SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ काव्यमाला | अत्र प्रावृषेण्य इत्यनेन वारिधरविशेषणेन नैराकाङ्क्षयादिवेन समासः । एषा चोपमानोपमेययोर्वारिधर भगवतोर्वेदनाहरणकर्तृत्वस्य साधारणधर्मस्य सादृश्यबोधकस्येवशब्दस्य चाभिधानात्पूर्णा । सादृश्यस्य श्रुत्याबोधनाच्छोती । पूर्णा आर्थी वाक्यगता यथा 'प्राणापहरणेनासि तुल्यो हालहलेन मे । शशाङ्क केन मुग्धेन सुधांशुरिति भाषितः ॥ पूर्णा श्रौती समासगा यथा 'हरिचरणकमलनखगणकिरण श्रेणीव निर्मला नितराम् । शिशिरयतु लोचनं मे देवव्रतपुत्रिणी देवी ॥' अत्रेवेन समासः । पूर्णा आर्थी समासगा यथा 'आनन्दनेन लोकानामातापहरणेन च । कलाधरतया चापि राजन्निन्दूपमो भवान् ॥' पूर्णा श्रौती आर्थी च तद्धितगा यथा 'निखिलजगन्महनीया यस्याभा नवपयोधरवत् । अम्बुजवद्विपुलतरे नयने तद्ब्रह्म संश्रये सगुणम् ||' अत्र पूर्वार्धे वर्तेः 'तत्र तस्येव' इति सादृश्ये विधानाच्छ्रौती । उत्तराधे 'तेन तुल्यं -' इति विधानात्सादृश्यकवदर्द्धकतया आर्थी । मनं तेनेत्यर्थः । वृष्णिवरेण्यः कृष्णः । वाक्यगत्वमाह--अत्रेति । इवेन समास इति 'सुप्सुपा' इत्यस्यानित्यत्वेनास्य तत्प्रपञ्चत्वात् । एवं च वैकल्पिकत्वात्तदभाव इति भावः । पूर्णात्वमाह - एषेति । श्रुत्येति । इवेनेत्यर्थः । विशेष्यतयेति भावः । प्राणापेति । अत्र समासाभावाद्वाक्यगत्वम् । विषचन्द्रयोः प्राणापहारकत्वरूपधर्मस्य तुल्यशब्दस्य चोपादानात्पूर्णत्वम् । तुल्यशब्दस्य सदृशार्थकत्वेऽपि प्राधान्येनेवशब्दवत्सादृश्यबोधकत्वाभावादार्थत्वम् । हरीति । देवव्रतेन पुत्रिणी । पुत्रवतीत्यर्थः । अत्रापि चतुर्णामिवास्य चोपादानात्पूर्णात्वं श्रीतीत्वं च । समासगात्वमाह - अत्रेति । आनन्दनेनेति । करणे ल्युट् । लोकानामिति मध्यमणिन्यायेनान्वेति । आ समन्तात्तापेत्यर्थः । इन्दूपमो भवानिति । अत्र समासस्य धर्मिशक्तत्वात्कर्मसाधनेनोपमशब्देन समासाद्वा आर्थीत्वं समासगत्वं च । पूर्णात्वं तु स्पष्टमेव । सगुणं ब्रह्म कृष्णरूपम् । कुसुमकुलानां तरूणां तिलक - १. देवव्रतो भीष्म:, तेन पुत्रवती गङ्गा. For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy