभ्यमाणोऽलंकारान्तरं बाधते । न चास्य विविक्तः कश्चिदस्ति विषयो यत्र सावकाशो नान्यं बाधेत । तथाहि अप्रकृतमात्रयोः प्रकृतमात्रयोर्वा तावत्तुल्ययोगितैव जागर्ति । प्रकृताप्रकृतयोस्तु दीपकम् । तदनुमोदिता उपमादयश्व । न च 'देव त्वमेव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुद्रमिरेको लोकत्रयात्मकः ॥'
मानी अभिमानी । अत्यन्तं हिमसंहत्या परिदीर्णानि गात्राणि येन स च । फाल्गुनोऽर्जुनो मासश्च । अत्यन्तमाकाङ्क्षितः कृष्णस्य मार्गो येन । अत्यन्तमाकाङ्क्षितः कृष्णवमग्निस्मिन्स च । भीष्मो गाङ्गेयः । माघो मासः । संकीर्ण इति । तुल्यपदोक्तेरिति भावः । पूर्व भीष्मस्योद्देश्यत्वं तत्तुल्यत्वस्य विधेयत्वम्, अधुना तद्वैपरीत्येनाह - य. दीति । श्लेषेति । गाङ्गेयवद्भयानकस्यापि प्रतीतेरिति भावः । अखण्डित एव श्लेष इति । शब्दशक्तिमूलध्वनिना न खण्डित इत्यर्थः । क्व तहि समासोक्तिरत आह-यत्रेति । अपिः संभावनायाम् । अत्र श्लेषविषये । अत एवाह - अयं चेति । श्लेष इत्यर्थः । विविक्तविषयस्यापि वक्ष्यमाणत्वादाह - प्रायेणेति । अभीति । व्यामोतीत्यर्थः । उताहो अथवा । येनेति । प्राप्त इति भावे क्तः । येनेति कर्तरि तृतीया । नद्वयस्य प्रकृतदार्व्यबोधकत्वम् । तथा च यत्कर्तृकस्य प्राप्ती यत्रारभ्यमाणः स तस्य बाधक इत्यर्थः । तदप्राप्तियोग्येऽचारितार्थ्यं हि बाधकतावीजम् । एवव्यवच्छेयं स्पटार्थमाह- - न चेति । नहीत्यर्थः । तावदादौ । अलमत्यन्तम् । पाता रक्षिता पाताललोकश्च | आशानां मनोरथानां दिशां च । अमराणां देवानां मरुद्गणानां च भूमिः
५०
For Private And Personal Use Only
Page #410
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९४
काव्यमाला। इत्यादि काव्यप्रकाशोक्तौ विविक्तो विषय इति वाच्यम् । रूपकस्यैवात्र स्फुटत्वात् । श्लेषोपस्थापितपातालाद्यर्थस्याभेदारोपमन्तरेण लोकत्रयात्मकत्वस्य दुरुपपादत्वात् । कथं तर्हि 'नदीनां संपदं विभ्रद्राजायं सागरो यथा' इत्यादावुपमायाः प्रत्ययः, कथं वा तत्रैव यथाशब्दस्थाने किमुशब्ददाने उत्प्रेक्षायाः, अपर इतिकृते च रूपकस्येति चेत् 'न । अत्र हि उपमादीनां प्रतिभानमात्रं न तु वास्तवी स्थितिः । नहि श्वैत्येन शुक्तौ रजतत्वं प्रतीयमानमपि वस्तुतोऽस्ति । तस्मादुपमादिप्रतिभोत्पत्तिहेतुः श्लेष एव स्वविषये सर्वत्रालंकारः” इति । एतच्चापरे न क्षमन्ते । तथा हि यत्तावदुच्यते येन नाप्राप्त इत्यादि तत्र प्रागुदाहृते 'पद्माख्यं तत्किमपि ललितं' इत्यस्मत्पद्ये, 'सर्वदोमाधवः पातु योगङ्गां समदीधरत्' इत्यादिपरकीयपद्ये च श्लेषातिरिक्तः कोऽलंकारः । तुल्ययोगिता तु सादृश्यप्रत्ययनियता कथमत्र शक्यते वक्तम् । नहि लक्ष्मीकमलयोहरिहरयोर्वा प्रकृते सादृश्यं प्रतिपिपादयिषितम् । नापि चात्रैकश्रुत्यार्थद्वयोपादानं विनान्यत्किचिच्चमत्कारजनकं येनालंकारान्तरमभ्युपगच्छेम । एक श्रुत्यार्थद्वयोपादानं तु श्लेष एव । एवं च सावकाशत्वाच्छेषस्यालंकारान्तरापवादकत्वं न युक्तम् । अत एवोपमादीनां प्रतिभानमात्रमिति यदुक्तं तदपि न संगतम् । गुणक्रियादेरिव शब्दमात्रस्यापि समानधर्मत्वेनोपमायां तावद्वाधकाभावात् । एवमेवालंकारान्तरस्यापि श्लेषविषये पारमार्थिक्येव सत्ता न
स्वर्गः चमरसंबन्धिपवनाश्रयश्च । अभेदेति । प्रथमोपस्थितार्थ इति भावः । तस्माजुषस्य सर्वबाधकत्वं सिद्धम् । तत्राक्षिपति-कथं तीति । दीनां स्वल्पां संपदं न बिभ्रत्, नदीनां गङ्गादीनां संपदं बिभ्रच्च । तत्रैव प्राचोक्तानदीनामित्यत्रैव । प्रत्ययपदस्याग्रे उभयत्रानुषङ्गः । प्रतिभानेति । तथ च प्रातिभासिकत्वं तेषामिति भावः । तदेवोपपादयति-नहीति । उद्भाटाचार्योक्तं खण्डयति–एतच्चेति । तत्रत्यस्य उच्यत इति शेषः । एवमग्रे सर्वत्र बोध्यम् । सर्वदा उमाधवः । सर्वप्रदो माधवश्च । गङ्गां अगं गां च । वस्तुतः सादृश्यसत्त्वेऽप्याह-प्रत्ययेति । ननु तत्प्रतीतिरपि कुतो नात आह-नहीति । नन्वलंकारान्तरमस्त्वत आह-नापीति । नन्वेकश्रुत्यार्थद्वयोपादानेऽप्यन्यालंकारः कुतो नात आह-एकेति । उपसंहरति-एवं चेति । अलंकारान्तराभावे चेत्यर्थः । क्रियादेरिवेति । तदुपमानधर्मवदित्यर्थः । बाधकाभावादिति । बाधकताबीजस्य निरवकाशत्वस्याभावादित्यर्थः । शेषस्येति
For Private And Personal Use Only
Page #411
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
___३९५ प्रातिभासिकी । प्रत्युत श्लेषस्यैव प्रतिभानमात्रमिति वक्तुं युक्तम् । पूगोपमाया विषयस्य सर्वस्यापि त्रिविधश्लेषेणाक्रान्तत्वान्निरवकाशतयास्य सावकाशस्य स्वविषये बाधौचित्यात् । तथा 'समरार्चितोऽप्यमरार्चितः' इत्यादौ श्लेषस्य तैमिरिकन्द्रद्वयवत्प्रतिभानमात्रमेव न त्वलंकारत्वम् । तज्जीवातोद्वितीयार्थस्याप्रतिष्ठानात् । विरोधस्य त्वाभासरूपस्याप्यलंकारत्वं न तु श्लेषस्येति स्फुटमेव । तस्मादेवमादौ श्लेषप्रतिभयोत्पाद्यो विरोध एवालंकारः, न तु विरोधप्रतिभयोत्पाद्यः श्लेषः । किं च प्रत्येकं तत्तद्रूपपुरस्कारेण कस्याप्यलंकारस्य नास्ति श्लेषविषये नाप्राप्तत्वमलंकारान्तरपुरस्कारेणेति चेत्, एवं तर्हि बाध्यसामान्यचिन्तया स्वविषये प्राप्तस्य सर्वस्यापि बाधापत्तौ श्लिष्टपरम्परितरूपकस्य श्लिष्टसमासोक्तेश्योच्छेद एव स्यात् । तस्माच्छेपस्य नापवादकत्वं संकीर्णत्वं तु स्यात् इति । ___ अन्ये तु—“अलंकारा हि प्राधान्येन चमत्काराधायकाः वां स्वामाख्यां लभन्ते । त एव परोपकारकतया वर्तमानास्तां त्यजन्ति । यथा'रराज भूमौ वदनं मृगाक्ष्या नभोविभागे हरिणाङ्कबिम्बम्' इत्यत्र प्रकृ. ताप्रकृतात्मनामेकधर्मसंबन्धो दीपकाख्यां भजते, त्यजति च 'राजते वशेषः । उत्प्रेक्षादावाह-एवमेवेति । प्रत्युत वैपरीत्येन । लप्तोपमायां सर्वत्र तदसंभवादाह---पूर्णोपमेति । तथा च तद्विषये इदमुच्यते, न तु सर्वत्रेति भावः । त्रिविधेति । प्रकृतत्वादेवेति भावः । तया पूर्णापमया । अन्यत्राप्येवमित्याह-तथेति । समरे सङ्ग्रामे । तेन वाचितोऽप्यमरर्देवैरचितः । न मा उपमा यस्य तादृशो राः धनं येषां तैरचितः । अनुपमधनाचितश्चेत्यर्थः । तैमिरिकेति । तिमिराख्यनेत्ररोगकृतेत्यर्थः । अप्रतिष्ठानादिति । सरलतयाप्रतीतेरित्यर्थः । नन्वाभासत्वे श्लेषवद्विरोधस्याप्यलंकारत्वं न स्यादत आह-विरोधस्य त्विति । अपिर्वास्तवतत्समुच्चायकः । नन्वेवं तहि समराचीत्यादौ कोऽलंकारोऽत आह-तस्मादिति । उक्तहेतोरित्यर्थः । एवमादौ समरा/त्यादौ । एवं सावकाशत्वेन न्यायाविषयत्वमुक्त्वा सामान्यचिन्तापक्षेऽसंभवाद्विशेषचिन्तापक्षेऽतिव्याप्तेश्च न न्यायविषय इत्याह --किं चेति । तत्तद्रपेति । उपमात्वरूपकत्वादित्यर्थः । विषये तद्विषयत्वावच्छिन्ने । एवं च बाध्यविशेषचिन्तापक्षे तदसंभवः । सामान्यचिन्तापक्षे आह-अलमिति । ननु मास्त्वस्य तदपवादत्वं परंतु तदग्रिमयोः पक्षयोः कोऽभिमतोऽत आह—संकीर्णत्वमिति । तलीयपक्षाशयेनाह-अन्ये त्विति । हि यतः । अत एव तेषामेव तदाख्यत्वादेव । तां स्वीयाख्याम् । नभोविभागे नभःप्रदेशे । एकधर्मेति । राजनरूपेत्यर्थः । नभसी
For Private And Personal Use Only
Page #412
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९६
काव्यमाला।
दनं तन्व्या नभसीव निशाकरः' इत्यत्र । अत एवोच्यते--'प्राधान्येन व्यपदेशा भवन्ति' इति । एवं चालंकारान्तरोपस्कारकतया स्थितः श्लेषः कथंकारं स्वगृहस्थ इव श्लेषालंकारव्यपदेशं वोढुमीष्टामिति बाध्यप्राय एव" इत्याप्याहुः ।
तदित्थं संक्षेपेण श्लेषस्य दिक्प्रदर्शिता । यत्र तु प्रकृताप्रकृतोभयविशेप्ययोरपि श्लिष्टपदोपात्तत्वं स तु ध्वनोर्विषय इत्युक्तं स च यथा
'अविरलविगलद्दानोदकधारासारसिक्तधरणितलः ।
धनदायमहितमूर्तियतितरां सार्वभौमोऽयम् ॥' अत्र राजनि प्रस्तुते उदग्दिग्गजोऽप्रस्तुतोऽपि व्यञ्जनमर्यादया प्रतीयते । तत्राप्रस्तुताभिधानं मा प्रसासीदिति प्रस्तुताप्रस्तुतयोरुपमानोपमेयभावे तात्पर्य कल्प्यते । इमं च शब्दशक्तिमूलानुरणनरूपं ध्वनिमाहुः । उदाहृतश्च ध्वनिकारैः
'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः ।
पयोधरभरस्तस्याः कं न चक्रेऽभिलाषिणाम् ॥' मम्मटभटैश्च
'भद्रात्मनो दुरधिरोहतनोविशाल
वंशोन्नतेः कृतशिलीमुखसंग्रहस्य । वेति । अत्रोपमया वर्ण्यपुष्टिः । उक्तार्थे प्राचीनसंमतिमाह-अत एवेति । ईदृशव्यवस्थाङ्गीकारादेवेत्यर्थः । नन्वेतावता प्रकृते कि सिद्धमत आह–एवं चेति । उक्तव्यवस्थाङ्गीकारे चेत्यर्थः । कथंकारं कथं कृत्वा । व्यतिरेके दृष्टान्त: । बाध्यप्राय एवेत्यप्याहुरिति । सर्वदो माधव इत्यादावलंकारान्तरसंभावनारहिते सावकाशस्य श्लेषस्यालंकारान्तरेण स्वविषये बाध्यत्वमेवेत्यर्थः । प्रतिभामात्रसत्त्वात्प्राय इति । अपिर्विशेषणसमुच्चायकः । अविरलेति । व्याख्यातमिदं प्राक् । तत्र तत्प्रतीतो सत्याम् । उन्नत इति । महानुच्चैश्च । प्रोसन्ती धारा यस्य सः । प्रोल्लसन्हारो यत्र स च । कालागुरुवन्मलीमसः श्यामः कालागुरुणा श्यामश्च । मेघसमूहः स्तनभारश्च । भट्टैश्चेति । उदाहृतमित्यस्यानुषङ्गः । भद्रेति । अत्र यच्छब्दः प्राकरणिकराजपरः । तत्पक्षे यस्य प्रकृतस्य राज्ञः करः पाणिनिरन्तरं दानार्थगृहोताम्बुसेकशोभनोऽभूत् । भद्रात्मनः कल्याणरूपस्य । दुरधोति । अनभिभवनीयशरीरस्य । वंश: कुलं तत्रोनतिराधिक्यं यस्य । कृतः शिलीमुखानां नाराचानां संग्रहोऽभ्यासदा_ येन । अनुपेति । अबा
For Private And Personal Use Only
Page #413
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
यस्यानुपप्लुतगतेः परवारणस्य
दानाम्बुसेकसुभगः सततं करोऽभूत् ॥' कुवलयानन्दकारस्तु–“यदत्र प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्तिमूलध्वनिमिच्छन्ति प्राञ्चस्तत्तु प्रताप्रताभिधानमूलस्योपमादेरलंकारस्य व्यङ्गयत्वाभिप्रायं न त्वप्रकृतार्थस्यैव व्यङ्गयत्वाभिप्रायम् । अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्याभिधेयत्वेन व्यत्यनपेक्षत्वात् । यद्यपि प्रकृतार्थे प्रकरणवशाज्झटिति बुद्धिस्थिते सत्येव पश्चान्नृपतितग्राह्यधनादिवाचिनां राजकरादिपदानामन्योन्यसंनिधानबलात्तद्विषयशक्त्यन्तरोन्मेपपूर्वकमप्रकृतार्थः स्फुरेत् । नैतावता तस्य व्यङ्गचत्वम् । शक्त्या प्रतिपाद्यमाने सर्वथैव व्यक्त्यनपेक्षणात् । पर्यवसिते प्रकृतार्थाभिधाने स्फुरति चेत्कामं गूढश्लेषोऽस्तु । अस्ति चान्यत्रापि गूढः श्लेषः । यथा
धितज्ञानस्य अवारितगतेर्वा अदुष्टहितकर्तुर्वा । परेति । शत्रुनिवारकस्य । गजपक्षे भद्रजातीयस्य । अत्युच्चत्वादुःखाधिरोह्यशरीरस्य । विशाला वंशस्य पृष्ठदण्डस्योन्नतियस्य । कृतभ्रमरसंग्रहस्य । अनुद्धतधीरगमनस्य । परस्योत्कृष्टस्य वारणस्य गजस्य । करः शुण्डादण्डः । मदजलसेकसुभगोऽभूदित्यर्थः । अत्र राजा वाच्यो हस्ती प्रतीयमानः । ननु प्रकरणेनाभिधाया नियमनादप्रकृतार्थस्य व्यङ्गयत्वमेवेति कथं श्लेषोऽत आह -यदत्रेति । मूलस्य मूलकस्य । अलंकारस्योत । इदमुपलक्षणं वस्तुध्वनेरपि । शनिरशनिरित्यादौ शनिविरुद्धरूपेऽप्रस्तुतेऽशनिशब्देनाभिधया प्रतीयमानेऽपि तन्मूलकस्य विरुद्धावपि त्वदनुवर्तनमेकं कार्य कुरुत इति वस्तुध्वनेरशनिशब्दशक्तिमूलस्य संभवात् । एतेन शब्दशक्तिमूलवस्तुध्वनेरुच्छेद इत्यपास्तम् । अत एव विवक्षितार्थमाह-न त्विति । अभिधेयत्वेति । वाच्यत्वावश्यकत्वेनेत्यर्थः । 'अभिधाया अवश्यंभावेन' इति क्वचित्पाठः । झटितीति । एवं च प्रकरणादीनां प्राथमिकबोधत्वमेव प्रतिबध्यतावच्छेदकमिति भावः । नृपतितबाह्येति । नृपतिनृपतिग्राह्येत्यर्थः । यथासंख्येनास्य राजकरयोरन्वयः । 'असावुदयमारूढः कान्तिमारक्तमण्डल: । राजा हरति सर्वस्वं मृदुभिनूतनैः करैः ॥' इत्यादाविति भावः । अन्योन्यसंनिधानति । परस्परार्थसंबन्ध्यर्थवाचकशब्दसमभिव्याहाररूपशब्दान्तरसंनिधोत्यर्थः । तद्विषयेति । प्रकृतार्थविषयेत्यर्थः । नैतावतेत्यस्य तथापीत्यादिः । एतावता पूर्वापरभावमात्रेण तस्य अप्रकृतार्थस्य पश्चादिति अप्रकृतार्थ इत्यनुषज्यते । काममिति। अप्रकृतस्य द्वितीयस्य शीघ्रप्रत्ययागढत्वम् । तदसंभवशङ्कां निरस्यति-अस्ति चेति । चो ह्यर्थे ।
For Private And Personal Use Only
Page #414
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३९८
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
'अयमतिजरठाः प्रकामगुर्वीर लघुविलम्बिपयोधरोपरुद्धाः । सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्विभर्ति || ' अत्र हि समासोक्त्युदाहरणे वृद्धवेश्यावृत्तान्तः प्रतीयते । तत्राभङ्गश्लेष इति सर्वेषामभिमतम् । एवं चाप्रकृतार्थो न व्यङ्गयः ।" इत्याह । तत्र विचारयामः – यत्तावदुच्यते उपमादेरलंकारस्यैव व्यङ्ग्यत्वं प्राची - नानामभिप्रेतं न त्वप्रकृतार्थस्येति । एवं सति
'अनेकार्थस्य शब्दस्य वाचकत्वे नियत्रिते । संयोगाद्यैरवाच्यार्थधीकडचाष्टतिरञ्जनम् ||'
इत्यादिस्तेषां ग्रन्थः कथमायुष्मता समर्थितः । उपमादेर्व्यङ्ग्यत्वस्य वाचकतानियन्त्रणानपेक्षत्वात् । नह्यनेकार्थस्यापि शब्दस्योपमादिवाचकत्वं प्रसक्तं येन तन्नियन्त्रणाय संयोगाद्यनुसरणमर्थवत्स्यात् । द्वितीयार्थवाचकतायामनियन्त्रितायामप्युपमादेर्व्यङ्ग्यत्वस्य निष्प्रत्यूहत्वात् । तस्मात्तग्रन्थानाकलननिबन्धनं तदभिप्रायवर्णनमिति स्फुटमेव । यदप्युच्यते अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्येत्यादि तत्र कथमप्रकृतार्थस्य शक्त्या प्रतिपादनम् । तद्विषये शक्तेर्नियन्त्रणस्य तैरेवोक्तत्वात् । अथ नियन्त्रणं नाम प्रथमं बोधजननमात्रं न तु चरममपि । एवं च प्रकृतशक्त्या प्रकृतार्थबोधे जाते सत्यकृतार्थया द्वितीयशक्त्या प्रकृतेतरार्थबोधे न किंचि - द्वाधकमिति चेत् न । प्रथमं प्रकृतार्थबोधस्याजननमेव कस्य हेतोः ।
अन्यत्रापि उदाहरणान्तरेऽपि । अयमतीति । माघे रैवतकवर्णनम् । अयं रैवतकगिरिः कठिना: अत्यन्तमहतीः महाविलम्बमानमेघव्याप्ताः निरन्तरं प्राणिनामगम्यस्वरूपाः परिणतास्तिर्यग्दन्तप्रहारिणो दिक्करिणो दिग्गजा यासु तास्तटीविभर्तीत्यर्थः । 'तिर्यग्दन्तप्रहारी यो गजः परिणतस्तु सः' इति हलायुधः । वृद्धवेश्यापक्षे तु अयं राजा अतिप्रवयसो जीर्णा महाविलम्बमानस्तनसंबद्धां सततं कदापि प्राणिनां संगमायोग्यस्वरूपाः । गमने प्राणिनां मरणमेवेति भावः । परिणते दिग्वर्तुलाकारं दशनक्षतं करिका नखक्षतं च यासां तास्तटीस्तत्त्वेनाध्यवसिता वृद्धवेश्या बिभर्तीत्यर्थः । ' दिग्दष्टं वर्तुलाकारं करिकानखरेखिका' इति यादवः । ननु तत्र श्लेष एव नात आह-तत्रेति । अयमतोत्यत्रेत्यर्थः । उपसंहरति एवं चेति । तेषां प्राचीनानाम् । दोषान्तरमाह - द्वितीयार्थेति । तैरेव प्राचीनैरेव । अकृतार्थया अचरितार्थया । सा पूर्व वियमाना ।
For Private And Personal Use Only
Page #415
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३९९
प्रकरणादिज्ञानेन प्रतिबन्धादिति चेत्, प्रकृतार्थबोधोत्तरं सा प्रतिबन्धकता केनापहृता प्रकरणादिज्ञानस्य । न च ज्ञानस्याशुविनाशित्वात्तदानीं प्रकरणज्ञानमेव नष्टमिति वाच्यम् । ज्ञानान्तरस्योत्पत्तौ बाधकाभावात् । सैव ज्ञानव्यक्तिः प्रतिबन्धिकेति तु तत्तद्वयक्तिसहस्रगतप्रतिबन्धकत्वसहस्त्रकल्पनागौरवग्रस्तमेव । तदपेक्षयान्यत्र क्लृप्तव्यञ्जनाख्यव्यापारस्यैव कल्पयितुं युक्तत्वात् । 'जैमिनीयमलं धत्ते रसनायां महामतिः' इत्यादौ बाधितार्थबोधस्य शक्त्या दुरुपपादत्वाच्च । यदि तु यथाकथंचिदुपपत्तिः स्यादेवमपि तस्य देवदत्तादौ तत्पुत्रवाक्यादप्रादुर्भावस्तत्स्यालकाद्युपहासवाक्यात्प्रादुर्भावश्च न स्यात् । वक्तृबोद्धव्यादिवैशिष्टयस्य व्यङ्गय प्रतिभामात्रहेतुत्वादिति प्राचामाशयः । तत्र किमुच्यते अप्रकृतार्थस्य शक्त्या
आश्विति । त्रिक्षणावस्थायित्वादिति भावः । ज्ञानमेवेति । एवं चाश्रयस्यैवाभावात्प्रतिबन्धकत्वं दुर्वचमिति भावः । लाघवादाह-तदपेक्षयेति । अन्यत्र गतोऽस्तमर्क इत्यादौ । व्यञ्जनानगीकरीमते गौरवाङ्गीकारस्यावश्यकत्वादाह-जैमिनीयेति । बाधितार्थेति । जैमिनीयसंबन्धिविष्ठामितीत्यर्थः । यथाकथंचित् तत्र व्युत्पत्त्यन्तराङ्गीकारादिति भावः । तस्य महामतिर्जिह्वायां जैमिनीयसंबन्धिविष्टां धत्ते इति बाधितार्थस्य । तत्पुत्रेति । तत्र तु स तस्यां जैमिनीयं शास्त्रं अलमत्यन्तं धत्ते इत्यर्थप्रतीतिरिति भावः । ननु वक्तृबोद्धव्यादिवैशिष्ट्यात्तथेत्यत आह-वक्रिति । मात्रपदेन शक्यप्रतिभानिरासः । तथा चावश्यकव्यञ्जनयैव तत्प्रतीतिरिति भावः । अत एवाहतत्र किमुच्यते अप्रकृतार्थस्य शक्त्या प्रतिपादनमिति।अत्रेदं चिन्त्यम्-तत्र झटितीत्युक्त्या प्राथमिकबोधत्वमेव प्रतिबन्धतावच्छेदकमिति बोधितमित्युक्तमेव । एवं चान्योन्यसंनिधानबलादित्यनेनोक्तार्थ केनेदं बोधितं यत्प्रकृतार्थे नियामकद्वयसत्त्वात्प्रथममुपस्थितिः । द्वितीयेऽपि शब्दान्तरसंनिधिरूपनियामकमात्रसत्त्वेन तस्याप्युपस्थितिः किं तु पश्चादिति । सुरभिमांसं भुते इत्यादेः पुत्रादिप्रयुक्तानाश्लीलबोधः । श्यालकादिप्रयुतादेव च तद्बोध इति व्यवस्थापि वक्तृतात्पर्याग्रहतगृहाभ्यां सूपपादा । यद्वा वक्तृबोद्धव्यादि वेशिष्टयस्य फलबलेन नियन्त्रितशक्त्यल्लासेऽपि हेतुत्वकल्पनान्न दोषः । एतावान्विशेषः-यत्र वक्तवैशिष्टयादिज्ञानं विलम्बेन, प्रकरणज्ञानं च शीघ्रं तत्र वक्तवैशिष्टयादीनां नियन्त्रितशक्त्युल्लासकत्वम् । यत्र तु युगपदेवोभयं तत्र नियन्त्रणप्रतिबन्धकतोत्तेजकतैव तेषाम् । व्यञ्जनावादिनापि तेषां व्यङ्गयप्रतिभाहेतुत्वमवश्यमङ्गीकार्यमेव । तद्वरं व्य अनामनङ्गीकृत्य तेषां शक्त्युलासादिहेतुत्वकल्पनमेव । एवं योगरूढपदानां यत्र योगार्थमात्रघटितार्थान्तरबोधकतेष्टा तत्र तेषां रूढिप्रतिबन्धकतापि स्वीकार्या, उत्तेजकता वा । एतेन वयं तु बम इत्यायुक्तिरप्यपास्ता । किं च
For Private And Personal Use Only
Page #416
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
प्रतिपादन मिति । यच्चाप्युच्यते 'अयमतिजरठाः-इत्यादि समासोक्ताविव गूढश्लेषोऽस्तु' इति, तदपि गर्भस्त्रावेण गलितम् । श्लिष्टविशेषणायां समासोक्तावपि व्यक्त्यैवाप्रकृतार्थप्रतीतिस्वीकारात् । अत एव ध्वनिकृता 'गुणीभूतव्यङ्गयभेदः समासोक्तिः' इत्युक्तम् । 'समासोक्त्या श्लेषो बाध्यते' इत्युद्भटप्रभृतिश्च । बाधो हि श्लेषस्य तत्राप्रवृत्तिमात्रम् । श्लिष्टशब्दप्रयोगस्तु तत्रोभयार्थतामात्रेणोपपादनीय इति न किंचिदेतत् ।
वयं तू ब्रूमः-अनेकार्थस्थले ह्यप्रकृताभिधाने शक्तेरुक्तिसंभवोऽप्यस्ति । योगरूढिस्थले तु सापि दुरापास्ता । यथा
'चाञ्चल्ययोगिनयनं तव जलजानां श्रियं हरतु ।
विपिनेऽतिचञ्चलानामपि च मृगाणां कथं नु तां हरति ।' अत्र नैवाश्चर्यकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणाधिकेन तव लोचनेन शोभायास्तिरस्कारः, आश्चर्यकारी तु हरिणानां तद्गुणयुक्तानां तिरस्कार इति वाच्यार्थे पर्यवसन्नेऽपि रूढिनिर्मुक्तकेवलयोगमर्यादया मूर्खपुत्राणां धनहरणं नेतृ (त्रि)भिश्चौ रैः सुशकं न तु गवेषकाणामिति जलजनयनमृगशब्देभ्यः प्रतीयमानोऽर्थः कथं विना व्यञ्जनाव्यापारमुपपादयितुं शक्यते । यतो योगशक्ते रूढ्या दृढनिगडनियन्त्रिताया नास्ति स्वातन्त्र्यम् । अत एव पङ्कजादिपदेभ्यः पङ्कजनिकर्तृत्वेन कुमुदशैवालादिबोधो लक्षणयैव । तादृशशक्तिज्ञानानां पद्मत्वप्रकारकबोधस्यैव कार्यतावच्छेदकत्वादित्युक्तं नैयायिकैः । अत एव च 'ई
शब्दशक्तिमूलध्वनिस्थले संबन्धविशेषरूपव्यञ्जनाया बोधजनकत्वकल्पनापेक्षया कप्तशतेस्तत्त्वकल्पनमेवोचितम् । लाघवात् । एवं चाविष्टसाधारणविशेषणायां समासोक्तावेव गुणीभूतव्यङ्गयत्वम् , श्लिष्टविशेषणायामप्यारोपांशमादाय तत्त्वमिति दीक्षिताशयः । वस्तुतस्तु द्वितीयार्थस्य व्यङ्गयत्वेऽपि न तमादाय ध्वनित्वमुचितम् । उपमानादिवि. धया तस्यापि प्रकृतोपस्कारकत्वेन गुणत्वात् । अन्यथा समासोक्तावपि गुणीभूतव्यङ्गयवोक्तिरसंगता स्यादित्यलंकारव्यङ्गयत्वमादायैव ध्वनित्वमुक्तमिति बोध्यम् । एतेन यदप्युच्यते अयमतीत्याद्यपास्तिित बोध्यम् । अपिना साधारणविशेषणसमुच्चयः । एतेन शक्तिनिरासः। अत एव व्यक्तयैव तदङ्गीकारादेव । तिश्चेति । उक्तमित्यस्यानुषङ्गः । ननु प्रागुक्तरीत्या तत्र श्लेषस्यैवाभावेन कथं बाध्यत इत्युक्तिरत आह-बाधो हीति। तत्र समासोत्तौ। नन्वेवं श्लिष्टेतिशब्दप्रयोगः कथमत आह-श्लिऐति।
For Private And Personal Use Only
Page #417
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
शानो भूतभव्यस्य स एवाद्यः स उश्च' इति वेदान्तवाक्ये किमैश्वर्यविशिष्टः कश्चिज्जीवः प्रतिपाद्य ईश्वरो वेति संशये प्राप्ते 'शब्दादेव प्रमितः' इति सूत्रितमुत्तरमीमांसाकारैर्व्यासचरणैः । तस्मात्प्रागुक्तपद्येऽप्ररुतचोरव्यवहारो न शक्तिवेद्यः, अपि तु व्यक्तिवेद्य एव । मुख्यार्थबाधाद्यभावाल्लक्ष्योऽपि न शक्यो वक्तुम् । तात्पर्यार्थबाधस्तु तात्पर्यार्थबोधोत्तरबोध्यः । स एव तु कथं स्यादिति व्यञ्जनैव शरणीकरणीया । नहि चोरव्यवहारोऽत्र वक्तुविवक्षित इति ज्ञाने श्रोतुः कश्चिदुपायोऽस्ति ऋते सहृदयतोन्मिपितादस्माद्व्यापारात् । इदं पुनरिहावधेयम्-'रागावतो वल्गुकराभिमृष्टं श्यामामुखं चुम्बति चारु चन्द्रः' इत्यादौ तावत्समासोक्तिरिति निर्विवादम् । चन्द्रपदस्थाने राजेति कृते तु शब्दशक्तिमूलो ध्वनिरिति च । तदत्रोभयत्रापि श्लिष्टविशेषणमाहात्म्यादप्रकृतव्यवहारस्य प्रतीयमानस्य तुल्यत्वात्कथमेकत्र गुणीभावोऽन्यत्र च प्राधान्यं च स्यात् । प्रकृतस्य प्राधान्यादप्रकृतस्य तु तदुपस्कारकत्वे नोभयत्रापि गुणभावौचित्यात् । नहि विशेप्यस्य श्लिष्टतामात्रेण व्यङ्ग्यस्य प्राधान्यम्, अश्लिष्टत्वे चाप्राधान्यं शक्यं संपादयितुम् । नायकत्वप्रतीतिरपि क्वचिदर्थशक्तिमूलेन व्यञ्जनेन, क्वचिच्छब्दशक्तिमूलेन तुल्यैव । यैरपि समासोक्तौ प्रकृतधर्मिणि नायकत्वादेः प्रत्ययो नाभ्युपेयते, अपि तु नायकादिव्यवहारस्यैव ध्वनौ चाभ्युपेयते, तेषामपि व्यङ्गयस्यैकत्र गुणत्वमन्यत्र प्रा. धान्यं च कस्य हेतोः स्यात् । प्रकृताप्रकृतयोरौपम्यं गम्यमुच्यतामभेदो वा सर्वथैव तस्य प्रकृतोपस्कारकत्वाद्गुणीभाव एवोचितो न प्राधान्यम् । अन्यथा समासोक्तावपि व्यङ्गयस्य प्राधान्यापत्तेः तस्माच्छिष्टाश्लिष्टविशेप्या समासोक्तिरेवेयम् । पराङ्गरूपगुणीभूतव्यङ्गभेद इत्यपि शक्यते वक्तुम् । यदि प्राञ्चो न कुप्यन्ति । सोऽयं श्लेषः सभङ्गोऽभङ्गश्चार्थालंकार एवेत्यौद्भटाः । उभावप्येतौ शब्दालंकारौ । शब्दस्य परिवृत्त्यसहत्वादन्वयव्यतिरेकाभ्यां तदाश्रितत्वावधारणात् । तृतीयस्त्वर्थालंकारः । अर्थमात्राश्रितत्वात् । इति मम्भटभट्टाः । अन्वयव्यतिरेकाभ्यां हि हेतुव्यक्तिर्य अना । अस्मात् व्यञ्जनाख्यात् । वल्गु सुन्दरम् । इति च निर्विवादम् । एकत्र आये । अन्यत्र अन्त्ये । एवमग्रेऽपि । कस्य कस्मात् । सर्वस्वकारमतमाह-अन्व
For Private And Personal Use Only
Page #418
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०२
काव्यमाला।
त्वावगमो घटं प्रति दण्डादेरिवास्तु । न त्वाश्रयत्वावगमः । स तु पुनस्तहृत्तित्वज्ञानाधीनः । इह हि सभङ्गश्लेषस्य शब्दद्वयवृत्तित्वं जतुकाष्ठन्यायेन, अभङ्गस्य चार्थद्वयत्तित्वमेकवृन्तगतफलद्वयवच्च स्फुटमेवेत्येकस्य शब्दालंकारत्वमपरस्यार्थालंकारत्वम् । यद्यपि द्वितीयस्यापि 'प्रतिप्रवृत्तिनिमित्तं शब्दभेदः' इति नये शब्दद्वयवृत्तित्वाच्छब्दालंकारत्वमुचितम्, तथापि शक्ततावच्छेदकानुपूर्व्यभेदादभेदाध्यवसानाच्छब्दहयवृत्तित्वज्ञानं दुःशकम् । अन्यथा 'प्रत्यर्थ शब्दनिवेशः' इति नये पराभिमतोऽर्थश्लेषोऽपि शब्दालंकार एव स्यात् । इत्यलंकारसर्वस्वकारादयः। ___ अयं चोपमेव स्वतन्त्रोऽपि तत्र तत्र सकलालंकारानुग्राहकतया स्थितः सरस्वत्या नवं नवं सौभाग्यमावहन्नानाविधेपु लक्ष्येषु सहृदयैर्विभावनीय इति ।
इति रसगङ्गाधरे श्लेषप्रकरणम् । अप्रस्तुतेन गम्येन वाच्यस्य प्रस्तुतस्योपकरणे समासोक्तिरुक्ता । इदानी तद्वैपरीत्येनाप्रस्तुतप्रशंसोच्यते__ अप्रस्तुतेन व्यवहारेण सादृश्यादिवक्ष्यमाणप्रकारान्यतमप्रकारेण प्रस्तुतव्यवहारो यत्र प्रशस्यते साप्रस्तुतप्रशंसा ।
प्रशंसनं च वर्णनमात्रम्, न तु स्तुतिः । ‘धिक्तालस्योन्नततां यस्य च्छायापि नोपकाराय ।' इत्यादावव्याप्त्यापत्तेः।।
इयं च पञ्चधा-अप्रस्तुतेन स्वसदृशं प्रस्तुतं गम्यते यस्यामित्येका । कार्येण कारणमित्यपरा । कारणेन कार्यमिति तृतीया । सामान्येन विशेष इति चतुर्थी । विशेषेण सामान्यमिति पञ्चमी । आद्या यथा--- 'दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः
करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः । येति । एकस्य आद्यस्य । अपरस्य द्वितीयस्य । अयं च श्लेषश्च । इतिः समाप्तौ ॥ इति रसगङ्गाधरमर्मप्रकाशे श्लेषप्रकरणम् ॥
अथ वक्तव्याप्रस्तुतप्रशंसायाः संगतिमाह-अप्रस्तुतेनेति । हरिदिति इन्द्रादय
For Private And Personal Use Only
Page #419
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
इदानी लोकेऽस्मिन्ननुपमशिखानां पुनरयं
नखानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपतिः ॥ यथा वा'यस्मिन्खेलति सर्वतः परिचलत्कल्लोलकोलाहलै__ मन्थाद्रिभ्रमणभ्रमं हृदि हरियूथाधिपाः पेदिरे । सोऽयं तुङ्गतिमिङ्गिलाङ्गगिलनव्यापारकौतूहलः
क्रोडे क्रीडतु कस्य केलिरभसत्यक्तार्णवो राघवः ॥' यथा वा'पुरा सरास मानसे विकचसारसालिस्खल
त्परागसुरभीकते पयसि यस्य यातं वयः । म पल्वलजलेऽधुना मिलदनेक भेकाकुले
____ मरालकुलनायकः कथय रे कथं वर्तताम् ॥' श्लिष्टविशेषणाप्येषा दृश्यते'नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः ।
अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि ॥' समासोक्तिरत्रानुग्राहिकेति तु न वक्तव्यम् । तस्याः प्रकृतालंकारविरुद्वात्मिकात्वेनानुग्राहिकात्वायोगात् । यत्तु 'येनास्यभ्युदितेन चन्द्र गमितः कान्ति रवी तत्र ते युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः' इत्यत्र समासोक्तिरनुग्राहिका' इति मम्मटभट्टरुक्तं तत्र विचार्यते--अत्र विशेषणसाम्यमहिना प्रतीयमानः कापुरुषत्तान्तः किं प्रस्तुत आहोस्तिदप्रस्तुतः । आद्ये समासोक्तेविषय एव नास्ति । 'परोक्तिभैदकैः श्लिष्टैः समासोक्तिः' इति समासोक्तेर्लक्षणस्य तैरेवाभिधानात् । परस्याप्रकृतस्थति तदर्थात् । द्वितीयेऽप्रस्तुतप्रशंसाया नास्ति विषयः । 'अप्रस्तुतप्रशंसा सा या सैव प्रस्तुताश्रया' इति तल्लक्षणात् । प्रस्तुत आश्रयः प्रधानं यस्या इति तदर्थात् । तस्माच्छिष्टविशेषणोपक्षिप्तद्वितीयार्थमात्रं समासोक्तिरित्यभिप्रायेण यथाकथंचित्संगमनीयम् । इत्यर्थः । विकचेति । विकसितकमलपटीत्यर्थः । भेको मण्डूकः । अलिभ्रमरः ।
For Private And Personal Use Only
Page #420
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०४
काव्यमाला।
इयं च सादृश्यमूलाप्रस्तुतप्रशंसोच्यते । अस्यां च वाक्यार्थः क्वचित्प्रतीयमानार्थताटस्थ्येनैवावतिष्ठते । यथोक्तोदाहरणेषु । क्वचिच्च स्वगतविशेषणान्वययोग्यतामासादयितुं प्रतीयमानाभेदमपेक्षते । यथा
'समुपागतवति दैवादवहेलां कुटज मधुकरे मा गाः ।
मकरन्दतुन्दिलानामरविन्दानामयं महामान्यः ॥' यथा वा'तावत्कोकिल दिवसान्यापय विरसान्वनान्तरे निवसन् ।
यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥' अत्र वृक्षपक्षिणोः संबोधनानुपपत्त्या प्रतीयमानांशतादात्म्यमपेक्ष्यते । 'मलिनेऽपि रागपूर्णी विकसितवदनामनल्पजल्पेऽपि ।
त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥ अत्र त्यागानौचित्यहेतुत्वेन कमलिन्याः स्तुतिरूपं विशेषणमुपात्तम् । तच्च न संभवति । नहि भ्रमरे श्यामत्वादिदोषः कमलिन्याः शोणत्वादिवर्वा गणः येन स्तुतिः स्यात् । अतो वाच्यार्थस्य प्रतीयमानतादात्म्यं विशेष्यांशे विशेषणांशे चापेक्ष्यते । पूर्वत्रांशेन इह तु साकल्येनेति विशेषः । क्वचिच्च प्रतीयमानमपि किंचिदंशे वाच्यतादात्म्यं वाच्यं च किंचिदंशे प्रतीयमानतादात्म्यमपेक्षते । यथा--
'सरजस्कां पाण्डुवर्णा कण्टकप्रकराङ्किताम् ।
केतकी सेवसे हन्त कथं रोलम्ब निस्त्रपः ॥' अत्र यथा सरजस्कत्वं वाच्यप्रतीयमानयोरुभयोरपि सेवनानौचित्ये निमित्तं न तथा पाण्डुवर्णत्वकण्टकितत्वे । यतः पाण्डुवर्णत्वं केतक्यां न दोषः । प्रत्युत गुण एवेति पाण्डुरत्वांशे केतक्यां नायिकातादात्म्यमपेक्ष्यते । नायिकायां च कण्टकितत्वांशे केतकीतादात्म्यम् । पुलकितत्वस्य कामिनीत्यागाननुगुणत्वात्प्रत्युत तत्सेवनानुगुणत्वात् । मम्मटोक्तिमाह--समेति । इयं श्लिष्टविशेषणा । अस्यामप्रस्तुतप्रशंसायाम् । यथोतेति । दिगन्त इत्यादिष्वित्यर्थः । विशेष्यांशे विशेषणांशे चेति । संबोधनानुपपत्त्या विशेष्यांशे श्यामत्वादेविशेषणत्वाद्युपपत्तये विशेषणांशे चेत्यर्थः । रोलम्बो
For Private And Personal Use Only
Page #421
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
कार्येण कारणं गम्यं यथा'किं मस्तव वीरतां वयममी यस्मिन्धराखण्डल
क्रीडाकुण्डलितभ्र शोणनयने दोमण्डलं पश्यति । नानाभूषणरत्नजालजटिलास्तत्कालमेवाभव
न्विन्ध्यक्ष्माधरगन्धमादनगुहासंबन्धिनो भूरुहाः ॥' अत्र विन्ध्यारण्यतरुभूषणेनारिपलायनं गम्यते । यदि तु वक्ष्यमाणरीत्या पर्यायोक्तालंकारस्यायं विषय इत्युच्यते तदेदं विविक्तमुदाहरणम----
'नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि ।
यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ॥' अत्र पल्लवादितिरस्कारेण कार्येण तदङ्गानां सौकुमार्यातिशयः कारणम् । कार्यकारणभावश्चेह ज्ञानयोः । तेन पारुष्यस्य मृणालगतत्वेन ज्ञायमानस्य स्वरूपतस्तदङ्गसौकुमार्याजन्यत्वेऽपि न क्षतिः । कारणेन कार्य गम्यं यथा'सृष्टिः सृष्टिकता पुरा किल परित्रातुं जगन्मण्डलं ___ त्वं चण्डातप निर्दयं दहसि यज्ज्वालाजटालैः करैः । संरम्भारुणलोचनो रणभुवि प्रस्थातुकामोऽधुना
जानीमो भवता न हन्त विदितो दिल्लीधरावल्लभः ॥' अत्र राजवर्णनाङ्गत्वेन रवेभयोत्पादने वर्ण्यत्वेन प्रस्तुते साक्षात्तदननुगुणत्वादप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं रिपुकर्तृकसूर्यमण्डलभेदनं गम्यते । यदि चात्र कारणं यथाकथंचित्प्रस्तुतमेवेत्युच्यते तदेदमुदाहरणम्---
'आनम्य वल्गुवचनैर्विनिवारितेऽपि
रोषात्प्रयातुमुदिते माय दूरदेशम् । वाला कराङ्गुलिनिदेशवशंवदेन
क्रीडाबिडालशिशुनाशु रुरोध मार्गम् ॥'
For Private And Personal Use Only
Page #422
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०६
काव्यमाला।
अत्र प्रवासान्नित्तोऽस्मीति प्रस्तुतमप्रस्तुतेन कारणेन गम्यते । सामान्येन विशेषो यथा__ 'कृतमपि महोपकारं पय इव पीत्वा निरातङ्कः ।
प्रत्युत हन्तुं यतते काकोदरसोदरः खलो जगति ॥' अत्र सामान्यार्थेन प्रस्तुतो विशेषो गम्यते । उपमाप्यस्या आनुगुण्येन स्थिता। विशेषेण सामान्यं यथा"पाण्डित्यं परिहृत्य यस्य हि कृते बन्दित्वमालम्बितं
दुष्प्रापं मनसापि यो गुरुतरैः क्लेशैः पदं प्रापितः । रूढस्तत्र स चेन्निगीर्य सकलां पूर्वोपकारावली
दुष्टः प्रत्यवतिष्ठते तदधुना कस्मै किमाचक्ष्महे ॥' अत्र दुष्टेषु कृत उपकारः परिणामे न सुखं जनयतीति प्रस्तुतं विशेपेण सामान्यं गम्यते । यथा वा___ हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः ।
लेढि जिघ्रति संक्षिप्य करोत्युन्नतमास(न)नम् ॥' अत्र मर्कटवृत्तान्तेनाप्रस्तुतेन प्रस्तुतमनभिज्ञेषु रमणीयवस्तुसमर्पणं नाशाय भवतीति सामान्यं गम्यते । एवं पञ्चप्रकारेयमप्रस्तुतप्रशंसा प्राचामनुसारेण निरूपिता । वस्तुतस्तु प्रथमस्याप्रस्तुतप्रशंसाप्रकारस्य नानाविधत्वं संभवति । यत्रात्यन्तमप्रस्तुतेन वाच्येन प्रस्तुतं गम्यते स प्रकारो निगदित एव । यत्र च स्थलविशेषे वृत्तान्तद्वयमपि प्रस्तुतं सोऽप्येको यथा जलक्रीडाप्रकरणे भ्रमरकमलिन्यादिषु पुरःस्थितेषु नायके च स्वनायिकायामननुरक्ते पार्श्ववर्तिनि नायिकासख्याः कस्याश्चिदुक्तौ 'मलिनेऽपि रागपूर्णा-' इत्यादि प्रागुदाहृते पद्ये । अथात्र कथमप्रस्तुतप्रशंसा। वाच्यार्थस्य प्रस्तुतत्वेनैतल्लक्षणानालीढत्वादिति चेत् न । अप्रस्तुतशब्देन हि मुख्यतात्पर्यविषयीभूतार्थातिरिक्तोऽर्थो विवक्षितः । स च क्वचिदत्यताप्रस्तुतः क्वचित्प्रस्तुतश्चेति न कोऽपि दोषः । न च ध्वनिमात्रस्या
For Private And Personal Use Only
Page #423
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४०७
प्रस्तुतप्रशंसात्वापत्तिरिति वाच्यम् । अत एव तत्र सादृश्याद्यन्यतमप्र. कारेणेति विशेषणमुपात्तमिति विभावनीयम् । __ एतेन 'द्वयोः प्रस्तुतत्वे प्रस्तुताङ्कुरनामान्योऽलंकारः' इति कुवलयानन्दाद्युक्तमुपेक्षणीयम् । किंचिद्वैलक्षण्यमात्रेणैवालंकारान्तरताकल्पने वाग्भङ्गीनामानन्त्यादलंकारानन्त्यप्रसङ्ग इत्यसकदावेदितत्वात् । इदं तु बोध्यम्-अत्यन्ताप्रस्तुतस्य वाच्यतायां तस्मिन्नपर्यवसितया अभिधया प्रतीयमानार्थस्य बलादाकृष्टत्वेन ध्वनित्वं न निर्बाधम् । द्वयोः प्रस्तुतत्वे तु ध्वनित्वं निर्विवादमेव । एवं सादृश्यमूलप्रकारे द्वैतम् । कार्यकारणभावसामान्यविशेषभावमूलास्तु चत्वारः प्रकारा गुणीभूतव्यङ्गय. स्यैव भेदाः । अभिधादिस्पर्शलेशशून्यस्य केवलागूरणमात्रस्य ध्वनित्वप्रयोजकत्वात् । अथ
'आपेदिरेऽम्बरपथं परितः पतङ्गा
भृङ्गा रसालमुकुलानि समाश्रयन्त । संकोचमञ्चति सरस्त्वयि दीनदीनो
मीनो नु हन्त कतमां गतिमभ्युपैतु ॥' अत्र क्षीणराजादि तदेकावलम्बपुरुषादिवृत्तान्ते प्रस्तुतेऽप्रस्तुतप्रशंसैवेति निर्विवादम् । यदा तु सरोवृत्तान्तो राजवृत्तान्तश्चेत्युभयं प्रस्तुतं तदापि प्रागुक्तदिशा सैव । यदा तु सरोरत्तान्त एव प्रस्तुतस्तदा गुणीभ्रमरः । मात्र कात्स्न्थें । अत एवेत्यस्य यत इत्यादिः । उपेक्षणीयमिति । अत्रेदं चिन्त्यम् --अप्रस्तुतशब्देन मुख्यतात्पर्यविषयीभतार्थातिरिक्तो गृह्यते इत्यत्र मुख्यत्वं नाम यदि प्रस्तुतत्वं तदा तदुभयोरपि तुल्यमर्थोद्देश्यत्वम् । एवमपि प्राचामप्रस्तुतेनेति पदवयापत्तिः । एतावता विशेषणालंकारान्तरत्वानङ्गीकारे साधारणविशेषणमहिम्नाप्रस्तुतस्य स्फूर्त्या समासोक्तिः । असाधारणविशेषणमहिना तत्स्फर्तो व्यङ्गयरूपकमिति त्वदुक्तविषयविभागस्याप्युच्छेदापत्तिः । दीपकगुम्फयोदृष्टान्तप्रतिवस्तूपमयोश्च भेदानापत्तिश्चेति । प्रस्तुतत्वे तु ध्वनित्वमिति । इदमपि चिन्त्यम् ---'मलिनेऽपि रागपूर्णा' इत्यादौ प्रतीयमानार्थारोपमन्तरेण भ्रमरसंबोधनस्य तस्य तदत्तिश्यामत्वादी दोषादेर्वाच्यस्यानुपपद्यमानतया व्यङ्गधेनैव तदुपपत्तेश्च गुणीभूतव्यङ्ग्यताया एवौचित्यात् । प्रस्तुताङ्कुरलक्षणं तु मुख्यतात्पर्यविषयीभूतप्रस्तुताङ्करस्यातादृशेन प्रस्तुतत्वं प्रापितेन ध्वननमिति बोध्यम् । अथेति शङ्कायाम् । इयमप्रस्तुतप्रशंसा । जीवातोस्तस्यास्तादृशा.
