SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । यथा वा-- 'उन्मीलितः सह मदेन बलाबलारे____ रुत्थापितो बलभृतां सह विस्मयेन । नीलातपत्रमणिदण्डरुचा सहैव पाणौ धृतो गिरिधरेण गिरिः पुनातु ।' अत्र नीलातपत्रमणिदण्डरुचो गिरिधरणोत्तरकालिकत्वादुत्तरार्धगता पौर्वापर्यविपर्ययानुप्राणितैव सहोक्तिनिदर्शनानुप्राणिता च । पूर्वार्धगते तु प्रकारद्वयेनापि संभवतः । . इति रसगङ्गाधरे सहोक्तिप्रकरणम् । अथ विनोक्तिःविनार्थसंबन्ध्येव विनोक्तिः। हृद्यत्वं चानुवर्तते । तच्च विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वाभ्यां भवति । यथा 'संपदा संपरिष्वक्तो विद्यया चानवद्यया । नरो न शोभते लोके हरिभक्तिरसं विना ।' यथा वा'वदनं विना सुकवितां सदनं साध्वीं विना वनिताम् । राज्यं च विना धनितां न नितान्तं भाति कमनीयम् ॥' रमणीयत्वे यथा--- ‘प विना सरो भाति सदः ग्वलजनैर्विना । कटुवर्णेविना काव्यं मानसं विषयविना ॥' उन्मलित: समलं खण्डितः । बलागेरिन्द्रस्य । एवेन श्लेषादिप्रकारद्वयव्यावृत्तिः । निदर्शनेति । सदृशवाक्यार्थयोरेक्यारोपादिति भावः । गते तु सहोक्ती इति शेषः । प्रकारद्वयेनेति । श्लेषभिनप्रकारद्वयेनेत्यर्थ: ।। इति रसगङ्गाधरमर्मप्रकाशे सहोक्तिप्रकरणम् ॥ विनोक्ति लक्षयति-अथेति । 'विनार्थसंबन्ध एव' इति पाठः। तच्च हृद्यत्वं च । उद्देशक्रमपरीत्येनारमणीयत्वे तावदाहगति--यथेति । सदः सभा । मानममन्तःकरण For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy