________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
तत्किमर्थमिति टच्छामः । व्यङ्गयस्य व्यञ्जनार्थमिति चेन्न । व्यञ्जकगतासाधारण्यस्य व्यञ्जनानुपायत्वात् ।
'औणिदं दोब्बल्लं चिन्ता अलसन्तणं सणीससिअम् ।
मह मन्दभाअणीए केरं सहि तुह वि परभवइ ।' इत्यादौ साधारणानामेवौन्निद्यादीनां वक्रादिवैशिष्टयवशादर्थविशेषव्यञ्जकताया अभ्युपगतेः । प्रत्युतासाधारण्यस्य व्याप्त्यपरपर्यायस्यानुमानानुकूलतया व्यक्तिप्रतिकूलत्वाच्च । अथ तदादिघटितत्वेऽपि न निःशेषेत्यादिवाक्यार्थानामसाधारण्यम् । सलिलावसनकरणकप्रोञ्छनादिनापि तत्संभवादिति चेत्तहि वापीस्नानव्यावर्तनेन कः पुरुषार्थः । एकत्रानैकान्तिकत्वस्येव बहुष्वनैकान्तिकताया अपि ज्ञाताया अनुमितिप्रतिकूलत्वाद्वयक्तिप्रतिकूलत्वाच्च । अपि चात्र हि तदन्तिकमेव रन्तुं गतासीति व्यङ्गयशरीरे तदन्तिकगमनं रमणरूपफलांशश्चेति द्वयं घटकम् । तत्र तावत्तदन्तिकं गतासीत्यंशस्य त्वन्मते व्यङ्ग्यत्वं दुरुपपादम् । त्वदुक्तरीत्या विशेषणवाक्यार्थानां निःशेषेतिप्रतिपाद्यानां वाच्यार्थे वापीस्नाने बाधितत्वाद्वाच्यकक्षागतप्रधानवाक्यार्थीभूतविधिनिषेधप्रतिपादकाभ्यां गता न गतेतिशब्दाभ्यां विरोधिलक्षणया निषेधस्य विधेश्च प्रतीतेरुपपत्तेः । नहि मुख्यार्थबाधेनोन्मीलितेऽर्थे व्यक्तिवेद्यतोचिता । यथा 'अहो पूर्ण सरो यत्र लुठन्तः स्नान्ति मानवाः' इत्यत्र कर्तृविशेषणानुपपत्त्यधीनोल्लासे षोऽभिहितस्तमुपपादयति-किं चेत्यादि । व्यङ्गयेति । व्यङ्गयसंभोगं प्रत्यसाधारण्यमित्यर्थः । अनुपायत्वे हेतुमाह-औणिहमिति । औनिय दौर्बल्यं चिन्तालसत्वं सनि:श्वसितम् । मम मन्दभागिन्याः कृते सखि त्वामपि परिभवति ॥ कृतकामुकसंभोगां दूती प्रत्युपभोगचिह्नस्तं ज्ञातवत्या नायिकाया इयमुक्तिः । साधारणानां रोगादितोऽपि तत्संभवात् । यथात्रैव नायिकायास्तद्वियोगतः । वक्रादीति । आदिना बोद्धव्यपरिग्रहः । ननु तस्य तदनुपायत्वेऽपि सति संभवे तत्प्रतिपादनमित्युक्तमेवात आह-प्रत्युतति । व्यक्तीति । व्यञ्जनेत्यर्थः । एवमग्रेऽपि । एवं च व्यञ्जनासिद्धिरेव न स्यादिति भावः । त. टादीत्यस्य वापीनानव्यावर्तनायेत्यादि । आदिना जलबिन्दपातादिपरिग्रहः । 'जातायाः' इति पाठः । नन्वत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्यनाधमपदेन व्यज्यत इति प्रकाशकारााक्तत्वात्स्नानव्यावृत्तिर्मया कृतात आह-अपि चोति । वन्मत इत्यनेन तेषां
For Private And Personal Use Only