________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
उदाहरणम्
'अहितव्रत पापात्मन्मैवं मे दर्शयाननम् ।
आत्मानं हन्तुमिच्छामि येन त्वमसि भावितः ॥' एषा भगवदनुरक्तिविघटनोपायमपश्यतः प्रह्लादं प्रति हिरण्यकशिपोरुक्तिः । भगवडेपोत्थापितः पुत्रद्वेषोऽत्र विभावः । आत्मवधेच्छा परुषवचनं चानुभावः । न चामर्ष एवात्र व्यज्यत इति वाच्यम् । सदैव भगवदनुरागिणि प्रह्लादे हिरण्यकशिपोरमर्पस्य चिरकालसंभृतत्वेनात्मवधेच्छाया इदंप्रथमतानुपपत्तेः । इदंप्रथमकार्यस्य चेदंप्रथमकारणप्रयोज्यतया प्राचीनचित्तवृत्तिविलक्षणाया एव चपलताख्यचित्तवृत्तेः सिद्धेः । न चामर्षप्रकर्ष एवात्मवधेच्छादिकारणमभिव्यज्यतामिति वाच्यम् । प्रकर्षस्यापि स्वाभाविकविलक्षणलक्षणताया आवश्यकतया तस्यैव चपलतापदार्थत्वात् ।
नीचपुरुषेष्वाक्रोशनाधिक्षेपव्याधिताडनदारिद्येष्टविरहपरसंपदर्शनादिभिः, उत्तमेपु त्ववज्ञादिभिर्जनिता विषयद्वेषाख्या रोदनदीर्घश्वासदीनमुखतादिकारिणी चित्तवृत्तिनिर्वेदः। उदाहरणम्'यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति ।
अमुना जडजीवितेन मे जगता वा विफलेन किं फलम् ॥' नित्यानित्यवस्तुविवेकजन्यत्वाभावान्नासौ रसव्यपदेशहेतुः । देवादिविषया रतिर्यथा
'भवहारि क्रुध्यजयविजयदण्डाहतिदलकिरीटास्ते कीटा इव विधिमहेन्द्रप्रभृतयः ।
न हितं व्रतं भगवदनुरक्तिरूपं यस्य तत्संबुद्धिः । अत एव पापात्मन्प्रह्लाद । भावित इति । उत्पादित इत्यर्थः । अवज्ञादिभिरिति । आदिना विरहादयः । यदीति । भगवतो रामस्येयमुक्तिः । सा सीता । जडेति । अचेतनजीवितेनेत्यर्थः । विफलेन विरुद्ध फलेन । नन्वत्र निर्वेदस्थायिकशान्तरसध्वनित्वमेवात आह-नित्येति । असौ निर्वेदः । भवदिति । विष्णुं प्रति भक्तोक्तिः । हे क्षपितमुर मुरजित् । जयविजयौ
१३
For Private And Personal Use Only