________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३६
काव्यमाला। त्वविशिष्टं मदकारणत्वं यौवनस्योक्तम् । एवं च यौवनस्य मदकारणतायाः शब्देनैवोपात्तत्वात् यागे नीहियवयोरिव मदे यौवनासवयोः परस्परनिरपेक्षकारणत्वावगतेविरोधस्य लेशतोऽप्यप्रतिभानाद्विभावनैव नास्ति । कुतः पुनरुक्तनिमित्ता विभावना। न चासवस्य प्रसिद्धमदकारणत्वात्तेन विना मदोत्पत्तिवर्णने विरोधप्रतिभा भवत्येवेति वाच्यम् । भवेत्सा, यदि यौवनस्य मदकारणत्वं कविना साक्षान्न प्रतिपाद्येत । प्रतिपादिते तु तस्मिन्प्रसिद्धकारणातिरिक्ततया कविना प्रतिपादितमिदमणि प्रसिद्धकारणमिव कारणान्तरं भविष्यतीति वैकल्पिककारणताप्रतिभानान्न विरोधप्रतिभानं भवितुमर्हति । तस्मादत्र प्रथमतृतीयचरणयोयूनाभेदरूपकम् । द्वितीयचरणे तु प्रतीयमानोत्प्रेक्षेति विवेकः । अस्मन्निर्मिते तूदा. हरणे दहनस्यैव प्रसिद्धदाहकारणत्वाद्यौवनस्य दाहकारणताया अश्रुतत्वादहनमन्तरेण दाहोत्पत्तिवर्णने विरोध आपततः प्रतीयत एवेति सहदयैराकलनीयम् । अथ 'लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति' इत्यत्र विभावनापत्तिर्नन्वस्तु, किं नश्छिन्नमिति चेत् । आलंकारिकैरत्र तस्यानङ्गीकारात् । ननु कारणतावच्छेदकरूपावच्छिन्नप्रतियोगिताकवेन कारणाभावो विशेषणीयः। प्रकृते च कारणत्वावच्छिन्नप्रतियोगिताकः प्रसिद्धकारणत्वावच्छिन्नप्रतियोगिताको वा भावो न तादृशरूपावच्छिन्नप्रतियोगिताक इति चेत्, ‘खला विनैवापराधं भवन्ति खलु वैरिणः' इत्यत्र तथाप्यतिव्यापनात् । अपराधाभावस्य तथात्वात् । न च कार्यांशोऽतिशयोक्त्यालीढत्वेनाभेदनिश्चयालीढत्वेन वा विशेपणीय इति वाच्यम् । 'खला विनवापरावं दहन्ति खलु सज्जनान्' इत्यादौ तथापि दोपानुद्वारादिति चेत् । मैवम् । कार्याशे यद्विपयितावच्छेदकं तदवच्छिन्नकार्यतानिरूपितायाः कारणताया अवच्छेदकमिह ग्राह्यम् । दाहत्वं चेह विपयितावच्छेदकम् । तदवच्छिन्नाभिन्नत्वेन पीडाया अध्यवसानात् । नहि दाहत्वावच्छिन्न कार्यतानिरूपितकारणताया अवच्छेदकमपराधत्वम् । अपि तु दाहत्वावच्छिन्नाभिन्नत्वेनाध्यव
For Private And Personal Use Only