________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३२
काव्यमाला । 'विनैव शस्त्रं हृदयानि यूनां विवेकभाजामपि दारयन्त्यः ।
अनन्तमायामयवल्गुलीला जयन्ति नीलाब्जदलायताक्ष्यः ॥' अत्र हि दारणे शस्त्रं कारणम् । तदभावेऽपि दारणमुपनिबध्यमानमापाततो विरुद्धमपि कामिनीविलासरूपहेतुकतया पर्यवस्यति । नन्वत्र यस्य कायस्थोत्पत्तिर्निबध्यते नहि तदीयकारणत्वेनावगतस्य व्यतिरेकः प्रतीयते । यदीयकारणव्यतिरेक श्च प्रतीयते नहि तस्य कार्यस्योत्पत्तिनिबध्यते । दारणं चेह पीडाविशेषो विवक्षितः, न तु द्विधाभावः । शस्त्रं च न कामपीडायाः कारणम्, अपि तु द्वैधीकरणस्येति चेत्, न । मुख्यं हि दारणं द्विधाभावनम् । गौणं च कामादिजनितपीडाविशेषः । तयोर्गौणमुख्ययोर्दारणयोः सादृश्यमूलेनाभेदाध्यवसानरूपेणातिशयेन सति भेदस्थगने द्विधाभावनकारणमपि शस्त्रं कामपीडाकारणं संपद्यते । तदभावे चात्र कार्याभिन्नतयाध्यवसितस्य पीडाविशेषस्योपनिबन्धनान्न दोषः । एवं चास्मिन्नलंकारे सर्वत्रापि कार्याशे अभेदाध्यवसानरूपातिशयोक्तिरनुप्राणकतया स्थिता । तया च पायसादिपिण्डवदेकीकृतस्य वस्तुतः सदृशवस्तुद्वयस्यैकावयवसंबन्धिकारणव्यतिरेकसामानाधिकरण्येनापरावयवमादाय पर्यवसानं भवति । तत्र च कार्याशः कारणभावरूपविरोधिनो बाध्यतयैव स्थितः, न बाधकतया । कार्याशस्य कल्पितत्वात्कारणाभावस्य च स्वभावसिद्धत्वात् । अत एव कार्यांशो रूपान्तरेण पर्यवस्यति । अत एव च समबलविरोधिद्वयघटिताद्विरोधालंकारादस्य वैलक्षण्यम् । तथा चोक्तम्
'कारणस्य निषेधेन बाध्यमानः फलोदयः ।
विभावनायामाभाति विरोधोऽन्योन्यबाधनम् ॥' इत्याहुः । अथातिशयोक्तिर्न सर्वस्यां विभावनायामनुप्राणिका । किं तु क्वचित् ।
'निरुपादानसंभारमभित्तावेव तन्वते ।
जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ।' प्राग्वदाह--अथेति । सादृश्येमूलेनेति । श्वेषमूलेनेपि बोध्यम् । कार्याभिन्नतयेति । शस्त्रकाद्विधाभावेनाभिन्नतयेत्यर्थः । वस्तुतः सदृशवस्तुद्वयस्येति । इदं षष्ठयन्तं पर्यवसानमित्यत्रान्वेति । तत्र सामानाधिकरण्येनेत्यन्त हेतुः ।
For Private And Personal Use Only