For Private And Personal Use Only
Page #424
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४०८
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
भूतराजवृत्तान्तरूपव्यङ्गन्येऽस्मिन्पद्ये कोऽलंकारः । न तावदियम् । प्रस्तुतस्यैव प्रशंसनात् । नापि समासोक्तिः । तज्जीवातोर्विशेषणसाम्यस्य सकलालंकारिकसंमतस्यात्राभावात् । न च विशेषणसाम्यप्रकार इव शुद्धसादृश्यमूलोऽपि तस्या एव प्रकारो वाच्यः । एकधर्मालीत्वमन्तरेणैकालंकारत्वे सर्वेषामेकालंकारत्वापत्तेः । व्यवस्थापकैस्तद्वेदताया अनुक्तेश्व । अत एवालंकारसर्वस्वकारादिभिर्विशेषणवाचिशब्दसाम्यं संरक्ष्यैव समासान्तराश्रयेण सादृश्यमूलत्वं प्रदर्शितम्, न तु तदुपेक्ष्येति चेत् उच्यते - अप्रस्तुतप्रशंसैवात्रालंकारः । अप्रस्तुतस्य प्रशंसेति न तदर्थः । किं त्वप्रस्तुतेनेति । सा चार्थात्प्रस्तुतस्यैव । एवं च वाच्येन व्यक्तेन वा अप्रस्तुतेन वाच्यं व्यक्तं वा प्रस्तुतं यत्र सादृश्याद्यन्यतमप्रकारेण प्रशस्यते साप्रस्तुतप्रशंसेति । न तु वाच्येनैव व्यङ्ग्यमेaa | स्यादेतत् । 'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्' इत्यादाविवात्रापि निगीर्याध्यवसानेनैवोपपत्ति: शक्या कर्तुम् । त पदार्थेन पदार्थस्य वाक्यार्थेन वाक्यार्थस्य वा इत्यन्यदेतत् । अन्वयानुपपत्तिरपि लक्षणाबीजम् । एवं चातिशयोक्त्यैवोपपत्तौ किं सादश्यमूलाप्रस्तुतप्रशंसयेति । ननु निगीर्याध्यवसानं हि न तावदत्र संभवति । तत्र हि वाच्यतावच्छेदकरूपेण लक्ष्यस्य प्रतीतिः, इह तु वाच्यताटस्थ्येप्रस्तुतप्रशंसायाः । प्रकारो भेदः । व्यक्तेन व्यङ्गयेन । तच्च निगीर्याध्यवसानं च । अन्वयानुपपत्तेर्लक्षणाबीजस्यात्राभावादाह - अन्वयेति । किं सादृश्येति । अत्रायं समाधिः - वाक्ये शक्त्यभावेन लक्षणा वक्तुमशक्या । किं च लक्षणायां गङ्गायां घोष इत्यादाविव वाच्याभेदप्रतीत्यापत्तिः । सा चानिष्टा । ताटस्थ्येनैव प्रस्तुतार्थप्रतीतेः सहृदयानुभवसिद्धत्वात् । तृतीयस्य लक्षणा हेतोरभावादिति शङ्कां द्रयितुं शङ्कते - नन्विति । तत्र हि रूपकातिशयोक्त्युदाहरणे कमलमित्यादौ हि । इह तु अप्रस्तुतप्रशंसोदाहरणविशेषे प्रागुक्ते । एकधर्मालीढत्वमिति । अत्रेदं चिन्त्यम् - अतिशयोक्त्यादिवत्प्रकृते सादृश्याद्यन्यतमप्रकारनिवेशवच्चान्यतर हेतुका प्रस्तुतवृत्तान्तारोपत्वरूपैकधर्मालीत्वसं. भवेन समासोक्तेरेवात्राङ्गीकारे बाधकाभावः । किं चाप्रस्तुतेन प्रस्तुतं प्रशस्यत इत्यस्य कोऽर्थः । यद्युत्कर्षाधानं तर्हि प्रतीयमानार्थानध्यारोपविषयेषु दिगन्ते श्रूयन्त इत्याद्युदाहरणेष्वव्याप्तिः । नहि ताटस्थ्येन स्थितोऽप्यर्थो वाच्योत्कर्षक इति युक्तं सहृदयसंमतं वा । यदि प्रतीतिमात्रं तहिं न प्रकृते । न ह्यत्राप्रस्तुतेन प्रस्तुतस्य प्रतीतिः । अप्रस्तुतेन प्रस्तुतार्थप्रतीतिमात्रकृत एव चमत्कार इति तन्मतेऽलंकारान्तरता सूपपादेति ।
For Private And Personal Use Only
Page #425
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः । नार्थान्तरस्येति विशेपात् । यत्र तु श्लेषादिना विशेषणसाम्यं तत्र तन्माहात्म्यादस्तु नामाभेदाध्यवसाय इति चेत्, इहापि वाच्यव्यवहाराभिन्नतयैव च प्रस्तुतव्यवहारप्रत्यय इत्यवैलक्षण्यमेवेति सत्यम् । 'यस्मिन्खेलति', 'दिगन्ते श्रूयन्ते' इत्यादौ वाच्यार्थताटस्थ्येनैव व्यङ्गयस्य प्रतीते: सर्वहृदयसंमतत्वात् । क्वचित्तु संबोधनस्य तत्तद्विशेषणस्य चानुपपत्त्या अभेदांशोऽप्यपेक्ष्यते । न तावता सर्वत्राभेदेन प्रतीतिः । किं चाप्रस्तुतप्रशंसायां प्रस्तुतं व्यङ्गचमिति निर्विवादम् । निगीर्याध्यवसाने तु लक्ष्यं स्यात् । अपि च यत्र वाच्यस्यात्यन्ताप्रस्तुतत्वं तत्राभिधाया अपर्यवसानात्स्यादपि कदाचिल्लक्षणाया अवकाशः । यदा तु द्वयोरप्यर्थयोः प्रागुक्तदिशा प्रस्तुतत्वं तदा तु बाधलेशास्फुरणाल्लक्षणागन्धोऽपि नास्ति । कुतः पुनर्निगरणं लक्षणैकदेशः । किं त्वागूरणमेवेति । तत्राप्रस्तुतप्रशंसायाः सादृश्यमूलाया आवश्यकत्वादन्यत्रापि तज्जातीयस्थले सैवोचिता। यदि तु प्रकारस्यास्य ध्वनिप्रभेदत्वात् ध्वनेश्वालंकार्यस्यालंकारत्वानुपपत्तिरिति सूक्ष्ममीक्ष्यते तदाप्रस्तुतप्रशंसाया भेदान्तरमेव विषय इत्यपि वदन्ति ।
इति रसगङ्गाधरेऽप्रस्तुतप्रशंसाप्रकरणम् । अथ पर्यायोक्तम्विवक्षितस्यार्थस्य भङ्गन्यन्तरेण प्रतिपादनं पर्यायोक्तम् ।
येन रूपेण विवक्षितोऽर्थस्तदतिरिक्तः प्रकारो भङ्गयन्तरम् । आक्षेपो वा । यथा
'त्वां सुन्दरीनिवहनिष्ठुरधैर्यगर्व
निर्वासनैकचतुरं समरे निरीक्ष्य । भेदान्तरमेवेति । सादृश्यमूलातिरिक्तभेदा एवेत्यर्थः । वस्तुतस्तु प्रागुक्तमेवेतीदमयुक्तमित्यरुचिर्वदन्तीत्यनेन सूचिता ॥ इति रसगङ्गाधरमर्मप्रकाशेऽप्रस्तुतप्रशंसाप्रकरणम् ॥
विवक्षितार्थस्य भङ्गयन्तरेणेति । केनचिद्रूपेण व्य अनया लभ्यस्यार्थस्य ततोऽपि चारुतररूपेण यदभिधया प्रतिपादनं तत्पर्यायोक्तमित्यर्थः । मम्मटमतमाह-अ
५२
For Private And Personal Use Only
Page #426
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
केषामरिक्षितिभृतां नवराज्यलक्ष्मीः
स्वामिव्रतात्वमपरिस्खलितं बभार ॥' अत्र सर्वापि शत्रूणां राज्यसंपत्त्वां प्राप्तेति विवक्षितोऽथी न तादूप्येणाभिहितः, अपि तु स्खलितपातिव्रत्या बभूवेत्याकारेण । यथा वा
'सूर्याचन्द्रमसौ यस्य वासो रञ्जयतः करैः ।
अङ्गरागं सृजत्यग्निस्तं वन्दे परमेश्वरम् ॥' अत्रापि गगनाम्बर इति सूर्यचन्द्रकररज्यमानवस्त्र इत्याकारेण भस्माङ्गराग इत्यग्निसृज्यमानाङ्गराग इत्याकारेण च निरूपितः ।
'अस्यां च गम्यस्य येनाकारेण गम्यता तदतिरिक्ताकारेण वाच्यता। तेन पर्यायेण भङ्गयन्तरेणोक्तमभिहितं व्यङ्ग्यं यत्रेति प्राची निर्मितं लक्षणं व्यङ्ग्यत्ववाच्यत्वयोर्विरोधादसंगतमिति नाशङ्कनीयम् । एकस्यैव प्रकारभेदेन वाच्यत्वव्यङ्गयत्वयोरविरोधात् । यथा यावकमहारजनदाडिमीजपाकुसुमादिरूपाणां रक्तत्वादिना वाच्यत्वेऽपि तत्तद्वैजात्यरूपेण प्रत्यक्षत्वमेव न तु वाच्यत्वम्, एवमिहापि' इति मम्मटभट्टाः । अलंकारसर्वस्वकारस्तु-'गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तम् । गम्यस्यैव सतः कथमभिधानमिति चेत्, कार्यादिद्वारेण' इत्याह । तस्यायमाशयः
'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।
आलिङ्गनोदामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ॥' इति प्राचीनपद्ये राहुशिरश्छेदकारीति व्यङ्गयं राहुवधूजनसंबन्धिचुम्बनमात्रावशिष्टरतोत्सवनिर्मातृत्वेन रूपेण प्रकारान्तरेणाभिधीयत इ. त्यस्यापि विवेचने क्रियमाणे राहुशिरश्छेदकर्तृत्वरूपो धर्मः स्वसमानाधिकरणेन तादृशरूपान्तरेण साक्षादुपात्तेन गम्यत इत्येव पर्यवस्यति । भगवतस्तु पूर्वप्रक्रान्तत्वाद्यच्छब्देनाभिहितत्वाच्च न व्यङ्गयत्वम् । एवम्
'यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता । मदेनैरावणमुखे मानेन हृदये हरेः ॥'
For Private And Personal Use Only
Page #427
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४ ११
इति प्राचीन पद्येऽपि शकैरावणौ मानमदमुक्तौ जाताविति व्यङ्ग्यमपि मानमदमोकमात्रस्य व्यङ्ग्यत्वे पर्यवस्यति । धर्म्यशस्याभिधागो - चरत्वात् । एवं च यो व्यङ्गयांशः स न कदापि रूपान्तरपुरस्कारेणाभिधीयते, यश्चाभिधीयते धर्मी स तु तदानीमभिधाश्रयत्वाद्वयञ्जनव्यापारानाश्रय एवेति व्यङ्गयस्य प्रकारान्तरेणाभिधानमसंगतमेव । तस्माकार्यादिमुखेनोक्तमिव पर्यायोक्तम् । तेनाक्षिप्तमित्येवार्थः । प्राचीनैर्धर्मिणोऽपि यद्वयङ्गत्वमुक्तं तद्वैयञ्जनिक बोधविषयस्य समस्तवाक्यार्थस्यैव व्यङ्ग्यत्वमित्यभिप्रायेण । तत्र च विवेके क्रियमाणे केचिदभिधामात्रस्य गोचराः पदार्थाः केचिच्च व्यक्तिमात्र गोचरा इति । अभिनवगुतपादाचार्यास्तु — ' पर्यायेण वाच्यादतिरिक्तप्रकारेण व्यङ्गयेनोपलक्षितमुक्तमभिहितं पर्यायोक्तम्' इति योगार्थं लक्षणं चाहुः । तेषामयमाशयः -- यदि पर्यायशब्देन प्रकारान्तरं धर्मान्तरमुच्यते तदा विवक्षितार्थतावच्छेदकातिरिक्तधर्म पुरस्कारेणाभिहितमिति योगार्थः स्यात् । तथा च 'दशवदननिधनकारी दाशरथिः पुण्डरीकाक्षः' इत्यादौ रामत्वातिरिक्तधर्मपुरस्कारेण रामस्यैवाभिधानात्पर्यायोक्तप्रसङ्गः । न च व्यङ्गयं यत्र तेन प्रकारेणोक्तं तत्पर्यायोक्तमिति वाच्यम् । व्यङ्ग्यस्य योगार्थानान्तर्गतत्वात् । न च योगार्थानान्तर्गतत्वेऽपि लक्षणान्तर्गतत्वं तस्येति वाच्यम् । एवं तर्हि व्यङ्ग्यस्य लक्षण प्रवेशावश्यकत्वे पर्यायशब्देन व्यङ्ग्यस्यैव ग्रहीतुमुचितत्वात् । व्यङ्गयेन ह्युपलक्षितमुक्तं प्रकारान्तरेणैव भवतीति
---
1
I
-
स्यां चेति । पर्यायोक्तौ चेत्यर्थः । हरिरिन्द्रः । इत्याह (?) शकैरेति । प्रकारान्तरेणाभिधानमसंगतमेवेति । अत्राहुः - औपाधिकभेदेन घटाकाशादिषु भेदप्रतीतिवत्तत्तद्धर्मरूपोपाधिभेदेन धर्मिणोऽपि भेदाद्व्यङ्ग्यस्याभिधाविषयत्वमस्त्येव । यद्वा व्यङ्गयतावच्छेदकापेक्षया वाच्यतावच्छेदकं यत्र चारुतरमिति लक्षणतात्पर्यम् । प्राप्ताप्राप्तविवेकेन तथैव तात्पर्योन्नयनादिति । अतिरिक्तप्रकारेणेत्यस्य व्याख्या व्यङ्गयेनेति । न च व्यङ्गयं यत्र तेनेति । व्यङ्ग्यतावच्छेदकातिरिक्तधर्म पुरस्कारेण वाच्यमित्यर्थः । प्रकृते च पुण्डरीकाक्षपदस्य भगवति योगरूढत्वेन तस्य न व्यङ्गयत्वमि - ति भावः । व्यङ्गथस्यैव ग्रहीतुमुचितत्वादिति । सर्वस्वदाशयवर्णनावसरोक्तानुपपत्तिपरिहारायेत्यर्थः । व्यङ्गयेन छुपलक्षितमिति । अन्यत्र हि वाच्यं केव
For Private And Personal Use Only
Page #428
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१२
काव्यमाला।
प्रकारान्तरग्रहणं नात्यावश्यकमिति । अत एवास्माभिराक्षेपो वेति पक्षान्तरमप्युक्तम् । इदं पुनरवशिष्यते–'वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्' इति सकलप्रसिद्धध्वन्युदाहरणेऽधमनिकटगमननिषेधरूपेण तन्निकटगमनविशिष्टाया अधमत्वेन रूपेण वा दूतीसंभोगकर्तुरभिधानात्पर्यायोक्तप्रसङ्गः प्राचीनपक्ष इवास्मिन्नपि पक्षे भवति । स च व्यङ्गचविशेषग्रहणेन तैरिवैतैरपि निरसनीयः । मध्यस्थपक्षे तु नेदमपि दुषणम् । - तदेवं पक्षाणां निष्कर्षे स्थिते यदस्मिन्प्रकरणे कुवलयानन्दकारेणोक्तं तत्सर्वमविचारितरमणीयमेव । तथा हि यत्तावदुच्यते-"नमस्तस्मै कृतौ येन मुधा राहुवधूस्तनौ', अत्र भगवान्वासुदेवः स्वासाधारणरूपेण गम्यो राहुवधूकुचवैयर्थ्यकारकत्वेन रूपान्तरेणाभिहितः” इति, तन्न । अत्र हि राहुवधूकुचौ येन मुधा कृतावित्यभिहितेन राहुवधूकुचवैयर्थ्यकारित्वेन राहुशिरश्छेदकारित्वं व्यज्यत इति तावन्निर्विवादम् । भगवद्वासुदेवत्वं तु विशेषणमर्यादालभ्यं न काव्यमार्गीयव्यङ्गयकक्षामारोढुं प्रभवति । अन्यथा 'नमो राहुशिरश्छेदकारिणे दुःखहारिणे' इत्यत्रापि भगवद्वासुदेवत्वव्यङ्ग्यताप्रयुक्तं पर्यायोक्तमलंकारः स्यात् । विशेषणमर्यादालभ्यस्य च धर्मस्य किंचियङ्गयतास्पर्शः सन्नपि न स काव्यमार्गे गण्यते । अमुन्दरत्वात् । अन्विताभिधाने अतिविशेषवपुष इव सामान्यरूपाणां पदार्थानामन्वये । किं च 'राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः' इत्यत्र भगवतः स्वशब्देनाभिधेयस्य स्वासाधारणरूपेणाप्यगम्यत्वाद्राहुशिरश्छेदका
लमेव प्रतीयते । तदपेक्षयेदं प्रकारान्तरं यनियतव्यङ्गयवैशिष्टमितार्थः । प्राचीनपक्षे मम्मटोक्तपक्षे । अस्मिन्नपि पक्षे अभिनवगुप्तोक्तपक्षे । तैरिवैतैरपीति । विशेषश्च वक्तवैशिष्ट्यादिसहकारिकारणानपेक्षत्वम् । किं च तत्र व्यङ्ग यापेक्षया वाच्ये चारुतरवाभावस्य सहृदयसंमतत्वेनाक्षतेः । व्यङ्ग्यमेव हि तत्र वाच्याच्चारु । मध्यस्थपक्षे अलंकारसर्वस्वकृदुक्ते प्रकृते । अन्यथा नमो राहुशिरश्छेदेति । चिन्त्यमिदम् । व्यङ्गयापेक्षया चमत्कारित्वे इष्टापत्तेः । अतत्त्वे तु चारुतरेण विशेषणेन व्यावृत्तेः । नासौ काव्यमार्गे गण्यत इति राजाज्ञामात्रमेतत् । मदेनैरावणमुखे इत्यादिप्रकाशोदा
For Private And Personal Use Only
Page #429
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४१३
रित्वेनैव व्यङ्ग्यत्वमेष्टव्यम्, न स्वासाधारणधर्मरूपेण । न चात्र पर्यायोक्तं नास्तीति कस्यापि संगतम् । यदप्युक्तम् 'सर्वस्वकारस्य लोचन - कर्तुश्च सर्वोऽप्ययं क्लेशः किमिति न विद्मः' इति, तत्र यदर्थं तेषां क्लेशस्तत्तु तन्मतनिष्कर्षावसर एव निरूपितम् । यदप्युक्तम् "चक्राभिघातं प्रसभाज्ञया -' इति प्राचीनोदाहरणे यद्राहुशिरश्छेदावगमनं तत्र प्रागुकरीत्या प्रस्तुताङ्कुर एव । यत्तु प्रस्तुतेन राहोः शिरोमात्रावशेषेनालिङ्गनवन्ध्यत्वापादनरूपे वाच्ये भगवतो रूपान्तरे उपपादिते भगवद्रूपे - णावगमनं तत्पर्यायोक्तस्य विषयः" इति, तदपि न । यदि राहुशिरश्छेदावगमनं त्वत्कल्पितस्य प्रस्तुताङ्कुरस्य विषयः स्यात्तदा किं पर्यायोक्तेन । भगवद्रपेणावगमनं तु विशेषणमर्यादालभ्यत्वेनासुन्दरम् 'नमो राहुशिरश्छेदकारिणे' इत्यादाविव न कस्याप्यलंकारस्य विषय इत्युक्तमेव । प्रस्तुताङ्कुरस्य प्राचीनैरस्वीकाराच्च । स्वीकारे वा प्रस्तुतेन स्वसदृशो वाक्यार्थः प्रस्तुत एव यत्र व्यज्यते स तस्य विषयोऽस्तु । न तु कार्येण प्रस्तुतेन कारणावगमनम् । अन्यथा ह्यप्रस्तुतेन कार्येण प्रस्तुतकारणावगमने अप्रस्तुतप्रशंसैव । प्रस्तुतेन कार्येण प्रस्तुतस्यैव कारणस्यावगमनं तु पर्यायोक्तस्य विषय इत्यलंकार सर्वस्वकारादिभिः प्राचीनैः कृतो विषयविभाग उच्छिन्न एव स्यात् । राहुवधूगतेन विशिष्टेन रतोत्सवेन राहु
1
हरणे तादृशव्यङ्गयस्यैव सत्त्वाच्च । न च नहि । चत्राभिघातमिति णमुलन्तम् । चक्रमभिहत्येत्यर्थः । यत्त्वित्यस्यावगमनेऽन्वयः । असुन्दरमिति । चिन्त्यमिदम् । इष्टापत्तेः व्यङ्गयसैौन्दर्यस्याविवक्षितत्वात् व्यङ्गयापेक्षया वाच्यस्यैवात्र चारुतरत्वमिति स्पष्टं तदुक्तेः । अत्रैवालंकारे व्यङ्गयं वाच्यपरमिति ध्वनिकृतः । तादृशविशेषणं हि व्यङ्गयमादायैवोपपद्यत इति तदाशयः । 'राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः' इत्यत्र राहुशिरश्छेदरूपकारणमात्रावगमने प्रस्तुताङ्कुरः । राहुशिरश्छेदकारित्वेन भगवतोऽवगमने पर्यायोक्तमपि । एतेन नम इत्याद्यग्रिममपि प्रस्तुताङ्कुराभावप्रतिपादकमपास्तम् । राजाज्ञामात्रत्वात् । किं च मुख्यार्थतात्पर्यविषयीभूतार्थेन वाच्येन व्यङ्गयेन वा वाच्यं व्यक्तं वा प्रस्तुतं यत्र सादृश्याद्यन्यतमप्रकारेण प्रशस्यते साप्रस्तुतप्रशंसेत्यप्रस्तुतप्रशंसालक्षणस्य भवतानुपदोक्तस्य राहुशिरश्छेदकारित्वरूपव्ययांशे सत्वेनाप्रस्तुतप्रशंसयैव निर्वाहे कि पर्यायोक्तेनेति नियोगे उत्तरं विभाव्यताम् । न चात्र द्वयोरपि मुख्यतात्पर्यविषयतेति वाच्यम् । एवं तर्हि 'आपेदिरेऽम्बरपथं' इत्यत्रापि यदा द्वयोर्मुख्यतात्पर्यविषयता तदा कोऽलंकार इत्यत्रोत्तरं विभाव्यताम् । अस्मन्मते तु प्रस्तुताङ्कुर एव । भवतापि
For Private And Personal Use Only
Page #430
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१४
काव्यमाला। शिरश्छेदः कारणरूपो गम्यते । एवमन्यत्रापि पर्यायोक्तं ज्ञेयम्' इात त्वदुपजीव्यग्रन्थविरोधाच्च । तस्मादत्र राहुशिरश्छेदकारित्वेनावगमः पर्यायोक्तस्य विषयः, न तु भगवद्रूपेणेति सहृदयैराकलनीयम् ।
अस्मिश्चालंकारे व्यङ्गचं वाच्यपरम् । अप्रस्तुतप्रशंसायां तु वाच्यं व्यङ्ग्यपरम् । तेनायमलंकारो वाच्यसिद्ध्यङ्गगुणीभूतव्यङ्गयभेद इति ध्वनिकारानुयायिनः । यत्तु
"स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम् ।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ।' इत्युक्तयुक्त्या लक्षणाद्वयाश्रितत्वादनयोरवान्तरोऽपि विषयभेदोऽस्ति" इति स्वमूलग्रन्थाशयं वर्णयता विमर्शिनीकारेणोक्तम्, तन्न । नहि 'चक्राभिघातप्रसभाज्ञयैव-' इति पद्ये चुम्बनमात्रशेषरतोत्सवांशे बाधोऽस्ति । येन लक्षणा स्यात् । एवमप्रस्तुतप्रशंसायामप्यप्रस्तुतस्य प्रस्तुते न लक्षणा, किं तु व्यञ्जनैवेति सर्वसंमतम् । अन्यथा पर्यायोक्ते वाच्यस्य प्राधान्यम्, अप्रस्तुतप्रशंसायां तु गम्यस्येति सिद्धान्तस्य भङ्गः स्यात् । लक्षणायां हि लक्ष्यस्यैव प्राधान्यं स्यात्, न वाच्यस्य । यत्र वाच्योऽर्थोंऽर्थान्तरं खोपस्कारकत्वेनागूरयति तत्र पर्यायोक्तम्, यत्र स्वात्मानमेवाप्रस्तुतत्वात्प्रस्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति तन्मूलग्रन्थविरोधाच्च । नहि लक्षणा आगूरणं भवति । तस्मात्पर्यायोक्त वाच्यस्य प्राधान्यम्, अप्रस्तुतप्रशंसायां तु नेति तन्मूलग्रन्थस्य तात्पर्यम् । इदं तु बोध्यम्-ध्वनिकारात्प्राचीन महोद्भटप्रभृतिभिः स्वग्रन्थेषु कुत्रापि ध्वनिगुणीभूतव्यङ्ग्यादिशब्दा न प्रयुक्ता इत्येतावतैव तैर्ध्वन्यादयो न स्वीतत्स्वीकारे प्रकृते तेनैव गतार्थता स्पष्टैव । न चास्मिन्नलंकारे व्यङ्गथं वाच्यमरमप्रस्तुतप्रशंसायां तु वाच्यं व्यङ्गयपरमतो सा नेति वाच्यम् । 'कस्त्वं भो:-' इत्यादावप्रस्तुतप्रशंसायां व्यङ्गयस्य वाच्याङ्गत्वेन तस्या भेदकत्वात् । प्राचीनग्रन्थविरोधस्तु तत्र तदृषणप्रवृत्तस्य भूषणमेव । एवं च सर्वस्वलोचनकृत: क्लेशो व्यर्थो दुष्टश्चेत्यपि सम्यगेवेति । कश्चित्तु-“यच्छब्दस्य बुद्धिस्थत्वं शक्यतावच्छेदकमिति मते 'नमस्तस्मै-' इत्युदाहरणम्, तत्तद्रूपेण सर्वनाम्नां शक्तिरिति मते तु 'निवेद्यतां हन्त-' इत्यादि" इत्याह । तैभीमहा
For Private And Personal Use Only
Page #431
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४१५ क्रियन्त इत्याधुनिकानां वाचोयुक्तिरयुक्तैव । यतः समासोक्तिव्याजस्तुत्यप्रस्तुतप्रशंसाद्यलंकारनिरूपणेन कियन्तोऽपि गुणीभूतव्यङ्गयभेदास्तैरपि निरूपिताः । अपरश्च सर्वोऽपि व्यङ्ग्यप्रपञ्चः पर्यायोक्तकुक्षौ निक्षिप्तः । न ह्यनुभवसिद्धोऽर्थी बालेनाप्यपह्नोतुं शक्यते । ध्वन्यादिशब्दैः परं व्यवहारो न कृतः । नह्येतावतानङ्गीकारो भवति । प्राधान्यादलंकार्यों हि ध्वनिरलंकारस्य पर्यायोक्तस्य कुक्षौ कथंकारं निविशतामिति तु विचारान्तरम् ।
अयं चालंकारः क्वचित्कारणेन वाच्येन कार्यस्य गम्यत्वे, क्वचित्का. येण कारणस्य, क्वचिदुभयोदासीनेन संबन्धिमात्रेण संबन्धिमात्रस्य चेति विपुलविषयः । तत्र 'त्वां सुन्दरीनिवह-' इति पद्ये पातिव्रत्यस्खलनेन कारणेन तं प्रति प्राप्तिः कार्य गम्यते । समासोक्तिरत्रोत्थापिका । एतेन कार्यात्कारणप्रतीतिवत्कारणात्कार्यप्रतीतेवैचित्र्याभावात्' इति टीकाकारोक्तमपास्तम् ।
'अपकुर्वद्भिरनिशं धृतराष्ट्र तवात्मजैः ।
उप्यन्ते मृत्युबीजानि पाण्डुपुत्रेषु निश्चितम् ॥' अत्र बीजवापेन कारणेन कुलक्षयः कार्यरूपो गम्यते । कार्येण कारणस्य गम्यत्वे यथा
'त्वद्विपक्षमहीपालाः स्वर्बालाधरपल्लवम् ।
पीडयन्तितरां तीव्रदारुणैर्दशनक्षतैः ॥' अत्र वैरिणां सुरवधूसंभोगेन कार्येण मरणं कारणं गम्यते । तदुभयोदासीनेन यथा-'सूर्याचन्द्रमसौ यस्य-' इति पूर्वोदाहृते पद्ये सूर्यचन्द्रकररज्यमानवस्त्रत्वेन न कार्येण नापि कारणेन केवलं सहचरितेन गगनाम्बरत्वं गम्यते । एवम्
'यश्चरणत्राणीकृतकमलासनपन्नगेन्द्रलोकयुगः । सर्वाङ्गावरणपटीकृतकनकाण्डः स वामनो जयति ॥'
दिभिः । एवमग्रेऽपि । यत इति पाठः। परं केवलम् । तेन तदुत्थापिततत्कृतचमत्कारसत्त्वेन । अत्र च 'अयं चालंकारः क्वचित्' इत्यादिः 'अन्वेष्टव्या' इत्यन्तो ग्रन्थश्चिन्त्य
For Private And Personal Use Only
Page #432
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१६
काव्यमाला |
इत्यत्र विप्रत्ययेन तद्भेदावगमाद्रूपकासंभवेन पर्यायोक्तं भवितुमर्हति । गम्यं चान्तर्व्याप्तचरणकत्वमन्तर्व्याप्ताङ्गकत्वं च ।
तदेवं संक्षेपतस्त्रिविधः । वाग्भङ्गीनां तु पर्यालोचने एकस्मिन्नेव वि पयेऽनन्तप्रकारः संपद्यते, किमुत विषयभेदे । यथा - ' इह भवद्भिरागन्तव्यम्' इति विषये 'अयं देशोऽलंकर्तव्यः' इति, 'पवित्रीकर्तव्यः' इति, 'सफलजन्मा कर्तव्यः' इति, 'प्रकाशनीयः' इति, 'देशस्यास्य भाग्यान्युज्जीवनीयानि' इति, 'तमांसि तिरस्करणीयानि' इति, 'अस्मन्नयनयोः संतापो हरणीयः' इति, 'मनोरथः पूरणीयः' इत्यादिः । कार्यादीनां त्वारोपेण निष्पत्तिरन्वेष्टव्या ।
एवं च पर्यायोक्तस्य कार्यरूपाप्रस्तुतप्रशंसया विषयापहारमाशङ्कय कार्यकारणयोर्द्वयोरपि प्रस्तुतत्वे पर्यायोक्तम्, कार्यस्याप्रस्तुतत्वे कारणस्य च प्रस्तुतत्वे कार्यरूपा प्रस्तुतप्रशंसेति विषयविवेकः सर्वस्वकृता कृतः । तत्र न्यूनविषयया कार्यरूपाप्रस्तुतप्रशंसया बहुविषयस्यास्य विषयापहारो न संगच्छत एव । परं त्वनेन तस्या विषयापहारमाशङ्कय विषयविभागः कर्तुमुचितः ।
इति रसगङ्गाधरे पर्यायोक्तप्रकरणम् ।
अथ व्याजस्तुति:
आमुखप्रतीताभ्यां निन्दास्तुतिभ्यां स्तुतिनिन्दयोः क्रमेण पर्यवसानं व्याजस्तुतिः ।
तृतीयातत्पुरुषकर्मधारयाभ्यां योगार्थद्वयेन द्वयोरपि शब्दार्थत्वम् । आमुखेत्यादिविशेषणेन तयोः पर्यवसानाभावं वदन्वाधितत्वमभिप्रेति । अत एव नास्या ध्वनित्वम् । ध्वनौ हि निर्बाधेन वाच्येनागूरणमहिनार्थीन्तरमवगम्यते । न चैवं प्रकृते ।
इति कुवलयानन्दे ध्वनितं तट्टीकायां स्पष्टं तत एव बोध्यमिति दिक् ।। इति रसगङ्गाधरमर्मप्रकाशे पर्यायोक्तप्रकरणम् ॥
आमुखेति । शब्दतो वृत्त्या प्रथमप्रतीताभ्यामित्यर्थः । तदाह - आमुखेत्यादिति । अस्या व्याजस्तुतेः । न च नहि । राजेति । सूर्यवंशेत्यादिः । तथाभूतवो
For Private And Personal Use Only
Page #433
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४१७
आद्या यथा'उर्वी शासति मय्युपद्रवलवः कस्यापि न स्यादिति
प्रौढं व्याहरतो वचस्तव कथं देव प्रतीपो वयम् । प्रत्यक्ष भवतो विपक्षनिवहै-मुत्पतद्भिः क्रुधा
याष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ।।" अत्र राजवर्णनप्रस्तावे निन्दा बाधिता स्तुतौ पर्यवस्यति । द्वितीया यथा'किमहं वदामि खल दिव्यमते गुणपक्षपातमभितो भवतः । गुणशालिनो निखिलसाधुजनान्यदहर्निशं न खलु विस्मरसि ।' अत्र दुश्चरितोत्कीर्तनप्रस्ताव स्तुतिस्तथाभूता निन्दायाम् ।
अत्र चैक एवार्थः केनचिदाकारेणादौ स्तुतेनिन्दाया वा विषयो भूत्वा प्रकरणादिमहिना प्रकारान्तरेण निन्दायाः स्तुतेर्वा विषयो भवति । तत्र यावानंशो बाधितस्तावानेवान्यथात्वेन पर्यवस्यति । अंशान्तरं तु स्वभावेनैवावतिष्ठते । इयं चालंकारान्तरसंकीर्णा यथा
'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता __स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना । क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति
द्यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि ॥' अत्र चापप्रतापस्य समासोक्त्या विटधौरेयव्यवहाराश्रयत्वप्रतीतिः । तन्मूला च निन्दा स्तुतौ पर्यवस्यति । यथा वा'अये राजन्नाकर्णय कुतुकमाकर्णनयन
स्फुरन्ती हस्ताम्भोरुहि तव कृपाणी रणमुखे । धिता निन्दायां पर्यवस्यति । अत्र च उभयत्र च । प्रकारान्तरेणेति । वस्तुमाहा. त्म्यादेतद्धटकपदानां लक्षणया आक्षेपाद्वेत्यर्थः । तावानेवान्यथात्वेनेति । तत्र च लक्षणैव । एवं च स्तुतेर्लक्ष्यत्वात्तामादाय ध्वनित्वम् । लक्षणाया: प्रयोजनीभूतः स्तु. त्यतिशयादिः । व्यङ्ग्यमादाय ध्वनित्वे इष्टापत्तिरेव। एवं च 'उपकृतं बहु नाम-' इत्या
For Private And Personal Use Only
Page #434
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
विपक्षाणां वक्षस्यहह तरुणानां निपतति
प्रगल्भाः श्यामानामनुपरतकामाः प्रकृतयः ॥' अत्रार्थान्तरन्यासपोषिता । ननु कथमत्र व्याजस्तुतिः । वाच्याभ्यामेव निन्दास्तुतिभ्यां स्तुतिनिन्दयोर्गम्यत्वे तस्या अभ्युपगमात् । नह्यत्र चापप्रतापस्य केवलस्य केवलवसुमत्याद्यालिङ्गनं वाच्यभूतं निन्दास्पदं भवति । समासोक्त्या त्वाविर्भूतो विटव्यवहारो निन्दास्पदमपि न वाच्यः, अपि तु गम्य इति चेत्, आमुखप्रतीतपदेन हि प्रतीतावपर्यवसितत्वमात्रमत्र विवक्षितम् । न तु वाच्यत्वपर्यन्तम् । गौरवात् । प्रहते च किं तावता स्तव्यत्वमित्यादिना निन्दाया एवोपोद्वलनात्समासोक्तिसाचिव्येन सैव प्रथमं प्ररूढा पश्चाच्च स्तुतिरिति न कोऽपि दोषः । एवं च
'भाग्यं ते शाल्मलितरो वद किं परिकथ्यते ।
द्विजैः फलाशया युक्तैः सेव्यसे यदहर्दिवम् ॥' इत्यत्राप्रस्तुतप्रशंसासंकीर्णाप्येषा भवति । एतेन
"किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ
स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः। देशे देशे विपणिषु तथा चत्वरे पानगोष्ठया
__मुन्मत्तेव भ्रमति भवतो वल्लभा देव कीर्तिः ॥ इत्यत्र प्राचीनपद्ये प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा कीर्तिरिति भणित्योन्मूलिता, न तु प्ररोहं गमिता" इति यत्सर्वस्वकृतोक्तम् । यच्चापि तद्व्याख्यायां विशिन्याम् 'अनुदाहरणमेवैतत्पद्यं व्याजस्तुतेः' इति ध्वन्यालोचनकारोक्ति कटाक्षेण लक्षीकृत्योक्तं तन्निरस्तम् । “किं वृत्तान्तैः' इत्यादिना निन्दाया एव प्रथममुन्नयनात्समासोक्तरुद्गतेर्वाच्यत्वस्यातन्त्रत्वात् । अन्वयक्रमेणादौ वल्लभयैवान्वये तस्याश्च कीर्त्यभिन्नत्वेनावस्थाने सति पशात्प्रकरणादिपर्यालोचनवशाद्वयुक्रमेणान्वयबोधाच्च । तस्माद्वन्यालोचनकारैरुक्तमुदाहरणं संगतमेव । दावप्ययमेवालंकार इत्याहुः । अत्रार्थान्तरेति । समासोक्तिरप्यत्रेति बोध्यम् । एवं च अस्याः समासोक्त्यादिपोषितत्वे च । द्विजैः खगैः । विणिपु हटेषु। समयः संकेतः ।
For Private And Personal Use Only
Page #435
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४१९
इयं च व्याजस्तुतिर्यस्यैव वस्तुनः स्तुतिनिन्दे प्रथममुपक्रम्येते तस्यैव चेन्निन्दास्तुत्योः पर्यवसानं भवेत्तदा भवति । वैयधिकरण्ये तु न इति प्राचामलंकारशास्त्रप्रवर्तकानां समयः । अत एव यत्र शब्देनाभिधीयमाना स्तुतिनिन्दा वा बाधितस्वरूपा निन्दायां स्तुतौ च स्वसमर्पणेन पयवस्यतीति तैस्तत्र तत्र स्वग्रन्थेषूपनिबहम् । एवं च
'परोपसर्पणानन्तचिन्तानलशिखाशतैः ।।
अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः ॥ इत्यादिषु सांसारिक जननिन्दापर्यवसायिन्यामपि पादपस्तुतौ न व्याजस्तुतित्वम् । प्रथमप्रतीयमानस्तुतेरवाधितत्वात् । एवं निन्दया स्तुतेर्गम्यत्वेऽपि । तथा अन्यस्य स्तुत्यान्यस्तुतौ अन्यनिन्दया वान्यनिन्दायां गम्यमानायां नास्या अलंकतेविषयः । पूर्वोक्तादेव हेतोः । यथा
'ये त्वां ध्यायन्ति सततं त एव कृतिनां वराः ।
मुधा गतं पुराराते भवदन्यधियां जनुः ॥ अत्र पूर्वोत्तरार्धगताभ्यां ध्यातृस्तुतिनिन्दाभ्यां ध्येयस्तुतिनिन्दयोरवगमः । एवं स्थिते कुवलयानन्दक; स्तुतिनिन्दाभ्यां वैयधिकरण्येन निन्दास्तुत्योः स्तुतिनिन्दयोर्वावगमे प्रकारचतुष्टयं व्याजस्तुतेर्यदधिकमुक्तं तदपास्तम् । यदि तु प्राचीनसंकेतसेतुं निर्भिद्य स्वरुचिरमणीया सरणिराद्रियते तदा निवेश्यन्तां सर्वेऽपि व्यङ्ग्यप्रकारा गुणीभूतव्यङ्गयप्रकारा वा अलंकारोदरेषु । निवेश्यतां वा व्याजस्तुतिरपि योगार्थालीढत्वादप्रस्तुतप्रशंसायाम् । निरस्यतां च कार्यकारणादिविषयकत्वदुराग्रहस्तस्या इति बहुव्याकुली स्यात् । एवं तर्हि पूर्वोक्तं प्रकारचतुष्टयं कुत्रान्तर्भवतु इति चेत्, व्यङ्गचभेदेष्विति गृहाण । नहि व्यङ्गयभेदाः सर्वेऽप्यपरिमिता अलंकारप्रकारगोष्पदेऽन्तर्भावयितुं शक्यन्ते । यच्चापि कुवलयानन्दकृता निन्दाया गम्यत्वे उदाहृतम्तैः प्राचीनैः । व्यङ्गयभेदेष्विति गृहाणेति । अत्रेदं चिन्त्यम्-व्यङ्ग्यभेदेष्वप्यप्रस्तुतप्रशंसापर्यायोक्ताद्यलंकारस्वीकारवदत्राप्यलंकारत्वे बाधकाभावात् । न चाप्रस्तुतप्रशंसैवास्ताम् । विनिगमकाभावात् । नहि लक्ष्य एव व्याजस्तुतिर्न व्यङ्गय इत्यत्र शपथातिरिक्तं प्रमाणमस्ति । गुणीभूतव्यङ्ग्यत्वाच्च न ध्वनित्वम् । प्राचीनग्रन्थविरोधस्त्व
For Private And Personal Use Only
Page #436
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२०
काव्यमाला।
'अर्धे दानववैरिणा गिरिजयाप्यधै शिवस्याहृतं
देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति । गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं
सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां च भिक्षाटनम् ॥' अत्र सर्वज्ञः सर्वेश्वरोऽसीति राज्ञः स्तुत्या व्याजरूपया मदीयवैदुप्यादि दारिद्यादि जानन्नपि बहुप्रदानेन रक्षितुं शक्को मह्यं किमपि न ददासीति निन्दा व्यज्यते' इत्युक्तं च । तन्न ।
'साधु दूति पुनः साधु कर्तव्यं किमतः परम् ।
यन्मदथै विलूनासि दन्तैरपि नखैरपि ॥' इत्यनुपदमेव त्वदुदाहृतपद्येनास्यातितमां वैलक्षण्यात् । तत्र हि साधु किमतःपरं कर्तव्यमिति वर्णैरुदीरिता साधुकारिणीत्वरूपा स्तुतिः श्रुतमात्रैव बाधिता सती विपरीतेऽथै स्वात्मसमर्पणेन पर्यवस्यति । इह तु सर्वज्ञत्वमधीश्वरत्वं च न तथा । राजवर्णनप्रस्तावे राजगताज्ञत्वपामरत्वयोरविवक्षितत्वात् । अत एव सर्वज्ञोऽपि समर्थोऽपि मां न रक्षितवानसि इत्युपालम्भरूपापि निन्दा नात्र विवक्षिता । सर्वज्ञस्य समर्थस्य तव दरिद्रोऽहं रक्षितुं योग्य इति स्वविज्ञापनाया एव प्रत्युत विवक्षितत्वात् । अस्तु वा त्वदुक्तोपालम्भरूपा निन्दात्र गम्या । तुष्यतु भवानेवमपि । 'साधु दूति पुनः साधु' इति पद्ये साधुकारिणीत्वमिव नास्मिन्पद्ये सर्वज्ञत्वमधीश्वरत्वं च विद्युद्गङ्गुरप्रतिभमिति शक्यं वक्तुम् । उपालम्भरूपाया निन्दाया अनुत्थानापत्तेः प्रतीतिविरोधाञ्चेति सहृदयैराकलनीयं किमुक्तं द्रविडपुंगवेनेति ।
इति रसगङ्गाधरे व्याजस्तुतिप्रकरणम् । किंचित्कर इत्यसकृदावेदितम् । द्रविडपुंगवेनेति । अतिचिरकालं कृतया सेवया दुःखितस्य ततोऽप्राप्तधनस्य भिक्षो राजसेवां त्यक्तुमिच्छत ईदृशवाक्ये वक्तृवैशिष्टयादिसहकारेणापातप्रतीयमानस्तुतेनिन्दापर्यवसायितया विद्युद्भङ्गुरप्रतिभत्वमस्त्येवेति सम्यगेवोक्तं द्रविडशिरोमणिना । पूर्वोक्तरोत्या स्वस्य भिक्षाटनोक्त्या चकारेण च तत्त्वस्यानुभवसिद्धलात् । साधु दूतीत्युदाहरणेऽपि दूत्या दुश्चरितत्वादिवैशिष्टयं प्रमाणान्तरेण प्रागेव जानतां वाच्यार्थे बाधज्ञानं स्पष्टमेव । 'कस्त्वं वानर' इत्यत्राप्यतिश
For Private And Personal Use Only
Page #437
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४२१
अथालेपः
'उपमेयस्योपमानसंबन्धिसकलप्रयोजननिष्पादनक्षमत्वादुपमानकैमर्थ्यमुपमानाधिक्षेपरूपमाक्षेपः। इति केचिदाहुः । तन्मते चेत्थमुदाहरणं निर्माणीयम् -
'अभूदप्रत्यूहः कुसुमशरकोदण्डमहिमा - विलीनो लोकानां सह नयनतापोऽपि तिमिरैः । तवास्मिन्पीयूषं किरति परितस्तन्वि वदने
कुतो हेतोः श्वेतो विधुरयमुदेति प्रतिदिनम् ।।' यथा वा
'वसुधावलयपुरंदर विलसति भवतः कराम्भोजे ।
चिन्तामणिकल्पद्रुमकामगवीभिः कृतं जगति ॥' आद्ये उपमानप्रयोजननिष्पादनं शाब्दम्, द्वितीये त्वार्थमिति भेदः । अपरे तु'पूर्वोपन्यस्तस्यार्थस्य पक्षान्तरालम्बनप्रयुक्तो निषेध आक्षेपः । इत्याहुः । तेषां मते इदमुदाहरणीयम्
'सुराणामारामादिह झगिति झञ्झानिलहताः । ___ पतेयुः शाखीन्द्रा यदि तदखिलो नन्दति जनः । किमेभिर्वा कार्य शिव शिव विवेकेन विकलै
श्चिरं जीवन्नास्तामधिधरणि दिल्लीनरपतिः ॥' अत्र किमेभिरित्युत्तरार्धेन पूर्वार्धोक्तपक्षप्रतिक्षेपमात्र पक्षान्तरालम्बनेन क्रियते । यथा वा
'किं निःशङ्कं शेषे शेषे वयसि त्वमागतो मृत्युः ।
अथवा सुखं शयीथा जननी जागर्ति जाह्नवी निकटे ॥' यितवीरत्वेन प्रसिद्धहनुमतो निन्दा स्वात्मन्यपर्यवस्यन्ती इतरस्तुतिमादायैव पर्यवस्यति । इतरस्तुतेर्बलादाक्षिप्तत्वान्न ध्वनित्वमिति दिक् ॥ इति रसगङ्गाधरमर्मप्रकाशे व्याजस्तुतिप्रकरणम् ॥ शिष्यावधानाय प्रतिजानीते-अथेति। उपमेयस्योपमेति । अमुमाक्षेपं प्रतीपं
For Private And Personal Use Only
Page #438
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
काव्यमाला ।
अन्ये तु"निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ।
वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ॥' विशेषं व्यङ्गयरूपमर्थविशेषं वक्तुं विवक्षितस्य प्रकृतार्थस्य निषेधो निषेधसदृशः कथनादिप्रत्याख्यानरूपः । स वक्ष्यमाणविषय उक्तविषयश्चेति द्विविधः” इत्याहुः । तेषां मते इत्थमुदाहार्यम् -
'रीतिं गिराममृतवृष्टिकिरां त्वदीयां ___ तां चाकृतिं कृतिवरैरभिनन्दनीयाम् । लोकोत्तरामथ कृतिं करुणारसा
ज्ञातुं न कस्यचिदुदेति मनःप्रसारः ॥' अत्र करिष्यमाणस्य मनःप्रसारस्य निषेधो वर्णनीयस्यानिर्वाच्यतांबोधयितुम् ।
'श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः ।
तस्याः मुभग कथेयं तिष्ठतु तावत्कथान्तरं कथय ॥' अलंकारसर्वस्वकारादयस्तु
"प्राकरणिकस्यार्थस्य निषेधोऽप्रतिष्ठितत्वादाभासमात्ररूपः कस्यचिदर्थविशेषस्य विधानं व्यनक्ति स एकः। यश्चाप्राकरणिकस्य विधिस्तादृश एव सन्निषेधे पर्यवस्यति सोऽपर इत्युभयविधोऽप्ययमाक्षेपः।"
तत्र निषेधाभासरूप आक्षेपस्तावद्विविधः-उक्तविषयो वक्ष्यमाणविषयश्चेति । उक्तविषयोऽपि द्विविधः-क्वचिद्वस्तुमात्रनिषेधात्क्वचिद्दस्तुकथननिषेधात् । वक्ष्यमाणविषयस्तु वस्तुकथननिषेधात्मक एवं सामान्यधर्मावच्छिन्नप्रतियोगिताकः शब्दात्समयमाणोऽपि विशेषरूपेष्टनिषेधात्मना स्थितो निषिध्यमानगतं विशेषान्तरमाधत्ते । सोऽपि द्विविधःसामान्याश्रययत्किचिद्विशेषनिरूपणानिरूपणाभ्याम् । तत्र निरूपितेषु यत्किचिद्विशेषेषु प्रयोजनाभावादप्रवर्तमानो निषेधो वक्ष्यमाणेष्टविषय एव संपद्यते । अनिरूपितेषु तु सुतराम् । चतुर्विधेऽप्यस्मिन्नाक्षेपे इष्टो केचिदाहुः । सोऽपि द्विविध इति । वक्ष्यमाणविषयोऽपीत्यर्थः । व्यनक्तीत्यस्याने
For Private And Personal Use Only
Page #439
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४२३
sर्थः, तस्य च निषेधः, तस्याप्यसत्यत्वम्, अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते । तेन नात्र निषेधविधिः । न वा विहितनिषेधः । अपि तु निषेधेनासत्येन विधेराक्षिप्यमाणत्वाद्योगार्थदाक्षेपः । स च प्रागुक्तदिशा चतुर्विधः । विधिना त्वसत्येन निषेधस्याक्षेपे अपरोऽयमाक्षेपः । अत्रापि अनिष्टोऽर्थः, तस्य विधिः, तस्याप्याभासत्वम्, अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते ।" इत्याहुः ।
एतेषां मते चेत्यमुदाहरणं निर्माणीयम् -
' न वयं कवयस्तव स्तवं नृप कुर्वीमहि यन्मृषाक्षरम् । रणसीनि तवावलोकने तरुणार्को दिनकौशिकायते ॥' 'मां पाहीति विधिर्विधेयविषयो वाच्यः स्वतन्त्रे कथं नोपेक्ष्यो भवतास्मि दीन इति गीः श्लाध्या न संख्यावताम् । एवं दोषविचारणाकुलतया देव त्वयि प्रोन्मुखे वक्तव्यप्रतिभादरिद्रमतयः किंचिन्नहि घूमहे ॥'
'रे खल तव खलु चरितं विदुषामग्रे विविच्य वक्ष्यामि । अलमथवा पापात्मन्कृतया कथयापि ते हतया || ' श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः । तस्याः किं वा पृच्छसि निर्दय तिष्ठत्वसौ हता वार्ता ॥' तत्राद्यपद्ये कवेरुक्तौ कवित्वनिषेधो बाधितो मिथ्यावादित्वनिषेधात्मना पर्यवस्यन्नुत्तरार्धगतस्यार्थस्य सत्यत्वरूपं विशेषं व्यनक्ति । एवं द्वितीयपद्ये रक्षणदानयोः कथनस्येष्टत्वान्निषेधो बाधितस्तयोर्विवक्षितत्वे पर्यवस्यन्नवश्यानुष्ठेयताम् । तृतीये खलसंबन्धिवृत्तान्तकथनत्वेन सामान्यरूपेण प्रकृतपैशुन्यादिवृत्तान्तकथनस्य वक्ष्यमाणस्य निषेधः कथ्यमानस्तस्य चिन्तितदुःखप्रदताम् । चतुर्थे कंचन तत्संबन्धिन्या वार्ताया अंशं श्वासतानवादिकं कथयित्वा क्रियमाणो निषेधो वक्ष्यमाणमरणवार्ताविषयः संस्तस्या मुखादनिःसरणीयताम् । एषु निषेधस्याप्रतिष्ठानान्न विहितनिषेधः, नापि निषेधविधिः ।
For Private And Personal Use Only
Page #440
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२४
काव्यमाला।
'तपोनिधे कौशिक रामचन्द्रं निनीषसे चेन्नय किं विकल्पैः । निरन्तरालोकनपुण्यधन्या भवन्तु वन्या अपि जीवभाजः ॥'
अत्र पुत्रस्नेहाकुलस्य दशरथस्य वाक्ये नयेति विधिर्बाधितो मा नयेति निषेधे पर्यवसितोऽन्यथा तु मम प्राणवियोगो भविष्यतीत्यर्थ व्यनक्तीति विध्याभासरूपोऽयमाक्षेपः । एवमुदाहरणेषु स्थितेषु प्राचीनमतानुसारिण्याक्षेपोदाहरणान्येतेषां मतेऽनुदाहरणान्येव । इत्थं च प्राथमिकमतसिद्ध आक्षेपः प्रतीपप्रभेदः । द्वितीयमतसिद्धस्तु विहितनिषेध एव न पुनराक्षेपः । तत्र निषेधस्यानाभासरूपत्वात् । इति तदाशयः। इतरे तु
"निषेधमात्रमाक्षेपः ।'
चमत्कारित्वं चालंकारसामान्यलक्षणप्राप्तमेव । तच्च व्यङ्गयाथै सति संभवतीति सव्यङ्गयो निषेधः सर्वोऽप्याक्षेपालंकारः । एवं चोपमेयरुतोपमानकैमर्थक्यपक्षान्तरालम्बनकृतप्राचीनपक्षकैमर्थक्यविशेषप्रतिपादनप्रयोजकोक्तवक्ष्यमाणकथनकैमर्थक्यानामनुपदोक्तनिषेधविध्याभासयोश्च संग्रहः" इत्यप्याहुः। अथाक्षेपध्वनिस्तन्मतानुसारेणोदाहियते
'त्वामवश्यं सिसृक्षन्यः सृजति स्म कलाधरम् ।
किं वाच्यं तस्य वैदुष्यं पुराणस्य महामुनेः ॥' अत्र येषामुपमानकैमर्थ्यमाक्षेपस्तेषां त्वयि सति किं कलाधरेणेत्यंशमादाय, येषां च निषेधमात्रमाक्षेपस्तेषां वृद्धस्य ब्रह्मणो वैदुष्यं नास्तीत्यंशमादाय च ध्वनिः । ननु किं वाच्यं तस्य वैदुष्यमिति वैदुप्योक्तेः सबाधाया झटिति वैदुष्याभावे पर्यवसानादुपमानकैमर्थ्यस्यापि झगित्येव प्रतीतर्वाच्यकल्पत्वात्कथं नाम ध्वनित्वं स्यादिति । नैष दोषः । ब्रह्मणो हि त्वां सिसृक्षतः करणपाटवसंपत्त्यर्थमादौ पाण्डुलेखवदिन्, निमितवतः किं वैदुष्यं वाच्यमिति वैदुष्योक्तेर्निर्बाधत्वादादौ सत्यां विश्रान्तौ पश्चादवश्यं पुराणस्येत्येतदर्थपर्यालोचनेन वैदुष्याभावचन्द्रकैमर्थ्ययोः पर्यवसानमिति न ध्वनित्वस्खलनम् । येषां त्वाभासरूप एव निषेध आक्षेपस्तेषां न प्रागुक्त आक्षेपध्वनिरपि त्वयम् ।
For Private And Personal Use Only
Page #441
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
'त्वां गीर्वाणगुरुं सर्वे वदन्तु कवयस्तु ते ।
समानकक्षस्तेनासीत्येषोऽर्थस्तु मतो मम ॥' ___ अत्र कवेर्वाक्ये बाधितत्वादाभासरूपो नाहं कविरिति निषेधो गम्यमानो मिथ्यावादित्वाभावरूपेण पर्यवसन्नुत्तरार्धार्थस्य सत्यतारूपं विशेष गमयति । इत्थं स्वस्वाभिमानभेदादाक्षेपाणां भेदात्तद्दनीनां स्थिते विवेके
'स वक्तुमखिलाशक्तो हयग्रीवाश्रितान्गुणान् ।
योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥' इति पद्यं ध्वनिकारैराक्षेपध्वनित्वेनोदाहृतं 'स्वाभिमताक्षेपानभिव्यक्तेरनुदाहरणमेवैतत्' इति नियुक्तिकं वदन्नलंकारसर्वस्वकृत्परास्तः । नद्याभासरूप एव निषेध आक्षेप इत्यस्ति वेदस्याज्ञा । नापि प्राचामाचार्याणाम् । न चापि युक्तिः । येन ध्वनिकारोक्तमुपेक्ष्य त्वदुक्तं श्रद्दधीमहि । प्रत्युत वैपरीत्यमेवोचितम् । ध्वनिकतामालंकारिकसरणिव्यवस्थापकत्वात् । न. ह्यस्मिशास्त्रे आक्षेपादिशब्दसंकेतग्राहकं प्रमाणान्तरमस्ति । ऋते प्राचीनवचनेभ्यः । अन्यथा सकलविपर्यासापत्तेः । यत्तु- .
