________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
Acharya Shri Kailassagarsuri Gyanmandir
९९
अथ रसाभासः तत्र
अनुचितविभावालम्बनत्वं रसाभासत्वम् । विभावादावनौचित्यं पुनर्लोकानां व्यवहारतो विज्ञेयम् । यत्र तेषामयुक्तमिति धीरिति केचिदाहुः । तदपरे न क्षमन्ते । मुनिपत्न्यादिविषयक - रत्यादेः संग्रहेऽपि बहुनायकविषयाया अनुभयनिष्ठायाश्च रतेरसंग्रहात् । तत्र विभावगतस्यानौचित्यस्याभावात् । तस्मादनौचित्येन रत्यादिर्विशेषणीयः । इत्थं चानुचितविभावालम्बनाया बहुनायक विषयाया अनुमयनिष्ठायाच संग्रह इति । अनौचित्यं च प्राग्वदेव । तत्र रसाद्याभासत्वं रसत्वादिना न समानाधिकरणम् । निर्मलस्यैव रसादित्वात् । 'हेत्वाभासत्वमिव हेतुत्वेन' इत्येके । 'नह्यनुचितत्वेनात्महानिः, अपि तु सदोषत्वादाभासव्यवहारः । अश्वाभासादिव्यवहारवत्' इत्यपरे ।
उदाहरणम्
'शतेनोपायानां कथमपि गतः सौधशिखरं सुधानस्वच्छे रहसि शयितां पुष्पशयने ।
विबोध्य क्षामाङ्गी चकितनयनां स्मेरवदनां सनिःश्वासं श्लिष्यत्यहह सुकृती राजरमणीम् ॥' अत्रालम्बनमनुचितप्रणया राजरमणी । रहोरजन्याद्युद्दीपनम् | साहसेन राजान्तःपुरे गमनम् प्राणेषूपेक्षा निःश्वासाश्लेषादयश्रानुभावाः । शङ्कादयः संचारिणः । निषिद्धालम्बनकत्वाच्चास्या रतेराभासत्वं रसस्य । न
For Private And Personal Use Only
1
सप्तमी । तत्र निरूपणीये रसाभासे । यत्र विभावादौ । तेषां लोकानाम् । आदिना गुरुपत्न्यादिसंग्रहः । तत्र तयोः । तस्मादिति । तथा चानुचितविभावालम्बनकर तित्वं तत्त्वं ज्ञेयम् | आदिना हासादिपरिग्रहः । इत्थं च तथाविशेषणे च । इतिरपरमतसमाप्तौ । चस्त्वर्थे । तत्र रसाभासेषु । आदिना भावपरिग्रहः । निर्मलस्य निर्दुष्टस्य । हेतुत्वेनेत्यस्य न समानाधिकरणमित्यस्यानुपङ्गः । नन्वत्र मते दुष्टो हेतुरितिवद्दुष्टो रस इत्यादिव्यवहारानुपपत्तिरतो मतान्तरमाह-नहीति । आत्महानिः स्वरूपहानिः । अश्वाभासेति । अश्वे इति भावः । सौधेति । सुधानिर्मितराजगृहोपरितनप्रदेश मित्यर्थः । फेनस्यात्यन्तस्वच्छत्वादुक्तिः । पुष्पशयने पुष्पशय्यायाम् । अहहेति शङ्कायाम् । अनुचितेति । अनुचितः प्रणयो यस्यामित्यर्थः । यस्या इति वा । इदमाद्योदाहरणमित्याह - निषिद्धेति । अस्या नायकनिष्ठायाः । परेत्यस्य विबोध्येति । बोधितेत्यादिः ।