________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
शक्यतानवच्छेदकत्वाच्छक्यतावच्छेदकस्य च गुणगतजातिविशेषस्याभिनत्वादभिन्नाकारः प्रत्यय एवोचित इति चेत्, सत्यम् ।
'उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
संपत्तौ च विपत्तौ च महतामेकरूपता ॥' इत्यत्र वैलक्षण्यशून्यतारूपस्यैकरूप्यस्य यथा प्रत्ययः, न तथा 'उदेति सविता ताम्रो रक्त एवास्तमेति च' इत्यत्र, इति सकलानुभवसिद्धम् । एवं च प्रवृत्तिनिमित्तभिन्नस्यापि शब्दस्य यदि शक्यविशेषणत्वं वैलक्षण्यान्यथानुपपत्त्यानुभवबलेन च सिद्धं तदा तदनुगुणैव व्युत्पत्तिः शब्दानां कल्प्यते । सा च वृत्तिसंबन्धेनार्थविशिष्टशब्दज्ञानत्वेन शब्दविशिष्टार्थोपस्थितित्वेन च सामान्यकार्यकारणभावरूपा । घटत्वादितत्तत्प्रष्टत्तिनिमित्तप्रकारकबोधत्वेन तु वृत्तिसंबन्धेन वटविशिष्टपदज्ञानत्वादिना च विशेषतोऽपरः कार्यकारणभावः । विशेषसामग्रीसहिताया एव सामान्यसामग्र्या जनकतति न कश्चिद्दोषः । यहा वृत्तिसंबन्धेन घटादिविशिष्टपदज्ञानत्वेन घटादिपदघटत्वोभयप्रकारकघटादिविशेप्यकोपस्थितित्वेन च कार्यकारणभावः । पदार्थोपस्थितिशाब्दबोधयोः समानाकारत्वाच्छाब्दबोधेऽपि यदभानम् । अनुभवबलाच्च प्रामाणिकं गौरवं न दोषाय । एतदभि• संधायैवोक्तम्-'न सोऽस्ति' इत्यादि ।
इति रसगङ्गाधरे कारणमालाप्रकरणम् । अथैकावलीसैव शृङ्खला संसर्गस्य विशेष्यविशेषणभावरूपत्वे एकावली ।
सा च पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वे विशेषणत्वे चेति द्विधा । तत्राद्ये उत्तरोत्तरविशेषणस्य स्थापकत्वापोहकत्वाभ्यां दैविध्यम् । स्वसंबन्धेन विशेष्यतावच्छेदकनियामकत्वं स्थापकत्वम् । स्वव्यतिरेकेण विशेप्यतावच्छेदकव्यतिरेकबुद्धिजनकत्वमपोहत्वम् । उदाहरणम्
'स पण्डितो यः स्वहितार्थदर्शी हितं च तद्यत्र परानपक्रियाः ।
परे च ते ये श्रितसाधुभावाः सा साधुता यत्र चकास्ति केशवः॥' कारणमाला स्पष्टा ॥ प्राग्वदाह-अथेति । परानपेति । परानपकार इत्यर्थः । तेषां शृङ्खलावयवानां
For Private And Personal Use Only