__ 'नरेन्द्रमौले न वयं राजसंदेशहारिणः ।
__ जगत्कुटुम्बिनस्तेऽद्य न शत्रुः कश्चिदिष्यते ॥' इति पद्यमलंकारसर्वस्वकारमतेनोदाहृत्येत्थमुक्तं कुवलयानन्दकृता'अत्र संदेशहारिणामुक्तौ न वयं संदेशहारिण इति निषेधोऽनुपपन्नः संधिकालोचितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्सर्वजगतीपालकस्य तव न कश्चिदपि शत्रुभावेनावलोकनीयः किं तु सर्वेऽपि राजानो भृत्यभावेन संरक्षणीया इति विशेषमाक्षिपति' इति, तन्न । त्वदुक्तस्य विशेषस्य निषेधाव्यङ्गयत्वात् । नहि न वयं राजसंदेशहारिण इत्युक्ते तव न कश्चिदपि शत्रुभावेनावलोकनीयः किं तु सर्वेऽपि राजानो भृत्यत्रिध्वनुषङ्गः । वैदुष्यं पाण्डित्यम् । सर्वस्वकारः परास्त इति । तद्गुणवक्ता ना. स्तीति निषेधस्य गुणापरिमितत्वव्यङ्गयसहितस्याक्षेपरूपस्य व्यङ्गयस्य सत्त्वादिति भावः । अलंकारसर्वस्वकारस्तु-निषेधाभास आक्षेपः । 'नाहं दूती तनोस्तापस्तस्याः कालानलोपमः' इत्यदाहरणमिति । तस्यायं भावः-यो निषेधो बाधितः सन्नर्थान्तरपर्यवसितो
For Private And Personal Use Only
Page #442
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२६
काव्यमाला |
भावेन संरक्षणीया इति विशेषोऽवगम्यते । अवगम्यते च जगत्कुटुम्बिन इत्याद्युत्तरार्धे प्रयुक्ते । यो हि निषेधमात्रसामर्थ्याक्षिप्तो विशेषस्तं निषेध आक्षिपतीति युक्तं वक्तुम्, न तु परकीयं विशेषम् । तथा हि राजसंदेशहारिणा प्रयुक्ते न वयं राजसंदेशहारिण इति वाक्ये स्वस्मिन्स्वनिषेधस्य बाधाद्राजसंदेशहारिपदेन लक्षणया राजसंदेशहारिनिष्ठकैतववचनप्रयोक्तृत्वादिधर्मवन्त उपस्थाप्यन्ते । प्रयोजनं च तन्निषेधे सति स्वगतस्य सत्यवक्तृत्वादेः स्ववचनगतस्य सत्यत्वादेव प्रत्ययः । अयमेव च विशेषस्याक्षेपः । एवं स्थिते किमुच्यते तव न कश्चिदपि शत्रुभावेनेत्यादि । यदि तु पूर्वोक्तादेव बाधाद्राजपदस्य शत्रुलक्षणया न वयं शत्रुसंदेशहारिण इति प्राप्तेनार्थेनास्मत्स्वामिनः शत्रव एव न भवन्ति किं तु भृत्यभावेन पालनया इति विशेषोऽवगम्यत इत्युच्यते तदा तृतीयकक्ष्यारूढो नास्मत्स्वामिन इति निषेध आक्षेपः स्यात्, न तदुत्थापकस्त्वदुक्तो यथाश्रुतनिषेधः । यदि तु परम्परया यथाकथंचिद्विशेषोत्थापकोऽप्याक्षेप इत्युच्यते, तथापि 'संधिकालोचितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्' इत्यादेस्त्वद्वचनस्यासंगतिरेव । नहि यथार्थवादित्वेन केवलेन त्वदुक्तो विशेष आक्षेप्तुं शक्यते, किं तूत्तरार्धेनाक्षिप्तः परिपोष्टुम् । तस्माद्यत्र त्वया निषेधस्य पर्यवसानमुक्तं स एव विशेषस्तस्याक्षेप्यः, न तु विशेषान्तरम् । अत एव " बालक नाहं दूती - ' इत्यत्र दूतीत्वस्य वस्तुनो निषेधेन वस्तुवादित्वादिविशेषो व्यज्यते" इत्यलंकारसर्वस्वकृतोक्तं संगच्छते । इति रसगङ्गाधर आक्षेपप्रकरणम् ।
विशेषाक्षेप कस्मिश्चिद्विशेषे आक्षेप्तव्ये साहायकं करोति स आक्षेप इति तदर्थः । नाहं दूतीत्यस्य दूत्या उक्तौ बाधितत्वाहूतीपदेन मिथ्यावादित्वविशिष्टा लक्ष्यते । तन्निषेधश्च सत्यवादित्वे पर्यवस्यति । एवं च तद्बोध्यसत्यवादित्वसहकृतं तनोस्ताप इति वाक्यमिदानीमेवागत्योज्जीवयेति विशेषमाक्षिपति । अन्यथा संघटनमात्रप्रयोजनकत्वावगम एव तस्य स्यादिति तत्कालोचितकैतववचनत्वे वाक्यसंभावना स्यादिति । यत्तु सत्यवादित्वरूपविशेषमादायैवाक्षेपत्वमिति, तन्न । तस्याचमत्कारित्वात् । तनोस्ताप इत्यादिनोक्तविशेषे व्यञ्जनीये सहकारित्वं तु तस्यास्तीत्यनुभवसिद्धम् । तं विना तेनापि तस्यानाक्षेपात् । एतेन 'नरेन्द्रमौले' इति कुवलयानन्दोक्तमपि व्याख्यातम् । एवं यत्तु नरेन्द्रमौले' इत्यादि, 'नतु विशेषान्तरम्' इत्यन्तग्रन्थोऽपि चिन्त्य एवेत्याहुः । तवेत्यादि षष्ठी कर्तुः शेषत्वे ॥ इति रसगङ्गाधरमर्मप्रकाशे आक्षेपप्रकरणम् ॥
For Private And Personal Use Only
Page #443
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४२७
अथ विरोधमूलालंकाराःएकाधिकरणसंबद्धत्वेन प्रतिपादितयोरर्थयोर्भासमानकाधिकरणासंबद्धत्वमेकाधिकरणासंबद्धत्वभानं वा विरोधः।
यहा
एकाधिकरणासंबद्धत्वेन प्रतिपादनं सः।
स च प्ररूढोऽप्ररूढश्च । प्ररोहश्च बाधबुद्धयनभिभूतत्वम् । तद्वैपरीत्यमप्ररोहः । तत्राद्यो दोषस्य विषयः, द्वितीयश्चालंकारस्य । अत एवेमं विरोधाभासमाचक्षते । आ ईषद्भासत इत्याभासः । विरोधश्चासावाभासश्चेति । आमुख एव प्रतीयमानो झगिति जायमानाविरोधबुद्धितिरस्कृत इति यावत् । तत्रापि कार्यकारणादिबुद्ध्यनालीढो विरोधाभासो विरोधालंकारः । तदालीढस्तु विभावनादिर्वक्ष्यमाणः । अस्य च जातिगुणक्रियाद्रव्याणां पदार्थानां मध्ये जातेर्जातिगुणक्रियाद्रव्यैः, गुणस्य गुणक्रियाद्रव्यैः, क्रियायाः क्रियाद्रव्याभ्याम्, द्रव्यस्य द्रव्येणेत्यपुनरुक्ता दश भेदाः । क्रिया चात्र न वैयाकरणानामिव शुद्धा भावना । नापि नैयायिकानामिव स्पन्दरूपा । किं तु तत्तद्धातुवाच्या विशिष्टव्यापाररूपा ।
उदाहरणम्-- 'कुसुमानि शरा मृणालजालान्यपि कालायसकर्कशान्यभूवन् । मुदृशो दहनायते स्म राका भवनाकाशमथाभवत्पयोधिः ॥'
अत्र पुरः स्फुरन्नपि जात्यादीनां विरोधो विरहिणीदुःखजनकत्वविमर्शनान्निवर्तते ।
'त्वयि दृष्टे त्वया दृष्टे भवन्ति जगतीतले ।
महान्तोऽप्यणवो राजन्नणवश्च महत्तराः ॥' 'खलानामुक्तयो हन्त कोमलाः शीतला अपि ।
हृदयानीह साधूनां छिन्दन्त्यथ दहन्ति च ॥' प्राग्वदाह-अथेति । संबद्धत्वेन प्रतीति । शनिरशनिश्चेत्यादि वारणाये. दमिति कश्चित् । विनिगमनाविरहादाह-एकाधीति । तयोस्तत्त्वेन भाने भ्रममलकत्वादाह-यद्वेति । विषय इत्यस्याग्रेऽप्यनुषङ्गः । कालायसं लोहम् । देव राजन् ।
For Private And Personal Use Only
Page #444
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
काव्यमाला ।
'विचारित महिमान त्वदीये नित्यनिर्गले ।
परमात्मन्गगनमप्याधत्ते परमाणुताम् ॥' 'हर्षयन्ति क्षणादेव क्षणादेव दहन्ति च ।
यूनः स्मरपराधीनान्निर्दया हन्त योषितः ॥' 'कान्तारे विलपन्तीनां त्वदरातिमृगीदृशाम् ।
देवितानि समाकर्ण्य हरिद्भिरपि चुक्षुभे ॥' इत्यादि स्वयमूह्यम् । ___ अत्र जात्यादिरिति धर्ममात्रं विवक्षितम् । उपलक्षणपरत्वात् । तेन 'यः किल बालकोऽपि पुराणपुरुषः', 'विशुद्धमूर्तिरपि नीलाम्बुदनिभः', 'जगद्वितकदपि जगदहितकत्', 'अगोद्वारकोऽपि नागोद्धारकः', इ. त्यादौ सखण्डोपाधेरभावस्य च परिग्रहः । वस्तुतो जात्यादिभेदानामहृद्यत्वाच्छुद्धत्वश्लेषमूलत्वाभ्यां द्विविधो ज्ञेयः । ननु 'हितहदप्यहितकृत्', 'अगोद्धारकोऽपि नागोद्धारकः' इत्यादौ विरोधस्य प्रतिभामात्रम्, श्लेष एव त्वलंकारः । तस्य स्वविषये प्रायशः सर्वालंकारापवादकत्वादिति चेत्, कटिः शृणोति । इदं तु बोध्यम्-यत्रापिशब्दादिविरोधस्य द्योतकस्तत्र विरोधः शाब्दः, अन्यत्र त्वार्थ इति तावत्प्राचां सिद्धान्तः । तत्र शाब्दत्वं शब्दकरणकप्रतीतिगोचरत्वं विरोधस्य न घटते । 'त्रयोऽप्यत्रयः' इत्यादौ नियतेषु विशेषणविशेष्यसंसर्गेषु विरोधस्य कुत्राप्यसमावेशात् । न च तदधिकरणात्तित्वमिव तत्प्रतियोगिकत्वमपि विरोधः । तथा च प्रकृते नअर्थोत्तरपदार्थयोः प्रतियोगित्वस्य संसर्गत्वात्संसर्ग एव विरोधस्य समावेश इति वाच्यम् । 'सुप्तोऽपि प्रबुद्धः' इत्यादौ तथाप्यसमावेशात् । नहि सुप्तः सुप्तत्वविरुद्धप्रबुद्धत्ववदभिन्न इति शाब्दधीरनुभवसिद्धा । येन लक्षणादि कुसृष्टौ यतेमहि । अत्राहु:--'सुप्तोऽपि प्रबुद्धः', 'त्रयोऽप्यत्रयः' इत्यादिषु विरोधोदाहरणेषु शब्दद्वयेन शयितत्वजागरितत्वादिधर्मद्वयस्यादावुपस्थितौ संबन्धिज्ञानादपि शब्दसाचिव्यात्तद्गतो विरोधोऽपि स्मयते । अनन्तरं च प्रतिबन्धकज्ञानसामग्र्या बलवत्त्वाद्विरुडाविमौ धर्माविति मानसे वैयञ्जनिक वा विरोधबोधे जाते तेन प्रतिरोधाच्छयितजाग
For Private And Personal Use Only
Page #445
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
रितयोरभेदबुद्धेरनुत्पादाद्वितीयशक्त्या प्रादुर्भावितं द्वितीयार्थमादायान्वयबोधः, न तु विरुद्धार्थम् । विरोधधी शिथिलमूला निवर्तमानापि कविसंरम्भगोचरतया चमत्कारकारणमिति प्राचां निष्कर्ष: । नव्यास्तु — 'अ
४२९
प्रादुर्भावं विना विरोधाभास एव न संभवति । तत्रैको विरोधस्योछासकः द्वितीयश्रान्वयबोधविषय इति तत्सत्यम् । परं तु अन्वयबोधविषये द्वितीयार्थे विरोधोल्लासकोऽप्यर्थो भेदेऽपि श्लेषभित्तिकाभेदाध्यवसाय इत्युक्तदिशा अभिन्नतया भासते । एवं चाविरुद्धं द्वितीयार्थमादायान्वयबोधे सत्यपि स्वास्पदीभूतस्य विरुद्धार्थस्य निःशेषतया निवृत्तेरभावादर्धमृतः श्वसन्निव विरोधोऽपि मानसं बोधान्तरमारोहति । अत एव चमत्कारीत्युच्यते । नहि निःशेषतया निवृत्तश्चमत्कारं जनयितुमीष्टे । न चान्तरेण चमत्कारजनकतामलंकारो भवति । तस्माद्विरोधियो नातीव शिथिलमूलत्वम्, नापि चात्यन्तिकी निवृत्तिः' इत्याहुः । ननु अपिशब्दादीनां प्रयोगे शाब्दो विरोधो भासत इति तथाप्यसंगतम् । निपातानां शाब्दिकनये शक्तेरस्वीकारादिति चेत न । निरूढलक्षणाया इव निरूढद्योतनाया अपि शक्तिसमकक्षत्वात् । अथ जात्योर्द्रव्ययोश्च विरोधालंकारो न भवितुमीष्टे । 'कुसुमानि शराश्चन्द्रो वाडवो दुःखिते हृदि' इत्यादावारोपमूलस्य रूपकस्यैवोल्लासात् । यदि च सत्यप्यारोपे विरोधाभास उच्यते, उच्यतां तर्हि 'मुखं चन्द्रः' इत्यत्रापि स एव । न च रूपकविषयस्य सर्वस्यापि विरोधेनाक्रान्तत्वान्निर्विषयत्वापत्या स्वविषये रूपकं विरोधस्य गुणादौ सावकाशस्यापवाद इति वाच्यम् । 'कुसुमानि शरा:', 'मृणालवलया
For Private And Personal Use Only
हरिद्भिर्दिग्भिः । न च नहि । निवृत्तिरित्याहुरिति । वयं तु ब्रूमः - सुप्तोऽपि द्ध इत्यादी समानाधिकरणविभक्त्यर्थयोरभेदः । अपिशब्देन च समभिव्याहृतैकपदार्थतावच्छेदकविरुद्धत्वमपरपदार्थतावच्छेदके योत्यते । तत्र गमकद्वयसत्त्वात्प्रकरणादेर्नियामकस्याभावाच्चार्थद्वयमपि युगपदवभासते । तत्राभेदस्य मुख्यवाक्यार्थत्वात्तद्योग्यार्थस्य विरुद्धार्थश्लेषभित्तिकाभेदाध्यवसायेन विशेषणत्वं विरुद्धार्थस्य तत्रेति युक्तम् । एवं च स्वापविरुद्ध जागरणा भिन्नविशिष्टज्ञानाश्रय इति बोधः । यत्र त्वपिशब्दाभावस्तत्र प्रथमतः शाब्दान्वयबोधे जाते सहृदयतावशाद्वितीयार्थोपस्थितौ विरहाद्युद्बोधकसहकृतैकसंबन्धिज्ञानविधया विरोधोपस्थितौ व्यञ्जनयैव तादृशबोधः । अतएवापिशब्दाभावे वि रोधो व्यङ्गय इत्याहुः । विरोधस्याभासत्त्वं चाहार्यबोधविषयत्वात्कार्यनिष्पादकत्वाभा
-
Page #446
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३०
काव्यमाला। दिदनदहनराशिः', 'चन्द्रो वाडवः', 'शंकरचूडापगा कालिन्दी' इत्यादौ त्वदभीष्टविरोधस्याप्तिद्धिप्रसङ्गादिति चेत्, सत्यम् । इह हि अलंकारवर्गे यो यत्र सहृदयचमत्कृतिपथमवतरति स एव तत्रालंकार इति निर्विवादम् । एवं च रूपके 'मुखं चन्द्रः' इत्यादौ यद्यप्यस्ति विरोधस्तथापि न स तत्र प्रतिपिपादयिषितः । अपि तु चन्द्रनिष्ठालादकत्वादिसकलगुणानां मुख प्रतिपत्त्यर्थं चन्द्राभेद एवेति स चमत्कारी, न विरोधः । प्रत्युत सन्नपि विरोधो विवक्षितार्थाननुगुणत्वानुदूषित इति नालंकारः । विद्यमानताया अकिंचित्करत्वात् । 'कुसुमानि शराः' इत्यादौ तु विरहिण्यादीनामवस्थाया अत्यद्रुतत्वस्य विवक्षितत्वात्तदानुगुण्यायान्तर्गभितोऽप्यार्थों विरोधः समुल्लसतीति स एवालंकारः । न चैवमपि रूपकस्थले विरोधोऽविवक्षितत्वान्मा नामाभूदलंकारः, विरोधस्थले तु 'कुसुमानि शराः' इत्यादौ विरोधोत्थापनार्थमभेदस्यावश्यं विवक्षणीयत्वाद्र्पकापत्तिरिति वाच्यम् । विरोधविवक्षानालिङ्गितत्वस्य रूपकलक्षणे निवेश्यत्वात् । यहा अभेदस्यात्र विरोधोत्थापनार्थमुपात्तस्याचमत्कारित्वाद्रूपकालंकारत्वमयुक्तम् । तत्तदलंकारलक्षणेषु अलंकारसामान्यलक्षणे वा चमत्कारित्वस्योतत्वात् । यदि तु विरहिण्याद्यवस्थाया अत्यद्भुतत्वादि न विवक्षितमप्यर्थश्च न गर्मीकृतः किं तु पीडाजनकत्वश्यामत्वाद्यतिशयमानं विवक्ष्यते तदात्र रूपकमेव । यदि वा नगरविशेषस्थितेरद्रुतत्वविवक्षया यत्र हि नारीणां मुखं चन्द्र इत्युच्यते तदा विरोधाभास एवेति ध्येयम् । ननु 'सुप्तोऽपि प्रबुद्धः' इत्यादौ यथैकेनार्थेन विरोधस्योत्थापनमपरेण च निवृत्तिः, एवम् ‘गङ्गायां घोषः', 'मञ्चाः क्रोशन्ति', 'कुन्ताः प्रविशन्ति' इत्यादावपि शक्येन तस्योत्थानं लक्ष्येण च निवृत्तिरिति विरोधाभासप्रसङ्गः । न च दृष्टान्ते विरोधोत्थापकनिवर्तकयोरर्थयोः शक्त्यैवोपस्थितिः, दार्टान्तिके तु पृथग्वृत्त्येति वैलक्षण्यमिति वाच्यम् । सत्यपि वैलक्षण्ये वेनेति । तदनिवेशजलाघवादाह-यद्वेति । अत्र कुसुमानीत्यत्र । ननु तर्हि गौरवं त. त्प्रयुक्तमस्त्येवात आह-तत्तदिति । इतोऽपि लाघवादाह-अलंकारेति । श्यामत्वाद्यतिशयेति । शंकरचडापगेत्यत्रेत्यर्थः । एवेति ध्येयमिति । एवं च 'विरोधानुपपत्तिश्चेद्गुणद्रव्यक्रियादिषु । अमन्दचन्दनस्यन्दः स्वच्छन्दं दहतीह माम् ॥'
For Private And Personal Use Only
Page #447
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४३१ त्वदुक्तविरोधाभासलक्षणातिप्रसङ्गस्यानिवारणात् । नहि लक्षणे विरोधोत्थापकनिवर्तकयोरेकवृत्तिवेद्यत्वमेकजातीयवृत्तिवेद्यत्वं वा विवक्षितम् । तथा सति 'कुसुमानि शराः' इत्यादौ प्राचीनरीत्याव्याप्तिप्रसङ्गादिति चेत् विरोधस्यात्र प्रतिभानेऽपि कविसंरम्भागोचरत्वेनाचमत्कारित्वात् । __ अयं च विरोधालंकारः कुवलयानन्दकता उत्प्रेक्षाशिरस्कोऽप्युदाहृतः। यथा-- 'प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मेरपि भेत्ततोज्झिता।
अमित्रजिन्मित्रजिदोजसा स यद्विचारहक्चारगप्यवर्तत ॥” इति । विरोधप्रतीत्यनन्तरं यत्रार्थान्तरप्रतिपत्त्या विरोधस्य समाधानं तत्र विरोधाभास इप्यते । यथा-'रिपुराजिरसभावभञ्जनोऽप्यरिपुराजिरसभावभञ्जनः' इत्यादौ । इह तूत्प्रेक्षया विरोधसमाधानात्मिकया मुखस्थितया विरोधस्योत्थानमेव भग्नमिति कथमनुत्तिष्ठन्नेव विरोधश्चमत्कारमूलमलंकारभावं वहेत् ।
इति रसगङ्गाधरे विरोधप्रकरणम् । अथ विभावना
कारणव्यतिरेकसामानाधिकरण्येन प्रतिपाद्यमाना कार्योत्पत्तिविभावना।
तदुक्तम्-'क्रियायाः प्रतिषेधेऽपि फलव्यक्तिविभावना' इति । क्रियाशब्देनात्र कारणं विवक्षितम् । अत्र कारणव्यतिरेकसामानाधिकरण्येन कार्योत्पत्तौ निबध्यमानायामापाततो विरोधः प्रतिभासमानोऽपि तदितरकारणकल्पनया निवर्तते । यथाइति जयदेवोक्तो विरोधो विरोधाभास एवेति बोध्यम् । अलंकारभावं वहेदिति । अत्रेदं चिन्त्यम्-प्रतीपभपैरित्यत्र हि विरुद्धधर्मगततया स्वाश्रयभेदकत्वत्यागोत्प्रेक्षायां विरुद्धतयावभासमानपदार्थानां श्लेषभित्तिकाभेदाध्यवसायेनाविरुद्धतादात्म्यापनानां सहवासो निमित्तम् । निमित्तप्रतिपादकं चोत्तरार्धम् । विरोधभानमन्तरेण विरुद्धधमैरपीत्याद्युत्प्रेक्षाया अनुत्थानाच्च । एवं च निमित्तांशे विरोधालंकारमुपजीव्यैव विरोधत्यागो. प्रेक्षा अर्थान्तरानुगृहीता । पश्वात्तत्साधनत्वेन स्थितेत्युत्प्रेक्षाङ्गमत्र विरोध इति ॥ इति रसगङ्गाधरमर्मप्रकाशे विरोधप्रकरणम् ।।
For Private And Personal Use Only
Page #448
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३२
काव्यमाला । 'विनैव शस्त्रं हृदयानि यूनां विवेकभाजामपि दारयन्त्यः ।
अनन्तमायामयवल्गुलीला जयन्ति नीलाब्जदलायताक्ष्यः ॥' अत्र हि दारणे शस्त्रं कारणम् । तदभावेऽपि दारणमुपनिबध्यमानमापाततो विरुद्धमपि कामिनीविलासरूपहेतुकतया पर्यवस्यति । नन्वत्र यस्य कायस्थोत्पत्तिर्निबध्यते नहि तदीयकारणत्वेनावगतस्य व्यतिरेकः प्रतीयते । यदीयकारणव्यतिरेक श्च प्रतीयते नहि तस्य कार्यस्योत्पत्तिनिबध्यते । दारणं चेह पीडाविशेषो विवक्षितः, न तु द्विधाभावः । शस्त्रं च न कामपीडायाः कारणम्, अपि तु द्वैधीकरणस्येति चेत्, न । मुख्यं हि दारणं द्विधाभावनम् । गौणं च कामादिजनितपीडाविशेषः । तयोर्गौणमुख्ययोर्दारणयोः सादृश्यमूलेनाभेदाध्यवसानरूपेणातिशयेन सति भेदस्थगने द्विधाभावनकारणमपि शस्त्रं कामपीडाकारणं संपद्यते । तदभावे चात्र कार्याभिन्नतयाध्यवसितस्य पीडाविशेषस्योपनिबन्धनान्न दोषः । एवं चास्मिन्नलंकारे सर्वत्रापि कार्याशे अभेदाध्यवसानरूपातिशयोक्तिरनुप्राणकतया स्थिता । तया च पायसादिपिण्डवदेकीकृतस्य वस्तुतः सदृशवस्तुद्वयस्यैकावयवसंबन्धिकारणव्यतिरेकसामानाधिकरण्येनापरावयवमादाय पर्यवसानं भवति । तत्र च कार्याशः कारणभावरूपविरोधिनो बाध्यतयैव स्थितः, न बाधकतया । कार्याशस्य कल्पितत्वात्कारणाभावस्य च स्वभावसिद्धत्वात् । अत एव कार्यांशो रूपान्तरेण पर्यवस्यति । अत एव च समबलविरोधिद्वयघटिताद्विरोधालंकारादस्य वैलक्षण्यम् । तथा चोक्तम्
'कारणस्य निषेधेन बाध्यमानः फलोदयः ।
विभावनायामाभाति विरोधोऽन्योन्यबाधनम् ॥' इत्याहुः । अथातिशयोक्तिर्न सर्वस्यां विभावनायामनुप्राणिका । किं तु क्वचित् ।
'निरुपादानसंभारमभित्तावेव तन्वते ।
जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ।' प्राग्वदाह--अथेति । सादृश्येमूलेनेति । श्वेषमूलेनेपि बोध्यम् । कार्याभिन्नतयेति । शस्त्रकाद्विधाभावेनाभिन्नतयेत्यर्थः । वस्तुतः सदृशवस्तुद्वयस्येति । इदं षष्ठयन्तं पर्यवसानमित्यत्रान्वेति । तत्र सामानाधिकरण्येनेत्यन्त हेतुः ।
For Private And Personal Use Only
Page #449
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। इत्यत्र विभावनायामतिशयोक्तेरध्यवसानमूलाया अननुप्राणकत्वादिति । ननु कारणाभावे कार्योत्पत्तिरसंभवन्ती कविना अभिप्रायविशेषेण निबध्यमाना हि विभावना । न चात्रोपादानान्तराभावे जगत उत्पत्तिः परमेश्वरादसंभवन्ती येन विभावना स्यात् । 'नासदासीत्', 'सदेव सौम्येदमग्र आसीत्', 'आत्मा वा इदमेक एवाग्र आसीत्', 'असहा इदमग्र आसीत्ततो वै सदजायत' इत्यादिश्रुतिभ्यः, 'अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम्' इत्यादिस्मृतिभ्यश्च सृष्टिकाले भगवदतिरिक्तवस्तुजातप्रतिषेधावगमात् । तस्मादत्र विभावनाया एव संभावना नास्ति व पुनरतिशयोक्त्यनुप्राणितत्वव्यभिचार इति चेत् । न । अत्र हि भगवतः सकाशाकेवलस्य जगत उत्पत्ति कवेरभिप्रेता । येन तस्या उपादानान्तरव्यतिरेकेऽपि भगवतः सकाशात्संभवादसंभवमूला विभावना न स्यात् । किं तु जगद्रूपस्य चित्रस्य । चित्रस्य च केवलस्योपादानानां मषीहरितालादीनामाधारस्य भित्त्यादेश्वाभावे केवलाकाशे जागत्येवोत्पत्तेरसंभवः । स च तस्य जगद्रूपतानुसंधानात्तत्कारणतदाश्रयव्यतिरेकमादाय निवर्तत इति 'निरुपादानसंभारं' इत्यत्र निष्प्रत्यूहैव विभावनेति भवत्यतिशयोक्त्यनुप्राणितत्वव्यभिचारः । एतेन 'विभावनायां सर्वत्रातिशयोक्तिरनुप्राणिका' इति सर्वस्वकारोक्तिरपास्ता । तथा "निरुपादानसंभारं' इत्यत्र विभावनाया एवाभावात्कुत्र व्यभिचारः" इति वदन् विमर्शिनीकारोऽपि प्रत्युक्त इति । उच्यते—मा स्म भूत्सर्वत्र विभावनायामतिशयोक्तिरनुप्राणिका । आहार्याभेदबुद्धिमात्रभेवानुप्राणकम् । तच्च क्वचिदतिशयोक्त्या क्वचिच्च रूपकेणेति न दोपः । __यत्तु--"कारणं विना कार्योत्पत्तिरेका विभावना । कारणानामसमग्रत्वे द्वितीया । सत्यपि प्रतिबन्धके कार्योत्पत्तिस्तृतीया । अकारणात्कार्योत्पत्तिश्चतुर्थी । विरुद्वात्कार्यजन्म पञ्चमी । कार्यात्कारणजन्म पष्ठी । क्रमेणोदाहरणानि
'अप्यलाक्षारसासिक्तं रक्तं तन्व्या पदाम्बुजम् ।' 'अस्त्रैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः ।'
For Private And Personal Use Only
Page #450
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३४
काव्यमाला।
'सातपत्रं दहत्याशु प्रतापतपनस्तव ।' 'शङ्खाहीणानिनादोऽयमुदेति महदद्भुतम् ।' 'शीतांशोः किरणा हन्त दहन्ति सुदृशो दृशौ ।'
'यशःपयोधिरभवत्करकल्पतरोस्तव ।" इति षट्प्रकारां विभावनामुदाजहार कुवलयानन्दकृत् । तत्रेदं वक्तव्यम् -
'कार्योत्पत्तिस्तुतीया स्यात्सत्यपि प्रतिबन्धके ।
अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना ॥' । इत्यादिभिर्विभावनाप्रकारानालक्षयता विनापि कारणं कार्योत्पत्तिरित्यप्येको विभावनाप्रकार इत्युक्तं भवति । अन्यथा चतुर्थीत्वाद्यसंगतेः । एवं च यथा-'सादृश्यमुपमा भेदे', 'तद्रूपकमभेदो य उपमानोपमेययोः' इत्यादिभिर्लक्षितस्योपमारूपकादिसामान्यस्य पूर्णादयः सावयवादयश्च भेदा उक्तास्तथेह किं तद्विभावनासामान्यलक्षणम्, यल्लक्षितस्य विभावनासामान्यस्यामी भवतोक्ताः प्रकारा उपपद्येरन् । कारणं विना कार्यात्पत्तेस्तु प्रकारान्तःपातित्वात् । अथातिशयोक्त्यादिष्विव तादृशसकलप्रकारान्यतमत्वं सामान्यलक्षणमुन्नेयमिति चेत्, एवमपि प्रथमप्रकाराद्वितीयप्रकारस्य वैलक्षण्यं दुरुपपादमेव । कारणाभावेऽपि कार्योत्पत्तिरित्यत्र कारणतावच्छेदकसंबन्धेन कारणतावच्छेदकावच्छिन्नप्रतियोगिताकाभावस्य विवक्षितत्वात् । प्रकारान्तरस्वीकारापेक्षया तादृशविवक्षाया एव लघुत्वात् । एवं प्रतिबन्धकमपि कारणाभाव एव । प्रतिबन्धकाभावस्य कारणत्वात् । इति तृतीयोऽपि भेदो न विलक्षणः । चतुर्थेऽपि भेदे कारणाभाव आर्थः । 'शङ्खाहीणानिनादोऽयम्' इत्युक्ते वीणां विनैवेति प्रत्ययादवैलक्षण्यम् । तस्मादायेन प्रकारेण प्रकारान्तराणामालीढत्वात्पट प्रकारा इत्यनुपपन्नमेव । यदि तु यथाकथंचित्कुवलयानन्दोक्तिः समर्थनीयेत्याग्रहस्तदेत्थं समर्थ्यताम्-तथा हि विनापि कारणं कार्यजन्मेति विभावनायाः सामान्यलक्षणम् । इयं च तावद्वेधा-शाब्दी, आर्थी च । शाब्दी शाब्दी आर्थी चेति । अत्र केचित्--शाब्दत्वे आद्या।आर्थत्वे उत्तराः पञ्च । तत्र
For Private And Personal Use Only
Page #451
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। त्रिविधा-- प्रतिबन्धकातिरिक्तकारणव्यक्तिप्रतियोगिकाभावोक्तिपूर्विका, सत्यामपि कारणव्यक्तौ यदवच्छिन्नत्ववैकल्यप्रयुक्तः कार्याभावस्तद्वैकल्योक्तिपूर्विका, स च कारणतावच्छेदकधर्मः क्वचित्कारणतावच्छेदकसंबन्धश्च, प्रतिबन्धकोक्तिपूर्विका चेति । आर्थ्यपि त्रिविधा-प्रकृतकार्यसमानजातीयकार्यान्तरस्य कारणात् । प्रकृतकार्यविरुद्धकार्यस्य कारणात् । स्वकार्याद्वा प्रकृतकार्यस्योत्पत्तिरिति । एतदर्थकमेव ह्यकारणादित्यादि । __ इयं च विभावना द्विविधा----उक्तनिमित्तानुक्तनिमित्ता च । तत्रानुक्तनिमित्ता 'विनैव शस्त्रं' इत्यत्र दर्शिता । विलासानां मन्मथपीडाजनकानामनुपात्तत्वात् । उक्तनिमित्ता यथा
'यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः ।
दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ॥' अत्र हि उपात्ते यौवने दाहहेतुत्वं पर्यवस्यति । यत्तु"असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ।। अत्र द्वितीयचरणे आसवाभावेऽपि मदस्य प्रतिपादनाद्यौवनस्य चोतत्वादुक्तनिमित्ता विभावना । न तु प्रथमतृतीयचरणयोः । संभरणपुष्पयोर्मण्डनमस्त्रं च प्रत्यहेतुत्वात् ।" इत्यलंकारसर्वस्वकारादिभिरुक्तं तत्र विचार्यते—विरोधमूला हि विभावनाद्यलंकाराः । विरोधस्यैव विद्युत्प्रभावदापाततः प्रतिभासमानस्य चमत्कारबीजत्वात् । अत्र ह्यासवभिन्नद्वितीये कारणे कारणतावच्छेदकगुणादिवैकल्यदर्शनेन तदवच्छिन्नकारणाभावप्रतीति. रार्थी । अस्तु वा शाब्दी । तथापि स्वरूपतः कारणाभावकथनात्कारणगतधर्मवैकल्यद्वारेण तद्विशिष्टकारणाभावकथने विच्छित्तिविशेषात् । एतेन प्रथमप्रकाराद्वितीयप्रकारस्य वैलक्षण्यं नेत्यपास्तम् । तृतीये प्रतिबन्धकामावस्य कारणत्वनये तदभावकथनं शाब्दम् । अभावाभावस्य प्रतियोगित्वनये तस्याकारणवनये भावाभावस्यातिरिक्तत्वनये वा इत्यर्थः। आये भावोक्तेति पूर्वस्माद्विशेषः। चतुर्थी प्रकृतसजातीयकार्यान्तरस्य कारण भिन्नाकथनमिति कारणाभाव आर्थ एव । पञ्चम्यां च प्रकृतकार्यविरुद्ध कार्यस्य कारणात्कथनमिति स आर्थ एव । षष्ठयां तु कार्यात्कारणस्येति स एवेत्याहुः ॥ इति रसगङ्गाधरमर्मप्रकाशे विभावनाप्रकरणम् ॥
For Private And Personal Use Only
Page #452
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३६
काव्यमाला। त्वविशिष्टं मदकारणत्वं यौवनस्योक्तम् । एवं च यौवनस्य मदकारणतायाः शब्देनैवोपात्तत्वात् यागे नीहियवयोरिव मदे यौवनासवयोः परस्परनिरपेक्षकारणत्वावगतेविरोधस्य लेशतोऽप्यप्रतिभानाद्विभावनैव नास्ति । कुतः पुनरुक्तनिमित्ता विभावना। न चासवस्य प्रसिद्धमदकारणत्वात्तेन विना मदोत्पत्तिवर्णने विरोधप्रतिभा भवत्येवेति वाच्यम् । भवेत्सा, यदि यौवनस्य मदकारणत्वं कविना साक्षान्न प्रतिपाद्येत । प्रतिपादिते तु तस्मिन्प्रसिद्धकारणातिरिक्ततया कविना प्रतिपादितमिदमणि प्रसिद्धकारणमिव कारणान्तरं भविष्यतीति वैकल्पिककारणताप्रतिभानान्न विरोधप्रतिभानं भवितुमर्हति । तस्मादत्र प्रथमतृतीयचरणयोयूनाभेदरूपकम् । द्वितीयचरणे तु प्रतीयमानोत्प्रेक्षेति विवेकः । अस्मन्निर्मिते तूदा. हरणे दहनस्यैव प्रसिद्धदाहकारणत्वाद्यौवनस्य दाहकारणताया अश्रुतत्वादहनमन्तरेण दाहोत्पत्तिवर्णने विरोध आपततः प्रतीयत एवेति सहदयैराकलनीयम् । अथ 'लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति' इत्यत्र विभावनापत्तिर्नन्वस्तु, किं नश्छिन्नमिति चेत् । आलंकारिकैरत्र तस्यानङ्गीकारात् । ननु कारणतावच्छेदकरूपावच्छिन्नप्रतियोगिताकवेन कारणाभावो विशेषणीयः। प्रकृते च कारणत्वावच्छिन्नप्रतियोगिताकः प्रसिद्धकारणत्वावच्छिन्नप्रतियोगिताको वा भावो न तादृशरूपावच्छिन्नप्रतियोगिताक इति चेत्, ‘खला विनैवापराधं भवन्ति खलु वैरिणः' इत्यत्र तथाप्यतिव्यापनात् । अपराधाभावस्य तथात्वात् । न च कार्यांशोऽतिशयोक्त्यालीढत्वेनाभेदनिश्चयालीढत्वेन वा विशेपणीय इति वाच्यम् । 'खला विनवापरावं दहन्ति खलु सज्जनान्' इत्यादौ तथापि दोपानुद्वारादिति चेत् । मैवम् । कार्याशे यद्विपयितावच्छेदकं तदवच्छिन्नकार्यतानिरूपितायाः कारणताया अवच्छेदकमिह ग्राह्यम् । दाहत्वं चेह विपयितावच्छेदकम् । तदवच्छिन्नाभिन्नत्वेन पीडाया अध्यवसानात् । नहि दाहत्वावच्छिन्न कार्यतानिरूपितकारणताया अवच्छेदकमपराधत्वम् । अपि तु दाहत्वावच्छिन्नाभिन्नत्वेनाध्यव
For Private And Personal Use Only
Page #453
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
सिता या पीडा तन्निष्ठकार्यतानिरूपित कारणताया इति तदवच्छिन्नप्रतियोगिताका भावसामानाधिकरण्येन कार्योत्पत्तिवर्णनेऽपि नात्र विभावनाप्रसङ्गः । यदि तु 'खला विनैव दहनं दहन्ति जगतीतलम्' इति क्रियते तदा भवत्येव विभावना । एवम् -
'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥'
इति परकीयपद्येऽतिशयोक्त्युदाहरणेऽप्यस्त्येव विभावना । परंतु 'कमलमनम्भसि' इत्यंशे शाब्दी । 'कमले च' इत्यादौ स्वार्थीति संक्षेपः । इति रसगङ्गाधरे विभावनाप्रकरणम् ।
www..c
Acharya Shri Kailassagarsuri Gyanmandir
अथ विशेपोक्तिः
प्रसिद्धकारणकलाप सामानाधिकरण्येन वर्ण्यमाना कार्यानुत्पत्तिर्विशेपोक्तिः ।
तत्र सत्यपि कारणसमवधाने कार्यस्यानुत्पत्तौ विरोधः प्रतिभासमानः प्रसिद्धेतरकारणवैकल्यधिया निवर्तते । यथा
४३७
'उपनिषदः परिपीता गीतापि च हन्त मतिपथं नीता । तदपि न हा विधुवदना मानससदनाद्वहिर्याति ॥'
यथा वा
For Private And Personal Use Only
'प्रतिपलमखिलांल्लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि ।
हा हतकं चित्तमिदं विरमति नाद्यापि विषयेभ्यः ||' अत्रोपनिषदर्थविमर्श सकललोकानित्यत्वज्ञाने प्रसिद्धविरतिहेतौ सत्यपि विरत्यनुत्पत्तिवर्णनाद्रागाधिक्यरूपं प्रतिबन्धकं प्रतीयते । इयमनुक्वनिमित्ता । विरत्यनुत्पत्तिनिमित्तस्य प्रतिबन्धस्यानुपात्तत्वात् । अत्रव ' रागान्धं चित्तमिदं' इति निर्माणे उक्तनिमित्ता । केचिदचिन्त्यनिमित्तां तृतीयामामनन्ति । उदाहरन्ति च -
'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न बलं हृतम् ॥'
Page #454
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३८
काव्यमाला। अनुक्तनिमित्तायां निमित्तं निमित्ततावच्छेदकरूपेण चिन्त्यमानं प्र. तीयते । इह तु न तथा । किं तु भविष्यति किंचिन्निमित्तमित्याकारणेत्यनुक्तनिभित्तातोऽचिन्त्यनिमित्ताया भेद इति ह्येषामाशयः । अन्ये तु'नानुक्तनिमित्तायां चिन्त्यत्वं निमित्तविशेषणम् । भेदान्तरकल्पनागौरवप्रसङ्गात् । किं तु चिन्त्यमचिन्त्यं चेति द्विप्रकारकमपि निमित्तं यत्र नोक्तं सानुक्तनिमित्ता । तेनाचिन्त्यनिमित्ता अनुक्तनिमित्तातो न पृथग्भावमर्हति' इत्याहुः । अत्र च कारणसमवधान कार्यानुत्पत्तेर्बाध्यमिति बहवः । वस्तुतस्तु कार्यानुत्पत्तिरेवास्मिन्नलंकारे बाध्या ।
'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने ।
नमोऽस्त्ववारवीर्याय तस्मै मकरकेतवे ॥' 'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शंभुना न बलं हृतम् ॥' इति प्राचीनप्रसिद्धोदाहरणेषु कारणसमवधानस्य कामशरीरनाशरूपस्य प्रमाणसिद्धत्वेन बाध्यत्वायोगात् । यतः कामस्य शरीरनाशेऽपि शक्तिबलयो शः कुतो न जात इत्येव सर्वजनीनः प्रत्ययः, न तु शक्तिबलयोः सतोः कथं शरीरनाश इति ।
'दृश्यतेऽनुदिते यस्मिन्नुदिते नैव दृश्यते । - जगदेतन्नमस्तस्मै कस्मैचिद्बोधभानवे ॥' । इत्यत्रोदयाभावे जगदर्शनस्य, उदयसत्वे दर्शनाभावस्य वर्णनेऽपि न विभावनाविशेषोक्ती । नात्र साहजिकसूर्योदयो वर्ण्यते । येन तयोः प्रसङ्गः स्यात् । तथात्वे तूक्तिसंभव एव न स्यात् । किं तु ब्रह्मात्म्यैक्यबोधसूर्योदयः । तस्य च जगददर्शनमेव कार्यम् । न तु जगद्दर्शनम् । तथात्वे तु सूर्योदयस्येवास्याप्युक्तिसंभवो न स्यात् । अत एव व्यतिरेकोलासस्ताद्रूप्यरूपकालीढे संगच्छते । कारणभावकार्याभावयोर्यत्र प्रतियो
प्राग्वदाह-अथेति । ताद्रप्यरूपकालीढ इति । वैधर्म्यस्य शब्दोपात्तत्वादभेदस्य प्रतीत्यसंभवादचमत्कारित्वाच्च तद्वृत्तिधर्मवत्त्वस्यैव प्रतीतेरस्य ताद्रप्यरूपकत्व
For Private And Personal Use Only
Page #455
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३९
रसगङ्गाधरः । गितावच्छेदकविशिष्टवैशिष्टयेन श्रुत्या प्रतिपादनं तत्र विभावनाविशेषोक्त्योः शाब्दत्वम् । अन्यत्रार्थत्वम् । यथा--
'भगवद्वदनाम्भोज पश्यन्त्या अप्यहर्निशम् ।
तृष्णाधिकमुदेति स्म गोपसीमन्तिनीदृशः ॥' लोके ह्यसंनिकर्षस्तृष्णाकारणम् । तदभावे संनिकर्षेऽपि तृष्णोपनिबहा । तथा संनिकर्षस्तृप्तिकारणम् । तस्मिन्सत्यपि तृप्त्यभावो बोधितः । परंतु कारणाभावकार्याभावयोर्न प्रागुक्तप्रकारेण प्रतिपादनमित्यार्थत्वमेव तदुभयसंशयसंकरस्य । अमुमेव चार्थ मनसिकत्य मम्मटभट्टैः 'यः कोमारहरः' इति पद्यमुदाहृत्योक्तम्---'अत्र स्फटो न कश्चिदलंकारः' इति । वामनस्तु—'एकगुणहानिकल्पनायां साम्यदायं विशेषोक्तिः' इत्याह । उदाजहार च-'घुतं हि नाम पुरुषस्यासिंहासनं राज्यम्' इति । अत्र हि द्यूते राज्यं तादात्म्येनारोप्यते । तत्र सिंहासनरहितं हि द्यूतं सिंहासनसहितराज्यतादात्म्यं कथं वहेदित्यारोपोन्मूलकयुक्तिनिरासायारोप्यमाणे राज्येऽपि सिंहासनराहित्यं कल्प्यते । तेन दृढारोपं रूपकमेवेदम् । न विशेषोक्तिः । एवं च
'अचतुर्वदनो ब्रह्मा द्विवाहुरपरो हरिः ।
__ अभाललोचनः शंभुभगवान्वादरायणः ॥' इति पौराणपद्येऽपि रूपकमेव । तथा गुणाधिक्यकल्पनायामपि तदेव । यथा-'धर्मों वपुष्मान्भुवि कार्तवीर्यः' इत्यादौ । एतेन 'एकगुणहान्युपचयादिकल्पनायां साम्यदाय विशेषणम्' इति विशेषालंकारं लक्षयन्तोऽपि प्रत्युक्ताः।
इति रसगङ्गाधरे विशेषोक्तिप्रकरणम् । अथासंगतिःविरुद्धत्वेनापाततो भासमानं हेतुकार्ययोवैयधिकरण्यमसंगतिः।
