SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । ४६९ 1 वान्न प्रात्यक्षिकः । अनुमितिसामग्र्या बलवत्त्वान्न शाब्दः । अत एव न मानसोऽपीति सत्यं काव्यलिङ्गं प्रकृतार्थोपपादकम् । उपपत्तिश्चानुमितिरेव । व्यभिचारित्वेऽपि हेतोस्तदानीं व्यभिचारास्फूर्तेः । तथापि नानुमानालंकारस्यात्र विषयः । श्रोतुर्यलिङ्गकानुमितिबुबोधयिषया कविः काव्यं निर्मिमीते तङ्गिकमनुमानालंकृतेर्विषयः काव्यव्यापारगोचरीभूतानुमितिकरणमिति निष्कर्षः । काव्यलिङ्गज्ञानजानुमितिस्तु न कविना श्रोतुर्बुबोधयिषिता । अत एवासौ न काव्यव्यापारगोचरः । श्रोतुः केवलं कारणवशाज्जायत इति नास्त्येवात्र जायमानायामप्यनुमितावनुमानालंकृतेर्विषयः । ' तस्मिन्मणिव्रात महान्धकारे' इति वक्ष्यमाणपद्ये तु बुबोवयिषितैवानुमितिरित्यस्त्यनुमानविषयः । अपि च कविनिबद्धप्रमात्रन्तरनिष्ठा ह्यनुमितिरनुमानालंकृति प्रयोजयति । श्रोतृनिष्ठा महावाक्यार्थनिश्रयानुकूला तु काव्यलिङ्गमिति महान्विशेषः । एवं च काव्यलिङ्गातिप्रसङ्गवारणायानुमानलक्षणप्रविष्टानुमितौ काव्यव्यापारगोचरत्वं विशेषणं देयम् । यत्तु 'समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थकम्' इति कुवलयानन्दकारो लक्षणमकार्षीत्तदपि सामान्यविशेषभावानालिङ्गितत्वविशेषणरहितं चेदर्थान्तरन्यासे स्यादेवातिप्रसक्तम् । यदपि, "यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरं मेवैरन्तरितः प्रिये तव मुखच्छायानुकारः शशी । येsपि त्वगमनानुकारिगतयस्ते राजहंसा गता - स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥' 'मृग्यच दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥ ' पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूप चतुर्थपादार्थ हेतुः । उत्तरत्र तु संबोधने व्यापारयन्त्य इति मृगीविशेषणत्वेनानेकपदार्थों हेतुरुक्तः" इत्यमात्रमवधारणे । उपसंहरति - एवं चेति । अन्विति । यत इत्यादिः । न्यासे स्यादेवातिप्रसक्तमिति । प्राचीनमते समर्थनीयेत्यनेनैव वारणात् । मतान्तरे तु सामान्यविशेषभावानालिङ्गितत्वं विशेषणं देयमित्यर्थान्तरन्यासप्रकरणे तद्रन्थ एवं स्फुटम् For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy