________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। त्रिविधा-- प्रतिबन्धकातिरिक्तकारणव्यक्तिप्रतियोगिकाभावोक्तिपूर्विका, सत्यामपि कारणव्यक्तौ यदवच्छिन्नत्ववैकल्यप्रयुक्तः कार्याभावस्तद्वैकल्योक्तिपूर्विका, स च कारणतावच्छेदकधर्मः क्वचित्कारणतावच्छेदकसंबन्धश्च, प्रतिबन्धकोक्तिपूर्विका चेति । आर्थ्यपि त्रिविधा-प्रकृतकार्यसमानजातीयकार्यान्तरस्य कारणात् । प्रकृतकार्यविरुद्धकार्यस्य कारणात् । स्वकार्याद्वा प्रकृतकार्यस्योत्पत्तिरिति । एतदर्थकमेव ह्यकारणादित्यादि । __ इयं च विभावना द्विविधा----उक्तनिमित्तानुक्तनिमित्ता च । तत्रानुक्तनिमित्ता 'विनैव शस्त्रं' इत्यत्र दर्शिता । विलासानां मन्मथपीडाजनकानामनुपात्तत्वात् । उक्तनिमित्ता यथा
'यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः ।
दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ॥' अत्र हि उपात्ते यौवने दाहहेतुत्वं पर्यवस्यति । यत्तु"असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ।। अत्र द्वितीयचरणे आसवाभावेऽपि मदस्य प्रतिपादनाद्यौवनस्य चोतत्वादुक्तनिमित्ता विभावना । न तु प्रथमतृतीयचरणयोः । संभरणपुष्पयोर्मण्डनमस्त्रं च प्रत्यहेतुत्वात् ।" इत्यलंकारसर्वस्वकारादिभिरुक्तं तत्र विचार्यते—विरोधमूला हि विभावनाद्यलंकाराः । विरोधस्यैव विद्युत्प्रभावदापाततः प्रतिभासमानस्य चमत्कारबीजत्वात् । अत्र ह्यासवभिन्नद्वितीये कारणे कारणतावच्छेदकगुणादिवैकल्यदर्शनेन तदवच्छिन्नकारणाभावप्रतीति. रार्थी । अस्तु वा शाब्दी । तथापि स्वरूपतः कारणाभावकथनात्कारणगतधर्मवैकल्यद्वारेण तद्विशिष्टकारणाभावकथने विच्छित्तिविशेषात् । एतेन प्रथमप्रकाराद्वितीयप्रकारस्य वैलक्षण्यं नेत्यपास्तम् । तृतीये प्रतिबन्धकामावस्य कारणत्वनये तदभावकथनं शाब्दम् । अभावाभावस्य प्रतियोगित्वनये तस्याकारणवनये भावाभावस्यातिरिक्तत्वनये वा इत्यर्थः। आये भावोक्तेति पूर्वस्माद्विशेषः। चतुर्थी प्रकृतसजातीयकार्यान्तरस्य कारण भिन्नाकथनमिति कारणाभाव आर्थ एव । पञ्चम्यां च प्रकृतकार्यविरुद्ध कार्यस्य कारणात्कथनमिति स आर्थ एव । षष्ठयां तु कार्यात्कारणस्येति स एवेत्याहुः ॥ इति रसगङ्गाधरमर्मप्रकाशे विभावनाप्रकरणम् ॥
For Private And Personal Use Only