व्यवहार इति दिक् । न प्रागुक्तप्रकारेणेति । प्रतियोगितावच्छेदकवैशिष्टयेन श्रुत्या प्रतिपादनाभावादित्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे विशेषोक्तिप्रकरणम् ॥
For Private And Personal Use Only
Page #456
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४४०
www. kobatirth.org
काव्यमाला |
'मृशति त्वयि यदि चाप स्वापं प्रापन्न केऽपि नरपालाः । शोणे तु नयनकोणे को मपालेन्द्र तव सुखं स्वपितु ॥' अत्र चापस्पर्शनयनशोणित्रीहत्वोः स्वापनाशरूपकार्यवैयधिकरण्येऽतिप्रसङ्गवारणाय विरुद्धेत्यादि । इह च विभिन्नदेशस्थयोरेव तयोः कार्यप्रयोजकतया विरोधानवकाशात् । ननु शोणिमाभिव्यक्तस्य रोषस्य कालिकसंबन्धेन हेतुत्वादस्तु नाम कार्यभिन्नदेशत्वम् चापस्पर्शस्य तुली - लया कृतस्य स्वरूपतो हेतुत्वाभावात्तज्ज्ञानं स्वापनाशे हेतुत्वेनाभ्युपगन्तव्यम् । एवं च तस्य कथं वैयधिकरण्यमिति चेत् । न । प्रयोजकस्यापि हेतुपदनात्र ग्रहणाददोषः । प्रयोजकत्वं च चापस्पर्शस्य भ्रमात्मकरोपानुमितिलिङ्गत्वात् ।
उदाहरणम्
यथा वा
Acharya Shri Kailassagarsuri Gyanmandir
'अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति । महरति हि कुसुमत्राणी जगतीतलवर्तिनो यूनः ॥'
'दृष्टिगीदृशोऽत्यन्तं श्रुत्यन्तपरिशीलिनी । मुच्यन्ते बन्धनात्केशा विचित्रा वैधसी गतिः ॥ अत्राद्योदाहरणे शुद्धा, द्वितीये तु षोपबृंहितेति विशेषः । प्रहरतीत्यत्राभेदाध्यवसायलक्षणेनातिशयेनापराधनिमित्तकताडनरूपतयावस्थिते कामपीडने विषय्यंशमालम्ब्य तं प्रति समानाधिकरणतया प्रसिद्धस्य हेतोरपराधरूपस्य वैयधिकरण्यज्ञानात्पुरः स्फरन्विरोधो विषयांशविमर्शोत्तरं तं प्रति कुसुमश्री हरणाभिव्यक्तशोभा विशेषस्य भावनोपनीतस्य तद्वाबनाया वा हेतुत्वस्य प्रतिमंधानान्निवर्तत इत्यभेदाध्यवसानमनुप्राणकम् विरोधाभासोत्कर्षकः । एवमन्यत्रापि बोध्यम् ।
अस्यां च विभावनायामिव कार्याशेऽतिशयोक्त्यनुप्राणनमावश्यकम् । अन्यथा विरोधो दुष्परिहर एव स्यात्, इत्यलंकार सर्वस्वकारादीनां मतम् ।
प्राग्वदाह-- अथेति । वैयधिकरण्यं भिन्नदेशत्वम् । प्रयोजकेति । यत इत्यादिः । भ्रमात्मकरोषानुमितीति । लीलया करणाद्रमात्मकत्वम् । श्लेषोपबृंहितेति ।
For Private And Personal Use Only
Page #457
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४४१ तच्च 'दृष्टिर्मगीदृशः' इत्यस्मन्निर्मितोदाहरण व्यभिचारादसंगतम् । नहि 'मुच्यन्ते बन्धनात्केशाः' इत्यत्र केश धनमुक्त्यंशेऽतिशयोक्तिरस्ति । किं तु श्लेषभित्तिकाभेदाध्यवसानमात्रम् । तस्माद्येन केनापि प्रकारेण कार्यांशेऽभेदाध्यवसानमावश्यकमिति तु संगतम् । यद्यपि 'दृष्टिर्मगीदृशः' इत्यादी कारणांशेऽपि श्लेषादिनाभेदाच्यवसायः संमवति, तथापि नासौ तदंशे नियतः।
'खिद्यति सा पर्थि यान्ती कोमलचरणा नितम्बमारेण ।
खिद्यन्ति हन्त परितस्तद्रूपविलोकिनस्तरुणाः ॥ इत्यादी भारजनितखेदांशे तदभावात् । न च तत्रापि जलपूर्णघटादिभारजनितखेदेन सह नितम्बमारजनितखेदस्याभेदाध्यवसायोऽस्त्येवेति वाच्यम् । नितम्बमारजनितखेदस्य स्वस्वरूपेणापि खेदजनकत्वेन भारान्तरजनितखेदाभेदाध्यवसायानपेक्षणात् । 'सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः' इति प्राचीनानां पद्ये बालात्वस्त्रीत्वाद्यंशे तल्लेशस्याप्यसंभवाच्च । यत्तु 'विरोधालंकारे ह्येकस्मिन्नधिकरणे द्वयोः संबन्धाद्विरोधप्रतिभानम्, असंगतौ त्वधिकरणद्वय इति तस्मादस्य वैलक्षण्यम्' इति विशिनीकार आह तदसत् । इहापि तत्कार्यतावच्छेदकधर्मतत्तत्कारणवैयधिकरण्यरूपयोधर्मयोरेकस्मिन्कार्यरूपेऽधिकरणे संबन्धादेव विरोधप्रतिभानोत्पत्तेः । तस्माद्विरोधालंकारे उत्पत्तिविमर्श विनैव विरोधप्रतिभानम् । इह तूत्पत्तिविमर्शपूर्विकैव विरोधप्रतिभोत्पत्तिः इति वैलक्षण्य. मिति । वस्तुतस्तु-व्यधिकरणत्वेन प्रसिद्धयोः समानाधिकरणत्वेनोपनिबन्धने विरोधालंकारः। समानाधिकरणत्वेन प्रसिद्धयोईयोर्वैयधिकरण्येनोपनिबन्धनेऽसंगतिः । प्रागुक्तासंगतिलक्षणे हेतुकार्ययोरिति च समानाधिकरणमात्रोपलक्षणम् । तेन 'नेत्रं निरञ्जनं तस्याः शून्यास्तु वयमद्भुतम्' इत्यत्र निरञ्जनत्वशून्यत्वयोरुत्पाद्योत्पादकभावलक्षणसंबन्धानन्तर्भावेण शुद्धसमानाधिकरणत्वेन प्रसिद्धयोरप्यसंगतिः संगच्छते । यथाश्रुते तु सा न स्यात् । इत्थं च स्फुट एव विरोधालंकारादसंगतेभेदः । यस्तु पुनर्विरोधालंकारादतिरिक्तः शुद्धविरोधांशो विरोधमूलेषु सर्वेष्वप्यलंकारेष्वनुस्यतः,
५६
For Private And Personal Use Only
Page #458
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
४४२
काव्यमाला ।
औपम्यांश इवोपमामूलेषु, सोडलंकाराणां कतिपयानां निवर्तकः नतु स्वयं ष्टथगलंकारास्पदम् । अलंकाराणां भणितिविशेषमात्ररूपत्वात् । एवं च विमर्शिनीकारोक्तमपि पद्यमनयैव दिशा नीयते तदा न दोषः । यत्तु - " अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च या । अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥ अपारिजातां वसुधां चिकीर्षन्द्यां तथा कृथाः । गोत्रोद्धारप्रवृत्तोऽपि गोत्रोदं पुराकरोः ॥'
Acharya Shri Kailassagarsuri Gyanmandir
अत्र श्रीकृष्णं प्रति शुक्रस्योपालम्भवाक्ये भुवि चिकीर्षिततया तत्र करणीयमपारिजातत्वं दिवि कृतमित्येकासंगतिः । पुरा गोत्राया उद्धारे प्रवृत्तेन वराहरूपिणा तद्विरुद्धं गोत्राणां दलनं खुरकुछनैः कृतमिति द्वितोया । यथा वा --
'त्वत्खङ्गखण्डितसपत्नविलासिनीना
भूषा भवन्त्यभिनवा भुवनैकवीर | नेत्रेषु कंकणमथोरुषु पत्रवल्ली
चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥ 'मोहं जगत्रयभुवामपनेतुमेत
दादाय रूपमखिलेश्वर देहभाजाम् ।
निःसीमकान्तिरसनीरधिनामुनैव
मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ॥'
अत्राद्योदाहरणे कंकणादीनामन्यत्र करणीयत्वं प्रसिद्धमिति नोपन्यस्तम् । भवतिना भावनारूपान्यत्र कृतिराक्षिप्यते इति लक्षणानुगतिः” इति कुवलयानन्दकृतासंग तेरन्यद्भेदद्वयं लक्षयित्वोदाहृतम्, तन्न । तत्र तावत् 'अपारिजातां वसुधां चिकीर्षन्द्यां तथा कृथाः' इत्यत्र पारिजातरा - हित्यचिकीर्षया कारणभूतया सह पारिजातराहित्यस्य कार्यस्य विरुद्धवैयधिकरण्योपनिबन्धात् 'विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः' इति प्राथमिकासंगतितो वैलक्षण्यानुपपत्तेः । आलम्बनाख्यविषयतासंबन्धेन चिकीपायाः सामानाधिकरण्येन कार्यमात्रं प्रति हेतुत्वस्य प्रसिद्धेः । न च पा
For Private And Personal Use Only
Page #459
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
४४३
I
रिजातराहित्यस्याभावरूपस्य नित्यत्वात्कारणाप्रसिद्धिरिति वाच्यम् । आलंकारिकनये तस्यापि जन्यत्वस्येष्टेः । लक्षणे कार्यकारणपदयोरुपलक्षणत्वस्योक्तत्वाच्च । 'गोत्रोद्धारप्रवृत्तोऽपि' इत्युदाहरणे तु 'विरुद्धात्कासंपत्तिर्दृष्टा काचिद्विभावना' इति पञ्चमविभावनालक्षणाक्रान्तत्वाद्विभावनयैव गतार्थत्वादसंगतिभेदान्तरकल्पनानुचिता । गोत्रोद्धारविषयकप्रवृत्ते - गोत्रोदरूपकार्ये विरुद्धत्वात् । सिद्धान्तेऽपि विभावनाविशेषोक्त्योः संकर एवात्रोचितः । ' नेत्रेषु कंकणं' इत्यादौ कंकणत्वनेत्रालंकारत्वयोर्व्यधिकरणत्वेन प्रसिद्धयोः सामानाधिकरण्यवर्णनाद्विरोधाभासत्वमुचितम् । एवं मोहनिवर्तकत्वमोहजनकत्वयोरपीति । ननु तवापि विरोधाभासेनैवोपपत्तेर्विभावनादिकल्पनानर्थक्यमिति चेत्, न । दत्तोत्तरत्वात् ।
इति रसगङ्गाधरेऽसंगतिप्रकरणम् ।
www
Acharya Shri Kailassagarsuri Gyanmandir
अथ विषमालंकारः अननुरूपसंसर्गो विषमम् ।
अनुरूपमिति योग्यतायामव्ययीभावः । अनुरूपं यत्र न विद्यत इति विगृहीतेन बहुव्रीहिणा योग्यतारहितमुच्यते । योग्यता च युक्तमिदमिति
-
For Private And Personal Use Only
बन्धशब्दे श्लेषः । गोत्रायाः पृथिव्याः । गोत्राणां पर्वतानाम् । जन्यत्वस्येष्ठेरिति । जन्यत्वेऽपि चिकीर्षायाः कृत्यान्यथासिद्धतया कार्यजनकत्वे मानाभावः । अधिकरणातभी सा चिकीर्षाया अहेतुत्वात् । अन्यत्र चिकीर्षितस्यापि प्रमादादिनान्यत्रकरणे व्यभिचारात् । एवं च वैयधिकरण्यं विरुद्धमेव न । किं चात्र न तत्कार्यकारणवैयधिकरण्यकृतचमत्कारः, अपि त्वन्यत्र कर्तव्यस्यान्यत्र करणप्रयुक्त एवेत्यर्थस्य सर्वसंमतत्वेन ततो भेदौचित्यात् । किं च पूर्वोदाहरण इवानयोः कार्यकारणयोर्विरोधस्य दुःसमाधानत्वेन नात्र सः । आपाततो विरुद्धत्वेन भासमानमेवेति तत्पूर्वासंगतिरिति चिन्त्यम् । पञ्चमविभावनोत । विरुद्धत्वेन प्रसिद्धयोरेव सेति केचित् । किं चोपालम्भरूपेऽस्मिन्वचसि विरुद्धकृतिमानकृत एव चमत्कारः, तत्र तु विरोधनिवृत्तिकृतोऽपीति महान्विशेषः । विरोधाभासत्वमुचितमिति । समानविभक्तिकाभावात्सामानाधिकरण्यस्य शब्दादप्रतीतेरभेदस्याभानाच्च चिन्त्यमिदम् । ययोविरोधप्रतीतिस्तयोरर्थान्तरमादायापि सामानाधिकरण्यप्रतीतेश्च ॥ इति रसगङ्गाधरमर्मप्रकाशेऽसंगतिप्रकरणम् ॥
प्राग्वदाह - अथेति । तत्रान्तरप्रसिद्धार्थनिरासायाह-योग्यता चेति । द्विती
Page #460
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४४
काव्यमाला।
लौकिकव्यवहारगोचरता । संसर्गश्च तावविविधः-उत्पत्तिलक्षणः संयोगादिलक्षणश्च । तत्रोत्पत्तिलक्षणस्य संसर्गस्यायोग्यत्वं कारणात्स्वगुणविलक्षणगुणकार्योत्पत्त्या । इष्टसाधनतया निश्चितात्कारणादनिष्टकार्योत्पत्तिभिः संयोगादिलक्षणस्यापि । संसर्गिणोरन्यतरगुणस्वरूपतिरस्कार्यान्यतरगुणस्वरूपतया अयोग्यत्वम् । एवं चाननुरूपसंसर्गत्वेन सामान्येनोक्ता वक्ष्यमाणाश्च सर्वे प्रभेदाः संगृह्यन्ते । क्रमेणोदाहरणानि
'अमृतलहरीचन्द्रज्योत्स्नारमावदनाम्बुजा
न्यधरितवतो निर्मर्यादप्रसादमहाम्बुधः । उदभवदयं देव त्वत्तः कथं परमोल्बण
प्रलयदहनज्वालाजालाकुलो महसां गणः ॥' अत्र माधुर्यशैत्याह्लादकत्वप्रसादाद्यनेकगुणयुक्तात्कारणात्तद्विरुद्धगुणयुक्तस्य प्रतापस्योत्पत्तिरित्यननुरूपः कार्यकारणभावः । अभेदाध्यवसानलक्षणेनातिशयेन समवायिकारणरूपतया स्थिते निमित्तकारणे समवेतकार्थरूपतया स्थिते निमित्तिकार्ये वा विषयांशमालम्ब्य स्फुरितो विरोधो विषयांशविमर्शीत्तरं निवर्तत इतीहाप्यभेदाध्यवसानस्यानुप्राणकत्वम्, तदुत्थापितविरोधाभासस्य च परिपोषकत्वम् । अयमेव चांशोऽत्र कविप्रतिभानिर्मितत्वादलंकारताबीजम् । इष्टसाधनतया ज्ञातात्कारणादनिष्टकायोत्पत्तिरित्यत्रैकशेषघटित एकशेषो बोध्यः । न इष्टमनिष्टम् अनर्थः । तादृशकार्योत्पत्तिश्च । न इष्टकार्योत्पत्तिरनिष्टकार्योत्पत्तिः सा चेत्यनिष्टकार्योत्पत्ती । ते च अनिष्टकार्योत्पत्तिश्च [अनिष्टकार्योत्पत्तिश्च] अनिष्टकार्योत्पत्तयः ताभिरिति । अनेनेष्टकार्यानुत्पत्त्यनिष्टकार्योत्पत्ती मिलिते एको भेदः । प्रत्यकं च भेदद्वयम् । इति त्रयो भेदाः संगृहीता भवन्ति । इष्टं च-स्वस्य किंचित्सुखसाधनवस्तुप्राप्तिर्दुःखसाधनवस्तुनित्रत्तिश्च परस्य दुःखसाधनवस्तुप्रापणं सुखसाधननिवृत्तिश्चेति चतुर्विधम् । तेनेष्टाप्राप्तिघटिते भेदद्वयेऽपि चातुर्विध्यम् । अनिष्टं च-वस्य दुःखयस्य तदाह-इष्टेति । एवं सत्याह-संगिणोरिति । तमेवाह-अनेत्यादि । अनिष्टकार्योत्पत्तिश्चेति । आये नत्रा इष्टकार्योत्पत्तिशब्देन समासः, द्वितीये इष्टशदेनेति । सुखसाधनवस्तुनाशश्चेतीति । अत्रापि परस्येत्येव बोध्यम् । गाव इ.
For Private And Personal Use Only
Page #461
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
साधनवस्तुप्राप्तिः परस्य सुखसाधनवस्तुप्राप्तिर्दुःखसाधनवस्तुनाशश्चेति त्रिविधम् । स्वस्येष्टाप्राप्तिस्तु गणितेति नानिष्टे गण्यते । तेनानिष्टप्राप्तिघटिते भेद येऽपि त्रैविध्यम् । दिड्मात्रं तूपदर्श्यते-उदाहरणम्___ 'दूरीकर्तुं प्रियं बाला पझेनाताडयद्रुषा ।
स बाणेन हतस्तेन तामाशु परिषस्वजे ॥' अत्र प्रियदूरीकरणरूपेष्टार्थ प्रयुक्तेन पद्मताडनरूपेण कारणेन प्रियदूरीकरणं तु दुरापास्तम्, प्रत्युत तत्कर्तृकपरिप्वङ्गरूपानिष्टस्योत्पत्तिः । यथा वा
'खञ्जनदशा निकुञ्ज गतवत्या गां गवेषयितुम् ।
अपहारिताः समस्ता गावो हरिवदनपङ्कजालोकात् ॥' पूर्वोदाहरणे वास्तमेवानिष्टम् इह तु सकलेन्द्रियहरणं यद्यपि लोकेऽनिष्टप्रायमेव। तथापितत्पुरस्कारेणेह चमत्कृतिराहित्यागोहरणपुरस्कारेणैव चमत्कारात् । श्लेषमूलकाभेदाध्यवसाने सकलसुरभिहरणरूपानिष्टात्मना स्थितं तदिति विशेषः । गवेष्यमाणगवीरूपेष्टाप्राप्तेरनुक्तत्वात्केवलानिष्टप्राप्तेरिदमुदाहरणम्, पूर्व तूभयस्येति विशेषो न वाच्यः। समस्तगवीहरणेन सामान्येन गवेप्यमाणाया अपि गोरपहारस्य प्रत्ययात् । ___ एवमिष्टाप्राप्त्यनिष्टप्राप्त्युभयकता संसर्गस्याननुरूपता सामान्येनोक्ता । पूर्वोक्तचतुर्भेदाया इष्टाप्राप्तेः पूर्वोक्तत्रिभेदेनानिष्टेन संसृष्टावियमेव द्वादशविधा । तत्र स्वस्य सुखसाधनवस्त्वप्राप्तिदुःखसाधनवस्तुप्राप्तिरूप उभयभेदस्तावदुदाहृतः । स्वस्य दुःखसाधनवस्त्वनिवृत्तिदुःखान्तरसाधनावाप्तिरूपद्वयं यथा
'रूपारुचिं निरसितुं रसयन्त्या हरिमुखेन्दुलावण्यम् ।
सुदृशः शिव शिव सकले जाता सकले वरे जगत्यरुचिः ॥' अत्र यद्यपि ब्रह्मदर्शनोत्तरं जातायामपि जगति वैराग्यलक्षणायामरुचौ भगवद्वदनलावण्यदर्शनाद्रूपारुचिविलक्षणा या काचित्सा निवृत्तैवेति वक्तुं शक्यते, तथापि जगदरुचित्वेन सकलारुचीनामभेदाध्यवसायाद्रूपा
For Private And Personal Use Only
Page #462
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
रुचिनिहत्तेरप्रत्यय एव । अन्यथा सुखहेतोर्वैराग्यलक्षणाया अरुचेर्दुःखान्तरसाधनत्वं दुरुपपादं स्यादिति भवत्युभयोदाहरणम् ।
परस्य दुःखसाधनानवाप्तिः स्वस्य दुःखान्तरसाधनप्राप्तिरित्युभयं यथा
'पुरो गीर्वाणानां पुलकितकपोलं प्रथयतो - भुजप्रौढिं साक्षाद्भगवति शरं संमुखयितुम् । स्मरस्य स्वर्बालानयनसुममालार्चितमहो
वपुः सद्यो भालानलभसितजालास्पदमभूत् ॥' परस्य सुखसाधनानिवृत्तिः स्वस्य दुःखसाधनप्राप्तिरित्युभयं यथा-- 'न मिश्रयति लोचने सहसितं न संभाषते
कथासु तव किं च सा विरचयत्यराला भ्रुवम् । विपक्षसुदृशः कथामिति निवेदयन्त्या पुरः
प्रियस्य शिथिलीकृतः स्वविषयोऽनुरागग्रहः ॥' अत्र कयाचित्प्रौढनायिकया सपन्यां प्रियेणाज्ञातयौवनात्वेनैव विदितायां तदनुरागप्रतिबन्धार्थ प्रियस्य पुरस्तदीयदुर्गुणानावेदयन्त्या चिकीर्षितोऽर्थो न संपादितः, स्वस्मिन्ननुरागक्षतिश्च संपादितेति यद्यपि सुखसाधननिवृत्तेर्दुःखसाधनरूपत्वान्न पृथग्गणनोचिता, तथापि दुःखसाधननिवृत्तौ सुखस्येव सुखसाधननिवृत्तौ प्रतिनियतकारणं जन्यत्वेन दुःखस्यानैयत्यात्प्टथगुपादानम् । एवमष्टावन्येऽप्युभयभेदा उह्याः । केवलेप्टाप्राप्तियथा
'प्रभातसमयप्रभां प्रणयिनि बुवाना रसा
दमुष्य नयनाम्बुजं सपदि पाणिनामीलयत् । अनेन खलु पद्मिनीपरिमलालिपाटच्चरैः
समीरशिशुकैश्चिरादनुमितो दिनेशोदयः ॥' अत्र प्रियतमकर्तृकप्रभातविषयकज्ञानाभावः कामिन्याः सुखसाधनतयेष्टः । स च तया साध्यमानोऽपि न सिद्ध इतीष्टाप्राप्तिरेव । यहा तादृशज्ञानं तस्या दुःखसाधनम्, तन्निवृत्तिरूपं चेष्टं साध्यमानमपि न त
For Private And Personal Use Only
Page #463
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४४७ थेति सैव । एवं च द्विप्रकारापीष्टाप्राप्तिरेवात्र संभवति । प्रकारान्तरं चास्या अप्यूह्यम् । केवलानिष्टप्राप्तिर्यथा--
'मुकुलितनयनं करिणो गण्डं कण्डूयतो विषद्रुतटे ।
उदभूदकाण्डदहनज्वालाजालाकुलो देहः ॥' अत्र नेष्टाप्राप्तिः । मुकुलितनयनमित्यनेन कण्डूयनजन्यमुखस्य प्राप्तेः किं त्वनिष्टप्राप्तिरेव । अस्या अपि भेदद्वयं यथायथमूह्यम् । ग्रन्थविस्तरभयान्नेहोदाहियते । एते चेष्टसाधनत्वेन निश्चितात्कारणादनिष्टकार्योत्पत्तीनां सर्वेऽपि प्रभेदा वक्ष्यमाणविषादनालंकारसंकीर्णा एवेति तत्प्रकरणे निरूपयिष्यामः । ___ यत्तु-'अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात्' इति विषमभेदलक्षणं निर्माय 'अपिशब्दसंगृहीततया इष्टानवाप्तिश्चेति प्रत्येकमपि विषमपदेनान्वयः' इत्युक्तं कुवलयानन्दकता, तन्न । अव्युत्पत्तेः । अस्मिन्ग्रामे देवदत्तस्य द्रव्यस्यापि लाभोऽस्तीत्यादौ द्रव्यशब्दोत्तरापिशब्दसमुच्चितस्य विद्यादेव्यान्वयिन्येवान्वयाव्यस्य लाभो विद्यायाश्च लाभ इति धीरिति निर्विवादम् । प्रकृते त्वनिष्टस्याप्नोतिनान्वयः, इष्टानवाप्तेश्च तच्छब्दपरामृष्टेन विषमेणेति वैषम्यात् । प्रत्युत लक्षणवाक्येऽपिशब्दोऽनिष्टां धियमुत्पादयति । अनिष्टस्यावाप्तिरिष्टस्य चेति प्रतीतेः । चकारसमुच्चितया इष्टानवाप्त्या अनिष्टावाप्तेरेकवारं मिलितायास्तत्पदपरामृष्टेन विषमेणान्वयाद्वाक्यारत्त्या वारान्तरे च प्रत्येकमन्वयाद्भेदत्रयसंग्रह इति तु स्यादपि । न त्वपिशब्दविकत्थनम् । यदपि तेनैवोदाहृतम्-'भक्ष्याशया हि मञ्जूषां दृष्ट्वाखुस्तेन भक्षितः' इति । अत्र क्त्वाप्रकृतिक्रियाकर्तृकर्तृकोत्तरकालवर्तिक्रियान्तरस्याप्रयुक्तत्वादगम्यमानत्वाच्च प्रविष्ट इति पदाकाश्तिया न्यूनपदत्वम् । यदपि केवलेष्टानवाप्तौ तेनैवोदाजह्वे
'खिन्नोऽसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः ।
भरभुनविततबाहुषु गोपेषु हसन्हरिजयति ।। न्द्रियाणि । न त्वपिशब्दविकत्थनमिति । अपिशब्दस्यावाप्तिपदोत्तरमुत्कर्षेणान्वये तु न किंचिदधिकम् । क्रियान्तरस्याप्रयुक्तत्वादिति । तेन भक्षित इत्यन्वये, त्विदं
For Private And Personal Use Only
Page #464
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
इति। तदपि न रमणीयम् । अत्र भरमुग्नविततेत्यादिना बाहुगतास्थिसंधिभङ्गरूपानिष्टप्राप्तेः साक्षादुपात्तत्वात्सर्वाङ्गचूर्णीभावगर्वापहाररूपायाश्च स्फुट गम्यमानत्वात्कथमिष्टाप्राप्तिमात्रमित्युच्यते । एतेन 'शैलपतनरूपानिष्टावाप्तिस्तु भगवत्कराम्बुजस्पर्शमहिना न ज्ञाता' इति यदुक्तं तदप्यसारमेव । अनिष्टानामुक्तत्वात् ।
एवमुत्पत्तिलक्षणसंसर्गस्याननुरूपत्वं निरूपितम् । संयोगादिलक्षणसंसर्गस्याननुरूपत्वं यथा'वनान्तः खेलन्ती शशकशिशुमालोक्य चकिता
भुजप्रान्तं भर्तुः श्रयति भयहर्तुः सपदि या । अहो सेयं सीता शिव शिव परीता श्रुतिचल___ करोटीकोटीभिर्वसति खलु रक्षोयुवतिभिः ॥'
अत्र सतीशिखामणेर्भगवत्या राघवधर्मपत्न्याः परमप्रभावयुक्तत्वाद्राक्षसीभिरनाश्यत्वेऽपि रक्षःकर्तृकनाशस्वरूपयोग्यतावच्छेदकमनुष्यत्वजातियोगेन स्वरूपस्य रक्षोदर्शनेन सौन्दर्यसौकुमार्यादीनां गुणानां च नाश्यत्वेन विरुद्धत्वात्समानाधिकरणसंयोगरूपः संसर्गोऽननुरूपः । ननु--
'क्व शुक्तयः क वा मुक्ताः क पङ्कः क्व च पङ्कजम् ।
क्व मृगाः क्व च कस्तूरी धिग्विधातुर्विदग्धताम् ॥ इत्यादौ वस्तुकथनमात्रे विषमालंकारप्रसङ्गः । न चेष्टापत्तिः । वस्तुवृत्तस्य लोकसिद्धत्वेनालंकारत्वायोगात् । यतो बहिरसन्तः कविप्रतिभामात्रकल्पिता अर्थाः काव्येऽलंकारपदास्पदम् । नच 'यथा पमं तथामुखम्' इत्यादौ सादृश्यस्य लोकसिद्धत्वात्कविप्रतिभानुत्थापितत्वेऽपि कथमलंकारत्वमिति वाच्यम् । सादृश्यरूपे सादृश्योत्थापके वा अभिन्नधर्मेऽभेदांशस्य कविप्रतिमामात्राधीनत्वात् । नहि पद्ममुखयोः शोभारूपो धर्मों जात्यादिवद्वस्तुत एकोऽस्ति । यो हि जात्यादिरूपो वस्तुत एकस्तदुत्थापितं चिन्त्यम् । अत्रेति । यत इत्यादिः । बाहुगतास्थिसंधीति । तस्या धात्वर्थत्वात्, भगवत्करस्पर्शमहिम्ना तस्याप्यजातत्वाच्च नेदं युक्तम् । यत्तु कुटिलीभवनं तत्रातर्कि. तोत्कटपर्वतधारणे तस्य संभावितत्वेन तदङ्गीकृतत्वात, गर्वेण गोपानामप्रवृत्तेश्च। खिन्नोऽसीत्युक्त्या तथैव लाभाच्च ॥ इति रसगङ्गाधरममप्रकाशे विषमप्रकरणम् ॥
For Private And Personal Use Only
Page #465
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। सादृश्यमलंकारबहिर्भूतमेव । यथा--'पद्ममिवास्या मुखं द्रव्यम्' इ. त्यादौ । एवं च 'वनान्तः खेलन्ती' इति पद्यप्रतिपाद्यायाः सीताराक्षसवधूसंसर्गाननुरूपताया लौकिकीत्वेन कविप्रतिभानपेक्षत्वान्नालंकारत्वम् । एतेन
'अरण्यानी क्वेयं धृतकनकसूत्रः क्व स मृगः
क्क मुक्ताहारोऽयं क च स पतगः केयमबला । क्व तत्कन्यारत्नं ललितमहिभर्तुः क्व च वयं
स्वमाकृतं धाता कमपि निभृतं पल्लवयति ॥' इत्यलंकारसर्वस्वकृतोदाहृतमपि प्रत्युक्तम् । इयमेव च पद्यान्तरेऽपि कविप्रतिभानुत्थापितार्थके सरणिरित सत्यम् । एवं तर्हि
'क्क सा कुसमसाराङ्गी सीता चन्द्रकलोपमा ।
क रक्षःखदिराङ्गारमध्यसंवासवैशसम् ॥' इति पद्यमुदाहरणं गृहाण । अत्र हि केवलसीतायाः केवलराक्षसीनां च संसर्गस्यानननुरूपतायां सत्यामपि न सा कवेर्विवक्षिता । किं तु या कुसुमसारखदिराङ्गारसंसर्गस्याननुरूपता सेति स्फुटमेवास्यामलौकिकत्वाकविप्रतिभापेक्षित्वम् ।
इति रसगङ्गाधरे विषमालंकारप्रकरणम् । अथ समालंकारःअनुरूपसंसर्गः समम् । संसर्गः पूर्ववहिविधः । तत्रोत्पत्तिलक्षणस्य संसर्गस्यानुरूपत्वं कारणात्स्वसमानगुणकार्योत्पत्त्या, यादृशगुणकवस्तुसंसर्गस्तादृशगुणोत्पत्त्या, यत्किचिदिष्टप्राप्त्यर्थं प्रयुक्तात्कारणात्तत्प्राप्त्या च । उत्कटेष्टान्तरप्राप्ती तु प्रहर्षणं वक्ष्यते । संयोगादिलक्षणस्यापि संसर्गिणोरन्यतरगुणस्वरूपानुग्राह्यान्यतरगुणस्वरूपतयानुरूपत्वम् । एवं चानुरूपसंसर्गत्वेन सामान्यलक्षणेन सर्वे भेदाः संगृहीता भवन्ति । यथा
'कुवलयलक्ष्मी हरते तव कीर्तिस्तत्र किं चित्रम् । यस्मान्निदानमस्या लोकनमस्याङ्ग्रिपङ्कजस्तु भवान् ।।'
For Private And Personal Use Only
Page #466
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
नतनूभुवः । अयोधनः ॥ बार
यथा वा--
__ 'मन्त्रार्पितहविर्दीप्तहुताशनतनूभुवः ।
शिखास्पर्शेन पाञ्चाल्याः स्थाने दग्धः सुयोधनः ॥' पूर्व कारणकार्यधर्मयोः श्लेषेणैक्यसंपादनम्, इह तु मरणदाहयोरभेदाध्यवसानरूपेणातिशयेनेति विशेषः । द्वितीयो भेदो यथा'वडवानलकालकूटलक्ष्मीमकरव्यालगणैः सहैधितः ।
रजनीरमणो भवेन्नृणां न कथं प्राणवियोगकारणम् ॥' लक्ष्मीरप्यत्र मारकत्वेनैव कवेर्विवक्षिता । तृतीयो यथा-- 'नितरां धनमाप्नुमर्थिभिः क्षितिप त्वां समुपास्य यत्नतः ।
निधनं समलम्भि तावकी खलु सेवा जनवाञ्छितप्रदा ॥' [अत्र मरणबहुधनयोः श्लेषेणैक्ये बहुधनरूपेप्टात्मना वाञ्छितार्थाप्तिरूपसमालंकारचमत्कारः ।] अत्र व्याजस्तुतौ मुखे धनप्राप्तिरूपस्तुतिस्फूर्तिदशायां समालंकारस्तावदप्रत्यूह एव । मरणप्राप्तिप्रतीतिदशायां तु व्याजस्तुतेरेव पूर्णाङ्गतया तया विषमालंकारो बाध्यते । यत्तु कुवलयानन्दकृता'उच्चैर्गजैरटनमर्थयमान एव
त्वामाश्रयन्निह चिरादुषितोऽस्मि राजन् । उच्चाटनं त्वमपि लम्भयसे तदेव
मामद्य नैव विफला महतां हि सेवा ॥' इत्युदाहृत्य, 'अत्र व्याजस्तुतौ यद्यपि स्तुत्या निन्दाभिव्यक्तिविवक्षायां विषमालंकारः, तथापि प्राथमिकस्तुतिरूपवाच्यकक्षायां समालंकारो
प्राग्वदाह-अथेति । स्थाने युक्तम् । मुखे प्रारम्भे । अत्रेति । यत इत्यादिः । यथाकथंचिद्गत्यर्थतामिति । "नवेति विभाषा' इति सूत्रे हरति भारमित्यत्राप्राप्तो 'हको:-' इति विभाषा" इति भाष्योक्तेर्यथाकथंचिद्गत्यर्थानां तत्राग्रहाच्चिन्त्यमिदम् ।
१. 'अत्र मरण-' इत्यायेकस्मिन्नेव पुस्तके समुपलभ्यते,
For Private And Personal Use Only
Page #467
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। न निवार्यते' इत्युक्तम् । तत्रोदाहरणे मामुच्चाटनं लम्भयसे इति द्विकर्मकत्वं कथम् । 'गति-' आदिसूत्रस्य प्राचीनरीत्या नियमविधित्वपक्ष लभेरण्यन्तकर्तुः कर्मत्वस्य व्यावर्तनात् । यदा तु
'परत्वादन्तरङ्गत्वादुपजीव्यतयापि च ।
प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेविधितोचिता ॥ इति नवीनरीत्या अपूर्वविधित्वमुच्यते, श्रौतं णिजन्तार्थक्रियायाः प्राधान्यमुत्सृज्यार्थ पूर्वक्रियाया एव प्राधान्यमनुरुध्यते तदा त्वप्रसक्तिरेवेति। उच्चाटनं मया लम्भयसे इति तु भाव्यम् । एवमपि लभेर्यथाकथंचिद्गत्यर्थतां संपाद्य प्रयोग उपपाद्यते तथापि प्राथमिककक्षायां समालंकारो न निवार्यते । इत्यनेन द्वितीयकक्ष्यायां विषमालंकारोऽस्तु नाम' इत्यागूरितमसदेव । तादृशवैषम्यस्य निन्दारूपस्य व्याजस्तुतिविषयत्वेन तयापवादस्यैव न्याय्यत्वात् । न च वैपरीत्यम् । परिपूर्णचमत्कारभूमेाजस्तुतेस्त्वयाप्यपहवात् ।
संयोगादिलक्षणस्यानुरूपता देधा-स्तुतिपर्यवसायिनी, निन्दापर्यवसायिनी च । आद्या यथा
'अनाथः स्नेहादी विगलितगतिः पुण्यगतिदां
पतन्विश्वोही गदविदलितः सिद्धाभिषजम् । तृषार्तः पीयूषप्रकरनिधिमत्यन्तशिशुकः
सवित्री प्राप्तस्त्वामहमिह विदध्याः समुचितम् ॥' अनाथत्वादिविशिष्टस्य त्नेहार्द्रत्वादिविशिष्टेन संसर्गस्यानुरूपता भागीरथीस्तुतिपर्यवसायिनी । द्वितीया यथाउच्चाटनं मां लम्भयसे इति तु संयोगानुकूलव्यापारानुकूलव्यापारार्थकवहसमानार्थकत्वात् । ण्यन्तलभेः 'अकथितं च' इति सूत्रेण बोध्यम् । संयोगानुकूलव्यापारो हि लभेरर्थः । गत्यादि नियमश्च पाचयत्योदनं देवदत्तेनेत्यादि च्यावृत्त्या चरितार्थः । अपवादस्यैव न्याय्यत्वादिति । अत्रेदं चिन्त्यम्-महतां सेवा विफला नेति स्तुतिः। ततो दूरनिरसनप्रापणरूपान्तरपरिग्रहेण विषयावस्फूर्तिपूर्वकनिन्दायां पर्यवसानम् । परस्परविषयपरिहारेण द्वयोः सावकाशत्वात्संकर एवोचितश्चेति । गदेति । रोगर(स)हित इत्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे समालंकारप्रकरणम् ॥
For Private And Personal Use Only
Page #468
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
४५२
काव्यमाला |
'युक्तं सभायां खलु मर्कटानां शाखास्तरूणां मृदुलासनानि । सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखायैश्च विपाटनानि ॥' अत्राप्रस्तुतगतत्वेन स्थिता निन्दा तदाक्षिप्ते प्रस्तुते पर्यवस्यति । एवं यथा विषमालंकारस्त्रिभेदस्तथा तद्विपरीतभेदत्रययुक्तः समालंकारोऽपि प्रपञ्चितः ।
यत्तु — 'विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम्' इति विषमालंकारं लक्षितवता, ' तद्विपर्ययः समम्' इति समालंकारं लक्षयित्वा, ' तत्पदेनात्र विषमालंकारसंबन्धी विरूपसंघटनारूपश्वरम एवं भेदो गृह्यते । तद्विपर्ययस्यैव चारुत्वात् । न त्वाद्यभेदद्वयम् । तद्विपर्ययस्य कारणादनुरूपकार्योत्पत्तिरूपस्य, वाञ्छितार्थप्राप्तिरूपस्य च वस्तुसिद्धतया चारुताविरहात् । एवं चानुरूपसंघटतात्मक एवं समालंकारः । न तु विपमालंकार इव भेदत्रयात्मकः' इत्यलंकारसर्वस्वकृतोक्तम् । विवेचितं च विमर्शिनीकृता -- ' कारणादनुरूपकार्योत्पत्तिर्हि लोकप्रसिद्धा । नहि तस्या उपनिबन्धश्चारुतामावहति' इति । तदुभयमसत् । वस्तुतोऽननुरूपयोरपि कार्यकारणयोः श्लेषादिना धर्मैक्यसंपादनद्वारानुरूपतावर्णने, वस्तुतोऽनिष्टस्यापि तेनैवोपायेनेष्टैक्यसंपत्ताविष्टप्राप्तिवर्णने च चारुताया अनुपदमेव दर्शितत्वात् । तस्मात्सममपि त्रिविधमेव ।
इति रसगङ्गाधरे समालंकारप्रकरणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ विचित्रालंकारः --
इष्टसिद्ध्यर्थमिष्टेपणा क्रियमाणमिष्टविपरीताचरणं विचित्रम् | विपरीतत्वं च प्रतिकूलत्वम् । यथा
'बन्धोन्मुक्त्यै खलु मखमुखान्कुर्वते कर्मपाशा
नन्तः शान्त्यै मुनिशतमतानल्पचिन्तां वहन्ति । तीर्थे मज्जन्त्यशुभजलधेः पारमारोदुकामाः
सर्व प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥'
अत्र प्रथमचरणगतं विचित्रं रूपकानुप्राणितम् । यज्ञादिकर्मकरणस्य यज्ञादीनां पाशत्वासिद्ध बन्धमुक्तिविपरीतत्वासंगतेः । द्वितीयचरणगतं
For Private And Personal Use Only
Page #469
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४९३
तु शुद्धम् । शान्तौ चिन्तायाः स्वरूपेणैव विपरीतत्वात् । यदि तु इष्टषिणी भ्रान्तत्वाभिव्यक्तेस्तुल्यत्वात्स्वतः सिद्धे इष्टे तदनुकूलाभासप्रयोगोऽपोष्टैषिकर्तृको विचित्रमित्युच्यते, लक्षणे च विपरीतपदस्थानेऽननुकूलपदं न्यस्यते तदा इदमप्युदाहरणम् । यथा
'विप्वद्रीचा भुवनमखिलं भासते यस्य धाना
सर्वेषामप्यहमयमिति प्रत्ययालम्बनं यः । तं पृच्छन्ति स्वहृदयगतावेदिनो विष्णुमन्या
नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥' अत्र जीवरूपेण सकललोकप्रत्यक्षसिद्धस्य परमेश्वरस्य प्रतिपत्त्यर्थं परान्प्रति प्रश्नोऽनुकूलभासः । मुख्यमनुकूलं तु स्वहृदयमेव । 'यत्साक्षादपरोक्षात्' इति वचनात् । न च कारणाननुरूपं कार्यमिति विषमभेदोऽयं वाच्यः । विषमे पुरुषकृतेरनपेक्षणात् । कार्यकारणगुणवैलक्षण्येनैव तद्भेदनिरूपणाच्च ।
इति रसगङ्गाधरे विचित्रालंकारप्रकरणम् । अथाधिकालंकारः--
आधाराधेययोरन्यतरस्यातिविस्तृतत्वसिद्धिफलकमितरस्यातिन्यूनत्वकल्पनमधिकम् । यथा'लोकानां विपदं धुनोषि तनुषे संपत्तिमत्युत्कटा
मित्यल्पेतरजल्पितै डधियां भूपाल मा गा मदम् । यत्कीर्तिस्तव वल्लभा लघुतरब्रह्माण्डसद्मोदरे
पिण्डीकृत्य महोन्नतामपि तनुं कष्टेन हा वर्तते ॥' अत्र ब्रह्माण्डस्यातिसूक्ष्मत्वकल्पनेन कीर्तेराधेयायाः परममहत्त्वं फलितम् । तेन च व्याजस्तुतिः परिपोप्यते ।
'गिरामविषयो राजन्विस्तारस्तव चेतसः।
सावकाशतया यत्र शेते विश्वाश्रयो हरिः ॥' विचित्राधिकालंकारौ स्पष्टौ।
For Private And Personal Use Only
Page #470
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५४
काव्यमाला।
अत्र सावकाशतयेत्यनेन कल्पितया आधेयन्यूनतया आधारस्य महखं पर्यवस्यति । यदि तु सावकाशतयेति विशेषणं विश्वाश्रय इत्यत्रापि योज्यते तदा शृङ्खलारूपस्याधाराधिकालंकारस्येदमेवोदाहरणम् ।
'ब्रह्माण्डमण्डले मान्ति न ये पिण्डीकता अपि ।
परस्परापरिचिता वसन्ति त्वयि ते गुणाः ॥' अत्रोभयविधस्याप्यस्यालंकारस्य सामानाधिकरण्यम् । लक्षणे कल्पनमित्यनेन यत्राधाराधेययोरन्यतरस्य न्यूनत्वमधिकत्वं च वास्तवं तत्र नातिप्रसङ्गः । एवं च
'क्वाहं तमोमहदहंखचराग्निवा -
संवेष्टिताण्डघटसप्तवितस्तिकायः । केदग्विधाविगणिताण्डपराणचर्या
वाताध्वरोमविवरस्य च ते महित्वम् ।।' इति श्रीभागवतदशमस्कन्ध(१४।११)गतं ब्रह्मस्तुतिपद्यमस्यालंकारस्यानुदाहरणमेव । दिकालानवच्छिन्नस्य पारमेश्वरस्य भूम्नः सर्ववेदसिद्धत्वेन कविप्रतिभानुल्लिखितत्वात् । एतेन
'द्यौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र क्वचि
क्वाप्यत्रैव धरा धराधरजलाधारावधिर्वतते । स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेभिः स्थितै
दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥' इत्यलंकारसर्वस्वकारेण यदुदाहृतं तदपि प्रत्युक्तम् ।
इति रसगङ्गाधरेऽधिकालंकारप्रकरणम् ।
१. 'ननु ब्रह्माण्डविग्रहस्त्वमपीश्वर एवेति चेत्तत्राह-वाहमिति । तमः प्रकृतिः । महान्महत्तत्त्वम् । अहमहंकारः । खमाकाशः । चरो वायुः । अग्निः । वार्जलम् । भश्च । प्रकृत्यादिपृथिव्यन्तैरेतैः संवेष्टितोऽण्डघटः स एव तस्मिन्वा स्वमानेन सप्तवितस्तिः कायो यस्य सोऽहं क्व, क च ते महित्वम् । कथंभूतस्य । ईदृग्विधानि यान्यविगणितान्यण्डानि त एव परमाणवस्तेषां चर्या परिभ्रमणं तदर्थ वाताध्वानो गवाक्षा इव रो. मविवराणि यस्य तस्य तव । अतोऽतितुच्छत्वात्त्वयानुकम्प्योऽहमिति' इति भागवतटोका श्रीधरो.
