________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
सिता या पीडा तन्निष्ठकार्यतानिरूपित कारणताया इति तदवच्छिन्नप्रतियोगिताका भावसामानाधिकरण्येन कार्योत्पत्तिवर्णनेऽपि नात्र विभावनाप्रसङ्गः । यदि तु 'खला विनैव दहनं दहन्ति जगतीतलम्' इति क्रियते तदा भवत्येव विभावना । एवम् -
'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥'
इति परकीयपद्येऽतिशयोक्त्युदाहरणेऽप्यस्त्येव विभावना । परंतु 'कमलमनम्भसि' इत्यंशे शाब्दी । 'कमले च' इत्यादौ स्वार्थीति संक्षेपः । इति रसगङ्गाधरे विभावनाप्रकरणम् ।
www..c
Acharya Shri Kailassagarsuri Gyanmandir
अथ विशेपोक्तिः
प्रसिद्धकारणकलाप सामानाधिकरण्येन वर्ण्यमाना कार्यानुत्पत्तिर्विशेपोक्तिः ।
तत्र सत्यपि कारणसमवधाने कार्यस्यानुत्पत्तौ विरोधः प्रतिभासमानः प्रसिद्धेतरकारणवैकल्यधिया निवर्तते । यथा
४३७
'उपनिषदः परिपीता गीतापि च हन्त मतिपथं नीता । तदपि न हा विधुवदना मानससदनाद्वहिर्याति ॥'
यथा वा
For Private And Personal Use Only
'प्रतिपलमखिलांल्लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि ।
हा हतकं चित्तमिदं विरमति नाद्यापि विषयेभ्यः ||' अत्रोपनिषदर्थविमर्श सकललोकानित्यत्वज्ञाने प्रसिद्धविरतिहेतौ सत्यपि विरत्यनुत्पत्तिवर्णनाद्रागाधिक्यरूपं प्रतिबन्धकं प्रतीयते । इयमनुक्वनिमित्ता । विरत्यनुत्पत्तिनिमित्तस्य प्रतिबन्धस्यानुपात्तत्वात् । अत्रव ' रागान्धं चित्तमिदं' इति निर्माणे उक्तनिमित्ता । केचिदचिन्त्यनिमित्तां तृतीयामामनन्ति । उदाहरन्ति च -
'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न बलं हृतम् ॥'