________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
अथ सारः-- सैव संसर्गस्योत्कृष्टापकृष्टभावरूपत्वे सारः। तत्रापि पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षापकर्षाभ्यां दैविध्यम् ।
'संसारे चेतनास्तत्र विद्वांसस्तत्र साधवः ।
साधुष्वपि स्टहाहीनास्तेषु धन्या निराशयाः ॥' इमं चालंकारमेकानेकविषयत्वेन पुनर्द्विविधमामनन्ति । एकविषयतायामवस्थादिभेदाश्रयणमावश्यकम् । उत्कर्षापकर्षयोभदनियतत्वात् । नह्यवस्थादिभेदकं विना किंचिदपि वस्तु स्वापेक्षया स्वयमधिकं न्यूनं वा भवितुं प्रभवति । एकविषय उत्तरोत्तरोत्कर्षों यथा'जम्बीरश्रियमतिलङ्घय लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ । नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते खलु कनकाचलेन सार्धम् ।।'
अत्र पूर्वपूर्वावस्थाविशिष्टाभ्यां कुचाभ्यामुत्तरोत्तरावस्थाविशिष्टयोस्तयोरेवोत्कर्ष इत्येकविषयत्वम् । यद्यपि परिमाणभेदेन द्रव्यभेदोऽपि मतविशेषे शक्यते वक्तुम, तथापि कुचत्वेनाभेदाश्रयणेन तत्राप्येकविषयत्वं सूपपादम् । यदि च वक्ष्यमाण एकाश्रये क्रमेणानेकाधेयस्थितिरूपः पर्यायोऽत्र प्रतीयते तदा सोऽप्यस्तु । नहि तेन पूर्वपूर्वापेक्षयोत्तरोत्तरोत्कघरूपः सारोऽन्यथासिद्धः शक्यः कर्तुम् । अनेकविषयः स एव यथा'गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् । ।
जगदण्डादपि गुरवः प्रलयेऽप्यचला महात्मानः ॥' वेदेऽप्ययमलंकारो दृश्यते
'महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥' पूर्व तु गुणकृत उत्कर्षः, इह तु स्वरूपमात्रकृत इति विशेषः । न चात्र गुणकृत उत्कर्षों वाच्यः । पुरुषस्य निर्गुणत्वेनाभ्युपगमात् । न च तत्रापि विनाशरहितत्वादिर्गम्यमानो गुण उत्कर्षक इति वाच्यम् । तस्य
प्राग्वदाह-अथेति । तत्रापि पुरुषेऽपि॥इति रसगङ्गाधरममप्रकाशे सारप्रकरणम् ।।
५९
For Private And Personal Use Only