For Private And Personal Use Only
Page #471
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
अथान्योन्यालंकारःद्वयोरन्योन्येनान्योन्यस्य विशेषाधानमन्योन्यम् । विशेषश्च क्रियादिरूपः । यथा'सुदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया।
अलिकेन च हेमकान्तिना विदधे कापि रुचिः परस्परम् ॥' अत्र गुणरूपविशेषाधानम् । रुचेर्गुणत्वात् । न च विधानरूपक्रियात्मकविशेषाधानमिह शङ्कयम् । भावनासामान्यरूपस्य विधानस्याचमत्कारित्वेनाविशेषत्वात् । 'परपूरुपदृष्टिपातवजाहतिभीता हृदयं प्रियस्य सीता ।
अविशत्परकामिनीभुजंगीभयतः सत्वरमेव सोऽपि तस्याः ॥' अत्र क्रियारूपविशेषाधानम् ।
यत्तु
“यथोक्षिः पिबत्यम्बु पथिको विरलाङ्गुलिः ।
तथा प्रपापालिकापि धारां वितनुते तनुम् ॥' अत्र प्रपापालिकायाः पथिकेन स्वासया पानीयदानव्याजेन बहुकालं स्वमुखावलोकनमभिलपन्त्या विरलाङ्गुलिकरणतश्चिरं पानीयपानानुवृत्तिसंपादनेनोपकारः कृतः । तथा प्रपापालिकयापि स्वमुखावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्चिरं पानीयदानानुवृत्तिसंपादनेनोपकारः कृतः ।" इति कुवलयानन्दकार आह । तन्न । तावदियं पदरचनैवायुप्मतो ग्रन्थकर्तुयुत्पत्तिशैथिल्यमुद्रिति । तथा हि-स्वमुखावलोकनमभिलषन्त्या इत्यत्र स्वशब्दस्य प्रपापालिकाविशेषणघटकत्वेन प्रपापालिकाबोधकत्वमेव न्याय्यम्, न पान्थबोधकत्वम् । एवं स्वमुखावलोकनमभिलषत इत्यत्रापि पान्थबोधकत्वमेव, न त्वदिष्टप्रपापालिकाबोधकत्वम् । एवं स्थितेऽर्थासंगतिः स्पष्टैव । न च सर्वनाम्नां बुद्धिस्थप्रकारावच्छिन्ने शक्तत्वादिष्टबोधोपपत्तिरिति वाच्यम् । तदिदमस्मद्युप्मदादिष्विव तत्तद्विशेषव्युत्पत्तेरपि कल्पनीयत्वात् । सा च प्रकते यद्विशेषणघटकत्वेन स्वनिजादयः शब्दा उपात्तास्तद्वोधका इत्येवंरूपा । तेन स्वदाररतानां
For Private And Personal Use Only
Page #472
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
विप्राणामहं भक्तः, देवदत्तस्य पुत्रः स्वमातृभक्तः इत्यादौ मदीयदाररतानामिति, देवदत्तमातृभक्त इति च न कस्याप्यभ्रान्तस्य स्वरसवाहिनी प्रतीतिः । अत एव-'निजतनुःस्वच्छलावण्यवापीसंभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः' इत्यत्र 'दण्डपादगता तनुः प्रतीयते । भवानीगता तु सा अपेक्षिता' इति व्युत्पन्न शिरोमणिभिर्मम्मटभट्टैः काव्यप्रकाशेऽभिहितम् । न चेदं श्रुतिकाटवादिवत्काव्यमात्रविषयं दूषणमिति वाच्यम् । शब्दव्युत्पत्तौ काव्यस्यानन्तर्भावात् । मदीयदाररतानामिति, देवदत्तमातृभक्त इति च तात्पर्येण प्रागुक्तवाक्यप्रयोक्तुरनुपहसनीयतापत्तेश्च । किं च परस्परोपकारो हि स्वव्यधिकरणव्यापारसाध्य एव चमत्कारित्वाल्लक्षणघटकः, न तु स्वसमानाधिकरणतत्साध्योऽपि । तत्र हि तुपारशिशिरीकरणन्यायेनान्यव्यापारस्यानावश्यकतया चमत्कारिताविरहात् । इह हि धारातनूकरणाङ्गुलिविरलीकरणयोः कर्तृभ्यां स्वस्वकर्तृकचिरकालदर्शनार्थ प्रयुक्तयोस्तत्रैवोपयोगश्चमत्कारी, नान्यकर्तृकचिरकालदर्शन इत्यनुदाहरणमेवैतदस्यालंकारस्येति सहृदया विचारयन्तु ।
इति रसगङ्गाधरेऽन्योन्यालंकारप्रकरणम् । अथ विशेषालंकारःप्रसिद्धमाश्रयं विना आधेयं वर्ण्यमानमेको विशेषप्रकारः । यच्चैकमाधेयं परिमितयत्किचिदाधारगतमपि युगपदनेकाधारगततया वर्ण्यते सोऽपरो विशेषप्रकारः।
प्राग्वदाह-अथेति । अनुपहसनीयतापत्तेश्चेति । अत्रेदं चिन्त्यम्-स्वशव्दादयो यद्विशेषणघटकास्तद्विशेष्यान्विततद्विशेष्येतराबोधका इति व्युत्पत्तेः समभिव्याहृतपदार्थे तद्बोधकत्वव्युत्पत्तेरेव चानुभवबलेन स्वीकारः। नहि पथिकस्तद्विशेष्यान्वित इति । अनुदाहरणमेवैतदिति । स्वस्वोपकारसत्त्वेऽपि परस्परोपकारोऽप्यस्त्येव । स न चमत्कारीति तु रिक्तं वचः । किं च यथातथा शब्दव्यत्यासेन पूर्वोत्तरार्धव्यत्यासेन चास्य पुनः पाठे परस्परोपकारस्यैव चमत्कृतस्य प्रतीतेस्तदभिप्रायेणोदाहरणत्वमेव । अपि च प्रकरणादिसहायेनापि परस्परोपकारप्रतीतिश्चमत्कृतैवेति चिन्त्यमिदमिति दिक्॥ इति रसगङ्गाधरममप्रकाशेऽन्योन्यालंकारप्रकरणम् ।।
For Private And Personal Use Only
Page #473
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४५७
युगपदिति विशेषणाद्वक्ष्यमाणे पर्याये नातिव्याप्तिः । एवं च ग्र न्थान्तरगतानि लक्षणान्यतिप्रसक्तान्येव ।
यच्च ‘किंचित्कार्यमारभमाणस्यासंभाविताशक्यवस्त्वन्तरनिर्वर्तनं स तृतीयो विशेषप्रकारः । एवं चैतदन्यतमत्वं विशेषालंकारसामान्यलक्षणम्' इति प्राञ्चः । तत्र प्रथमः प्रकारो द्विविधः – आधारान्तरगतत्वेनाधेयं वर्ण्यमानम, निराधारत्वेन च । क्रमेणोदाहरणानि - 'अये राजन्नाकर्णय कुतुकमाकर्णनयन
त्वदाधारा कीर्तिर्वसति किल मौलौ दशदिशाम् । त्वकालम्बोऽयं गुणगणकदम्बो गुणनिधे मुखेषु प्रौढानां विलसति कवीनामविरतम् ॥' अत्र दमौलिगतत्वेन ।
'युक्तं तु या दिवमासफेन्दौ तदाश्रितानां यदभूद्विनाशः । इदं तु चित्रं भुवनावकाशे निराश्रया खेलति तस्य कीर्तिः ॥ ' द्वितीयः प्रकारो यथा
'नयने सुदृशां पुरो रिपूणां वचने वश्यगिरां महाकवीनाम् । मिथिलापतिनन्दिनीभुजान्तः स्थित एव स्थितिमाप रामचन्द्रः ॥' तृतीयः प्रकारो यथा -
'कोदण्डच्युतकाण्डमण्डलसमाकीर्णत्रिलोकीतलं
रामं दृष्टवतां रणे दशमुखप्राणापहारोद्यतम् । दुर्दर्शोऽपि नृणामभूदुरुमरुद्वेगप्रचण्डीकृतज्वालाभिर्जगतीतलं कवलयन्कालानलो गोचरः ॥' अत्र रामदर्शनं कुर्वतां . कालानलदर्शन रूपाशक्वस्त्वन्तरनिर्वर्तनम् । ननु —
'लोभाद्वराटिकानां विक्रेतुं तक्रमानिशमटन्त्या । लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥' इति वक्ष्यमाणप्रहर्षणविषमालंकारयोगे तृतीय प्रकारस्यास्यातिव्याप्तिः । दधिविक्रयमारभमाणाया नीलमणिप्राप्तिवर्णनादिति चेत्, न । अत्र चाश
५८
For Private And Personal Use Only
Page #474
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५८
काव्यमाला।
क्यवस्त्वन्तरनिर्वतने तदभेदाध्यवसाननिबन्धनत्वं विशेषणम् । 'कालानलो वीक्षितः' इत्यनुपदमुदाहृते विशेषालंकारे यथा अशक्यवस्त्वन्तररूपकालानलवीक्षण रामकालानलयोस्तदर्शनयोर्वा अभेदाध्यवसानेन निर्वर्तितम्, न तथा 'दधिविक्रेतुमटन्त्या' इत्यत्र महेन्द्रनीलमणिदर्शनमित्यदोपः । न च भगवति नीलमण्यभेदाध्यवसानेन निर्वर्तितमेव तदिति वाच्यम् । किंचित्कार्यमारभमाणस्येत्यत्र यत्कार्यं विशेषणतया प्रविष्टं तेन सहाशक्यवस्त्वन्तरस्याभेदस्य विवक्षितत्वात् । प्रकृते च तक्रविक्रयेण सह नीलमणेरभेदस्यानध्यवसानात् । न चातिशयोक्त्या विशेषालंकारतृतीयप्रकारस्य गतार्थत्वं वाच्यम् । एतदुदाहरणे रामस्य विषयस्य कालानलेन विषयिणा निगरणाभावात् । नापि रूपकेण । विषयविषयिणोः सामानाधिकरण्यविरहेणारोपासिद्धेः । न च स्मृत्या । कालानलस्य वीक्षणकर्मत्वश्रवणेन स्मृतिकर्मत्वासिद्धेः । तस्मादशक्यवस्त्वन्तरकरणं विशेषालंकारस्यैव प्रभेद इति प्राचामाशयः । ___ अत्र विचार्यते—विशेषालंकारस्यायं प्रभेद इति कथं विज्ञायते । नहि रूपकादिवदलंकारस्यास्य किंचित्सामान्यलक्षणमस्ति, येन तदाक्रान्तत्वेनाशक्यवस्त्वन्तरकरणत्वस्य तत्प्रकारतामभ्युपगच्छेम । न चान्यतमत्वमेव तथाविधमस्तीति वाच्यम् । अनेनैव प्रकारेणेतरालंकारभेदत्वस्यापि सुवचत्वात् । अनुगतलक्षणं विना प्राचीनोक्तिराज्ञामात्रमेव राज्ञामिति तदपेक्षया पृथगलंकारतोक्तिरेव रमणीया । अपि च 'येन दृष्टोऽसि देव त्वं तेन दृष्टो हुताशनः', 'तेन दृष्टा वसुंधरा' इत्यादौ वस्त्वन्तरस्य हुताशनवसुधादर्शनादेरशक्यासंभावितत्वयोरभावात्प्रकृतालंकारासंभवेन निदर्शना स्वीक्रियते यदि, तदा 'येन दृष्टोऽसि देव त्वं तेन दृष्टः सुरेश्वरः' इत्यादौ विशेषालंकारेऽपि सैव शरणीक्रियताम् । नहि. हुताशन इत्यत्र सुरेश्वर इत्यत्र च विच्छित्तिभेदोऽस्ति । एवं च प्राचीनानुसारेण 'कोदण्डच्युत-' इत्यादि यदस्माभिरुदाहृतं तदपि न विशेषसरणिमारोढमीष्टे । एतेन त्वां पश्यता मया लब्धं कल्परक्षनिरीक्षणम्' इत्यादि कुवलयानन्दोक्तमुदाहरणं गतार्थम् । तस्मादिदमुदाहरणम्प्राग्वदाह--अथेति । उदाहरणं गतार्थमिति । अशक्यवस्त्वन्तरकरणकृता
For Private And Personal Use Only
Page #475
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसंगङ्गाधरः ।
'किं नाम तेन न कृतं सुकृतां पुरारे
दासीकता न खलु का भुवनेषु लक्ष्मीः । भोगा न के बुभुजिरे विबुधैरलंभ्या
येनार्चितोऽसि करुणाकर हेलयापि ।' अत्र यावत्रिवर्गप्राप्तिरशक्यकरणम् । नद्यत्र भगवदर्चनेन सुकृतकरणादीनां सादृश्यं विवक्षितम्, येन निदर्शनादि संभाव्येत । किं तु कार्यकारणभावः । एवं चेदानीमशक्यवस्त्वन्तरनिर्वतने अभेदाध्यवसाननिबन्धनत्वं न विशेषणम् । न च 'दधि विक्रेतुमटन्त्या' इत्यत्रातिव्याप्तिः । द्वयोः संकरस्य तत्रेप्टेरिति वदन्ति ।
इति रसगङ्गाधरे विशेषालंकारप्रकरणम् । अथ व्याघातः
यत्र ोकेन कळ येन कारणेन कार्य किंचिनिष्पादितं निष्पिपादयिषितं वा तदन्येन क; तेनैव कारणेन तद्विरुद्धकार्यस्य निप्पादनेन निष्पिपादयिषया वा व्याहन्यते स व्याघातः ।
अत्र व्याघाते पूर्वकपेक्षया कर्जन्तरस्य वैलक्षण्यप्रत्ययावयतिरेकसिद्धिः फलम् । कर्तृत्वं चेह कार्योदेशेन प्रवर्तमानत्वम् । प्रयोजनं चास्या विवक्षाया अनुपदमेव वक्ष्यामः । उदाहरणम्
'दीनगुमान्वचोभिः खलनिकरैरनुदिनं दलितान् ।
पल्लवयन्त्युलसिता नित्यं तैरव सज्जनधुरीणाः ।।' इह श्रुतिप्रतिपादितवचनत्वरूपैकधर्मपुरस्कारेणाभिन्नीकृतयोः परुपमधुरवचनयोरेकत्वाध्यवसानात्पुरः स्फुरान्वरोधः प्रातिस्विकरूपेण तत्तकार्यहेतुताविमर्शान्निवर्तत इति विरोधमूलत्वम् । इदं तु नोदाहरणम्
'पाण्डित्येन प्रचण्डेन येन माद्यन्ति दुर्जनाः । तेनैव सज्जना रूढां यान्ति शान्तिमनुत्तमाम् ॥'
धिक चमत्कारसत्त्वादिदं चिन्त्यम् ।। इति रसगङ्गाधरमर्मप्रकाशे विशेषालंकारप्रकरणम् ।।
प्राग्वदाह-अथेति । व्याहन्यते बाध्यते । लुब्धो न विसजतीत्यदाहरणे तात्का
For Private And Personal Use Only
Page #476
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अत्र दुर्जनसजनयोर्मदशमकर्तृत्वेऽपि न तदुद्देशेन प्रवृत्तिरितिलक्षणगतकर्तृविशेषणेनासंग्रहः । न चास्य व्याघातोदाहरणत्वे को दोष इति वाच्यम् । आश्रयविशेषस्वभावसाचिव्येनैकस्यैव कारणस्य विरुद्धकार्यद्वयजनने बाधकविरहद्दयाहतेरेवाभावादुदाहरणत्वासंगतेः । नहि लोकसिहोऽर्थः काव्यालंकारास्पदं भवितुमर्हति । अपरो व्याघातो यथा--- 'विमुञ्चसि यदि प्रिय प्रियतमेति मां मन्दिरे
तदा सह नयस्व मां प्रणय यन्त्रणायन्त्रितः । अथ प्रकृतिभीरुरित्यखिलभीतिभङ्गलमा
___ न जातु भुजमण्डलादवहितो बहिर्भावय ॥' इदं दण्डको प्रविविखं भगवन्तं दाशरथिं प्रति भगवत्या जानक्या वाक्यम् । उभयविधेऽप्यस्मिन्व्याघाते पूर्वकर्तुरभीष्टव्याहननं तुल्यमिति प्राचां सिद्धान्तः । तथा च तेपामुदाहरणम्
'दशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥' इति । अत्र विचार्यते-व्यतिरेक एवात्रालंकारः । जयिनीविरूपाक्षस्य वामलोचना इति तस्यैव प्रकाशनात् । न चात्र व्यतिरेकोत्थापकतयां व्याघातः स्थित इति वाच्यम् । एवमपि तस्यालंकारताया असिद्धेः । न ह्यलंकारोत्थापकेनालंकारेणैव भवितव्यमित्यस्ति नियमः । 'आननेनाकलंकेन जयतीन्दं कलङ्किनम्' इत्यादाविव वस्तुमात्रेणापि व्यतिरेकोत्थापनोपपत्तेः । नास्योक्तप्रकारव्यतिरेकनिर्मुक्तो विषयोऽस्ति येन स्वातन्त्र्यमभ्युपगच्छेम । तस्मादलंकारान्तराविनाभूतालंकारान्तरवदिहाप्यवान्तरोऽस्ति विच्छित्तिविशेषोऽलंकारभेदक इति प्राचामुक्तिरेवात्र शरणम् । . __ यत्तु
'लुब्धो न विसृमत्यर्थ नरो दारियशङ्कया ।
दातापि विसृजत्यर्थ तयैव ननु शङ्कया ॥' इति कुवलयानन्द उदाहृतम्, तन्न । लिकजन्मान्तरीयदारियशङ्कयोरभेदाध्यवसानान्न लक्षणासमन्वय इत्याहु: ।। इति रसग
For Private And Personal Use Only
Page #477
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
एवं श्लेपातिशयोक्त्याद्युपायोन्मीलितेन किंचिदंशाभेदाध्यवसानेनामुख एव प्रादुर्भावितो यो विरोधो विच्छित्तिमात्रात्मा क्षणप्रभावदननुवर्तमानस्तन्मूलका विरोधाभासादयो व्याघातान्ता अलंकारा निरूपिताः । ते च नानारूपं वैचित्र्यं भजन्तो विरोधाभासस्यैव प्रभेदाः, न तु ततोऽतिरिताः, काञ्चनस्येव कणादय इत्येके । रूपकदीपकादीनामौपम्यगर्भाणामुपमाभेदत्वापत्तेर्बहु व्याकुली स्यादिति परस्परच्छायामात्रानुसारिणो भित्रविच्छित्तयो भिन्ना एवेत्यपरे ।
इति रसगङ्गाधरे व्याघातप्रकरणम् । अथ शृङ्खलामूला अलंकाराःतत्र,
पतिरूपेण निवद्धानामर्थानां पूर्वपूर्वस्योत्तरोत्तरस्मिन्, उत्तरोत्तरस्य वा पूर्वपूर्वस्मिन्संसृष्टत्वं शृङ्खला ।
तच्च कार्यकारणताविशेषणविशेप्यतादिनानारूपम् । इयं च न स्वतन्त्रोऽलंकारः । वक्ष्यमाणप्रभेदैर्गतार्थत्वात् । नास्यास्तैर्विना विविक्तो विषयोऽस्ति । यथा हि रूपकादिप्वनुप्राणकतया स्थितोऽप्यभेदांशः समानधमाशो वा न पृथगलंकारः एवं प्रकृतेऽपीत्याहुः । तदपरे न क्षमन्ते । सावयवादिभेदै रूपकस्य, पूर्णालुप्तादिभिरुपमायाश्च गतार्थत्वात्स्वतन्त्रालंकारता न स्यात् । नहि विशेपनिर्मुक्तं सामान्यमस्ति येन विविक्तो विपयः स्यात् । तस्माच्छृङ्खलाया एव कारणमालादयो भेदा इति । मतयोरनयोस्तत्त्वमुपरिष्टाद्विवेचयिष्यामः ।
मैव शृङ्खला आनुगुण्यस्य कार्यकारणभावरूपत्वे कारणमाला । तत्र पूर्व पूर्व कारणं परं परं कार्यमित्येका । पूर्व पूर्व कार्य परं परं कारणमित्यपरा । यथाक्रमेण यथा---
'लभ्येत पुण्यैगृहिणी मनोज्ञा तया सुपुत्राः परितः पवित्राः ।
स्फीतं यशस्तैः समुदेति नूनं तेनास्य नित्यः खलु नाकलोकः ॥' गाधरमर्मप्रकाशे व्याघातप्रकरणम् ॥
For Private And Personal Use Only
Page #478
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६२
काव्यमाला । 'स्वर्गापवर्गों खलु दानलक्ष्मीर्दानं प्रसूते विपुला समृद्धिः ।
समृद्धिमल्पेतरभागधेयं भाग्यं च शंभो तक पादभक्तिः ॥' इह च यद्यादौ कारणोक्तिरेव प्रस्तूयते तदा पुनस्तस्य कारणं तस्यापि कारणमिति, तत्कस्यचित्कारणं तदपि कस्यचिदिति वा कारणमाला युक्ता । यदा तु कार्योक्तिस्तदा तस्य कार्य तस्यापि कार्यमिति, तत्कस्यचित्कार्यं तदपि कस्यचिदिति वा युक्ता । सर्वथैव यः शब्दः कार्यकारणतोपस्थापक आदौ प्रयुक्तः स एव निर्वाह्यः । एवं क्रमेण निबन्धनमाकाङ्क्षानुरूपत्वाद्रमणीयम् । अन्यथा तु भग्नप्रक्रम स्यात् । यथा प्राचीनानां पद्यम्'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥' अत्र जितेन्द्रियत्वं विनयस्य कारणं श्रुत्वा जितेन्द्रियत्वस्यापि किं कारणमिति, विनयः कस्य कारणमिति वा आकाङ्क्षोदेति । कारणस्यैव श्रुतिवशात्पूर्वमुपस्थितेः । कारणं तु ज्ञातं कार्य पुनरस्य किमिति क्वचिदाकाङ्क्षा तु कार्यत्वकारणत्वयोः संबन्धिपदार्थत्वात्कारणश्रुत्युत्तरमेकसंबन्धिज्ञानाधीनकार्यत्वोपस्थित्या संगमनीया । न त्वसौ सार्वत्रिकी । एवं च विनयः कस्य कारणमित्याकाङ्क्षाया गुणप्रकर्षों विनयादवाप्यत इति वाक्यं यद्यपि फलतः परिपूरकं भवति तथापि न साक्षादित्यहृदयंगममेव । तथा गुणप्रकर्षा त्किमाप्यत इत्याकाङ्क्षायां गुणाधिके पुंसीति च । अत्र च कथितपदत्वं न दोषः । प्रत्युत पदान्तरेण तस्यार्थस्योक्तौ रूपान्तरेण स्थितस्य नटस्येव प्रत्यभिज्ञाप्रतिरोधकत्वाद्विवक्षितार्थसिद्धेरकुण्ठितत्वविरहादोषः स्यात् । शब्दादुपस्थितेऽर्थे प्रवृत्तिनिमित्तमिव शब्दोऽपि विशेषणतया भासते । तथा चोक्तम्-'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाढते' इति । तत्तच्छब्दस्य विशिष्ट श्वार्थः स्वरूपेणाभिन्नोऽपि विशेपणभेदाद्विलक्षणः प्रतीयते कुण्डगोलकादिवत् । ननु कुण्डगोलकादिपदेषु मृतामृतभर्तृकत्वादिरूपविशेषणघटितं प्रवृत्तिनिमित्तमित्यस्तु भिन्नाकारः प्रत्ययः । ताम्रः शोणो रक्त इत्यादौ तु ताम्रादिशब्दानां शक्तत्वेन
For Private And Personal Use Only
Page #479
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
शक्यतानवच्छेदकत्वाच्छक्यतावच्छेदकस्य च गुणगतजातिविशेषस्याभिनत्वादभिन्नाकारः प्रत्यय एवोचित इति चेत्, सत्यम् ।
'उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
संपत्तौ च विपत्तौ च महतामेकरूपता ॥' इत्यत्र वैलक्षण्यशून्यतारूपस्यैकरूप्यस्य यथा प्रत्ययः, न तथा 'उदेति सविता ताम्रो रक्त एवास्तमेति च' इत्यत्र, इति सकलानुभवसिद्धम् । एवं च प्रवृत्तिनिमित्तभिन्नस्यापि शब्दस्य यदि शक्यविशेषणत्वं वैलक्षण्यान्यथानुपपत्त्यानुभवबलेन च सिद्धं तदा तदनुगुणैव व्युत्पत्तिः शब्दानां कल्प्यते । सा च वृत्तिसंबन्धेनार्थविशिष्टशब्दज्ञानत्वेन शब्दविशिष्टार्थोपस्थितित्वेन च सामान्यकार्यकारणभावरूपा । घटत्वादितत्तत्प्रष्टत्तिनिमित्तप्रकारकबोधत्वेन तु वृत्तिसंबन्धेन वटविशिष्टपदज्ञानत्वादिना च विशेषतोऽपरः कार्यकारणभावः । विशेषसामग्रीसहिताया एव सामान्यसामग्र्या जनकतति न कश्चिद्दोषः । यहा वृत्तिसंबन्धेन घटादिविशिष्टपदज्ञानत्वेन घटादिपदघटत्वोभयप्रकारकघटादिविशेप्यकोपस्थितित्वेन च कार्यकारणभावः । पदार्थोपस्थितिशाब्दबोधयोः समानाकारत्वाच्छाब्दबोधेऽपि यदभानम् । अनुभवबलाच्च प्रामाणिकं गौरवं न दोषाय । एतदभि• संधायैवोक्तम्-'न सोऽस्ति' इत्यादि ।
इति रसगङ्गाधरे कारणमालाप्रकरणम् । अथैकावलीसैव शृङ्खला संसर्गस्य विशेष्यविशेषणभावरूपत्वे एकावली ।
सा च पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वे विशेषणत्वे चेति द्विधा । तत्राद्ये उत्तरोत्तरविशेषणस्य स्थापकत्वापोहकत्वाभ्यां दैविध्यम् । स्वसंबन्धेन विशेष्यतावच्छेदकनियामकत्वं स्थापकत्वम् । स्वव्यतिरेकेण विशेप्यतावच्छेदकव्यतिरेकबुद्धिजनकत्वमपोहत्वम् । उदाहरणम्
'स पण्डितो यः स्वहितार्थदर्शी हितं च तद्यत्र परानपक्रियाः ।
परे च ते ये श्रितसाधुभावाः सा साधुता यत्र चकास्ति केशवः॥' कारणमाला स्पष्टा ॥ प्राग्वदाह-अथेति । परानपेति । परानपकार इत्यर्थः । तेषां शृङ्खलावयवानां
For Private And Personal Use Only
Page #480
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४६४
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
अत्र स्थापकम् ।
'नार्यः स यो न स्वहितं समीक्षते न तद्धितं यन्न परानुतोषणम् ।
ते परे यैर्नहि साधुताश्रिता न साधुता सा नहि यत्र माधवः ॥ ' अत्रापोहकं पूर्वपूर्वस्योत्तरोत्तरम् । यद्यपि स्थापकेऽप्यपोहकत्वं ग म्यते यो न स्वहितार्थदर्शी स न पण्डित इत्यादि, तथा अपोहकेऽपि स्थापकत्वम्, यो हितं समीक्षते स आर्य इत्यादि, तथापि शब्देन नोच्यत इत्यदोषः ।
'धर्मेण बुद्धिस्तव देव शुद्धा बुद्ध्या निबद्धा सहसैव लक्ष्मीः । लक्ष्म्या च तुष्टा भुवि सर्वलोका लोकैश्च नीता भुवनेषु कीर्तिः ॥'
इह पूर्वेण पूर्वेण स्वाव्यवहितमुत्तरोत्तरं विशेष्यते । अस्मिश्चैकावल्या द्वितीये भेदे पूर्वपूर्वैः परस्य परस्योपकारः क्रियमाणो यद्येकरूपः स्यात्तदायमेव मालादीपक शब्देन व्यवह्नियते प्राचीनैः । तथा चोक्तम् — 'मालादीपकमाद्यं चेद्यथोत्तरगुणावहम्' इति । तत्र मालाशब्देन शृङ्खलोच्यते दीपकशब्देन दीप इवेति व्युत्पत्त्या एकदेशस्थं सर्वोपकारकमुच्यते । तेनैकदेशस्थ सर्वोपकारकक्रियादिशालिनी शृङ्गलेति पदद्वयार्थः । एवं च दीपकालंकारप्रकरणे प्राचीनैरस्य लक्षणाद्दीपकविशेपोऽयमिति न भ्रमितव्यम् । तस्य सादृश्यगर्भतायाः सकलालंकारिक सिद्धत्वात् । इह च शृङ्खलावयवानां पदार्थानां सादृश्यमेव नास्तीति कथंकारं दीपकतावाचं श्रद्दधीमहि । तेषां प्रकृताप्रकृतात्मकत्वविरहाच्च । विवेचितं चेदं सोदाहरणं दीपकप्रकरणेऽस्माभिरिति नेहातीवायस्यते । एतेन 'दीपकैकावली - योगान्मालादीपकमिप्यते' इति यदुक्तं कुवलयानन्दकृता तद्रान्तिमात्रविलसितमिति सुधीभिरालोचनीयम् ।
I
इति रसगङ्गाधर एकावलीप्रकरणम् ।
पदार्थानाम् । तद्भान्तिमात्रेति । तत्रापि दीपकशब्दस्योपकारकपरत्वम् । अत एवं तैर्दीपकप्रकरणात्पृथगेकावल्युत्तरमुक्तोऽयमित्येतदुक्तिरेव भ्रान्ता ॥ इति रसगङ्गाधर ममं - प्रकाश एकावलीप्रकरणम् ॥
For Private And Personal Use Only
Page #481
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
अथ सारः-- सैव संसर्गस्योत्कृष्टापकृष्टभावरूपत्वे सारः। तत्रापि पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षापकर्षाभ्यां दैविध्यम् ।
'संसारे चेतनास्तत्र विद्वांसस्तत्र साधवः ।
साधुष्वपि स्टहाहीनास्तेषु धन्या निराशयाः ॥' इमं चालंकारमेकानेकविषयत्वेन पुनर्द्विविधमामनन्ति । एकविषयतायामवस्थादिभेदाश्रयणमावश्यकम् । उत्कर्षापकर्षयोभदनियतत्वात् । नह्यवस्थादिभेदकं विना किंचिदपि वस्तु स्वापेक्षया स्वयमधिकं न्यूनं वा भवितुं प्रभवति । एकविषय उत्तरोत्तरोत्कर्षों यथा'जम्बीरश्रियमतिलङ्घय लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ । नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते खलु कनकाचलेन सार्धम् ।।'
अत्र पूर्वपूर्वावस्थाविशिष्टाभ्यां कुचाभ्यामुत्तरोत्तरावस्थाविशिष्टयोस्तयोरेवोत्कर्ष इत्येकविषयत्वम् । यद्यपि परिमाणभेदेन द्रव्यभेदोऽपि मतविशेषे शक्यते वक्तुम, तथापि कुचत्वेनाभेदाश्रयणेन तत्राप्येकविषयत्वं सूपपादम् । यदि च वक्ष्यमाण एकाश्रये क्रमेणानेकाधेयस्थितिरूपः पर्यायोऽत्र प्रतीयते तदा सोऽप्यस्तु । नहि तेन पूर्वपूर्वापेक्षयोत्तरोत्तरोत्कघरूपः सारोऽन्यथासिद्धः शक्यः कर्तुम् । अनेकविषयः स एव यथा'गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् । ।
जगदण्डादपि गुरवः प्रलयेऽप्यचला महात्मानः ॥' वेदेऽप्ययमलंकारो दृश्यते
'महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥' पूर्व तु गुणकृत उत्कर्षः, इह तु स्वरूपमात्रकृत इति विशेषः । न चात्र गुणकृत उत्कर्षों वाच्यः । पुरुषस्य निर्गुणत्वेनाभ्युपगमात् । न च तत्रापि विनाशरहितत्वादिर्गम्यमानो गुण उत्कर्षक इति वाच्यम् । तस्य
प्राग्वदाह-अथेति । तत्रापि पुरुषेऽपि॥इति रसगङ्गाधरममप्रकाशे सारप्रकरणम् ।।
५९
For Private And Personal Use Only
Page #482
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४६६
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
---
तादृशाधिकरणभिन्नत्वे मानाभावात् । अनयैव दिशापकर्षोऽप्युदाहार्यः । इदं तु बोध्यम् — एकविषये शृङ्खलाया अचारुत्वात्तदनुप्राणितः सारो न चारुतां धत्ते । तस्याः स्वाभाविकभेदापेक्षित्वेनावस्थादिकृतभेदेऽनुल्लासात् । अत एवास्मिन्विषये वर्धमानकालंकारोऽन्यैरङ्गीकृतः । तल्लक्षणं च 'रूपधर्माभ्यामाधिक्ये वर्धमानकम्' इति कृतम् । तस्मात्कारणमालादिर्यथा शृङ्खलैकविषयः, न तथा सारः शक्यो वक्तुम् । एकविषयेऽलंकारान्तराभ्युपगमप्रसङ्गात् । 'गुणस्वरूपाभ्यां पूर्वपूर्ववैशिष्ट्ये सारः' इति तु लक्षणं सारस्य युक्तम् । स च क्वचिच्छृङ्खलानुप्राणितः क्वचित्स्वतन्त्र इत्यनेकविषयत्वमेकविषयत्वं च सुस्थम् । एवं शृङ्खलाविषयाणामलंकाराणां विच्छित्तिवैलक्षण्यस्यानुभवसिद्धत्वात्ष्टथगलंकारत्वे सिद्धे शृङ्खलाया विरोधाभेदसाधर्म्यादिवदनुप्राणकतैवोचिता, न पृथगलंकारता । तथात्वे भेदादीनामपि पृथगलंकारतापत्तेः । पूर्णालुप्तादौ तु न विच्छित्तिवैलक्षण्यम्, अपि तूपमाविच्छित्तिरेवेति संप्रदायः । ननु केयं विच्छित्तिः । उच्यतेअलंकाराणां परस्परविच्छेदस्य वैलक्षण्यस्य हेतुभूता जन्यतासंसर्गेण काव्यनिष्ठा कविप्रतिभा, तज्जन्यत्वप्रयुक्ता चमत्कारिता वा विच्छितिः । इति रसगङ्गाघरे सारप्रकरणम् ।
For Private And Personal Use Only
Overthe
अथ काव्यलिङ्गम् -
अनुमितिकरणत्वेन सामान्यविशेषभावाभ्यां चानालिङ्गितः प्रकृतार्थोपपादकत्वेन विवक्षितोऽर्थः काव्यलिङ्गम् ।
उपपादकत्वं च तन्निश्चयजनकज्ञानविषयत्वम् । अनुमानार्थान्तरन्यासयोर्वारणायानालिङ्गितान्तम् । उपमादिवारणायोपपादकत्वेनेत्यन्तम् । पचम्यादिशब्दप्रतिपादितहेतुत्वकस्य हेतोरेव वारणायोपपादकत्वेन विवक्षित इति । न तु शब्दात्तेन रूपेण बोधित इत्येतदर्थफलकम् । तेन 'भयानकत्वात्परिवर्जनीयो दयाश्रयत्वादसि देव सेव्यः' इत्यादौ नायमलंकारः । गम्यमानहेतुत्वकस्यैव हेतोः सुन्दरत्वेनालंकारिकैः काव्यलिङ्गताभ्युपगमात् । तच्च सुबन्ततिङन्तार्थत्वाभ्यां तावद्विविधम् । आद्यमपि प्राग्वदाह - अथेति । तच्च काव्यलिङ्गम् । अत्रापि अनयोरपि । व्रातं समूहः ।
Page #483
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४६७
शब्दान्तरार्थविशेषितशरीरम्, शुद्धैकसुबन्तार्थरूपं चेति द्वेधा । अत्राप्याद्यं साक्षात्परम्परया वा वाक्यार्थविशेषितम् सुबन्तार्थमात्रविशेषितं चेति द्विभेदम् । तिङन्तार्थभूतमपि साक्षात्परम्परया वा वाक्यान्तरार्थविशेषितम्, सुबन्तार्थमात्रविशेषितं चेति द्विप्रकारम् । शुद्धभेदस्तु तिङन्तार्थस्य न संभवति । क्रियायाः कारकविशेषितत्वावश्यंभावात् । शिष्टमग्रे निरूपयिष्यते । उदाहरणम् -
'विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितैरवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः । हरन्ती लोकानामनवरतमेनांसि कियतां
कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ॥'
अत्र ह्यनन्यसाधारणतया प्रतिपादितस्य भगवत्या भागीरथ्या उत्कर्षस्यापाततोऽघटमानस्योपपादनायानवरत सकललोकपापहरणसमानाधिकरणः श्रमाभावः सुबन्तमात्रार्थविशेषितः सुबन्तार्थो विशेषवपुर्हेतुत्वेनोपात्तः । ' त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः । इमं तं मामम्ब त्वमथ करुणाक्रान्तहृदये पुनाना सर्वेषामघमथनदर्प दलयसि ॥'
अत्र सकलदेवतीर्थदर्पदलनस्य सिद्धये स्वात्मपवित्रीकरणं वा निबद्धम् । तच्च क्षुद्रत्वात्तादृशसिद्ध्यसमर्थ विशेषकान्तरमाकाङ्क्षतीति तीर्थकर्तृकत्रपाकरणम्, कपालिप्रभृतिकर्तृककर्णमुद्रणं चेति वाक्यार्थद्वयं स्वात्मरूपकर्मद्वारा विशेषकमुपात्तम् । तद्विशिष्टं च तादृशपवित्रीकरणं भागीरथ्युपारूढं तादृशकार्योपपादनसमर्थमिति भवति हेतुः । 'पद्मासन प्रमुखनिर्जर चित्तवृत्तिदुष्प्रापदिव्यमहिमन्भवतो गुणौघान् । तुष्टषतो मम नितान्तविशृङ्खलस्य
मन्तुं शिशो शिव न मन्तुमिहासि योग्यः ॥'
For Private And Personal Use Only
Page #484
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
अत्र शिशुत्वं शुद्धकसुबन्तार्थोऽपराधक्षमाकरणे हेतुः । तथा दिव्यमहिमत्वमचिन्त्यमाहात्म्यं सुबन्तार्थविशेषितसुबन्तार्थरूपं ब्रह्मादिचित्तदुप्रापत्वे । एवं तादृशपरमेश्वरगुणकर्मकस्तवो मन्तौ । तादृशस्तवे च विशङ्गलत्वमिति शुद्धसुबन्तार्थोदाहरणे विशिष्टसुबन्तार्थस्याप्युदाहरणम् ।
'तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा
मया सर्वेऽवज्ञापुरपथमनीयन्त विबुधाः । इदानीमौदास्यं यदि भजसि भागीरथि तदा
निराधारो हा रोदिमि कथय केषामिह पुरः ॥' अत्र निराधार इत्यादिनाभिव्यक्ते वक्तृनिष्ठसकलकर्तृकद्वेषे आत्मकर्तृकावज्ञापुरपथनयनरूपः सुबन्तार्थविशेषितस्तिङन्तार्थ उपपादकः ।
'विश्वास्य मधुरवचनैः साधून्ये वश्चयन्ति नम्रतया ।।
तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥' अत्रापि एथिवीविवेकनाशोपपादने तिङन्तार्थस्य धारणस्य सुबन्तार्थविशेषितस्य तस्यैव जनधारणात्मनो वा असामर्थ्यात्साधुवञ्चनरूपपूर्ववाक्यार्थविशेषितं धारणं हेतुः । विशेषणत्वं च कर्मणि विशेषणत्वात्परम्परया बोध्यम् । एते च भेदाः प्राचीनकल्पितपदार्थवाक्यार्थभेदद्वयवच्चातुर्यमात्रेण कल्पिताः, न तु वैचित्र्यविशेषेण । अथानुमानादस्य को विशेषः । ननु व्याप्यत्वपक्षधर्मत्वाभ्यां ज्ञायमानमेवार्थसाधकमनुमानम्, स्वरूपेण ज्ञायमानं प्रकृतार्थोपपादकं काव्यलिङ्गमिति विशेष इति चेत्, न । उपपादकं हि सत्यां युक्तौ । सा तु सति व्यभिचारपक्षावृत्तित्वयोरन्यतरस्यापि ज्ञाने न संभवति । यथा 'विनिन्द्यान्युन्मत्तैः' इत्युदाहृतपद्ये ताहशश्रमाभाव उत्कर्षव्यभिचरितो भागीरथ्यत्तिति ज्ञाने जात्वपि न सवोत्कर्षः सेडुमीष्टे । सेहमीष्टे च सर्वोत्कर्षाव्यभिचरितो भागीरथीवृत्तिश्चेति ज्ञाने । एवं हेतोः सर्वत्राप्युपपाद्याव्यभिचरितज्ञान एवोपपत्तिः । अन्यथा तु इदमेवमनेवं वा स्यादिति संदेह एव । तस्मादुपपत्तिसमर्थनादिविलक्षणशब्दप्रयोगा आलंकारिकाणामनुमितिसरणिमेवाभिनिविशन्ते । न च समर्थना दृढप्रत्ययः, न त्वनुमितिरिति वाच्यम् । स हीन्द्रियसंनिकर्षाभा
