________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३६३
एवं क्रियायाः साधारणधर्मत्वे इयमुदाहृता । गुणस्य तथात्वे यथा
'मान्थर्यमाप गमनं सह शैशवेन
रक्तं सहैव मनसाधरबिम्बमासीत् । किं चाभवन्मृगकिशोरदृशो नितम्बः
सर्वाधिको गुरुरयं सह मन्मथेन ।' अत्र यद्यपि क्रियापि गुणेन सह समानधर्मतामनुभवति तथापि तस्यानान्तरीयकत्वेनासुन्दरत्वाद्गुणस्यैव पर्यवसाने समग्रभरसहिष्णुत्वम् । शोणत्वासक्तत्वाभ्यामधिकभारत्वोपदेशकर्तृत्वाभ्यां च भिन्नयोरप्युपमेयोपमानगतयोनिरुक्तगुणयोः श्लेषेण पिण्डीकरणात्सहभावोपपत्तिः । एवं श्लेषाभावेऽपि केवलाध्यवसानेन बोध्यम् । यत्रैकमेवोपमेयं विलक्षणसहोत्यालम्बनं सा मालासादृश्यान्मालासहोक्तिः । वैलक्षण्यं च सहोक्तेः स्वसमानाधिकरणसहोक्त्यन्तरापेक्षया बोध्यम् । 'केशैर्वधूनां' इत्यत्र केशैः सह कोषैः सह प्राणैः सहेत्युपमानभेदेन साहित्यस्यानेकत्वेऽपि कर्षणैक्यात्सहोक्तेरभेदः । सति वा यथाकथंचिद्दे न वैलक्षण्यम् । धर्मक्यात् । धर्मोपमानोभयकृतवैलक्षण्यस्य चात्र विवक्षणात् । 'उन्मीलन्तो निमीलन्तः' इत्यत्र च धर्मवैलक्षण्येऽप्युन्मीलनधर्मोत्थापितसहोक्तिघटकोपमानानां पद्मपत्रादीनामेव निमीलनधर्मोत्थापितायामपि सहोक्तो घटकत्वान्न मालारूपत्वम् । 'भाग्येन सह रिपूणां-' इति तदाहरणमेव । दितमिदम् । तथात्वे साधारणधर्मत्वे । मान्थयं मन्दत्वम् । क्रियापीति । प्राप्त्यादिरित्यर्थः । एवं च गुणस्य तथात्वोदाहरणत्वोक्तिरयुक्तति भावः । नान्तरीयकत्वेनति । तां विना वाक्यार्थासमाप्तेरिति भावः । समग्रेति । विच्छित्याधायकत्वेत्यादिः । नन्वेवपि मान्थयोशे तथात्वेऽपि रक्ताद्यशे धर्मयोर्भेदात्कथं तत्त्वमत आह-शोणत्वेति । अधरे शोणत्वं मनस्यासक्तत्वं नितम्बेऽधिकभारत्वं कामे उपदेशकर्तत्वमिति बोध्यम् । तृतीयभेदेऽप्येवमेव पिण्डीकरणमित्याह-एवमिति । ननु प्रागुक्तसहोक्त्यपेक्षया न वै. लक्षण्यमत आह-वैलक्षण्यं चेति। तथा च विलक्षणेत्यस्य मिथो भिन्नेत्यर्थः सूचितः । नन्वेवं केशरित्यत्रापीयं भवेदत आह-के शैरिति । ननु धर्मेक्येऽपि तद्भेदेनेयं स्यादेवात आह-सतीति । सत्यपीत्यर्थः । यथाकथंचिदिति । धर्मोपमानान्यतररूपेणेत्यर्थः । प्रकृताभिप्रायेणाह-धमक्यादिति । अत्र मालासहोक्तिलक्षणे। क्वचिद्धर्मवैलक्षण्येऽप्युपमानाभेदान्नैवमित्यभिप्रायेणाह-उन्मीलन्त इति । नन्वेवं तहि किमस्या उदाहरणमत आह-भाग्येनेति । तत्र धर्मोपमानयोर्भेदादिति भावः ।
For Private And Personal Use Only