________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३४
काव्यमाला।
'सातपत्रं दहत्याशु प्रतापतपनस्तव ।' 'शङ्खाहीणानिनादोऽयमुदेति महदद्भुतम् ।' 'शीतांशोः किरणा हन्त दहन्ति सुदृशो दृशौ ।'
'यशःपयोधिरभवत्करकल्पतरोस्तव ।" इति षट्प्रकारां विभावनामुदाजहार कुवलयानन्दकृत् । तत्रेदं वक्तव्यम् -
'कार्योत्पत्तिस्तुतीया स्यात्सत्यपि प्रतिबन्धके ।
अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना ॥' । इत्यादिभिर्विभावनाप्रकारानालक्षयता विनापि कारणं कार्योत्पत्तिरित्यप्येको विभावनाप्रकार इत्युक्तं भवति । अन्यथा चतुर्थीत्वाद्यसंगतेः । एवं च यथा-'सादृश्यमुपमा भेदे', 'तद्रूपकमभेदो य उपमानोपमेययोः' इत्यादिभिर्लक्षितस्योपमारूपकादिसामान्यस्य पूर्णादयः सावयवादयश्च भेदा उक्तास्तथेह किं तद्विभावनासामान्यलक्षणम्, यल्लक्षितस्य विभावनासामान्यस्यामी भवतोक्ताः प्रकारा उपपद्येरन् । कारणं विना कार्यात्पत्तेस्तु प्रकारान्तःपातित्वात् । अथातिशयोक्त्यादिष्विव तादृशसकलप्रकारान्यतमत्वं सामान्यलक्षणमुन्नेयमिति चेत्, एवमपि प्रथमप्रकाराद्वितीयप्रकारस्य वैलक्षण्यं दुरुपपादमेव । कारणाभावेऽपि कार्योत्पत्तिरित्यत्र कारणतावच्छेदकसंबन्धेन कारणतावच्छेदकावच्छिन्नप्रतियोगिताकाभावस्य विवक्षितत्वात् । प्रकारान्तरस्वीकारापेक्षया तादृशविवक्षाया एव लघुत्वात् । एवं प्रतिबन्धकमपि कारणाभाव एव । प्रतिबन्धकाभावस्य कारणत्वात् । इति तृतीयोऽपि भेदो न विलक्षणः । चतुर्थेऽपि भेदे कारणाभाव आर्थः । 'शङ्खाहीणानिनादोऽयम्' इत्युक्ते वीणां विनैवेति प्रत्ययादवैलक्षण्यम् । तस्मादायेन प्रकारेण प्रकारान्तराणामालीढत्वात्पट प्रकारा इत्यनुपपन्नमेव । यदि तु यथाकथंचित्कुवलयानन्दोक्तिः समर्थनीयेत्याग्रहस्तदेत्थं समर्थ्यताम्-तथा हि विनापि कारणं कार्यजन्मेति विभावनायाः सामान्यलक्षणम् । इयं च तावद्वेधा-शाब्दी, आर्थी च । शाब्दी शाब्दी आर्थी चेति । अत्र केचित्--शाब्दत्वे आद्या।आर्थत्वे उत्तराः पञ्च । तत्र
For Private And Personal Use Only