For Private And Personal Use Only
Page #485
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४६९
1
वान्न प्रात्यक्षिकः । अनुमितिसामग्र्या बलवत्त्वान्न शाब्दः । अत एव न मानसोऽपीति सत्यं काव्यलिङ्गं प्रकृतार्थोपपादकम् । उपपत्तिश्चानुमितिरेव । व्यभिचारित्वेऽपि हेतोस्तदानीं व्यभिचारास्फूर्तेः । तथापि नानुमानालंकारस्यात्र विषयः । श्रोतुर्यलिङ्गकानुमितिबुबोधयिषया कविः काव्यं निर्मिमीते तङ्गिकमनुमानालंकृतेर्विषयः काव्यव्यापारगोचरीभूतानुमितिकरणमिति निष्कर्षः । काव्यलिङ्गज्ञानजानुमितिस्तु न कविना श्रोतुर्बुबोधयिषिता । अत एवासौ न काव्यव्यापारगोचरः । श्रोतुः केवलं कारणवशाज्जायत इति नास्त्येवात्र जायमानायामप्यनुमितावनुमानालंकृतेर्विषयः । ' तस्मिन्मणिव्रात महान्धकारे' इति वक्ष्यमाणपद्ये तु बुबोवयिषितैवानुमितिरित्यस्त्यनुमानविषयः । अपि च कविनिबद्धप्रमात्रन्तरनिष्ठा ह्यनुमितिरनुमानालंकृति प्रयोजयति । श्रोतृनिष्ठा महावाक्यार्थनिश्रयानुकूला तु काव्यलिङ्गमिति महान्विशेषः । एवं च काव्यलिङ्गातिप्रसङ्गवारणायानुमानलक्षणप्रविष्टानुमितौ काव्यव्यापारगोचरत्वं विशेषणं देयम् । यत्तु 'समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थकम्' इति कुवलयानन्दकारो लक्षणमकार्षीत्तदपि सामान्यविशेषभावानालिङ्गितत्वविशेषणरहितं चेदर्थान्तरन्यासे स्यादेवातिप्रसक्तम् । यदपि, "यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरं
मेवैरन्तरितः प्रिये तव मुखच्छायानुकारः शशी । येsपि त्वगमनानुकारिगतयस्ते राजहंसा गता - स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥' 'मृग्यच दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥ ' पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूप चतुर्थपादार्थ हेतुः । उत्तरत्र तु संबोधने व्यापारयन्त्य इति मृगीविशेषणत्वेनानेकपदार्थों हेतुरुक्तः" इत्यमात्रमवधारणे । उपसंहरति - एवं चेति । अन्विति । यत इत्यादिः । न्यासे स्यादेवातिप्रसक्तमिति । प्राचीनमते समर्थनीयेत्यनेनैव वारणात् । मतान्तरे तु सामान्यविशेषभावानालिङ्गितत्वं विशेषणं देयमित्यर्थान्तरन्यासप्रकरणे तद्रन्थ एवं स्फुटम्
For Private And Personal Use Only
Page #486
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७०
काव्यमाला ।
लंकारसर्वस्वकतोक्तम्, अनुमोदितं च कुवलयानन्दकृता । तदुभयमसत् । अनुमानार्थान्तरन्यासविषये हेत्वलंकारो नेति तावत्सर्वसंमतम् । अन्यथा तयोरुच्छेदापत्तेः । अयं चानुमानस्यैव विषयः । चतुर्थचरणे दैवरूपे पक्षे नायिकाङ्गसादृश्यदर्शनजन्यसुखासहिष्णुत्वरूपसाध्यस्य चरणत्रयवेद्येन तत्तदङ्गसादृश्याधारविघटकत्वेन हेतुना सिद्धेः स्फुटत्वात् । दैवं नायिकाङ्गसादृश्यदर्शनजन्यमनिष्टसुखासहिष्णु । तत्तन्नायिकाङ्गसादृश्याधारविघटकत्वात् । मदीयशत्रुभूतयज्ञदत्तादिवदिति च प्रयोगः । मृग्यश्चेति द्वितीयपद्ये यद्यपि संबोधने वक्तृनिष्ठे मृगीनेत्रव्यापारो ज्ञायमान उत्पादकः, तथा नासावुत्पादकता अनुमितिकरणताया अतिशेत इत्यनुमानालंकार एव युक्तः । इयांस्तु विशेषः-यत्पूर्वपद्येऽनुमितिर्गम्या, इह पुनर्बुध्यते वाच्या । मृग्यो दक्षिणानिलसंपर्कवत्यः, दक्षिणाभिमुखविलक्षणनेत्रव्यापारवत्वादिति च प्रयोगः । वैलक्षण्यं चोत्पक्ष्मेत्यादिनोक्तं बोध्यम् । अत्र वदन्ति-काव्यलिङ्गं नालंकारः । वैचित्र्यात्मनो विच्छित्तिविशेषस्याभावात् । स हि जन्यतासंसर्गेण कविप्रतिभाविशेषः, तनिर्मितत्वप्रयुक्तश्चमल्कृतिविशेषो वेत्युक्तम् । न चानयोरन्यतरस्याप्यत्र संभवः । हेतुहेतुमद्भावस्य वस्तुसिद्धत्वेन कविप्रतिभानिर्वय॑त्वायोगात् । अत एव चमत्कृतिरपि दुर्लभा । श्लेषादिसंमिश्रणेन विच्छित्तिविशेषोऽत्राप्यस्तीति तु न वाच्यम् । तस्य श्लेषाद्यंशप्रयोज्यत्वेन काव्यलिङ्गस्यालंकारतायास्तथाप्यसिद्धेः । यत्र तूपस्कारकवचित्र्याद्विलक्षणं तदुपस्कार्यवैचित्र्यं तत्रास्तु नामोपस्कारकादुपस्कार्यस्य पृथगलंकारत्वम् । यथातिशयोक्तेहेतुफलोत्प्रेक्षयोः । यत्र तूपस्कारकवैचित्र्य एव विश्रान्तिस्तत्रोपस्कार्यमनलंकार एव । यथा प्रकृते । एवं तर्हि बहूनामलंकारत्वेन प्राचीनैरूरीकतानामनलंकारतापत्तिरिति चेत्, अस्तु । किं नश्छिन्नम् । तस्मात् 'निहतुरूपदोषाभावः काव्यलिङ्गम्' इत्यपि वदन्ति ।
इति रसगङ्गाधरे काव्यलिङ्गप्रकरणम् । इह पुनर्बुध्यते वाच्येति । अत्रेदं चिन्त्यम् ---एवं हि काव्यलिङ्गमात्रे गम्यानुमा. नस्य सत्त्वेन तदुच्छेदापत्तेः । तस्मादनुमितेर्बोधने गम्यत्वे चेदमिति व्यवस्थाश्रयणान
For Private And Personal Use Only
Page #487
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
अथार्थान्तरन्यासःसामान्येन विशेषस्य विशेषेण सामान्यस्य वा यत्समर्थनं तदर्थान्तरन्यासः। ___ समर्थनं चेदमेवमनेवं वा स्यादिति संशयस्य प्रतिबन्धक इदमित्थ मेवेति दृढप्रत्ययः । निश्चय इति यावत् । तत्र प्रकृतयोः सामान्यविशेषयोः समर्थ्यत्वम्, अप्रकृतयोर्विशेषसामान्ययोः समर्थकत्वं प्रायशो दृश्यते । तच्च तावत्साधर्म्यवैधाभ्यां द्विविधम् । उदाहरणम्
'करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः ।।
कथमालि शृणोषि सादरं विपरीतग्रहणा हि योषितः ॥' अत्र संबोध्यकर्तृकस्य तदीयकुचवृत्तिकरिकुम्भतुलासादरश्रवणस्यानौचित्यं प्रतिपाद्यते । तच्च तस्यानिष्टसाधनत्वे संगच्छते । अनिष्टसाधनत्वमपि तादृशश्रवणमित्रसाधनमिति बुद्ध्या श्रवणं कुर्वाणायाः कान्ताया भ्रान्तात्वं विना दुरुपपादमिति स्त्रीत्वेन भ्रान्तात्वं प्रतिपाद्यते । तच्च संबोध्यस्त्रीविशेषभ्रान्तत्वरूपस्य विशेषस्य सामान्यं समर्थकं च । __'उपकारमेव कुरुते विपद्गतः सद्गुणो नितराम् ।।
मूर्छा गतो मृतो वा रोगानपहरति पारदः सकलान् ॥' अत्र विपद्गतसद्गुणकर्तृकोपकारस्य सामान्यस्य प्रकृतस्य मूच्छितमृतपारदकर्तृकं रोगापहरणं विशेषः, उदाहरणतया समर्थकं च । पारदवृत्तान्ते प्रकृते तु पूर्वार्धोत्तरार्धयोर्व्यत्यासे कृते सामान्यस्य विशेषसमर्थकताप्यत्रैव संभवति । तथा
'अहन्नेको रणे रामो यातुधानाननेकशः ।
असहाया महात्मानो यान्ति कांचन वीरताम् ॥' अत्र विशेषस्य सामान्यं समर्थकम् । वैपरीत्ये तु सामान्यस्य विशेषः। 'असहाया-' इत्याद्युत्तरार्धमपास्य 'नूनं सहायसंपत्तिमपेक्षन्ते बलोज्झिताः' इतिकृते विशेषो वैधम्र्येण सामान्यस्य । अर्धवैपरीत्ये दुर्बलवृत्तान्ते प्रदोषः । अत्र मग्नं अन्तरितः गता इति क्रिया अन्तर्भावितण्यर्थाः । तादृशक्रियाकर्मीभूतेन्दीवरादयो दैवनिष्ठत्वात्तत्सादृश्यदर्शनजन्यसुखासहिष्णुत्वोपपादकाः । मजितत्वाद्युपपादकानि त्वनेत्रसमानकान्तीत्यादिकानीति बोध्यम् ॥ इति रसगङ्गाधरमर्मप्रकाशे काव्यलिङ्गप्रकरणम् ॥
For Private And Personal Use Only
Page #488
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७२
काव्यमाला।
कृते तु वैपरीत्यम् । अस्मिन्नलंकारे समर्थ्यसमर्थकभाव आर्थः शाब्दश्चालंकारताप्रयोजकः । न तु काव्यलिङ्गे हेतुहेतुमद्भाव इवार्थ एव । हि यत् यतः इत्यादेः प्रतिपादकस्याभावे आर्थः । स तु कथितः 'मूर्छा गतो मृतो वा' इत्यत्र । तत्सत्त्वे शाब्दः । सोऽपि 'विपरीतग्रहणा हि' इत्यत्र । यथा वा
भवत्या हि व्रात्याधमपतितपाषण्डपरिष
त्परित्राणस्नेहः श्लथयितुमशक्यः खलु यथा । ममाप्येवं प्रेमा दुरितनिवहेवम्ब जगति
___ स्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः ॥' अत्र भगवत्या भागीरथ्याः स्तोतुश्च वृत्तान्तयोर्विशेषयोः समर्थकस्य चतुर्थचरणप्रतिपाद्यस्य सामान्यस्य समर्थकता यत इत्यनेनोच्यते । ननु सामान्यार्थों विशेषार्थसमर्थक इत्यस्य सामान्यव्याप्तिज्ञानं विशेषानुमितिप्रयोजकमित्येवार्थः पर्यवस्यति । अन्यथा स्वभावादेर्दुष्परिहरत्वादिव्यभिचारज्ञानदशायां तादृशार्थस्य समर्थकत्वापत्तेः । प्रतीतिविशदीकरणं समर्थकेन क्रियते, नानुमानमिति प्राचीनप्रवादस्त्वविचारितरमणीय इति नायं भेदोऽनुमानादतिशेते । अतिशेते च विशेषार्थेन सामान्यार्थसमर्थनरूपोऽधिकरणविशेषारूढसहचरज्ञानाहितव्याप्तिज्ञानदाात्मेति चेत्, कविः शृणोति । न चैवमपि विशेषस्य सामान्यसमर्थनं नार्थान्तरन्यासभेदो भवितुमीष्टे । प्रागुक्तोदाहरणालंकारेणैव गतार्थत्वादिति वाच्यम् । इवादिप्रयोगाभावस्यैवात्र ततो लक्षण्यात् । एवमपि वाचकाभावादार्थोऽयमुदाहरणालंकारोऽस्तु, न त्वर्थान्तरन्यासभेद इति चेत्, इदमस्ति वैलक्षण्यम्-सामान्यार्थसमर्थकस्य विशेषवाक्यार्थस्य द्वयी गतिः । अनुवाद्यांशमात्रे विशेपत्वम्, विधेयांशस्तु सामान्यगत एवेत्येका । अनुवाद्यविधेयोभयांशेऽपि विशेषत्वमित्यपरा । तत्राद्या उदाहरणालंकारस्य विषयः, द्वितीया त्वर्था-. न्तरन्यासभेदस्य । एवं च 'मूछी गतो मृतो वा निदर्शनं पारदोऽत्र रसः' इत्युदाहरणालंकारगते विशेष उपकारमेव कुरुत इति प्राचीनसामान्यार्थगतैव यथोक्तरूपेण क्रिया विधेया । 'रोगानपहरति पारदः सकलान्' इत्यर्थान्तरन्यासगते तु पृथगुपात्तविशेषरूपेणेति । लक्षणे त्वस्य विशेषणे
For Private And Personal Use Only
Page #489
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४७३ त्यत्रोभयांशविशेषो ग्राह्यः । तेनोदाहरणालंकृती नातिप्रसङ्गः । यदि चायमल्पो विशेषो नास्योदाहरणालंकारात्प्टथगलंकारतां साधयितुं प्रभवति, अपि तु तद्विशेषतामित्युच्यते, तदा उदाहरणालंकारोऽर्थान्तरन्यासस्य, दृष्टान्तस्य प्रतिवस्तूपमा, रूपकस्यातिशयोक्तिश्च विशेषः, उपमैव चार्थी स्मरणभ्रान्तिमत्संदेहा इत्यपि सुवचं स्यात् । तत्रापि विशेषस्याल्पत्वात् । किं चोदाहरणालंकारो न प्राचां मनःसंतोषमावहति । उपमयैव तैस्तस्य निरासात् । अतस्तेषां विशेषेण सामान्यस्य समर्थनमर्थान्तरन्यासं विनान्यत्र प्रवेष्टुमीष्ट इति । अत्र हि प्रतिज्ञाहेत्ववयवयोरिवाकाङ्क्षाक्रमप्राप्त समर्थ्यसमर्थकवाक्ययोः पौर्वापर्यमिति न मन्तव्यम् । नात्र समर्थकं समानुपपत्त्युत्थापितायामाकाङ्कायां सत्यामेवाभिधीयत इत्यस्ति नियमः । अनुपपत्तेरभावेऽपि प्रतीतिवैशद्यार्थ कविभिस्तस्याभिधानात् । एवं च वैपरीत्येऽपि न दोषः । यथा'दीनानामथ परिहाय शुष्कसस्यान्यौदार्य वहति पयोधरो हिमाद्रौ ।
औन्नत्यं विपुलमवाप्य दुर्मदानां ज्ञातोऽयं क्षितिप भवादशां विवेकः ॥' __ अत्र दानेनासंभावितस्य विदुषो राजानं प्रति कोपवचने पूर्वार्धगतो विशेष उत्तरार्धगतो मामान्ये प्रस्तुते समर्थकः । एवमप्रकृतैः प्रकृतस्य समर्थनमुदाहृतम् । प्रकृतेन प्रकृतसमर्थनं यथा--
'कस्तृप्येन्मार्मिकस्तन्वि रमणीयेषु वस्तुषु ।
हित्वान्तिकं सरोजिन्याः पश्य याति न पट्पदः ॥' जलक्रीडायां दूरं गच्छेति वदन्तीं कामिनी प्रति नायकस्योक्तिरियम् । अस्यां वृत्तान्तद्वयमपि प्रकृतम् । क्वचित्प्रकृतेनाप्रकृतस्य समर्थन संभवति । परंतु तदप्रकृतं प्रान्ते प्रकृतपर्यवसन्नं भवति । आपाततस्तु तस्याप्रकृतत्वम् । सर्वथैवाप्रकृतस्य समर्थनाप्रसक्तेः । यथा
'प्रभुरपि याचितुकामो भजेत वामोरु लाघवं सहसा ।
यदहं त्वयाधरार्थी सपदि विमुख्या निराशतां नीतः ॥' प्राग्वदाह-अथेति । कविः शृणोतीति । कविनिबद्ध प्रमात्रन्तरनिष्टा ह्यनु. मितिरनुमानालंकारस्य विषय इत्यादिना कायलिङ्गालंकारे दत्तोत्तरत्वादिति भावः ।
For Private And Personal Use Only
Page #490
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४७४
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
अत्र कामुकयोः प्रक्रान्तेन वृत्तान्तेन विशेषेण दातृयाचकवृत्तान्तोप्रस्तुतः सामान्यात्मा समर्थ्यते ।
यत्तु ' कारणेन कार्यस्य कार्येण वा कारणस्य समर्थनम्' इत्यपि भेदद्वयमर्थान्तरन्यासस्यालंकार सर्वस्वकारो न्यरूपयत्, तन्न । तस्य काव्यलिङ्गविषयत्वात् । अन्यथा ' वपुः प्रादुर्भावात् -' इति सकलालंकारिकसिद्धं काव्यलिङ्गोदाहरणमसंगतं स्यात् । अपरार्धे वाक्यार्थद्वयस्य कारणत्वेनार्थान्तरन्यासोदाहरणतापत्तेः । यदपि विमर्शिनीकार आह— “विशेषेणापि सामान्यसमर्थने यत्र सामान्यवाक्यार्थस्योपपादनापेक्षत्वं तत्रार्थान्तरन्यासः । यत्र पुनः स्वतःसिद्धस्यैव विशदीकरणार्थं तदेकदेशभूतो विशेष उपादीयते तत्रोदाहरणालंकारः । यथा 'निमज्जतीन्दोः किरणेष्विवाङ्कः' इत्यत्र " इति । तदपि न ।
'निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ॥' इति प्राचीनसंमतोदाहरणे सामान्यवाक्यार्थस्यासंदिग्धत्वेनोपपादनानपेक्षत्वात् । नहि दोषेण भ्रमो भवतीत्यर्थे पामरस्याप्यस्ति संशयः, येनोपपादनापेक्षा स्यात् । अस्त्येव तर्कस्थल इवाहार्योऽत्रापि संशय इति चेत्, त्वदुक्तोदाहरणालंकारेऽपि तस्य साम्राज्यात् । तस्मादस्मदुक्तव व्यवस्थानुसर्तव्या ।
कुवलयानन्दकारस्तु - " यस्मिन्विशेषसामान्यविशेषाः स विकस्वरः', ‘अनन्तरत्नप्रभवस्य -' इत्यादि ।
'कर्णारुंतुदमन्तरेण रणितं गाहस्व काक स्वयं
माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम् |
धन्यानि स्थल सौष्ठवेन कतिचिद्वस्तुनि कस्तूरिकां नेपालक्षितिपालभालतिलके पङ्के न शङ्केत कः ॥ ' पूर्वमुपमारीत्या इह त्वर्थान्तरन्यासरीत्या विकस्वरालंकारः" इत्याह । तदपि तुच्छम् । 'उपकारमेव कुरुते' इत्युदाहरणालंकारोक्तास्मदुदाहरणे प्राथमिकविशेषस्याभावाच्वदुक्तो विकस्वरालंकारो न संभवतीति कश्चिद
For Private And Personal Use Only
Page #491
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
लंकारस्त्वयापि वाच्यः । एवं चार्थान्तरन्यासस्य तस्य चार्थान्तरन्यासप्रभेदयोश्च संसृष्टचैवोदाहरणानां त्वदुक्तानां गतार्थत्वे नवीनालंकाररवीकारानौचित्यात् । अन्यथोपमादिप्रभेदानामनुग्राह्यानुग्राहकतया संनिवेशेऽलंकारान्तरकल्पनापत्तेः । 'वीक्ष्य रामं घनश्यामं ननृतु: शिखिनो वने' इत्यत्राप्युपमापोषितायां भ्रान्तावलंकारान्तरत्वप्रसङ्गाच्च ।
इति रसगङ्गाधरेऽथान्तरन्यासप्रकरणम् । अथानुमानालंकार:अनुमितिकरणमनुमानम् ।
अनुमितिश्चानुमितित्ववती । अनुमितित्वं चानुमिनोमीति मानससाक्षात्कारसाक्षिको जातिविशेषः । व्याप्तिप्रकारकपक्षधर्मतानिश्चयजन्यज्ञानं वानुमितिः । तस्याश्च करणं व्याप्तिप्रकारकलिङ्गनिश्चय इत्येके । व्याप्यत्वेन निश्चीयमानं लिङ्गमित्यपरे । इदं च साधारणमनुमानम् । अस्य च कविप्रतिभोल्लिखितत्वेन चमत्कारित्वे काव्यालंकारता । यथा'तस्मिन्मणिव्रातहतान्धकारे पुरे निशालोपविधानदक्षे । सद्यो वियुक्ता दिवसावसानं कोकाः सशोकाः कथयन्ति नित्यम् ॥'
अत्र कथनं स्फुटबोधः । स चानुमित्यात्मकः कोकवियोगरूपस्य लिङ्गस्य व्याप्यत्वेन निश्चयात्करणादुत्पद्यते । तत्र चान्धकारविशेषाभावस्य तत्सामान्यभावत्वेनाध्यवसाने सति निशालोपविधानदक्षतासिद्धौ दिवसावसानसिद्ध्यभावप्रयुक्ता दिवसावसानानुमितिरित्यस्ति कविप्रतिभोल्लिखितत्वम् । वक्ष्यमाणमुन्मीलितमिति न मन्तव्यम् । तस्याप्यनुमानताया एव स्थापयिष्यमाणत्वात् । यथा वा'अम्लायन्यदरातिकैरवकुलान्यग्लासिषुः सत्वरं
दैन्यध्वान्तकदम्बकानि परितो नेशुस्तमां तामसाः । सन्मार्गाः प्रसरन्ति साधुनलिनान्युल्लासमातन्वते
तन्मन्ये भवतः प्रतापतपनो देव प्रभातोन्मुखः ।।' प्रभेदयाश्च संसृष्टयैवेति । शृङ्खलकृतचमत्कारस्याधिकस्य सत्त्वाच्चिन्त्यमिदम् ।। ति रसगङ्गाधरमर्मप्रकाशेऽर्थान्तरन्यासप्रकरणम् ॥ प्राग्वदाह-अथेति । विनिगमनाविरहादाह-व्याप्तीति । साधारणं तन्त्रान्त
For Private And Personal Use Only
Page #492
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७६
काव्यमाला ।
पूर्वत्वालिङ्गलिङ्गिनोः शुद्धत्वम्, इह तु रूपकानुप्राणितत्वमिति विशेषः। कविप्रतिभोल्लिखितत्वं पुनः स्फुटमेव । इह यत्र लिङ्गलिङ्गिनोः सत्त्वं तत्र मन्ये शङ्के अवमि जाने इत्यादिपदानामनुमितिबोधकत्वम्, यत्र तु साहश्यादिनिमित्तसद्भावस्तत्रोत्प्रेक्षाबोधकतेति विवेकः । तेन
मन्मथामात्यमायान्तमहं मन्ये महामहम् ।
चक्षुश्चमत्कृति धत्ते यदहो किल कोकिलः ॥' इत्यादावनुमैव, नोत्प्रेक्षा ।
अत्रेदं बोध्यम्-मन्ये इत्यादिवाचकपदोपादाने वाच्यमनुमानम् । यथानन्तरोक्ते । वक्तिकथयतीत्यादिलक्षकपदोपादाने लक्ष्यम् । यथा 'कोकाः सशोकाः' इत्यादौ । तदन्यतरानुपादाने साध्याक्षिप्तायामनुमितौ प्रतीयमानम् । यथा 'अम्लायन्-' इति पद्ये 'तहावी तव देव संप्रति महोमार्तण्डविम्बोदयः' इति चतुर्थचरणनिर्माणे । साध्यस्याप्यनुपादाने लिङ्गमात्रोपादानेन यत्रागूर्यमाणं साध्यं तत्र ध्वन्यमानम् । यथा
'गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम् ।
आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥' अत्र शरदागमस्य साध्यस्यानुमानं ध्वन्यते । एवमेषा व्यवस्था न प्रागुक्ते करणमनुमानमिति नये संगच्छते । करणस्य ज्ञायमानलिङ्गत्वपक्षे वाच्यतायाः केवलाया आपत्तेः । लिङ्गज्ञानत्वपक्षे वाच्यत्वलक्ष्यत्वयोरनापत्तेः । अतोऽनुमितिरेवानुमानम् । तस्याश्च वाच्यत्वलक्ष्यत्वप्रतीयमानत्वध्वन्यमानत्वानां साम्राज्यम् । ल्युटश्च करण इव भावेऽपीति ।
इति रसगङ्गाधरेऽनुमानप्रकरणम् ।
अथ यथासंख्यम्-- उपदेशक्रमेणार्थानां संवन्धो यथासंख्यम् ।
पदार्थानतिरत्तिरूपे यथार्थेऽव्ययीभावः । संख्याया अनतिवृत्तिश्च रादिसाधारणम् । शङ्कते-वक्ष्यति । इह अनुमानालंकारे । पुनस्त्वर्थे । उभयति भावः । भावेऽपीति । विधिरिति शेषः ।। इति रसगङ्गाधरमर्मप्रकाशेऽनुमानप्रकरणम् ।।
For Private And Personal Use Only
Page #493
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
प्रथमस्य प्रथमेनैव द्वितीयस्य द्वितीयेनैवेत्यादि क्रमेण संबन्धे भवतीति
योगार्थ एव लक्षणम् । यथा
'यौवनोद्गमनितान्तशङ्किता शीलशौर्यबलकान्तिलोभिताः ।
संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥'
अत्र यौवनोद्गमनितान्तशङ्किताः संकुचन्ति, शौर्यबलकान्तिलोभिता विकसन्तीति प्रथमद्वितीयक्रिययोः क्रमेण प्रथमद्वितीयविशेषणावच्छिन्नेन कर्त्रान्वयः । स च शाब्दः । समासाभावेन शब्दानामप्यन्वयात् । भावसंधिवात्र प्रधानम् । यथा वा
'द्रुमपङ्कजविद्वांसः सर्वसंतोषपोपकाः । मुधैव हन्त हन्यन्ते कुठारहिमदुर्जनैः ||' इह दीपकानुप्राणकम् । यथा वा'वृन्दापितृगहनचरौ कुसुमायुधजननहननशक्तिधरौ । अरिशूललाञ्छितकरौ भीति में हरिहरौ हरताम् ॥'
४७७
इहोभयत्रार्थः । पूर्वं समासेन समासान्वयेऽवयवानामन्वयस्य पार्थिकत्वात् । इत्यादिरपरिमितोऽस्य विषयः । अथ क्रमेणान्वयबोधे किं नियामकम् । अत्र केचित् — “योग्यता ज्ञानमेव नियामकम् । तथाहि 'वृन्दापितृगहनचरौ' इत्यत्र हरौ श्मशानचारित्वस्य हरे वृन्दावनचारित्वस्य
For Private And Personal Use Only
-
बाधितत्वादन्वयबोधाभावे हरौ नृन्दावनचारित्वस्य हरे श्मशानचारित्वस्य च योग्यत्वादन्वयबोधो जायमानः क्रमिकान्वयबोधः पर्यवस्यति । एवमन्यत्रापि” इत्याहुः । अन्ये तु – “योग्यताज्ञानस्य नियामकत्वे क्रमभङ्गस्य दोषता न स्यात् । 'कीर्तिप्रतापौ भातस्ते सूर्यचन्द्रमसाविव' इत्यादौ कीर्तौ चन्द्रसादृश्यस्य प्रतापे सूर्यसादृश्यस्य च व्युत्क्रमोक्तस्यापि योग्यतावशादेव प्रतीत्युपपत्तेः । नहि क्रमिकमेव योग्यम्, अपक्रममयोग्यम्, येन तव मुख्यार्थहतिः स्यात् । भवति चानुभवसिद्धा सा । त
प्राग्वदाह - अथेति । संबन्धे सतीति शेषः । पूर्वतो विशेषमाह - इहेति । वृन्दा तदाख्यं वनम् । पितृगहनं श्मशानम् । अरिः सुदर्शनः । आर्थविषये शङ्कते - अथेति ।
Page #494
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७८
काव्यमाला ।
स्मादन्वयिसमसंख्यपदार्थज्ञानस्य यथासंख्यान्वयवोधत्वं कार्यतावच्छेदकं वाच्यम् । एवं च 'कीर्तिप्रतापौ' इत्यत्र च यथाश्रुतानां यथासंख्यान्वयबोधो बाधनिश्चयपराहत इति मुख्यार्थहतिसद्भावात्क्रमभङ्गस्य दोषत्वसाम्राज्यम् । नन्वन्वयिसमसंख्यपदार्थानां यदि यथासंख्यान्वयबोधो व्युत्पत्तिसिद्धस्तदा 'यथासंख्यमनुदेशः समानाम्' इति सूत्रं व्यर्थं स्यात् । तदुदाहरणेषु 'लोमादिपामादिपिच्छादिभ्यः शनेलचः' इत्यादिषु लौकिकसामग्रीवलादेव यथासंख्यान्वयबोधोपपत्तेोग्यतामात्रबलात् । तथा बोघोपपादकमते तु शास्त्रमात्रचक्षुप्कैः प्रकृतिविशेषप्रत्ययविशेषसंवन्धरूपाया योग्यताया अज्ञानात्तेषां यथासंख्यान्वयबोधार्थ 'यथासंख्यं' इति सूत्रम् इति चेत्, न । ममापि प्रागुक्तव्युत्पत्तिरहितानां तादशवोधार्थ सूत्रसार्थक्यात्" इत्याहुः । इदं तु बोध्यम्-यथासंख्यान्वयबोधो यथातथास्तु नाम । नात्रागृह्णीमः । यथासंख्यमलंकारपदवीमेव तावत्कथमारोहूं प्रभवतीति तु विचारणीयम् । नास्मिल्लोकसिद्ध कविप्रतिभानिर्मितत्वस्यालंकारताजीवातोलेशतोऽप्युपलब्धिरस्ति । येनालंकारव्यपदेशो मनागपि स्थाने स्यात् । अतोऽपक्रमत्वरूपदोपाभाव एव यथासंख्यम् । एवं चोटमतानुयायिनामुक्तयः कूटकार्षापणवदरमणीया एव । एतेन यथासंख्यमेव क्रमालंकारसंज्ञया व्यवहरतो वामनस्यापि गिरो व्याख्याताः इति तु नव्याः ।
इति रसगङ्गाधरे यथासंख्यप्रकरणम् ।
अथ पर्यायःक्रमेणानेकाधिकरणकमेकमाधेयमेकः पर्यायः । क्रमेणानेकाधेयकमेकमधिकरणमपरः।
स्थाने युक्तः । नव्या इति । वस्तुतस्तु यथासंग्ख्यसूत्रबलात्पाणिनीयप्रयोगे पाष्टिकतयान्वयबोधे द्वन्द्वादेः साधुत्वेऽपि नान्यत्र साधुत्वम् । किं तु समदितान्वयवोधमात्र एवेति तदभिप्रायकास्ते प्रयोगा असाधव एव । अलंकारस्तु द्वितीयरीत्या व्यस्ते चरितार्थ इति बोध्यम् ॥ इति रसगङ्गाधरमर्मप्रकाशे यथासंख्यप्रकरणम् ।।
For Private And Personal Use Only
Page #495
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४७९ एतदन्यान्यत्वं च सामान्यलक्षणम् । न तु योगार्थमात्रम् । अतिप्रसक्तेः । 'परावनुपात्यय इणः' इति पाणिनिस्मृत्या अनुपात्ययमात्रस्य घअपाधित्वेनोक्तेः । नाप्यन्यत् । अन्यतरत्वाघटितस्य निर्वक्तुमशक्यत्वात् । अत्राद्यलक्षणे प्रागुक्तविशेषालंकारद्वितीयभेदेऽतिप्रसङ्गवारणाय क्रमेणेति । तत्र चाधेयस्य युगपदनकाधारसंबन्धान्नातिप्रसङ्गः । द्वितीयलक्षणे वक्ष्यमाणसमुच्चयालंकारातिव्याप्तिवारणाय तदिति विवेकः । उदाहरणम्
'आयाता कमलासनस्य भवनाद्रष्टुं त्रिलोकीतलं __ गीर्वाणेपु दिनानि कानिचिदथो नीत्वा पुनः कौतुकात् । भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे
राजन्संप्रति सत्यधामनि गिरां देवी सुखं वर्तते ॥' अत्र प्रथमचरणगतमधिकरणमार्थम् । विश्लेषावधिपञ्चम्यां विश्लेषस्योपश्लेषमन्तरेणासिद्ध्या औपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात् । कमलासनस्य भवने स्थित्वा आयातेति ल्यब्लोपपञ्चम्यामपि ल्यबन्तार्थक्रियाधिकरणे पञ्चम्या लाक्षणिकत्वादवाच्यतैव । 'ल्यब्लोपे कर्मण्यधिकरणे च' इति वार्तिकस्य निरूढलक्षणासमर्पकतेति राद्वान्तात् । इतरचरणत्रयगतं तु शाब्दम् । यथा वा
'मकरालयस्य कुक्षौ स्थित्वा सदनेऽमृताशिनां च चिरम् ।
संप्रति निर्दोषे ते राजन्वदनाम्बुजे सुधा वसति ॥' पूर्वमवरोहः इह त्वारोहः पूर्वपूर्वत्यागेऽरुचिबीजोपादानं चेति विशेषः । अपरः पर्यायो यथा
'विदूरादाश्चर्यस्तिमितमथ किंचित्परिचया
दुदञ्चच्चाञ्चल्यं तदनु परितः स्फारितरुचि । गुरूणां संवाते सपदि माय याते समजनि
पापूर्णत्तारं नयनयुगमिन्दीवरढशः ॥' अत्र क्वचिदनपावृते स्थलविशेषे गुरूशुश्रूपमाणायाश्चिरप्रोषितमसंभावितागमनं प्रियमकस्मादालोकितवत्याः कस्याश्चिन्नयनयुगरूप एकस्मिन्नधिकरणे विशेषणीभूतानां स्तिमितत्वादीनामाधेयानां युगपदसंभवाकारणक्रमवशाच्च ऋमिकत्वम् । यथा वा
For Private And Personal Use Only
Page #496
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
'प्रथमं श्रितकञ्जकोरकाभावथ शोभामनुभूय कन्दुकानाम् ।
अधुना श्रयितुं कुचौ यतेते दयिते ते करिशावकुम्भलीलाम् ॥' अत्रापि कुचत्वेनैकीळते कुचरूपेऽधिकरणे परिमाणविशेषाणाम् । यदि च कुचयोः पूर्वपूर्वस्वरूपापेक्षया उत्तरोत्तरस्वरूपस्योत्कर्षः प्रतीयते तदा एकविषयः सारोऽप्यस्तु, विषयभेदाच्च न बाध्यबाधकभावः । यत्तु--
'बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत ।
अधुना मृगशावाक्षि हृदयेऽप्येष दृश्यते ॥' इति कुवलयानन्दकृता विकासपर्यायो निजगदे तच्चिन्त्यम् । एकसंबन्धनाशोत्तरमपरसंबन्धे सत्येव पर्यायपदस्य लोके प्रयोगात् । 'श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः' इति काव्यप्रकाशोदाहृते, 'प्रागर्णवस्य हृदये-' इत्यादिसर्वस्वकारोदाहृते च तथैव दृष्टत्वाच्च अस्मिन्नलंकारलक्षणेऽपि क्रमपदेन तादृशविवक्षाया औचित्यात् । तस्मादत्रैकविषयः सारालंकार उचितः । यं रत्नाकरादयो वर्धमानकालंकारमामनन्ति । स चायुप्मता नोङ्कित एव । इदं तु बोध्यम्---
'प्रथमं चुम्बितचरणा जवाजानूरुनाभिहृदयानि ।
आश्लिप्य भावना मे खेलतु विष्णोर्मुखान्नशोभायाम् ॥' अत्र न तावत्पर्यायः । उत्तरोत्तरसंबन्धस्य पूर्वपूर्वत्यागपूर्वकत्वाविवक्षणात् । यतोऽत्र मुखविषयकभावनायाः सर्वाङ्गविषयकत्वं वक्तुरभिप्रेतम्, न तु मुखमात्रविषयकत्वम् । अत एव खेलत्वित्युक्तम्, न तु मजत्विति । तथा
'पूर्व नयनयोलमा ततो मग्ना मनस्यभूत् । अथ सैव प्रियस्यासीत्सर्ववेदनगोचरा ॥'
प्राग्वदाह -अथेति । वस्तुती द्वित्वादाह-कुचत्वेनेति । विशेषणानामुक्तरीत्या ऋमिकत्वमिति शेषः । सारालंकार उचित इति । अत्रेदं चिन्त्यम् --भेदप्रतीतो सत्यामेव सार इत्यस्य प्राचीनसंमतत्वेन तदभावात् । अत्र हि रागयोः श्लेषेणाभेदाध्यवसायात् । वर्धमानकरूपालंकारान्तरस्वीकारापेक्षया पर्यायपदार्थस्य साधारण्यमाधित्यानेन संग्रहस्यैवोचितत्वाच्च । अत एव प्रकाशकृतापीदं पद्यं पर्याय उदाहृतम् । इत्य
For Private And Personal Use Only
Page #497
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
इत्यत्रापि । नापि सारः । उत्तरोत्तरस्योत्कर्षापकर्षयोरभावात् । तस्मादेवमादौ शुद्धक्रमालंकारोऽतिरिक्त इत्यप्याहुः । इहान्यदप्यवधेयम्यत्राधाराधेयतत्संबन्धक्रमेषु क्वचिदपि कविकल्पनापेक्षा तत्रैवायमलंकारः। यत्र तु सर्वांशे लोकसिद्धत्वं न तत्र कश्चिदलंकारः । अत एक 'श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम्' इति काव्यप्रकाशलता, 'प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम्' इति सर्वस्वकृता च निदशितम् । अत्रोभयत्राप्याधारभेदाद्भिन्न आधेयः कविना एकताध्यवसानेनैकीकृतः । अस्मद्दत्तोदाहरणेषु तु क्रमोऽपि कल्पितः । नहि ब्रह्मलोकस्थया देवतया पयोधिस्थया सुधया च वाचो वाङ्माधुर्यस्य चाभेदो लोकसिद्धस्तादृशक्रमो वा । एवं स्थिते 'अधुना पुलिनं तत्र यत्र स्रोतः पुराभवत्' इति कुवलयानन्दगतमुदाहरणं 'यत्र पूर्व घटस्तत्राधुना पटः' इति वाक्यवल्लौकिकोक्तिमात्रमित्यनुदाहार्यमेव । .
इति रसगङ्गाधरे पर्यायप्रकरणम् । अथ परिवृत्तिःपरकीययत्किचिद्वस्त्वादानविशिष्टं परस्मै स्वकीययत्किचिद्वस्तुसमर्पणं परिवृत्तिः । __ क्रय इति यावत् । सा च तावद्विविधा-समपरिवृत्तिविषमपरिवृत्तिश्चेति । समपरिवृत्तिरपि द्विविधा–उत्तमरुत्तमानां न्यूनैयूनानां चेति । विषमपरिवृत्तिरपि तथा-उत्तमैन्यूनानां न्यूनरुत्तमानां चेति । क्रमेणोदाहरणानि
'अङ्गानि दत्त्वा हेमाङ्गि प्राणान्क्रीणासि चेन्नृणाम् ।
युक्तमतन्न तु पुनर्लोचनाम्बुरुहद्वयम् ॥ अत्र पूर्वार्ध एव समपरिवृत्तिः, उत्तरार्धे तु विषमैव । त्रापि नोक्तरीत्या पर्याय इति शेषः । लौकिकोक्तिमात्रमिति । अत्रेदं चिन्त्यम् - गभीरजलस्य स्रोतस्त्वेनाल्पजलविद्यमानतायां सुशकगमनत्वेन कविना पुलिनत्वारोपे उदाहरणत्वं सम्यगेव ।। इति रसगङ्गाधरममप्रकाशे पर्यायप्रकरणम् ।। प्राग्वदाह- अथेति । तथा द्विधा । बिम्बफलं तत्सदृशम् । प्रविकचेति । प्र
For Private And Personal Use Only
Page #498
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४८२
www. kobatirth.org
..
