________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। इत्यत्र विभावनायामतिशयोक्तेरध्यवसानमूलाया अननुप्राणकत्वादिति । ननु कारणाभावे कार्योत्पत्तिरसंभवन्ती कविना अभिप्रायविशेषेण निबध्यमाना हि विभावना । न चात्रोपादानान्तराभावे जगत उत्पत्तिः परमेश्वरादसंभवन्ती येन विभावना स्यात् । 'नासदासीत्', 'सदेव सौम्येदमग्र आसीत्', 'आत्मा वा इदमेक एवाग्र आसीत्', 'असहा इदमग्र आसीत्ततो वै सदजायत' इत्यादिश्रुतिभ्यः, 'अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम्' इत्यादिस्मृतिभ्यश्च सृष्टिकाले भगवदतिरिक्तवस्तुजातप्रतिषेधावगमात् । तस्मादत्र विभावनाया एव संभावना नास्ति व पुनरतिशयोक्त्यनुप्राणितत्वव्यभिचार इति चेत् । न । अत्र हि भगवतः सकाशाकेवलस्य जगत उत्पत्ति कवेरभिप्रेता । येन तस्या उपादानान्तरव्यतिरेकेऽपि भगवतः सकाशात्संभवादसंभवमूला विभावना न स्यात् । किं तु जगद्रूपस्य चित्रस्य । चित्रस्य च केवलस्योपादानानां मषीहरितालादीनामाधारस्य भित्त्यादेश्वाभावे केवलाकाशे जागत्येवोत्पत्तेरसंभवः । स च तस्य जगद्रूपतानुसंधानात्तत्कारणतदाश्रयव्यतिरेकमादाय निवर्तत इति 'निरुपादानसंभारं' इत्यत्र निष्प्रत्यूहैव विभावनेति भवत्यतिशयोक्त्यनुप्राणितत्वव्यभिचारः । एतेन 'विभावनायां सर्वत्रातिशयोक्तिरनुप्राणिका' इति सर्वस्वकारोक्तिरपास्ता । तथा "निरुपादानसंभारं' इत्यत्र विभावनाया एवाभावात्कुत्र व्यभिचारः" इति वदन् विमर्शिनीकारोऽपि प्रत्युक्त इति । उच्यते—मा स्म भूत्सर्वत्र विभावनायामतिशयोक्तिरनुप्राणिका । आहार्याभेदबुद्धिमात्रभेवानुप्राणकम् । तच्च क्वचिदतिशयोक्त्या क्वचिच्च रूपकेणेति न दोपः । __यत्तु--"कारणं विना कार्योत्पत्तिरेका विभावना । कारणानामसमग्रत्वे द्वितीया । सत्यपि प्रतिबन्धके कार्योत्पत्तिस्तृतीया । अकारणात्कार्योत्पत्तिश्चतुर्थी । विरुद्वात्कार्यजन्म पञ्चमी । कार्यात्कारणजन्म पष्ठी । क्रमेणोदाहरणानि
'अप्यलाक्षारसासिक्तं रक्तं तन्व्या पदाम्बुजम् ।' 'अस्त्रैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः ।'
For Private And Personal Use Only