________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
वितिष्ठन्ते युष्मन्नयनपरिपातोत्कलिकया
वराकाः के तत्र क्षपितमुर नाकाधिपतयः ॥' अत्रापमानसहनभगवहारनिषेवणभगवत्कटाक्षपाताभिलाषादिभिर्बह्मादिगता भगवदालम्बना रतिर्नाभिव्यज्यते । अपि तु भगवदैश्वर्यमवाङ्मनसगोचर इति चेत्तथापि तादृशभगवदैश्वर्यवर्णनानुभावितया कविगतभगवदालम्बनरत्या ध्वनित्वमक्षतमेव । इदं वोदाहरणम्'न धनं न च राज्यसंपदं नहि विद्यामिदमेकमर्थये ।
मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥' अत्र धनाद्यपेक्षाशून्यस्य भगवद्गन्तपाताभिलापो हि भगवत्यनुरक्ति व्यनक्ति । एवं संक्षेपेण निरूपिता भावाः ॥
अथ कथमस्य संख्यानियमः---मात्सर्योद्वेगदम्भेया॑विवेकनिर्णयक्लैब्यक्षमाकुतुकोत्कण्ठाविनयसंशयधाष्टादीनामपि तत्र तत्र लक्ष्येषु दर्शनात् । इति चेत् । न । उक्तेष्वेवैषामन्तर्भावेण संख्यान्तरानुपपत्तेः । अ. सूयातो मात्सर्यस्य, त्रासादुद्वेगस्य, अवहित्थाख्याद्भावाद्दम्भस्य, अमर्षादीर्ष्यायाः, मतेविवेकनिर्णययोः, दैन्यात्क्लैब्यस्य, धृतेः क्षमायाः, औत्सुक्यात्कुतुकोत्कण्ठयोः, लज्जाया विनयस्य, तर्कात्संशयस्य, चापलाद्धाष्टर्यस्य च वस्तुतः सूक्ष्मे भेदेऽपि नान्तरीयकतया तदनतिरिक्तस्यैवाध्यवसायात् । मुनिवचनानुपालनस्य संभव उच्छृङ्खलताया अनौचित्यात् । एषु च संचारिभावेषु मध्ये केचन केषांचन विभावा अनुभावाश्च भवन्ति । तथा हि-ईर्ष्याया निवेदं प्रति विभावत्वम्, असूयां प्रति चानुभावत्वम्। चिन्ताया निद्रां प्रति विभावत्वम्, औत्सुक्यं प्रति चानुभावतेत्यादि स्वयमूह्यम् ।
द्वारपालौ । ते अनिर्वचनीयप्रभावास्ते भववारि भवनेत्रपातोत्कण्ठया कोटा इव विति. टन्त इत्यन्वयः । वराका दीनाः । नाभिव्यज्यत इति। धनाद्यभिलाषेणापि तदुपपत्ते. रिति भावः । इतीत्यस्याभिव्यज्यत इत्यस्यानुषङ्गः । चेत् यद्यपि । नन्वस्या अप्राधान्येन कथं तत्त्वमत आह-इदं वेति । अस्य भावस्य । अन्तर्भावे हेतुमाह-असूयात इति । ननु सूक्ष्मभेदप्रयुक्तभेदः कुतो नात आह-मुनीति । संचारीति षष्ट्यर्थे
For Private And Personal Use Only