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
'अस्थिमालामयीं दत्त्वा मुण्डमालामयीं तनुम् । गृह्णतां त्वत्पुरःस्थानां को लाभः स्मरशासन ॥' 'गरिमाणमर्पयित्वा लघिमानं कुचयुगात्कुरङ्गदृशाम् ! स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥' 'किमहं कथयामि योषितामधरं विम्बफलं समर्प्य याः ।
सुरसानि हरन्ति हन्त हा विदुषां पुण्यफलानि सत्वरम् ॥'
एषु दानादानव्यवहारः कविकल्पित एव, न तु वास्तवः । यत्र वास्तवस्तत्र नालंकारः । यथा - ' क्रीणन्ति प्रविकचलोचनाः समन्तान्मुक्ताभिर्बदरफलानि यत्र बालाः ।' इदं चापरं बोध्यम् — अत्र परस्मै स्वकी - ययत्किंचिद्वस्तुसमर्पणमित्येतावत्पर्यन्तं लक्षणे विवक्षितम्, न तु स्वकीययत्किचिद्वस्तुत्यागमात्रम् । 'किशोरभावं परिहाय रामा बभार कामानुगुणां प्रणालीम्' इत्यत्रातिव्याप्त्यापत्तेः । न चेदं लक्ष्यमेवेति वाच्यम् । पूर्वावस्था त्यागपूर्वकमुत्तरावस्थाग्रहणस्य वास्तवत्वेनानलंकारत्वात् । एवं स्थिते विनिमयोऽत्र किंचित्यक्त्वा कस्यचिदादानम्' इत्यलंकार सर्वस्व - कृता यलक्षणं परिवृत्तेः कृतम् यच्च किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्' इत्युदाहृतम्, तदुभयमप्यसदेव । इति रसगङ्गाधरे परिवृत्तिप्रकरणम् ।
अथ परिसंख्या-
सामान्यतः प्राप्तस्यार्थस्य कस्माच्चिद्विशेषाद्व्यावृत्तिः परिसंख्या । नियमोऽप्यस्मिन्दर्शने निरुक्तलक्षणाक्रान्तत्वात्परिसंख्यैव । पाक्षिकप्राप्तियुगपत्प्राप्तिरूपस्यावान्तरविशेषस्याविवक्षणात् । अत एव वैयाकरणानां मते परिसंख्यापि नियमशब्देनोच्यते । तथा हि - ' कृत्तद्धितसमासाश्च' इत्यत्र समासग्रहणं नियमार्थमिति हि तेषां सिद्धान्तः । तत्र हि. समासे पाक्षिक्याः प्रातिपदिकसंज्ञा [याः ] प्राप्तेरभावात्कथं नाम पराभिमतो नियम उपपद्यते । युगपद्धि समाससमासेतरपदसंघातयोः 'अर्थवत् - ' विकसितेत्यर्थः । प्रणाली मार्गः । यौवनोद्गमरूपा ॥ इति रसगङ्गाधरममप्रकाश परित्रतिप्रकरणम् ॥
प्राग्वदाह - अथेति । न्यूनतां निराचष्टे - नियमोऽपीति । अस्मिन्नलंकार
-
For Private And Personal Use Only
Page #499
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४८३ सूत्रं प्राप्तमिति परिसंख्या भवितुमर्हति । पूर्वतन्त्रे तु नियमपरिसंख्ययोभैदेन परिभाषणम् । यदाहुः
'विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्ते परिसंख्येति गीयते ॥ विधिः-'स्वर्गकामो यजेत' इत्यादिः । यागादेः प्रकारान्तरेणाप्राप्तेः । नियमः-ब्रीहीनवहान्त, समे देशे यजेत' इत्यादिः । पुरोडाशनिर्माणफलोपधायकतावच्छेदककोटिप्रविष्टाया वितुषतायाः संपादकत्वेनावहननस्य प्राप्तेर्नखविदलनसमवधानकालावृत्तित्वेन, यागाधिकरणतया समदेशप्राप्तेविषमदेशसमवधानकालावृत्तित्वेन च पाक्षिकत्वात् । परिसंख्या'इमामगृह्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते, पञ्च पञ्चनखा भक्ष्याः' इ. त्यादिः । रशनाग्रहणलिङ्गेनाश्वाभिधानी गर्दभाभिधान्योरादानस्य युगपत्प्राप्तत्वात् । इत्यलमप्रकृतचिन्तया ।
इयं च तावहिविधा-शुद्धा प्रश्नपूर्विका च । द्विविधाप्यार्थी शाब्दी चेति चतुर्विधा । यथा'सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यतां
चिन्तायामसि सस्टहं यदि चिरं चक्रायुधश्चिन्त्यताम् । आलापं यदि काङ्क्षसे मधुरिपोर्गाथा तदालप्यतां
स्वापं वाञ्छास चेन्निरर्गलसुखे चेतः सखे सुप्यताम् ॥' अत्र यदिघटितवाक्यनिवेदितस्य रागप्राप्तस्य सेवादेः कर्मतायाः परमेश्वरे विषयान्तरे च प्राप्तत्वेन लोडर्थघटितवाक्यार्थवैयर्थ्यप्रसङ्गाद्विषयान्तरं न सेव्यतामित्यादिरूपा विषयान्तरे तत्तत्क्रियाकर्मत्वव्यारत्तिस्तात्पर्यविषयतया कल्पमानत्वादार्थी शुद्धा च ।
'किं तीर्थ हरिपादपद्मभजनं किं रत्नमच्छा मतिः
किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदयः । किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखे
कः शत्रुर्वेद खेददानकुशलो दुर्वासनासंचयः ॥' शास्त्रे । पूर्वतन्त्रे पूर्वमीमांसायाम् । यदाहुातिककाराः । द्वितीये आह-यागेति ।
For Private And Personal Use Only
Page #500
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८४
काव्यमाला।
- अत्र हरिपादभजनादिकमेव तीर्थादिकं नान्यदित्यर्थस्तात्पर्यमर्यादया प्रतीयत इत्यार्थी प्रश्नपूर्विका च । तीर्थ गङ्गा तदितरमपां निर्मलं संघमात्रं
देवौ तस्याः प्रसवनिलयौ नाकिनोऽन्ये वराकाः । सा यत्रास्ते स हि जनपदो मृत्तिकामात्रमन्य
त्तां यो नित्यं नमति स बुधो बोधशून्यस्ततोऽन्यः ॥' अत्र मात्रादिपदैस्तीर्थत्वादिव्यावृत्तिः प्रतीयत इति शाब्दी शुद्धा । 'किं मित्रमन्ते सुकृतं न लोकाः किं ध्येयमीशस्य पदं न तोकाः ।
किं काम्यमव्याजसुखं न भोगाः किं जल्पनीयं हरिनाम नान्यत् ॥' अत्र शाब्दी प्रश्नपूर्विका चेति प्राचां मतम् । अन्ये तु 'व्यावृत्तेरार्थत्व एव परिसंख्यालंकारः, अन्यथा तु शुद्धा परिसंख्यैव । यथा हेतुत्वस्यार्थत्व एव हेत्वलंकारः, अन्यथा हेतुमात्रम् । अतो भेदद्वयमेवास्याः' इ. त्याहुः । अपरे तु "व्यावृत्तेरार्थत्वेऽपि नालंकारत्वम् । 'पञ्च पञ्चनखा भक्ष्याः , समे यजेत, रात्सस्य' इत्यादावपि तदापत्तेः । किं तु कविप्रतिभानिर्मिता या तादृशव्यावृत्तिस्तस्याः । यथा-'यस्मिन्शासति वसुमतीपाकशासने महानसेषु संतापः, शरधिहृदयेषु सशल्यता, मञ्जीरेषु मौखर्यम्, भेरीषु ताडनम्, कामिनीनां कुन्तलेषु कौटिल्यम्, गतिषु मान्द्यम्' इत्यादौ । अत्र हि प्रथमान्तार्थः कविप्रतिभया एकीकत इति तहारा तप्रतियोगिकव्यावृत्तिनिर्मिता । एवं च 'सेवायां यदि साभिलाषमास' इत्यत्र नान्यः सेव्य इत्यर्थस्य प्रतीतेः परिसंख्यास्तु, न तु परिसंख्यालंकारः । व्यारत्तेर्वास्तवत्वेन कविप्रतिभानपेक्षणात् । 'किं तीर्थ हरिपादपद्मभजनम्' इत्यत्र तु प्रश्नपूर्वकं दृढारोपरूपकम् । अन्यथा 'न विषं विषमित्याहुब्रह्मखं विषमुच्यते' इत्यत्रापि परिसंख्यापत्तेः । 'किं शास्त्र' इ. त्यंशे तु परिसंख्यामात्रम् । 'तीर्थ गङ्गा तदितरमपां निर्मलं संघमात्रम्' इत्यत्रापि परिसंख्यैव शुद्धा । प्रागुक्ताद्धेतोरनार्थत्वात् । तस्मात् 'महानसेषु संतापः' इत्यादिकमेवास्या उदाहरणम्" इत्याहुः ।
इंति रसगङ्गाधरे परिसंख्याप्रकरणम् । एवं सति पूर्वविरोधं परिहरति-प्राचीनेति ॥ इति रसगङ्गाधरममप्रकाशे परिसंख्याप्रकरणम् ॥
For Private And Personal Use Only
Page #501
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
अथार्थापत्तिःकेनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिरपत्तिः।
न्यायश्च कारणम् । सा च प्रकृतेन प्रकृतस्य, अप्रकृतेनाप्रकृतस्य, प्रकतेनाप्रकृतस्य, अप्रकृतेन प्रकृतस्येति तावच्चतुर्भदा प्रत्येकमर्थान्तरस्य साम्यन्यूनाधिक्यै‘दशविधा । ततो भावत्वाभावत्वाभ्यां चतुर्विशतिभेदा । दिङ्मात्रेणोदाहियते-- 'लीलालुण्ठितशारदापुरधियामस्मादृशानां पुरो
विद्यासद्मविनिर्गलकणमुषो वल्गन्ति चेद्वालिशाः। अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः __ सिंहानां च सुखेन मूर्धनि पदं धास्यन्ति सालाकाः ॥' अत्र प्रकृतेनाप्रकृतस्यापाद्यमानस्य साम्यं मालारूपता च । 'यदि ते चरणाम्बुजं हृदा वहतो मे न हतो विपद्गणः ।
अथ चण्डकरेण मण्डिते दिनमध्येऽपि जितं तमोगणैः ॥' अत्र न हत इति विद्यमानतारूपात्प्रकृतार्थाज्जितमित्यापाद्यमानस्याप्रकृतार्थस्य सर्वोत्कर्षण वर्तनरूपस्याधिक्यम् । न चात्र विपद्गणस्यावस्थानमात्रेण तमोगणानामवस्थानमापादयितुमुचितम्, न तु जयः अनानुरूप्यात्, इति शङ्कचम् । भगवञ्चरणसंनिधाने यद्येकस्य विपद्गणस्य स्वास्थ्य तदा समुचित एव बहूनां तमोगणानां सूर्यसंनिधाने जय इति न दोषः ।
'सदैव स्नेहाट्टै सुरतटिनि निष्किचनजने ___यदि त्वं नाधत्से सुरभिरिव वत्से मयि कृपाम् । तदा चिन्तारत्नत्रिदशपतिभूमीरुहमुखा
ददीरन्नथिभ्यः किमिति कणभिक्षामपि जडाः ॥' अत्राभावेनाभावापादानम् । स्नेहार्द्रजाहवीरूपप्रकृतार्थापेक्षया चिन्तारत्नादीनां जडत्वेन न्यूनत्वं चैतेष्वापाद्यमानमप्रकृतम् ।
'मामनुरक्तां हित्वा यदि राजन्पुरुषसिंह यातोऽसि । मुक्त्वा वनमिदमेष्यति वनलक्ष्मीमत्र किं चित्रम् ॥'
For Private And Personal Use Only
Page #502
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
इयं राज्ञा नलेन मुक्काया अरण्ये दमयन्त्या ध्यानोपनीतं तमेव प्रत्युक्तिः । अत्रापाद्यमानो वनवृत्तान्तोऽपि संनिहितत्वात्प्रकृत एवेति द्वयमपि प्रकृतम् । पुरुषसिंहापेक्षया वनस्य नपुंसकत्वान्यूनत्वम् । अत एव किं चित्रमित्युक्तम् ।
'उदुम्बरफलानीव ब्रह्माण्डान्यत्ति यः सदा ।
सर्वगर्वापहः कालस्तस्य के मशका वयम् ।।' अत्राप्रकृतेन ब्रह्माण्डादनेन समस्तभूतानामनित्यत्वं कैमुतिकन्यायेन प्रकृतं प्रतिपाद्यते ।
'न भवानिह मे लक्ष्यः क्षत्रवर्णविलोपिनः ।
के वा विटपिनो राम कुलाचलभिदः पवेः ॥' रामं प्रति जामदग्न्यस्येयमुक्तिः । अत्र प्रतिवस्तूपमा महावाक्यार्थः । तस्याश्च दलद्वयमुपमेयवाक्यार्थ उपमानवाक्यार्थश्च । तत्रोपमेयवाक्यार्थगतायामापत्तावापाद्यमानस्तन्निमित्तभूतश्चेत्युभावप्यौँ प्रकृतौ । उपमानवाक्यार्थगतायां त्वप्रकृताविति । अनया दिशान्यदप्यूह्यम् । ___ अत्र विचार्यते-नेयं वाक्यवित्संमतायामापत्तौ निविशते । आपादकस्यार्थस्यापतितमर्थ विनानुपपत्तेरत्राभावात् । नाप्यनुमाने । आपाततोऽर्थस्यापादकासमानाधिकरणत्वेन व्याप्यत्वपक्षधर्मत्वयोर्दूरापास्तत्वात् । न च येन कारणेनैकार्थसिद्धिस्तेनैव लिङ्गेनापरार्थानुमानमिति वाच्यम् । अर्थान्तरासिद्धेरनुमित्यात्मकताविरहात् । यतोऽयमर्थोऽपि भवितुमर्हतीति बुद्धेराकारः न तु भवत्येवेति नापि यद्यर्थातिशयोक्तौ । तस्या विपरीतार्थ एव द्वयोर्विश्रान्तेः । न चेह तथा । आपादकस्य सिद्धत्वादपततश्च संभाव्यमानत्वाद्यथाश्रुत एव विश्रान्तेः । तस्माद्येन न्यायेनैकोऽर्थः सिद्धस्तेनैव न्यायेनापरोऽप्यर्थः सेडुमर्हतीत्येवरूपेयमर्थापत्तिः । अस्यां चार्थान्तरं लोकेऽविद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तदालंकारत्वम् । यथा 'फणिनां शकुन्तशिशवः' इत्यादौ । अन्यथा तु कैमुतिकन्यायतामात्रम् । यथा 'उदुम्बरफलानीव' इत्यादौ । प्राचीनरीत्या
For Private And Personal Use Only
Page #503
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
तु प्रागिदमुदाहृतमस्माभिः । अत एव तत्र कैमुतिकन्यायेनेत्युक्तम् । एवं च 'कमपरमवशं न विप्रकुर्युविभुमापि तं यदमी स्टशन्ति भावा', 'अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोविधौ वक्रे मूर्ध्नि स्थितवात वयं के पुनरमी' इत्यादि सर्वस्वकता यदुदाहृतं तन्नातीव हृदयंगमम् । यत्तु'कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते' इति कुवलयानन्दकृता अस्या लक्षणं निर्मितं तदसत् । कैमुतिकन्यायस्य न्यूनार्थविषयत्वेनाधिकार्थापत्तावव्याप्तेः । यथा
'तवाग्रे यदि दारिद्यं स्थितं भूप द्विजन्मनाम् ।
शनैः सवितुरप्यग्रे तमः स्थास्यत्यसंशयम् ॥' अत्र शनैःशब्दमहिम्ना राजाग्रे दारिद्यस्थित्यपेक्षया सूर्याग्रे तमोऽवस्थानं दुःशकमेवेत्यवगतमपि न्यायसाम्यादापाद्यते, न तु कैमुतिकन्यायेनेति ।
इति रसगङ्गाधरेऽर्थापत्तिप्रकरणम् । अथ विकल्पःविरुद्धयोः पाक्षिकी प्राप्तिर्विकल्पः ।
एकस्मिन्धर्मिणि स्वस्वप्रापकप्रमाणप्राप्तयोरत एव तुल्यबलयोविरुद्धयोविरुद्धत्वादेव युगपत्प्राप्तेरसंभवात्पाक्षिक्येव प्राप्तिः पर्यवसन्ना । अयं च समुच्चयस्य प्रतिपक्षभूतः । व्यतिरेक इवोपमायाः । अत्र च विकल्प्यमानयोरौपम्यमलंकारताबीजम् । तदादायैव चमत्कारस्योल्लासात् । अन्यथा तु विकल्पतामात्रम् । यथा 'जीवनं मरणं वास्तु नैव धर्म त्यजाम्यहम्' इत्यादौ । अत्र जीवनमरणयोनौपम्यस्य प्रतीतिः । उदाहरणम्__ प्राग्वदाह-अथेति । तत्र अर्थापत्त्यलंकारे । न तु कैमुतिकन्यायेनेति । अत्रेदं चिन्त्यते-तवाग्रे यदीत्यत्र वक्ष्यमाणसंभावना यद्यर्थातिशयोक्तिर्वालंकारः । न च यद्यर्थातिशयोक्तावापाद्यापादकयोर्विपरीतार्थविश्रान्तत्वम् । इह त्वापादकस्य सिद्धत्वादापायस्य संभाव्यमानत्वमिति विशेष इति वाच्यम् । न्यूनत्वाधिक्यादिभिरर्थापत्तिभेदस्य त्वया कल्पनवत्तस्या एव तथाविधभेदस्य कल्पने क्षत्यभावात् । न च कैमुत्येन सिद्धिरपि तद्भेद एवास्तु । प्राचामनुरोधेन भिन्नतयोक्तेः । [न च] कैमुत्यकृतश्चमत्कारोऽपि तद्भेदकताया एव साधकोऽस्त्विति वाच्यम् । तत्कृतचमत्कारस्यालंकारभेदजनकताया दुरपहवाच्चेति दिक् ।। इति रसगङ्गाधरममप्रकाशेऽर्थापत्तिप्रकरणम् ।। प्राग्वदाह-अथेति । सा च न शाब्दीत्याह-एकस्मिन्निति । [भज]नेषु त.
For Private And Personal Use Only
Page #504
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८८
काव्यमाला। 'प्राणानर्पय सीतां वा गृध्रांस्तर्पय वा द्विजान् ।
यमं भजस्व रामं वा यथेच्छसि तथाचर ॥' अत्रार्पणतर्पणभजनेषु मानरक्षणप्रमाणेन यथाक्रमं कर्मतया प्राणगृध्रयमानां जीवनरक्षणप्रमाणेन च सीताद्विजरामाणां प्राप्तानां योगपद्यासंभवात्पर्यायेण प्राप्तिः । कर्मणोः क्रियाफलेनैव समानधर्मेणौपम्यम् । नन्वत्र यथापितादिधात्वर्थफलरूपधर्मैक्यात्कर्मणोरौपम्यं गम्यते, तथा 'जीवनं मरणं वा' इत्यादौ सत्तारूपधर्मैक्याज्जीवनमरणयोः कोरपि तद्गन्तुं युज्यत इति चेत्, युज्यते, न तु गम्यते । अथ तत्कुतो हेतोः, कवितात्पर्यविरहादिति गृहाण । नात्र मरणं जीवनं च समानमिति कवेरभिप्रेतम् । किं तु 'विषं भुक्ष्व, मा चास्य गृहे भुयाः' इतिवत् धर्माद्धेतोमरणमपि ज्यायः, न तु धर्मत्याग इति निषद्धगतद्वेषाधिक्यम् । तदर्थ च मरणस्योपात्तत्वादविवक्षिताधिकरणतया औपम्यस्यानिष्पत्तिरेव । कचिल्लुप्तं समानधर्ममादायाप्यौपम्यस्य गम्यत्वेऽयमलंकारः । यथा भगवगीतासु 'हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम्' अत्र महीभोगस्वर्गप्राप्त्योरुत्तमत्वेनौपम्यं विवक्षितम् । तथा च धात्वर्थयोरयं विकल्प इत्येके । आख्यातार्थयोरित्यपरे । सर्वथैव न महीस्वर्गयोरिति स्थितम् । तयोः कारकत्वेनैव क्रियान्वयं विना विकल्पासंगतेः । न च धात्वर्थयोरेकस्य कर्तृरूपसाधारणधर्मस्योक्तत्वात्कथं लुप्ततेति वाच्यम् । कर्तृरूपसाधारणधर्ममादायौपम्यस्यात्र सुन्दरस्यानिष्पत्तेः । अन्यथा 'हतो वा नरकं गन्ता जित्वा वा भोक्ष्यसे महीम्' इत्यत्राप्यौपम्यप्रत्ययापत्तेः। यत्तु"भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतै तेहितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥' अत्र विकल्पः । उत्तमत्वाच्च तुल्यप्रमाणश्लिष्टत्वम्" इत्यलंकारसर्वखळतोक्तम् । तच्चिन्त्यम् । भवार्तिशमने तनुनेत्रद्वन्द्वयोईयोरपि युगपत्कर्तृत्वे विरोधाभावाद्विकल्पानुत्थानात् । 'विरोधे विकल्पः' इति हि
For Private And Personal Use Only
Page #505
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसंगङ्गाधरः ।
तेनैवोक्तम् । न च तनुमध्ये नेत्रयोः प्रविष्टत्वात्प्टथगभिधानानौचित्येऽपि यत्प्टथगभिधानं तद्वक्तुस्तनुनेत्रद्वन्द्वयोविरोधमभिप्रेतं गमयतीति वाच्यम् । वास्तवस्यैव विरोधस्य विकल्पोत्थापकत्वेनावैवक्षिकस्याप्रयोजकत्वात् । विकल्पस्यात्रासुन्दरत्वाच्च । वस्तुतस्तु 'सकलकलं पुरमेतज्जातं संप्रति सु. धांशुमिव' इत्यादाविवात्रापि श्लेषमूलोपमैवालंकारः । तनुवति तनुरिवेत्यर्थः । 'वा स्याद्विकल्पोपमयोः' इति वाशब्दस्येवार्थकत्वाभिधानात् । न च लिङ्गवचनभेद उपमायां दोष इति वाच्यम् । साधारणधर्मस्योपमानसामानाधिकरण्ये उपमेयसामानाधिकरण्ये च यत्र वैरूप्यं तत्रैव लिङ्गवचनभेदस्य दोषताया अभ्युपगतेः । यथा--'हंसीव धवलश्चन्द्रः सरांसीवामलं नभः' । अत्र हंसी धवला, चन्द्रो धवलः, सरांस्यमलानि, नभो ह्यमलमिति साधारणधर्मस्योपमाने उपमेये च दैविध्येनैव प्रतीतेरुपमायाः सम्यगनिष्पत्तेः । नन्वेवं सति 'सरांसीव नभः' इत्यादौ लुप्तोपमायां कथं वचनभेदो दोष इति चेत्, तत्रापि प्रतीयमानसाधारणधर्मस्य वैरू प्यादेवेत्यभ्युपगमात् । न च प्रतीयमानस्य धर्मस्य स्वशब्दानालिङ्गिततया सुतरां लिङ्गानालिङ्गनेन नास्ति वैरूप्यमिति शङ्कयम् । शब्दालिङ्गितस्यैवार्थस्य प्रतीतेरिष्टेः । यदाहुः- 'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते' इति । यहा श्रुतार्थापत्तावभ्युपगम्यमानायां शब्द एव कल्प्यते, अर्थस्तु तेनाभिधीयत इत्यस्ति वैरूप्यम् । एवं स्थिते राजते भासते इत्यादि तिडन्तप्रतिपाद्ये साधारणधर्मे यथा लिङ्गवचनभेदो न दोषस्तथानापीति । अत एव 'यस्मिन्नतिसरसो जनो जनपदाश्च' इति तुल्ययोगितापि संगच्छते । अन्यथा उपमागर्भत्वात्तस्या उपमाया दुष्टत्वे दुष्टतापत्तेः । श्लिष्टे धर्मलिङ्गसंख्याभेदादि नैव दूषणमिति प्रतिप्रसवाच्चेति दिक् ।
इति रसगङ्गाधरे विकल्पप्रकरणम् । अथ समुच्चयः
युगपत्पदार्थानामन्वयः समुच्चयः । द्विषयो मानोऽहंकारः । तत् औपम्यम् । तत् अगममम् । लुप्तोपेति । धर्मत्यादिः । दिगर्थोऽन्यतोऽवसेयः ॥ इति रसगङ्गाधरमर्मप्रकाशे विकल्पप्रकरणम् ।
६२
For Private And Personal Use Only
Page #506
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
युगपदिति क्रमव्यावृत्त्यर्थम्, न त्वेकलक्षणप्रतिपत्यर्थम् । तेन किंचिकालभेदेऽपि न समुच्चयभङ्गः । स तावहिविधः-धर्मिभेदधम्क्याभ्याम् । धयॆक्येऽपि दैविध्यम्-कारणत्वातिरिक्तसंबन्धेनैकधर्म्यन्वये, कारणतया एकधर्म्यन्वये चेति । एवं त्रिविधेऽस्मिन्नाद्ययोर्भेदयोर्गुणानां क्रियाणां गुणक्रियाणां च, तृतीये रमणीयानामरमणीयानां रमणीयारमणीयानां समन्वयः । न चास्मिन्वक्ष्यमाणसमाध्यलंकारत्वमाशङ्कचम् । समाधौ हि एकेन कार्य निष्पाद्यमानेऽप्यन्येनाकस्मिकमापतता कारणेन सौकर्यादिरूपोऽतिशयो यत्र संपाद्यते स विषयः । अस्मिस्तु समुच्चयप्रभेदे यत्रैककार्य संपादयितुं युगपदनेके खले कपोता इवाहमहमिकया संपतन्ति कार्यस्य च न कोऽप्यतिशयः सः । क्रमेणोदाहरणानि
'प्रादुर्भवति पयोदे कजलमलिनं बभूव नभः । रक्तं स पथिकहृदयं कपोलपाली मृगीदृशः पाण्डुः ॥" 'उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण ।
मुदितं च सकलयुवजनचूडामणिशासनेन मदनेन ।' अत्राद्ये गुणानां द्वितीये क्रियाणां च योगपद्येन भिन्नधर्म्यन्वयः । 'आताम्रा सिन्धुकन्याधवचरणनखोल्लासिकान्तिच्छटाभि
ज्योत्स्नाजालै टानां त्रिपुरविजयिनो जातजाम्बूनदश्रीः । स्वाभाव्यादच्छमुक्ताफलरचितलसद्गुच्छसच्छायकाया
पायादायासजालादमरसरिदघवातजातश्रमान्नः ॥' 'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता ___ स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना। क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति
द्यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि ।। अत्राद्ये गुणानां द्वितीये क्रियाणामेकधर्म्यन्वयः। यद्यपि हरिचरणनखसंसर्गसमये नास्तिहरजटासंसर्ग इति रक्तपीतवर्णयोर्योगपद्यस्यासंभवः, तथापि साहजिकश्चैत्येन सह तयोः प्रत्येकं तस्य संभवोऽस्त्येवेति न दोषः । प्राग्वदाह-अथेति । सिन्धुकन्याधवो लक्ष्मीपतिः । तयो रक्तपीतवर्णयोः । प्र
For Private And Personal Use Only
Page #507
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
'समुत्पत्तिः पद्मारमणपदपद्मामलनखान्निवासः कंदर्पप्रतिभटजटाजूटभवने ।
अथायं व्यासङ्गः पतितजननिस्तारणविधेर्न कस्मादुत्कर्षस्तव जननि जागर्ति जगतः ॥' अत्र त्रिष्वेकेनाप्युत्कर्षजननसंभवे त्रयोऽप्युत्कर्षजननार्थ स्पर्धयेवापतन्तो रमणीयाः ।
'पाटीरनुभुजंगपुंगवमुखोद्भूता वपुस्तापिनो
वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रुमाः । श्रोत्रे हन्त किरन्ति कूजितमिमे हालाहलं कोकिला बाला बालमृणाल कोमलतनुः प्राणान्कथं रक्षतु ॥' अत्रापि त्रयोऽपि जीवननाशार्थमापतन्तोऽरमणीयाः ।
४९१
'जीवितं मृत्युनालीढं संपदः श्वासविभ्रमाः । रामाः क्षणप्रभारामाः शल्यान्येतानि देहिनाम् ॥'
अत्र जीवितादयः स्वाभाव्याद्रमणीया इति निःसारयितुमशक्याः, विशेषणमाहात्म्याच्च रमणीया इति दुःखजनकाश्च, अत एव शल्यतुल्याः । रमणीयारमणीयशब्दे कर्मधारय आश्रीयते, न द्वन्द्वः । सहचरभिन्नत्वदोषापत्तेः । एवमरमणीयरमणीयानामप्येककार्यजननार्थमापततां समुच्चयः संभवति ।
'शरीरं ज्ञानजननं रोगो विष्णुस्मृतिप्रदः । विपद्वैराग्यजननी त्रयं सुखकरं सताम् ॥'
शरीरादयो हि स्वाभाव्यादरमणीया अपि भेदकमाहात्म्याद्रमणीयाः । न च रमणीयानां समुच्चये अरमणीयानां च समालंकारेण, रमणीयारम - णीयानां च विषमालंकारेण च, संकीर्णत्वान्नैते प्रभेदा युक्ताः समुच्चयस्य । संकरस्य प्रभेदताप्रयोजकत्वविरहात् । अन्यथा सर्वेषामलंकाराणामनन्तभेदत्वापत्तेरिति वाच्यम् । 'समुत्पत्तिः पद्मारमण -' इत्यत्र, 'पाटीरनु
For Private And Personal Use Only
तिभटः शत्रुः शिवः । पाटीरद्रुश्चन्दनवृक्षः | हालाहलरूपं कूजितम् । भेदकं विशेषणम् । समुच्चये इत्यस्याग्रेऽप्यनुषङ्गः ॥ इति रसगङ्गाधरमर्मप्रकाशे समुच्चयप्रकरणम् ॥
Page #508
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९२
काव्यमाला।
भुजंग-' इत्यत्र च समालंकारस्याविवक्षितत्वात् । नहि हरिचरणनखसंभूतिहरजटाजूटनिवासपतितनिस्तारणव्यासङ्गानां परस्परं योगो योग्य इति कवेरभिप्रेतम् । किं तु भगवत्या भागीरथ्या उत्कर्ष जनायितुं त्रयोऽपि जागरूका इति । नापि मलयानिलरसालद्रुमकोकिलकूजितानाम् । किं तु त्रयोऽपि बालायाः प्राणनाशार्थ बद्धपरिकरा इति । अत एव हन्तेति खेद उपपद्यते । समालंकारस्याभिप्रेतत्वे तु त्रयाणां योगस्य यु. क्तत्वात्खेदोऽनुपपन्न एव स्यात् । अथ बालाया मारकत्रितययोगोऽननुरूप इति विषमाभिप्रायेण खेदोपपत्तिरिति चेत्, एवमपि त्रयाणां योगांशे समालंकारस्यात्यन्तमप्रतीतेविषमस्य च बाह्यबालांशमादाय प्रतिष्ठानात्समुच्चयस्यासंकीर्णतैव । एवं जीवितं मृत्युना लीढम्' इत्यादौ जीवितादे रमणीयस्य मृत्य्वालीढत्वादिकमयुक्तमिति कवेरिह विवक्षितम् । रमणीयानामचिरस्थायित्वस्योत्सर्गतः सिद्धेस्तस्य च स्वाभिलषिताननुगुणत्वाच्छल्यत्वप्रयोजकत्वम् । अतस्तृतीयप्रभेदस्यापि न विषमसंकीर्णत्वेनान्यथासिद्धिः । एतेन ‘सद्योगासद्योगसदसद्योगैर्न समुच्चयः प्रभेदवान् । समविषमसंकरेणैवान्यथासिद्धेः' इति रत्नाकरोक्तमपास्तम् ।
इति रसगङ्गाधरे समुच्चयप्रकरणम् । अथ समाधिःएककारणजन्यस्य कार्यस्याकस्मिककारणान्तरसमवधानाहित सौकर्य समाधिः । ___ तच्च कार्यस्यानायासेन सिद्ध्या साङ्गसिद्ध्या च । पूर्वापेक्षया विशेषस्तूक्त एव । उदाहरणम्
'आयातैव निशा मनो मृगदशामुन्निद्रमातन्वती
मानो मे कथमेष संप्रति निरातङ्क हृदि स्थास्यति । ऊहापोहमिमं सरोजनयना यावद्विधत्तेतरां
तावत्कामनृपातपत्रसुषमं बिम्बं बभासे विधोः ॥' अत्र रात्रिसंनिधानादपि सिद्ध्यतो मानविनाशस्य चन्द्रोदयादनायासेन सिद्धिः । यथा वा
For Private And Personal Use Only
Page #509
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४९३
'स्मरदीपदीप्तदृष्टेघनान्धकारेऽपि पतिगृहं यान्त्याः ।
झगिति प्रादुरभूवन्सख्यादिव चञ्चलाः परितः ॥' इहाकस्मिके निष्प्रत्यूहपतिगृहयानस्य कारणान्तरसमवधाने हेतोरुत्प्रेक्षणादुत्प्रेक्षालीढः । पूर्वस्तु शुद्धः ।
'नवप्रसङ्गं दयितस्य लोभादङ्गीकरोति स्म यदा नताङ्गी ।
श्लथं तदालिङ्गनमप्यकस्माद्धनो निनादैर्घनतां निनाय ।' अत्र घनध्वनिभिरालिङ्गनस्य साङ्गता सिद्धिः । पूर्वपद्यद्वये त्वनायासेन कार्यसिद्धिः ।
'कथय कथमिवाशा जायतां जीविते मे
मलयभुजगवान्ता वान्ति वाताः कृतान्ताः । अयमपि बत गुञ्जत्यालि माकन्दमौलौ
मनसिजमाहमानं मन्यमानो मिलिन्दः ॥' अत्र जीवितनाशं प्रति वातवानचञ्जरीकगुञ्जितयोरहमहमिकया हेतुत्वादेकस्याकस्मिकत्वाभावान्न प्रकृतालंकारस्य विषयः । किं तु कर्तृरूपभिन्नधर्मिकेण वानगुञ्जनक्रिययोः समुच्चयेन जीवितनाशरूपैककार्यात्मकैकर्मिकस्तयोरेव कारणयोः समुच्चयः संकीर्णः।
इति रसगङ्गाधरे समाधिप्रकरणम् । अथ प्रत्यनीकम्प्रतिपक्षसंबन्धिनस्तिरस्कृतिः प्रसनीकम् ।।
अनीकेन सदृशं प्रत्यनीकम् । सादृश्यस्य यथार्थत्वेनैव संग्रहे पुनः सादृश्यग्रहणाद्गणीभूतेऽपि सादृश्येऽव्ययीभावः । लोके प्रतिपक्षस्य तिरस्कारायानीकं प्रयुज्यते । तदशक्तौ प्रतिपक्षसंबन्धिनः कस्यचित्तिरस्कारः क्रियते । स चानीकसदृशतया प्रयुज्यमानत्वात्प्रत्यनीकमुच्यते ।
प्राग्वदाह-अथेति । सुषमा परमा शोभा। चञ्चला विद्युतः । घनो मेघः । घनतां निविडताम् । माकन्दश्चतः ॥ इति रसगङ्गाधरमर्मप्रकाशे समाधिप्रकरणम् ॥ प्राग्वदाह-अथेति । अनीकं सैन्यं व्यूहरचनाकारम् । संबन्धी प्रतिपक्षेत्यादिः ।
For Private And Personal Use Only
Page #510
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९४
काव्यमाला ।
अत्र च प्रतिपक्षगतं बलवत्वम्, आत्मगतं दुर्बलत्वं च गम्यते । संबन्धी च तदुपजीव्योपजीवकमित्रादिभेदादनेकविधः । यथा--
'रे रे मनो मम मनोभवशासनस्य
पादाम्बुजदयमनारतमामनन्तम् । किं मां निपातयसि संसृतिगर्तमध्ये
नैतावता तव गमिष्यति पुत्रशोकः ॥ 'जितमौक्तिकसंपदा रदानां सहवासेन परां मुदं ददानाम् ।
विरसादधरीकरोति नासामधुना साहसशालि मौक्तिकं ते ॥' पूर्वत्रोपजीव्यस्य, इह तूपजीवकस्य तिरस्काराद्वैरस्यार्थत्वशाब्दत्वाभ्यां च वैलक्षण्यम् । एवमन्यदप्यूह्यम् । ____ अत्र विचार्यते-हेतूत्प्रेक्षयैव गतार्थत्वान्नेदमलंकारान्तरं भवितुमर्हति । तत्र द्वितीयोदाहरणे तावद्धत्वंशः शाब्दः उत्प्रेक्षांशमात्रमार्थम् । प्रथमोदाहरणे तु द्वयमप्यार्थम् । पुत्रमारकसेवकत्वेन कारणेन वैरस्य तस्य खात्मकर्मकगतमध्यनिपातनेन कार्येण हेतुतायाश्च स्फुटं प्रतीतेः । अस्मिनलंकारे हेतुत्वं निश्चीयमानम्, हेतूत्प्रेक्षायां तु संभाव्यमानमित्यस्ति विशेष इति चेत्, प्रतीयमानहेतृत्प्रेक्षाया अनुत्प्रेक्षात्वापत्तेः । वाचकस्येवादेरभावाद्धेतुत्वस्य निश्चीयमानतायास्तत्रापि वक्तुं शक्यत्वात् । ___'यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।
कान्तवक्रसदृशाळति कृती राहुरिन्दुमधुनापि बाधते ॥' इत्यलंकारसर्वस्वकतोदाहृते प्राचीनपद्येऽपि भगवद्वैरानुबन्धादिव भगवहसदृशमिन्दुं राहुर्बाधत इति प्रतीतेरुत्प्रेक्षैव गम्यमाना । 'मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रविष्टहृदयेयमिति ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥' इति कुवलयानन्दकारेणोदाहृते तु पद्ये हेत्वंश उत्प्रेक्षांशश्चेत्युभयमपि शाब्दमिति कथंकारमस्यालंकारस्योदाहरणतां नीतमिदमायुप्मतेति न विद्मः । प्रतिपक्षगतबलवत्त्व त्वात्मगतदुर्बलत्वयोः प्रतीतेहेतूत्प्रेक्षान्त'तत्प्रतिपक्षशङ्कितेऽस्मिन्निति चेत्, न' इति पाठः । न विद्म इति । मत्सरादेवेति ।
For Private And Personal Use Only
Page #511
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः । रादस्य वैलक्षण्यम् । नैतावता हेतूत्प्रेक्षाया बहिर्भवितुमिदमीष्टे । तदविनाभावित्वात् । किं तु तदवान्तरविशेषीभवितुम् । नहि पृथिव्यवान्तरभेदादटात्पटो विलक्षण इति पृथिव्या बहिर्भवतीत्यपि वदन्ति । .
इति रसगङ्गाधरे प्रत्यनीकप्रकरणम् ।। अथ प्रतीपम्प्रसिद्धौपम्यवैपरीसेन वर्ण्यमानमौपम्यमेकर तद्वैपरीत्यं च तदुपमानोपमेययोरुपमेयोपमानत्वकल्पनया । न तु प्रकारान्तरेण ।
उपमानोपमेययोरन्यतरस्य किंचिद्गुणप्रयुक्तमद्वितीयतोत्कर्ष परिहर्तुं द्वितीयप्रदर्शनेनोल्लास्यमानं सादृश्यमपरं द्विविधम् ।
उपमानस्य कैमर्थ्य चतुर्थम् । सादृश्यविघटनं पञ्चमम् ।
तत्राद्ये प्रभेदे प्रसिद्धौपम्ये यदुपमेयं तस्यैवोपमानत्वादाधिक्यस्य, यच्चोपमानं तस्योपमेयत्वान्न्यूनत्वस्य च प्रत्ययः फलम् । इदमेव चौपम्यस्याविशेषेऽप्युपमालंकारादस्य वैलक्षण्ये बीजम् । औपम्यप्रतिष्ठानं च निषिध्यमानसादृश्याव्यतिरेकात् । नन्वौपम्यस्योपमानोपमेयसाधारण्येऽपि यदेकस्याधिक्यमपरस्य न्यूनत्वं च गम्यते तत्कस्य हेतोरिति चेत्, शृणु । उपमाने हि साधारणधर्मसंबन्धोऽनूद्योपमेये विधीयत इति तावनिर्विवादम् । विध्यनुवादौ च साध्यत्वसिद्धत्वाभ्याम् । ते च क्रमेण न्यूनाधिक्ये उपमानोपमेययोः प्रयोजयतः । लोकेऽपि निश्चितविद्यो यथा पूज्यते तथा नानिश्चितविद्य इति स्फुटमेव । ते च साध्यत्वसिद्धत्वे वक्तृविवक्षाधीने । इति नात्र दोषः । द्वितीयतृतीययोर्भेदयोस्तु फलं स्फुटमेव । चतुर्थस्य तु निषिध्यमानवस्तुगतसकलगुणवत्त्वप्रतिपत्तिः । पज्वमस्य प्रथमवदिति । उदाहरणम् - हेतूत्प्रेक्षासत्त्वेऽपि तद्धेतुकप्रतिपक्षीयबाधेनैतद्विषयत्वाच्चिन्त्यमिदम् ॥ इति रसगङ्गाधरममप्रकाशे प्रत्यनीकप्रकरणम् ॥
प्राग्वदाह-अथेति । ननु ते अप्युपमावदेवात्रात आह-ते च साध्यत्वेति ।
For Private And Personal Use Only
Page #512
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
'किं जल्पसि मुग्धतया हन्त ममाङ्गं सुवर्णवर्णमिति ।
तद्यदि पतति हुताशे तदा हताशे तवाङ्गवण स्यात् ।।' अत्र पूर्वार्धोपमागम्यं सुवर्णाधिक्यं तिरस्कृत्य द्वितीयाधै प्रतीपं बालाङ्गवर्णस्याधिक्यं गमयति । हुताशपातं विना प्रतीपमपि दुर्लभम् । उपमातुं स्वप्नेऽपि न संभवतीति मुग्धत्वहताशत्वाभ्यां गम्यते ।
'माहात्म्यस्य परोऽवधिनिजगृहं गम्भीरतायाः पिता ___ रत्नानामहमेक एव भुवने को वापरो मादृशः । इत्येवं परिचिन्त्य मा स्म सहसा गर्वान्धकारं गमो
* दुग्धाब्धे भवता समो विजयते दिल्लीधरावल्लभः ॥' 'निभाल्य भूयो निजगौरिमाणं मा नाम मानं हृदये विधासीः । गृहे गृहे पश्य तवाङ्गवर्णा मुग्धे सुवर्णावलयो लुठन्ति ॥'
उपमानकैमर्थ्यस्य तूदाहरणमाक्षेपप्रकरण एव गदितम् 'अभूदप्रत्यूहः' इत्यादि । पञ्चमो यथा
'करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः ।
कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः ॥' अत्र कथं शणोषीत्यनेन तुलैव न संभवतीति गम्यते । अर्थान्तरन्यासोऽप्यमुमेवार्थ पुष्णाति ।
तदेवं पञ्चविधं प्रतीपं प्राचामनुरोधान्निरूपितम् । वस्तुतस्तु-आद्यास्त्रयोऽप्युपमायामेवान्तर्गता भेदाः । चतुर्थः केषांचिदाक्षेपः । पञ्चमस्त्वनुक्तवैधम्य व्यतिरेके । तथाहि-निष्पद्यमानं सुन्दरं वा सादृश्यमुपमा । नह्याद्ये प्रतीपे 'मुखमिव कमलम्' इत्यादौ सादृश्यस्यानिष्पत्तिरसौन्दर्य वास्ति येनोपमातो बहिर्भावः स्यात् । सौन्दर्यविशेषस्य त्वयाप्यभ्युपगमात् । विशेषस्य सामान्यानिवारकत्वात् । न च प्रसिद्धकमलादिप्रतियोगिकमेव सादृश्यमुपमेति राज्ञामाज्ञास्ति । न चोपमाविरुद्धवाचिनः प्रतीपशब्दस्य माहात्म्यादेव तादृशं सादृश्यमुपमेति शक्यं वक्तुम् । उपमाविशेषविरुद्धवाचकत्वेनापि तदुपपत्तेः । एवं चाद्यं प्रतीपं
For Private And Personal Use Only
Page #513
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४९७ प्रसिद्धोपमावदुपमाविशेष एव । अत एव द्वितीयतृतीयावपि भेदावुपमाविशेषावेव । उपमानोपमेययोस्तिरस्कारस्तूपमान्तराद्वैलक्षण्यं प्रयोजयेत्, न तूपमासामान्यात् । तदनुस्यूतत्वेनैव तत्प्रतीतेः । नहि द्राक्षा माधुर्यातिशयेन पार्थिवान्तराद्विलक्षणेत्यपार्थिवी. भवति । अपि च यद्युपमानोपमेययोस्तिरस्कारोऽलंकारताप्रयोजकः स्यात्, स्कारोऽपि तथा स्यात् । यथा'एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिना
मित्येवं परिचिन्त्य मा स्म मनसि व्याधानुतापं कृथाः । भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः
साधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षाः खलाः ॥ अत्रौपम्यप्रदर्शनस्य नोपमानतिरस्कारः फलम् । तस्य गर्वितत्वेनाविवक्षणात् । किं तु तदनुतापनाशः । एवं च फलवैलक्षण्यमात्रेणालंकारान्तरत्वं ब्रुवता अस्याप्यलंकारान्तरत्वमभ्युपेयं स्यात्, प्रतीपषष्ठप्रभेदत्वं वा । किं च त्वदुक्तप्रतीपभेदानामपि परस्परवैलक्षण्येन पृथक्टथगलंकारत्वं स्यात्, न प्रतीपप्रभेदत्वम् । प्रतीपस्य सकलप्रभेदसाधारणसामान्यलक्षणाभावात् । अन्यतमत्वं तु दूषणसहस्त्रग्रस्तत्वादलक्षणमेवेत्यसलदु. क्तम् । उपमालक्षणं तु सकलसाधारणम् । चतुर्थः प्रभेदस्तु येषां मते नाक्षेपस्तेषामस्तु नाम प्रतीपालंकारः । पञ्चमस्य तु गतिरुक्तैव प्रभेदस्य ।
इति रसगङ्गाधरे प्रतीपप्रकरणम् । अथ प्रौढोक्तिःकस्मिंश्चिदर्थे किंचिद्धर्मकृतातिशयप्रतिपिपादयिषया प्रसिद्धतधर्मवता संसर्गस्योद्भावनं प्रौढोक्तिः ।
संसर्गश्च सन्नसन्वा साक्षात्परम्परया वा । तत्सुवर्णम् । अकुप्तेतिन्यायेनाह-प्रतीपेति । लक्षणाभावादिति । चिन्त्यमिदम्। तिरस्कारफलकोपमानापकर्षबोधानुकूलव्यापारस्य प्रतीपसामान्यलक्षणत्वसंभवात्। स च वाच्यो व्यङ्गयो वेत्यन्यत् ॥ इति रसगङ्गाधरमर्मप्रकाशे प्रतीपप्रकरणम् ॥
६३
For Private And Personal Use Only
Page #514
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९८
काव्यमाला । 'वल्मीकोदरसंभूतकपिकच्छूसहोदराः।
हा पीडयित्वा निघ्नन्ति सज्जनान्दुष्टदृष्टयः ॥' अत्र कपिकच्छूसहोदरत्वेन मारकत्वं न प्राप्नोति, अपि तु पीडाजनकत्वमात्रम् । कवस्तु पीडां जनयित्वा मारयन्तीत्येवंरूपोऽतिशयो विवक्षितः । अतो वल्मीवादरसंभूतत्वं साधिकरणत्तितारूपं कपिकच्छूविशेषणं मारकतावच्छेदकत्वेन स्वप्रतिभया कविना कल्पितम् । यथा वा
'मन्थाचलभ्रमणवेगवशंवदा ये
दुग्धाम्बुधेरुदपतन्त्रणवः सुधायाः । तैरेकतामुपगतैविविधौषधीभि
र्धाता ससर्ज तव देव दयादृगन्तान् ॥' अत्र गन्तेषु न केवलं संजीवकत्वादयोऽमृतमात्रगुणा एव कवेर्बुबोधयिषिताः, अपि तु निखिलजनवशीकारकत्वादयोऽन्येऽपीति सुधाकणेष्वौषधीसंसर्गों विशेषणतयातिशयार्थमुपात्तः । उत्पाद्योत्पादकभावश्चात्र न लोकसिद्धः, अपि तु कविमात्रनिबद्धः । यथा वा
'त्वदङ्गणसमुद्भूता सिक्ता कुङ्कुमवारिभिः ।
त्वदङ्गतुलनां याति कदाचिल्लवलीलता ॥' ___ अत्र केवलाया लवल्या उपमानताभरसहनसामर्थ्यस्याभावात्तस्य सिद्वये नायिकासामानाधिकरण्यकुङ्कुमजलसंयोगयोरुपादानम् । अत्र च धर्मिविशेषसंसर्गादतिशयो धर्म्यन्तरगतो यद्यागूरणविषयस्तदैवायमलंकारः । वाच्यवृत्त्या तत्तत्प्रयुक्तत्वेनाभिहितश्चेत्समालंकारस्यैव विषयः । यथा-- 'त्वत्तो जन्म हिमांशुशेखरतनुज्योत्स्नानिमग्नात्मनो
दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम् । संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः
कस्मान्नोज्ज्वलिमानमञ्चतितमां देव त्वदीयं यशः ॥' प्राग्वदाह-अथेति । कपिकच्छूर्वृश्चिकः । लवली 'रायआंवले' 'हरफारेवडी'
For Private And Personal Use Only
Page #515
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४९९ अत्र यशसो धवलतातिशयस्तत्तद्धर्मिसंबन्धप्रयुक्तत्वेन कथित इति तदंशे सम एवालंकारः अंशुकृतश्चन्द्रे चन्द्रकृतश्च भगवति भगवत्कृतो राजनीत्येवमुत्तरोत्तरमुपचीयमानः । राजगतस्त्वनुक्तत्वात्प्रौढोक्तेरेव विषयः । एवं च
'शशशृङ्गधनुर्लसत्करा गगनाम्भोरुहमालिकाराः ।
तनयैः सह भाविजन्मनां तव खेलन्ति नरेन्द्र वैरिणः ॥' इत्यादावेकस्य मिथ्यात्वसिद्ध्यर्थ मिथ्याभूतवस्त्वन्तरकल्पनं मिथ्याध्यवसित्याख्यमलंकारान्तरमिति न वक्तव्यम् । प्रौढोक्त्यैव गतार्थत्वात् । 'केशाः कलिन्दजातीरतमालस्तोममेचकाः' इत्यादौ प्राचीनकृतप्रौढोक्त्युदाहरणे यथा तमालेषु श्यामत्वातिशयाथै श्यामत्वाधिकरणीभूतकालिन्दीसंबन्ध उद्भाव्यते तथा वैरिष्वपि मिथ्यात्वसिद्धये मिथ्यात्वाधिकरणशशशृङ्गादिसंबन्ध इत्यस्यापि सुवचत्वात् । तत्र श्यामत्वातिशयः इह तु मिथ्यात्वमात्रं न तु तस्यातिशयः सिद्ध्यतीति वैलक्षण्यं तु न वाच्यम् । तमालस्तोमे प्रमाणान्तरेण सिद्धेऽपि श्यामत्वे कालिन्दीसंसौद्भावनं पुनः श्यामत्वसाधनेनातिशयागूरकमेव स्यात् । वरिषु तु मिथ्यात्वस्यासिद्धत्वाच्छशशृङ्गादिसंबन्धैमिथ्यात्वस्य सिद्धिरित्यार्थसमाजाधीनेयमतिशयसिद्धिलक्षण्यं न प्रयोजयति । यत्तु 'वेश्यां वशयेत्खनजं वहन्' इति कुवलयानन्दकता मिथ्याध्यवसितेरुदाहरणं निर्मितं तत्तु निदर्शनयैव गतार्थम् । निदर्शनागर्भात्र मिथ्याध्यवसितिरिति तु न युक्तम् । मिथ्याध्यवसितेरेव मिथ्यात्वात् । यदि च मिथ्याध्यवसितिरेवालंकारान्तरं स्यात् सत्याध्यवसितिरपि तथा स्यात् । यथा--
'हरिश्चन्द्रेण संज्ञप्ताः प्रगीता धर्मसूनुना ।
खेलन्ति निगमोत्सङ्गे मातर्गङ्गे गुणास्तव ॥' अत्र हरिश्चन्द्रयुधिष्ठिरनिगमसंबन्धाद्रुणानां सत्यत्वं प्रतीयते । एवम् _ 'मध्ये सुधासमुद्रस्य सितामयगृहोदरे ।
पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः॥' इति प्रसिद्धा । आगूरणं व्यञ्जनम् । शङ्कते-तत्रेति । तमालेति । यत इत्यादिः । शङ्कते--निदर्शनेति । अत्र वेश्यामित्यत्र । युक्त्यन्तरमप्याह-यदि चेति । धर्म
For Private And Personal Use Only
Page #516
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अत्रापि सुधासमुद्रादिसंबन्धादुक्तिषु माधुर्यातिशयः प्रतीयमानः कस्यालंकारस्य गोचरः स्यात् । अतोऽलंकारान्तरं स्यात् । मम तु प्रौढोक्त्यैव गतार्थतेत्यास्तां तावत् ।
इति रसगङ्गाधरे प्रौढोक्तिप्रकरणम् । अथ ललितम्प्रकृतर्मिणि प्रकृतव्यवहारानुल्लेखेन निरूप्यमाणोऽप्रकृतव्यवहारसंबन्धो ललितालंकारः।
'आददानः परद्रव्यं विषं भक्षयसि ध्रुवम्' इत्यादिनिदर्शनावारणाय तृतीयान्तम् । अप्रस्तुतप्रशंसावारणाय प्रकृतधर्मिणीति । यथा
'क्क वा रामः कामप्रतिभटललाटंतपबल___ स्तव कामी वीरा रणशिरसि धीरा मखभुजाम् । दिधक्षोस्त्रैलोक्यं प्रलयशिखिनः पद्ममथन
प्रगल्भैः प्रालेयैः प्रशममसि कर्तु व्यवसितः ॥' अत्र प्रकृते धर्मिणि रावणे परदत्तपुरोडाशादिकममता देवानामग्रे धारैः कुम्भकर्णादिभिर्वीरैर्भगवतो रामस्य पराभवमिच्छन्नित्येवं कण्ठरवेण तादृशेच्छारूपं प्रकृतव्यवहारं विषयमनुक्त्वैव तादृशप्रालेयकरणकतादृशाग्निप्रशमनव्यवसायरूपोऽप्रकृतव्यवहारो विषय्युपात्तः । विषयोपादाने तु निदर्शनैव । यथा वा'नान्यास्ति किं भूमितले सुरूपा सीतैव वा किं भवतोऽनुरूपा ।
आकर्षता चन्दनशाखिशाखां प्रबोधितोऽयं भवता फणीन्द्रः ॥' अत्रापि राघवसंबन्धिनायिकाहरणप्रयुक्तं तदीयक्रोधोद्बोधमनुक्त्वैव चन्दनसंबन्धिशाखाकर्षणप्रयुक्तं फणीन्द्रप्रबोधनमुपन्यस्तम् । न चात्र भेदेऽप्यभेद इत्यतिशयोक्त्या गतार्थतेति वाच्यम् । तत्र हि पदार्थन सूनुयुधिष्ठिरः । आस्तां तावदिति । चिन्त्यमिदम् । मिथ्यात्वकल्पनकृतचमत्कारस्यापहवनीयत्वेन पृथगलंकारतासिद्धेः । किं च कविप्रतिभामात्रकल्पिता अर्थाः काव्येऽलंकारपदभाज इति तव सिद्धान्तात्सत्यत्वप्रतीत्यर्थे कल्पितस्याप्यर्थस्य तत्कल्पितत्वाभावेन शब्दमात्रादलंकारत्वासंभवादिति दिक् ॥ इति रसगङ्गाधरमर्मप्रकाशे प्रौढो. क्तिप्रकरणम् ।।
For Private And Personal Use Only
Page #517
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
९०१
पदार्थस्यैवाभेदाध्यवसानं 'कनकलवायां विराजते चन्द्रः' इत्यादौ दृष्टम् , न तु व्यवहारेण व्यवहारस्येत्यविषय एवायमतिशयोक्तेः । नापि साहश्यमूलयाप्रस्तुतप्रशंसया । धयंशेऽप्रस्तुतत्वविरहात् । नापि निदर्शनया। एकर्मिगतव्यवहारहयोपादान एव तस्या इष्टेः । अत एव 'उपात्तयोः' इति तल्लक्षणे विशेषणमुक्तम् । प्रकृते च प्रकृतव्यवहारस्यानुपात्तत्वादलंकारान्तरमेव । एवं च
'क्क सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्युर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥' इत्यत्र काव्यप्रकाशकारो यन्निदर्शनामुदाहात्तिदसंगतमेव । ललितस्यावश्याभ्युपगम्यत्वान्निदर्शनाया अत्राप्राप्तेश्च । तदित्थं ललितस्यालंकारान्तरत्वमुरीकुर्वतामाशयः ।
अन्ये तु " ललितं नालंकारान्तरम् । निदर्शनयैव गतार्थत्वात् । नन्वेकर्मिगतप्रस्तुताप्रस्तुतव्यवहारद्वयोपादानजीविता निदर्शना कथमप्रस्तुतव्यवहारमात्रोपादाने पदमाधत्तामिति चेत्, श्रूयतामायुष्मता । इह तावदलंकाराः प्रायशः श्रौता आर्थाश्च संभवन्ति । तत्र श्रौतेभ्य आर्था न एथगलंकारत्वेन गण्यन्ते । किं तु पृथग्भेदत्वेन । तदलंकारसामान्यलक्षणेन क्रोडीकरणात् । इदं पुनर्वाक्यार्थनिदर्शनास्वरूपम्-व्यवहारद्वयवद्धर्म्यभेदप्रतिपादनाक्षिप्तो व्यवहारद्वयाभेदः । तत्र व्यवहारद्वयवद्धर्म्यभेदस्य प्रतिपादनं श्रौतमेवापेक्षितमिति न नियमः । किं तु प्रतिपादनमात्रम् । तेन 'परद्रव्यं हरन्मयों गिलति वेडसंचयम्' इत्यत्र व्यवहारद्वयवद्धर्मिणोरभेदस्य श्रुत्या प्रतिपादन इव ‘धिक्परस्वं तथाप्येष गिलति वेडसंचयम्' इत्यत्रार्थप्रकृतव्यवहारवर्मिश्रौताप्रकृतव्यवहारवद्धर्मिणोरार्थाभेदस्य प्रतिपादनेऽपि वाक्यार्थनिदर्शनात्वमक्षतम् । एकत्र ौतीत्वमपरत्रार्थीत्वमिति तु विशेषो न वार्यते । पदार्थनिदर्शनास्वरूपं तूपमानोपमेयधर्मयोरभेदाध्यवसायमूल उपमेय उपमानधर्मसंबन्ध इति पृथगेव । एतदुभयान्यतरत्वं च प्राचीनरीत्या सामान्यलक्षणम् । __ प्राग्वदाह-अथेति । प्रशंसया गतार्थता इत्यस्यानुषङ्गः । एवमग्रेऽपि । एवं चेत्यस्यार्थ स्पष्टयति -ललितेति । पदं स्थानम् । पुनस्त्वर्थे । ललितमेवेति । न तुर(?)
For Private And Personal Use Only
Page #518
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०२
काव्यमाला |
यदि तु ललितं ष्टथगलंकारः स्यात् लुप्तोपमादिरप्युपमादेः ष्टथक्स्यात् । त्वदुक्तयुक्तेस्तुल्यत्वात् । नन्वतिशयोक्तिरेवं सति रूपक एव विलीयेत । विषयविषयिणोर्द्वयोरप्युपादाने श्रौतं रूपकम्, विषयमात्रोपादाने त्वार्थमित्यस्यापि सुवचत्वात् । सत्यम् । यत्र ह्यलंकारशरीरमुभयत्राप्यविलक्षणं तत्रैकालंकारव्यपदेशो युक्तः । यथासादृश्यं निष्पाद्यमानमुपमाशरोरं लुप्तोपमादिष्वविलक्षणमेवेति तत्राप्युपमयैव व्यपदेशो न्याय्यः, नालंकारान्तरेण । लुप्तत्वपूर्णत्वादिस्तु न तच्छरीरनिविष्ट इति स्वयं व्यावर्तमानोऽपि नोपमात्वव्यावर्तकः तथान्यत्रापीति स्थितिः । एवं च विषयतावच्छेदकरूपेण भाते विषये विषयितावच्छेदकावच्छिन्नाभेदस्य रूपकशरीरस्य विषयतावच्छेदकरूपेणाभासमानविषयात्मकादतिशयोक्तिस्वरूपाद्विलक्षणत्वेन द्वयोरेकालंकारत्वं न युक्तम् । निदर्शनाललितयोस्तु स्वरूपावैलक्षण्यं प्रदर्शितमेवेत्येकालंकारत्वमेव" इत्याहुः ।
'आहार्यनिश्चयविषयीभूतो विषये विषय्यभेदो रूपक स्वरूपमुच्यते । न निवेश्यते च विषयतावच्छेदकादिगौरवात् । एवं चातिशयोक्तेर्निंगीर्याध्यवसानरूपाया रूपकभेदत्वमस्तु नाम | का नो हानिः । एवमपहुतेरपि । विषयतावच्छेदकनिह्नवानिव निगरणानि रूपकस्यैवावान्तरविशेषाः' इति तु नव्याः । एतन्मतरीत्या तु ललितस्य निदर्शनातः पृथगलंकारत्वं मनोरथललितमेवेति । एवं च 'तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्' इत्यत्र निदर्शना साधु संगच्छते । क्व सूर्येत्यादिना स्वमतिसूर्यप्रभववंशयोरत्यन्ताननुरूपत्वकथनोत्तरमुडुपकरणकसागरतरणेच्छाया अप्रकृतायाः कथनेन तादृशमतिकरणकवर्णनेच्छायाः प्रकृतायाः प्रतिपत्तेः ।
यत्तु - " अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य' इति पद्ये कतमो देशस्त्वया परित्यक्त इति प्रस्तुतार्थमनुपन्यस्य वसन्तम्क्तस्य वनस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासाछलितालंकारः" इति कुवलयानन्दकार आह । तदत्यन्तमसंगतम् । अत्र कथमन्यस्य दशामन्यो नेतुं शक्य इति वसन्तमुक्तवनदशां निःश्रीकत्वलक्षणामनायीति हि पर्यवसन्नोऽर्थः । तत्र निःश्रीकत्वरूपकार्यद्वारा का
For Private And Personal Use Only
Page #519
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
रणस्य राजकर्तृकत्यागकर्मत्वस्याभिधानं पर्यायोक्तेविषयः । दशयोरेक- . त्वाध्यवसानं तु पदार्थनिदर्शनाया अतिशयोक्तेर्वेत्यन्यदेतत् । एवं च पदार्थनिदर्शनोपबृंहितस्य पर्यायोक्तस्यैवात्र विषयः, न ललितस्य । किं च तदुक्तं ललितालंकारलक्षणमपि नात्र संभवति । तच्च "प्रस्तुते वर्ण्यवाक्यार्थप्रतिबिम्बस्य वर्णनम्' प्रस्तुते धर्मिणि वर्णनीयं वाक्यार्थमवर्णयित्वा कस्यचिदप्रस्तुतस्य वाक्यार्थस्य वर्णनं ललितम्" इत्यादिना ग्रन्थेन भवता विवेचितम् । इह च प्रस्तुते धर्मिणि देशविशेषे राजकर्तृकत्यागकर्मत्वरूपस्य वर्ण्यस्यार्थस्यावर्णनेऽप्यप्रस्तुतस्य वसन्तकर्तृकत्यागकर्मत्वस्याप्यवर्णना कथं संगच्छताम् । यदि पुनः 'अकारि देशः कतमस्त्वयाद्य निरस्तचन्द्रः कठिनाशयेन' इति पद्यं स्यात्तदा स्यादपि तव मनोरथः । न च तादृशवनदशाया अप्रस्तुताया देशविशेषे वर्णनमस्त्येवेति वाच्यम् । दशाशब्देन तद्दशासशस्य दशान्तरस्य लक्ष्यत्वेन तस्याप्रस्तुतत्वायोगात् । अन्यथा पदार्थनिदर्शनोच्छेदापत्तेः । एवम्
'रामो विजयते यस्य क्षणात्सामर्षवीक्षणात् ।
दावाग्निदग्धकान्तारलीलां लङ्कापुरी दधौ ।' इत्याजौ ललितस्यालंकारान्तरतामभ्युपगच्छतामपि मते न तस्य विषयः, किं तु निदर्शनायाः । अत एव 'उदयति विततो+रश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।
वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ।। इति प्राचां निदर्शनोदाहरणमपि संगच्छते । तव तु रश्मिरज्जुनियन्त्रितपार्श्वद्वयसंलग्नसूर्यचन्द्रोऽयं गिरिरित्येवं प्रकृतधारूढतया प्रकृतार्थानुपादानाललितमेव स्यात् । प्रकृतव्यवहारस्य लेशतोऽप्यकीर्तने केवलं प्रकरणादिना गम्यत्वे ललितम् । अन्यथा निदर्शनेति चेत् 'क्व सूर्यप्रभवः' इत्यस्मात्कथं निदर्शना तर्हि निर्वासितेति सर्वमसमञ्जसमेव ।
इति रसगङ्गाधरे ललितालंकारप्रकरणम् । संभावितमपीत्यर्थः । कथं निदर्शना तर्हि निर्वासितेति । वसन्तकर्तकत्वात्कमत्वस्यावर्णनेऽपि तादृशवनदशारूपस्याप्रस्तुतस्यावर्णनातू । घटकतया तस्यापि वर्ण
For Private And Personal Use Only
Page #520
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०४
काव्यमाला।
अथ प्रहर्षणम्साक्षात्तदुद्देश्यकयनमन्तरेणाप्यभीष्टार्थलाभः प्रहर्षणम् ।
इदं च सामान्यलक्षणं त्रिविधप्रहर्षणसाधारणम् । तत्राकस्मादभीप्सितार्थलाभ इत्येका विधा । वाञ्छितार्थसिद्ध्यर्थ यत्ने क्रियमाणे ततोऽप्यधिकतरार्थलाभ इत्यपरा । उपेयसिद्ध्यर्थाद्यनात्साक्षात्फलस्य लाभ इति तृतीया । अस्यामेवाव्याप्तिनिरासार्थ लक्षणे साक्षादित्युक्तम् । क्रमेणोदाहरणानि'तिरस्कृतो रोषवशात्परिष्वजन्प्रियो मृगाक्ष्याः शयितः पराङ्मुखः । किं मूच्छितोऽसाविति कांदिशीकया कयाचिदाचुम्ब्य चिराय सवजे ॥' अत्र यत्नसामान्यशून्यस्यापीष्टलाभः । 'केलीमन्दिरमागतस्य शनकैरालीरपास्येङ्गितैः
सुप्तायाः सरुषः सरोरुहदृशः संवीजनं कुर्वतः । जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि
श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममाधीयत ॥' अत्र भामिन्या रोषनिवारणाय यत्ने क्रियमाणे रोषनिवारणादप्यधिकतरसुखप्रदः कामुकस्य भामिनीकर्तृकः स्वकरकर्मकस्तत्कुचाधिकरणक आसङ्गः । न चात्र तृतीयभेदः शङ्कचः । व्यजनवीजनसमये कामुकस्य माननिवारणस्यैव मुख्योद्देश्यत्वेन तदुपेयकुचस्पर्शादिफलान्तरस्यानुपस्थितेः । यथा वा
'लोभाद्वराटिकानां विक्रेतुं तक्रमानिशमटन्त्या । __ लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥' अत्र प्रहर्षणद्वितीयभेदः स्फुट एव । अननुरूपसंबन्धमादाय विषमालंकारश्च । तत्र महेन्द्रनीलमणिरित्यतिशयोक्त्यालीढयोविषयविषयिणोरुभयोरपि प्रहर्षणेऽनुगुणत्वम् । वाञ्छिताधिकार्थत्वस्य मणिभगवदुभनाच्च। निदर्शनायामुभयोरुपादानं नियतम्, अत्र तु नेति भेदः । अत एव क्क सूर्य इत्यादौ वाक्यार्थनिदर्शना वेति दिक् ।। इति रसगङ्गाधरममप्रकाशे ललितालंकारप्रकरणम् ॥ प्राग्वदाह-अथेति । तत्र तयोर्मध्ये । यथासंख्येनाह-विधेति । मात्रस्यानु
For Private And Personal Use Only
Page #521
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः । यसाधारणत्वात् । विषमे तु नीलमणिरूपस्य विषयिमात्रस्य । यतो वराटिकार्थिनो यथा महेन्द्रनीलमणेः कोटिमूल्यस्य संसर्गोऽननुरूपो न तथा भगवत्संसर्गों भवितुं प्रभवति । न चाज्ञानिनां भगवत्संसर्गोऽननुरूप एवेति वाच्यम् । एवं तर्हि तक्रविक्रयकर्तृत्वेनैवाज्ञानित्वलाभे वराटिकालोभरूपहेतूपन्यासस्यानतिप्रयोजनकत्वापत्तेः । यादृशवाञ्छितसिद्धयर्थ यत्नः क्रियते तादृशवाञ्छितसिद्धौ तु समालंकार एव ।
'तद्दर्शनोपायविमर्शनार्थ मया तदालीसदनं गतेन ।
तत्रैव सालक्ष्यत पक्ष्मलाक्षी दाक्षायणीमर्चयितुं प्रयाता ।।' अत्र तदर्शनोपायसिद्ध्यर्थ प्रयुक्तात्तत्सखीसदनगमनयत्नात्साक्षादेव तदर्शनलाभः । यत्तु
'चातकस्त्रिचतुरान्पयःकणान्याचते जलधरं पिपासया । __ सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ।' इति पद्यम् 'वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम्' इति प्रहर्षणद्वितीयप्रभेदं लक्षयित्वोदाहृतं कुवलयानन्दकता । तदसत् । वाञ्छितादधिकार्थस्य संसिद्धिरिति लक्षणे संसिद्धिपदेन निष्पत्तिमात्रं न वक्तुं युक्तम् । सत्यामपि निष्पत्तौ वाञ्छितुस्तल्लाभरुतसंतोषानतिशये प्रहर्षणशब्दयोगार्थासंगत्या तदलंकारत्वायोगात् । किं तु लाभेन कृतः संतोषातिशयः । एवं च प्रकृते चातकस्य त्रिचतुरकणमात्रार्थितया जलदकर्तृकजलकरणकविश्वपूरणेन हर्षाधिक्याभावात्प्रहर्षणं कथंकारं पदमाधत्ताम् । वाञ्छितादधिकप्रदत्वेन दातुरुत्कर्षों भवंस्तु न वार्यते । अत एव हन्त हन्तेत्यादिनार्थान्तरन्यासेन स एव पोष्यते । लोभाद्वराटिकानामित्यस्मदीये तूदाहरणे वाञ्छितुर्वाञ्छितार्थादधिकवस्तुलाभेन संतोषाधिक्यात्तद्युक्तम् ।
इति रसगङ्गाधरे प्रहर्षणप्रकरणम् । गुणत्वम् (?) । विमर्शनं विचारः सिद्धिर्वा । वाञ्छितादिति । यत इत्यादिः । पदं स्थानम् । चिन्त्यमिदम् । चातकवृत्तान्तस्याप्रस्तुतत्वात्तद्वयङ्गयदाट्याचकवृत्तान्ते पर्यव. सानेन संतोषातिशयस्य दुर्वारत्वात् ॥ इति रसगङ्गाधरमर्मप्रकाशे प्रहर्षणप्रकरणम् ॥
For Private And Personal Use Only
Page #522
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
अथ विषादनम्अभीष्टार्थविरुद्धलाभो विषादनम् ।
अस्य चाभीष्टार्थलाभार्थ कारणप्रयोगो यत्र न कृतः केवलमिच्छैव कृता जातश्च विरुद्धार्थलाभः, स यत्र चेष्टार्थ प्रत्युक्तेऽपि कारणे तस्मान्न विरुद्धार्थलाभः, अपि तु स्वकारणवशात्स च विविक्तो विषयः । यत्र त्विष्टार्थ प्रयुक्तात्कारणादेव विरुद्धार्थलाभस्तत्र तादृशकारणविरुद्धार्थयोरुत्पादकोत्पाद्यभावलक्षणसंसर्गस्याननुरूपत्वाद्विषमयिष्यमाणविरुद्धार्थलाभसत्त्वाच्च विषादनमिति संकीर्णतैव । एवं चास्य विषमभेदैर्गतार्थतेति नाशङ्कनीयम् । विषमरहितस्याप्येतद्विषयस्य दर्शयिष्यमाणत्वात् । यथा'स्वस्वव्याप्टतिमनमानसतया मत्तो नित्ते जने
चञ्चुकोटिनिराकृतार्गल इतो यास्याम्यहं पञ्जरात् । एवं कीरवरे मनोरथमयं पीयूषमास्वादय
त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः ॥' अत्र हि विषमप्रभेदस्य नास्ति विषयः । इष्टाथै कारणप्रयोगाभावात् । इष्टार्थप्रयुक्तकारणेन सह विरुद्धार्थस्योत्पाद्योत्पादकभावलक्षणसंसर्गस्याननुरूपत्वं हि तच्छरीरम् । तस्माद्विषादनमेवाप्रस्तुतप्रशंसाघटकतयावस्थितम् ।
'चेलाञ्चलेनाननशीतरश्मि संवृण्वतीनां हरिदृश्वरीणाम् ।
गोपाङ्गनानां स्मरजातकम्पादकाण्डसंपातमियाय नीवी ॥' अत्रेष्टस्याननगोपनस्य विरुद्धोऽर्थो नीविस्खलनम् । कारणीभूतत्रपासंघातपरिपन्थित्वात् । तच्च सात्त्विककम्परूपात्स्वकारणादेवोत्पन्नम्, न तु गोपनानुकूलयत्नात् । नापीष्टसाधनत्वेन प्रयुक्तात्कारणादिष्टानुत्पत्तिरत्रास्ति । चेलाञ्चलावरणेनाननगोपनरूपस्येष्टस्योत्पत्तेः । अतो विषादनमेवात्र, न विषमम् ।
प्राग्वदाह---अथेति । अस्य चेत्यस्य विषय इत्यत्रान्वयः । वारणकरो गजशुण्डादण्डः । एकस्य विषादनस्य ॥ इति रसगङ्गाधरमर्मप्रकाशे विषादनप्रकरणम् ॥
For Private And Personal Use Only
Page #523
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
५०७ अत्रेदं बोध्यम्-इष्टसाधनत्वेन निश्चितादनिष्टोत्पत्तिभिरिति यो विषमस्य भेदः । प्राक्प्रत्यपादि सोऽनेन विषादनेन ग्रस्तत्वादस्यैव प्रभेदो भवितुमीष्टे, न तु विषमस्येति कश्चिद्यदि ब्रूयात्स प्रष्टव्यः-न विषमस्येति यदुक्तं तत्कस्य हेतोः । विषादनेनेव विषमेणापि कार्यकारणसंसर्गाननुरूपतालक्षणेन ग्रस्तत्वात् । न चात्रैकस्यान्यापवादकत्वं युक्तम् । द्वयोरपि सावकाशत्वात्, भिन्नविषयत्वाच्च । विरुद्धलाभांशो विषादनस्य, विरुद्धलाभेष्टार्थप्रयुक्तकारणयोः संसर्गाननुरूपतांशश्च विषमस्य विषय इत्यवोचाम । तस्मात्तत्र किंचिदंशे विषमम्, किंचिदंशे विषादनमित्युभयोरपि समावेशो बोध्यः ।
इति रसगङ्गाधरे विषादनप्रकरणम् । अथोल्लास:--- अन्यदीयगुणदोषप्रयुक्तमन्यस्य गुणदोषयोराधानमुल्लासः ।
तच्च गुणेन गुणस्य, दोषस्य वा, दोषेण गुणस्य, दोषस्य वेति चतुर्धा । आधानं च तद्वत्ताबुद्धिः । क्रमेणोदाहरणानि
अलभ्यं सौरभ्यं हरति सततं यः सुमनसां
क्षणादेव प्राणानपि विरहशस्त्रक्षतहृदाम् । त्वदीयानां लीलाचलितलहरीणां व्यतिकरा
त्पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ॥' अत्र लहरीणां पावनत्वातिशयेन पवमानस्य पावनत्वगुणान्तरं वर्णितम् ।
'विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं
न याभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यक्कारो जननि मनुजस्य श्रवणयो
र्ययोर्नान्तर्यातस्तव लहरिलीलाकलकलः ॥' अत्र श्रीभागीरथीरमणीयत्वगुणेन तद्रूपशब्दविमुखयोनयनयोः श्रवणयोश्च नैष्फल्यधिक्काररूपौ दोषौ । यथा वाप्राग्वदाह-अथेति । व्यतिकरः संबन्धः । पवमानो वायुः । न्यक्कारो धिक्कारः ।
For Private And Personal Use Only
Page #524
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५०८
www. kobatirth.org
काव्यमाला |
'हिंसाप्रधानैः खलु यातुधानैर्यानीयतापावनतां सदैव । रामाङ्घ्रियोगादथ सापि वन्या विन्ध्यस्य धन्यास्त मुनेः सतीब ॥' अत्र दोषेण दोषः पूर्वार्धे, द्वितीयार्धे तु गुणेन गुण इति विशेषः ।
यथा वा
Acharya Shri Kailassagarsuri Gyanmandir
'भूषितानि हरेर्भक्तैर्दूषितानि पराङ्मुखैः । स्वकुलं नगरं देशो द्वीपं सर्वा च मेदिनी ॥' अत्रोत्तरोत्तरव्यापकतया तथेति विशेषः ।
'श्वपाकानां व्रातैरमितविचिकित्साविचलितै
विमुक्तानामेकं किल सदनमेनः परिषदाम् । मुदा मामुद्ध जननि घटयन्त्याः परिकरं तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः || ' अत्र वक्तृगतपापरूपदोषमयुक्तस्तदुद्धयः श्रीगङ्गायाः श्लाध्यत्वं
गुणः । यथा वा
अथावज्ञा
तद्विपर्ययोsवज्ञा ।
श्ववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनं कुतर्केष्वभ्यासः सततपरपैशुन्यमननम् । अपि श्राश्रावं मम तु पुनरेवंविधगुणा
I
नृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ॥' इहापि प्रावदेव । किं तु व्यङ्ग्यः स इति विशेषः । 'काव्यलिङ्गेन गतार्थोऽयम् । नालंकारान्तरत्वभूमिमारोहति' इत्येके । 'लौकिकार्थमयत्वादनलंकार एव' इत्यपरे ।
इति रसगङ्गाधर उल्लासप्रकरणम् ।
वन्या वनसमूहः । मुनेरिति । गौतमस्याहल्येवेत्यर्थः । श्वपाकाश्चण्डालाः । परिकरं कटिबन्धनम् । श्ववृत्तिः सेवा । त्वत् त्वाम् । भूमिं स्थानम् ॥ इति रसगङ्गाधरमर्म - प्रकाश उल्लासप्रकरणम् ॥
For Private And Personal Use Only
Page #525
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
तस्योल्लासस्य विपर्ययो ऽभावः । अन्यस्यान्यदीयगुणदोषप्रयुक्तगुणदोषाधानाभाव इति पर्यवसितोऽर्थः । यथा—
'निष्णातोऽपि च वेदान्ते वैराग्यं नैति दुर्जनः । चिरं जलनिधौ मनो मैनाक इव मार्दवम् ॥' अत्र पूर्वार्धे प्रपञ्चानित्यत्वबोधकता रूपवेदान्तशास्त्रगुणप्रयुक्तस्य खले वैराग्यरूपगुणाधानस्य, उत्तरार्धे द्रवत्वरूपजलनिधिगुणप्रयुक्तस्य मैनाके मार्दवरूपगुणाधानस्य च विपर्ययो वर्णितः ।
' मध्येगलं विहरतां गरलं निकामं नागाधिपः शिरसि भालतले हुताशः । ध्याता भवज्वलनमध्यगतैस्तथापि तापं तदैव हरते हर ते तनुश्रीः ॥'
अत्र तापकतारूपगरलादिदोषप्रयुक्तस्य भगवन्मूर्ती क्रूरत्वादिदोषाधानस्याभावः । न चात्रातगुणो वक्ष्यमाणोऽलंकार इति वाच्यम् । यतो यमुनाजलस्थराजहंसादेर्यथा यमुनाजलगतश्यामत्वाग्रहणं न तथा भगवन्मूतेर्गरलादिगतकरत्वाग्रहणं विवक्षितम् । अपि तु तादृशक्रूरत्वप्रयुक्तस्य क्रूरत्वान्तरस्यानाविष्करणमित्यस्ति विशेषः । ' निष्णातोऽपि - ' इत्यादौं तु तद्गुणस्याप्रसक्तिरेव ।
'महाणि मा कुरु विषादमनादरेण
Acharya Shri Kailassagarsuri Gyanmandir
मात्सर्यमन्दमनसां सहसा खलानाम् ।
For Private And Personal Use Only
५०९
काव्यारविन्दमकरन्दमधुव्रताना
मास्येषु यास्यसि सतां विपुलं विलासम् ॥'
अत्र पूर्वार्धेऽनादररूपखलदोषप्रयुक्तस्य कविवाण्यां विषादरूपदोषस्य निषिध्यमानत्वादप्रतिष्ठानेनाभावः शाब्दः वाणीगतरमणीयतारूपगुणप्रयुक्तस्य खले संतोषरूपगुणाधानस्याभावः पुनरार्थ इत्युभयविधाप्यवज्ञा । उत्तरार्धे तु सहृदयगुणेन सरसतारूपेण वाण्या उल्लासरूप
प्राग्वदाह - अथेति । विहरतामित्यस्याग्रेऽपि यथायथमनुषङ्गः । भवेति । संसारामिदग्धैरित्यर्थः । पुनस्त्वर्थे ॥ इति रसगङ्गाधरमर्मप्रकाशेऽवज्ञाप्रकरणम् ॥
Page #526
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
गुणाधानमित्युल्लास एव । विशेषोक्त्यैव गतार्थत्वादवज्ञा नालंकारान्तरमित्यपि वदन्ति ।
[इति रसगङ्गाधरेऽवज्ञाप्रकरणम् ।] [अथानुज्ञा-]
उत्कटगुणविशेषलालसया दोषत्वेन प्रसिद्धस्यापि वस्तुनः प्रार्थनमनुज्ञा । यथा'प्रणिपत्य विधे भवन्तमद्धा विनिबद्धाञ्जलिरेकमेव याचे।
जनुरस्तु कुले कृषीवलानामपि गोविन्दपदारविन्दभाजाम् ॥' अत्र हरिभक्तिलालसया कृषीवलकुलजन्मनः प्रार्थनम् ।
[इति रसगङ्गाधरेऽनुज्ञाप्रकरणम् ।] [अथ तिरस्कारः-] एवम्दोषविशेषानुबन्धाद्गुणत्वेन प्रसिद्धस्यापि द्वेषस्तिरस्कारः । यथा'श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटा
मदभ्राम्यदृङ्गावलिमधुरसंगीतसुभगाः । निमयानां यासु द्रविणरसपर्याकुलहृदां
सपर्यासौकर्य हरिचरणयोरस्तमयते ॥' अत्र हरिचरणभजनच्युतिभयाद्राज्यसुखस्य तिरस्कारः ।
अमुं च तिरस्कारमलक्षयित्वानुज्ञां लक्षयतः कुवलयानन्दकतो विस्मरणमेव शरणम् । अन्यथा 'भवद्भवनदेहली-' इति तदुदाहृतपद्ये 'किमित्यमरसंपदा' इत्यंशे तिरस्कारस्य स्फुरणानापत्तेः । ननु कथमनयोरलंकारयोः संभवः । यावता प्रार्थनमिच्छा तिरस्कारश्च द्वेषः । तत्र दोषे इष्टसाधनताज्ञानरूपकारणाभावादिच्छा न युक्ता । गुणे च द्विष्टसाधनता
प्राग्वदाह-अथेति । अद्धति स्फुटावधारणयोः । तत्त्वातिशययोरित्येके ॥ इति रसगङ्गाधरमर्मप्रकाशेऽनुज्ञाप्रकरणम् ॥]
For Private And Personal Use Only
Page #527
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
५११
ज्ञानाभावाद्देषोऽपि तथा । वैपरीत्यं तु कारणसत्त्वादुचितमिति चेत्, मैवम् । दोषगुणयोर्गुणदोषांशमादायेष्टद्विष्टसाधनताज्ञानयोः सत्त्वात्त्वदुक्तं कारणं तावदव्याहतम् । उत्कटद्विष्टाननुबन्धीष्टसाधनताज्ञानस्योपायेच्छां प्रति उत्कटेष्टाननुबन्धिद्विष्टसाधनताज्ञानस्य चोपायद्वेषं प्रति कारणत्वस्य वाच्य. त्वाद्वैपरीत्यमपि नोचितम्। अन्यथा सुखदुःखोभयसाधनेषु चान्द्रायणकलञ्जभक्षणादिषु हरीतकीदधित्रपुसभक्षणादिषु चेच्छाद्वेषयोरनियम एव स्यात् । अत्र च पुरुषकालप्रवेश आवश्यकः। उत्कटतत्पुरुषीयतात्कालिकद्विष्टाननुबन्धितत्पुरुषीयतात्कालिकेच्छाविषयफलसाधनताज्ञानं तत्पुरुषीयोपायेच्छां प्रति कारणम् । एवमुत्कटतत्पुरुषीयतात्कालिकेष्टाननुबन्धितत्पुरुषीयतात्कालिकद्वेषविषयफलसाधनताज्ञानं तत्पुरुषीयोपायद्वेषं प्रति । तेन पुरुषान्तरीयं कालान्तरीयं च द्विष्टमिष्टमादाय न दोषः । इदं तु बोध्यम्--- फले उत्कटेच्छया उपायेऽप्युत्कटेच्छैव जायते । एवं फले उत्कटद्वेषेणोपायेऽपि द्वेष एव । एवं च सुखदुःखोभयसाधनेषु चान्द्रायणादिषु यदि स्वसामग्रीवशात्प्रथमं सुखे उत्कटेच्छा तदा तत्साधनेषु चान्द्रायणादिष्वपि सैव । अथ स्वसामग्रीवशात्प्रथमं दुःखे उत्कटद्वेषस्तदा चान्द्रायणादिषु स एव । उत्कटसामग्र्या बलवत्त्वकल्पनात् । उत्कटत्वं च प्रकृते इच्छाद्वेषगतो विषयिताविशेषः । एकसाधनजन्ये इष्टानिष्टरूपे फलद्वये एककालावच्छेदेनैकत्रोत्कटेच्छा अपरत्रोत्कटद्वेषश्च न संभवति । तथा सति चान्द्रायणादिप्वेकस्मिन्नेव समये इच्छाद्वेषयोईयोरप्यापत्तेः । एवं च बलवदनिष्टाननुबन्धित्वं बलवदिष्टाननुबन्धित्वं चोपायेच्छाद्वेषयोः कारणतावच्छेदकेन देयमेवेत्याहुः । अन्ये तु फलेच्छाफलसाधनताज्ञानयोईयोरुपायेच्छां प्रति, फलद्वेषफलसाधनताज्ञानयोरुपायद्वेषं प्रति च कारणत्वम् । उत्कटसामग्र्या बलवत्त्वाच्चेष्टानिष्टोभयसाधने न दोष इत्यपि वदन्ति । एवं चेष्टानिष्टोभयसाधने दोषे गुणे च गुणेन दोषेण च मि
तथा न युक्तः । शङ्कते-वैपेति । दोषेति । यत इत्यादिः । यथासंख्यमत्र। दधियुक्तं त्रपुसं 'फूट' इति प्रसिद्धम् । 'दधित्रपुसं प्रत्यक्षो ज्वरः' [इति] महाभाष्योक्तः । अत्र चेति । उक्तकार्यकारणभावे पुरुषकालयोरित्यर्थः । प्रति कारणमित्यस्यानुषङ्गः ॥ इति रसगङ्गाधरमर्मप्रकाशे तिरस्कारप्रकरणम् ॥
For Private And Personal Use Only
Page #528
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
५१२
श्रिते सहृदयानामिच्छाद्वेषयोरुचितैवोत्पत्तिः, हरीतकी कदलभक्षणयो
रिवेति ।
[इति रसगङ्गाधरे तिरस्कारप्रकरणम् । ]
काव्यमाला ।
Acharya Shri Kailassagarsuri Gyanmandir
[अथ लेश:-]
गुणस्यानिष्टसाधनतया दोषत्वेन, दोषस्येष्टसाधनतया गुणत्वेन
च वर्णनं लेशः ।
यथा
अपि बत गुरुग मा स्म कस्तूरि यासीरखिलपरिमलानां मौलिना सौरभेण । गिरिगहनगुहायां लीनमत्यन्तदीनं
स्वजनकममुनैव प्राणहीनं करोषि ॥'
'नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् । शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः ॥' पूर्वत्र गुणस्य दोषत्वेन वर्णनमात्रम्, उत्तरत्र तु दोषस्य गुणत्वेन वर्णनमर्थान्तरन्यासानुविद्धम् ।
'स्खलन्ती स्वर्लोकादवनितलशोकापहृतये जटाजूटग्रन्थौ यदसि विनिवन्द्वा पुरभिदा । अये निर्लोभानामपि मनसि लोभं जनयतां गुणानामेवायं तव जननि दोषः परिणतः ||'
अत्र दोषोऽपराधः । तथा चापराधत्वेन गुणानां दोषत्वमुक्तं भवति । न चायमलंकारो व्याजस्तुत्या उभयरूपया गतार्थ इति शङ्खयम् । मुखप्रतिपादितार्थवैपरीत्येनात्र सर्वत्र पर्यवसानाभावात् । नहि 'अपि बत गुरुगर्व' इत्यत्र कस्तूर्याः स्तुतौ कवेस्तात्पर्यम् अपि तु जनकप्राणापहारित्वेन निन्दायामेव । अत एवाप्रस्तुतकस्तूरी वृत्तान्ताभिव्यक्ते प्रस्तुतवृत्तान्तेऽपि तस्यामेव विश्रान्तिः । एवं 'नैर्गुण्यमेव साधीयः' इत्यत्र शाख्य
प्राग्वदाह - अथेति । उभयेति । स्तुतिनिन्दारूपयेत्यर्थः । मुखं प्रारम्भः । सा
For Private And Personal Use Only
Page #529
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
५१३ न्तराणां निन्दा न विवक्षिता, किं तु सुखावस्थानम् । गुणिनः स्वगुणैर्दुःखितस्य वाक्येऽस्मिन्निर्गुणानां निन्दाया अवक्तव्यत्वात्, प्रत्युत स्तुतेरेव वाच्यत्वात् । 'स्खलन्ती स्वर्लोकात्' इति पद्ये भागीरथीस्तुतिप्रकरणपठिते यद्यस्ति भागीरथीस्तुतौ तात्पर्य तदा व्याजस्तुतिरप्यस्तु । तस्याः सावकाशत्वेनैतद्वाधकत्वायोगात् ।
'रवितुरगदिग्गजेषु स्वर्णाचलजलधिधनदकोषेषु ।
सत्स्वेव राजपुंगव किं दातास्मीति गर्वमावहसि ॥' अत्र पर्यन्ते प्रतीयमानस्य रवितुरगादिपरिसंख्यातपदार्थातिरिक्तसकलवस्तुदानरूपस्य गुणस्य दोषत्वेनावर्णनात्, तत्त्वेन वर्ण्यमानस्य च रवितुरगाद्यदानस्यागुगत्वाद्गुणदोषयोभिन्नविषयत्वेनावस्थानेन लेशस्पर्शलेशरहिता व्याजस्तुतिरिति स्फुटमेव सावकाशत्वम् । अत एव लेशोऽपि न व्याजस्तुतेबधिक इति प्रागुक्तजाह्नवीस्तुतौ द्वयोरपि समावेशः ।
इति रसगङ्गाधरे लेशप्रकरणम् ।
[अथ तद्गुणः--] स्वगुणसागपूर्वकं स्वसंनिहितवस्त्वन्तरसंबन्धिगुणग्रहणं तद्गुणः। यथा
'नीतो नासान्तिकं तन्व्या मालत्याः कुसुमोत्करः ।
बन्धूकभावमानिन्ये रागेणाधरवर्तिना ॥' यथा वा-- 'अधरेण समागमाद्रदानामरुणिम्ना पिहितोऽपि शुद्धभावः ।
हसितेन सितेन पक्ष्मलाक्ष्या पुनरुल्लासमवाप जातपक्षः ।।' अत्राद्ये मालतीकुसुमोत्करस्याधररागरक्ततया बन्धूकभावोपपत्तेस्तगुणः । द्वितीयेऽपि पूर्वार्धे स्पष्ट एव तद्गुणः । परं तूत्तरार्धगतेन प्रतिप्रसवतुल्येन हासेनापोह्यमानत्वाद्गगुरः । यदि तु हासेनाधरसितीकरणद्वारा वकाशत्वमेवाह --रवीति । अत एव भिन्नविषयत्वादेव ॥ इति रसगङ्गाधरमर्मप्रकाशे लेशप्रकरणम् ॥
६५
For Private And Personal Use Only
Page #530
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
तदरुणिम्नो बाधस्तदा तत्राप्यपरस्तद्गुणः । इमं केचित्सर्वरूपमामनन्ति । यद्यप्युल्लासेऽप्यन्यदीयगुणेनान्यस्य गुणाधानमस्ति, तथापि तत्रान्यदीयगुणप्रयुक्तं गुणान्तरं चूर्णादिक्षारताप्रयुक्तं हरिद्रादेः शोणत्वमिवाधीयते । प्रकृते तु जपाकुसमलौहित्यं स्फटिक इवान्यदीयगुण एवान्यत्रेति ततोऽस्य भेदः।
इति रमगङ्गाधरे तद्गुणप्रकरणम् । अथातद्गुणःतद्विपर्ययोऽतद्गुणः । यथा
'कुचाभ्यामालीढं सहजकठिनाभ्यामपि रमे . न काठिन्यं धत्ते तब हृदयमत्यन्तमृद लय । मृगाङ्गानामन्तर्जननि निवसन्ती खलु चिरं
न कस्तूरी दूरीभवति निजसौरभ्यविभवात् ।।' अत्र पूर्वार्धे परगुणाग्रहणं शाब्दम्, स्वगुणत्यागाभावस्त्वार्थः । उत्तरार्धगते दृष्टान्ते तु स्वगुणत्यागाभावः शाब्दः परगुणाग्रहणं त्वार्थम् । न चायमवज्ञाया नातिरिच्यते । उल्लासविपर्ययो ह्यवज्ञा । तद्गुणविपर्ययश्चातद्रुण इति प्रतियोगिभेदादेव भेदस्य सिद्धेः । 'अत्र गुणाग्राहकापेक्षया संनिहितस्य गुणवत उत्कृष्टत्वसमत्वाभ्यां दैविध्यम्' इति सर्वस्वकारः । त. स्यायमाशयः-अपकष्टसंवन्धिगुणाग्रहणस्य साहजिकत्वेन वैचित्र्यानाधायकत्वादनलंकारतेवेत्यपकृष्टत्वेन तृतीयविधा तु न संभवतीति । अन्ये तु.-'अवान्तरचमत्कारविशेषस्याभावाहविध्यमपि न' इति वदन्ति । अपरे तु–'सति गुणग्रहणहेतावुत्कृष्टगुणवस्तुसंनिधाने तद्रुणग्रहणरूपकार्याभावात्मकोऽयमतद्गुणो विशेषोक्तेरवान्तरभेदः, न त्वलंकारान्तरम् । कार्यका
प्राग्वदाह अथेति । सर्वरूपं तदाख्यम् ॥ इति रमगङ्गाधरममप्रकाशे तद्गुणप्रकरणम् ॥
प्राग्वदाह--अथेति । उक्तस्वरूपात्स्वरूपान्तरमाह-सतीति । शङ्कते-कायेति । सतीत्यस्य यत इत्यादिः । म च विरोधश्र ॥ इति रसगङ्गाधरमर्मप्रकाशेऽतद्गप्रकरणम् ॥
For Private And Personal Use Only
Page #531
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- - ..
.
....
...
... ...
रसगङ्गाधरः ।
५१५ रणभावो नात्र विवक्षितः । किं तु संनिधानेऽपि तद्गुणग्रहणाभाव इत्येतावन्मात्रम् । अतो विशेषोक्तेरतद्गुणो भिन्न इति तु न युक्तम् । संनिधानेऽपीत्यपिना विरोधोऽपि विवक्षित इति गम्यते । अन्यथा जीवातोरभावादलंकारतैव न स्यात् । स च कार्यकारणभावाविवक्षणेन भवतीति कथमुच्यते न विवक्षित इति' इत्यप्याहुः ।
इति रसगङ्गाधरेऽतद्गुणप्रकरणम् । अथ मीलितम्स्फुटमुपलभ्यमानस्य कस्यचिद्वस्तुनो लिङ्गैरतिसाम्याद्भिन्नत्वेनागृह्यमाणानां वस्त्वन्तरलिङ्गानां स्वकारणाननुमापकत्वं मीलितम् । संग्रहश्च
'भेदाग्रहेण लिङ्गानां लिङ्गैः प्रत्यक्षवस्तुनः । ..
अप्रकाशो धनध्यक्षवस्तुनस्तन्निमीलितम् ॥' सामान्यवारणाय अनध्यक्षेति । तत्राध्यक्षस्यैव वस्त्वन्तरस्याग्रहणम् । तद्गुणे वस्त्वन्तरगुणानां भिन्नत्वेनाग्रहणेऽपि वस्त्वन्तरस्य ग्रहणमस्त्येवेति न तत्र प्रसङ्गः । उदाहरणम्
'जलकुम्भमुम्भितरसं सपदि सरस्याः समानयन्त्यास्ते ।
तटकुञ्जगूढसुरतं भगवानेको मनोभवो वेद ॥' अत्र सुरतगमकानां स्वेदकम्पनिःश्वासानां जलकुम्भानयनत्वराजनितैस्तैमैदस्याग्रहात्सुरतस्याप्रकाशः । यथा वा--
'सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव ।
वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥' अत्र प्रियेण ताम्बूलं कुतो न गृह्णासीत्युक्ते एतावन्तं समयं ताम्बूलानि भुक्त्वैव समागतास्मीत्युक्तवतीं प्रति तस्येयमुक्तिः । पूर्वोदाहरणे प्रत्यक्षवस्तुलिङ्गान्यागन्तुकानि, अत्र तु साहजिकानीति विशेषः ।
इति रसगङ्गाधरे मीलितालंकारप्रकरणम् । प्राग्वदाह-अथेति । लिङ्गानामन्यदीयलिङ्गानाम् ॥ इति रसगङ्गाधरममप्रकाश मीलितप्रकरणम् ॥
For Private And Personal Use Only
Page #532
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५१६
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
अथ सामान्यम्
प्रयक्षविषयस्यापि वस्तुनो बलवत्सजातीयग्रहणकृतं तद्भिन्नत्वेन
नाग्रहणं सामान्यम् ।
मीलिते तु निगूह्यमानवस्तु न प्रत्यक्षविषय इति न तत्रातिव्याप्तिः । उदाहरणम्
' यस्मिन्हिमानीनिकरावदाते चन्द्रांशुकैवल्यमिव प्रयाते । पुच्छाश्रयाभ्यां विकला इवाद्रौ चरन्ति राकासु चिरं चमर्यः ॥' अत्र चन्द्रिकान्तः पृथक्त्वेन हिमाचलचमरीपुच्छयोर दर्शनादुत्प्रेक्षोत्पत्तिरिति तस्यां सामान्यं गुणः ।
केचित्तु – “प्रागुक्तलक्षणे 'भिन्नत्वेनाग्रहणं' इत्यपहाय 'भिन्नजातीयत्वेनाग्रहणं' इति वक्तव्यम् । तेन व्यक्तिभेदग्रहेऽपि सामान्यमेवालकारः । यथा -
'स्तबकभरैर्ललिताभिश्वलिताभिर्मारुतैर्नृप लताभिः ।
वृतमुपवनमेवासीदरिमहिलानां महावनं भवतः ॥'
अत्र महावनमिति महावनकार्यस्य निलयनस्य संपादनात् । तच्च तासां प्रत्यक्षेण त्वदीयैर्भटैर्लताभिः सह तत्तद्व्यक्तितया भिन्नत्वेन ग्रहेऽपि भिन्नजातीयत्वेनाग्रहणान्निष्पद्यते । पूर्वमते त्वत्रालंकारान्तरमभ्युपेयं | स्यात्" इत्याहुः ।
1
ननु भेदाग्रह एव मीलितसामान्यतद्गुणसाधारण एकोऽलंकारोऽस्तु । किमलंकारत्रयेण । मीलिते तावत्प्रकृताकृतधर्मिगुणानां भेदाग्रह उपपादित एव । सामान्ये केषांचिगुणगुणिभेदाग्रहः, केषांचित्क्वचिदयं क्वचिजातिमात्र भेदाग्रहश्च । तद्रुणेऽपि रक्तगुणे रञ्जकगुणभेदाग्रहः । न चावान्तर भेदसच्चान्नैकालंकारत्वमुपपद्यत इति वाच्यम् । लुप्तोपमादितः पूर्णोपमादेः पृथगलंकारतापत्तेः । तस्माद्वेदाग्रहस्य त्रयो मीलितादयो
प्राग्वदाह - अथेति । निलयनं गोपनम् । तासां निलयनं च । विच्छित्तिश्चम
For Private And Personal Use Only
Page #533
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only