________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
स्नानव्यावृत्तिद्वारा संभोगाङ्गानामाश्लेषचुम्बनादीनां प्रतिपादनेन प्रधानव्य
चव्यञ्जने साहायकमाचरन्ति' इति, तदेतदलंकारशास्त्रतत्त्वानवबोधनिबन्धनम् । प्राचीनसकलग्रन्थविरुद्धत्वादुपपत्तिविरोधाच्च । तथा हि पञ्चमोल्लासशेषे 'निःशेषेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतोऽपि भवन्ति । यतश्चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानीत्यनैकान्तिकानि' इति काव्यप्रकाशकतोक्तम् । तथा तत्रैव तेन _ 'भम धम्मिअ वीसत्थो सो सुणओ अज्ज मालिदो तेण ।
गोलाणईकच्छकुडङ्गवासिणा दरिअसीहेण ॥' इत्यादौ लिङ्गजलिङ्गिज्ञानरूपेणानुमानेन व्यक्तिं गतार्थयतो व्यक्तिविवेककृतो मतं प्रत्याचक्षाणेन व्यभिचारित्वेनासिद्धत्वेन च संदिह्यमानादपि लिङ्गाद्वयञ्जनमभ्युपगतम् । इत्थमेव च ध्वनिकतापि प्रथमोद्योते । एवं च व्यञ्जकानां साधारण्यं प्रतिपादयतां प्रामाणिकानां ग्रन्थैः सहासाधारंण्यं प्रतिपादयतस्तव ग्रन्थस्य विरोधः स्फुटः । किं च यदिदं निःशेषेत्याद्यवान्तरवाक्यार्थानां वापस्निानव्यावृत्तिद्वारेण व्यङ्गयासाधारण्यं संपाद्यते
वाह-उत्तरीयेत्याद्याचरन्तीत्यन्तेन । इत्यादीत्यादिना प्रातर्दत्तमञ्जनं कालविलम्बन किंचिद्विलप्तमित्यन्यथासिद्धिपरिहाराय दूरमिति । अत्यर्थमित्यापाततोऽर्थः । एतेन कालान्यथासिद्धिनिरासः । पुनः स्नानसाधारण्यव्यावर्जनेन संभोगचिह्नोद्धाटनाय दूरे प्रान्त इति हृदयस्थितोऽर्थः । कालतः स्नानेन सर्वतोऽअनलोपः स्यात्तव तु लोचनयोः क्वचित्प्रान्त एवानअनत्वमिदं चुम्बनकृतमेवेत्यादि परिग्रहः । वाक्यार्थी विशेषणवाक्यार्थाः। प्रधानव्यङ्गयं संभोगः । तत्र ग्रन्थविरोधमाह-पञ्चमोलासेति । अस्योक्तमित्यत्रान्वयः । गमकेति । संभोगेत्यादिः । अत्रैव निःशेषेत्यादावेव । प्रतिबद्धानि, जन्यतया न तत्रैव संबद्धानि । अनैकान्तिकानि साधारणानि । तत्रैव पञ्चमोल्लास एव । तेन प्रकाशकृता । अभ्युपगतमित्यत्रान्वयः । भ्रमेति । 'भ्रम धार्मिक विश्रब्धः स शुनकोऽद्य मारितस्तेन। गोदानदीकच्छनिकुञ्जवासिना दृप्तसिंहेन ।' कुसुमावचयार्थ कुञ्ज धार्मिकपरिभ्रमणेन खण्डितसंकेतायास्तनिवारणोक्तिरियम् । अत्र वाच्येन भीरुस्वभावस्य गृहे श्वनिवृत्त्या भ्रमणेन निकुञ्ज सिंहोपलब्ध्या भ्रमणनिषेधो व्यङ्ग्यः । इत्थमेवति । उक्तं स्वीकृतं चे. त्यर्थः । ननु तैः साधारण्ये व्यञ्जने स्वीकृतेऽसाधारण्ये सुतरामङ्गीकृतम्, प्रकृते च तथा संभवान्मयोपपादितमिति कस्तर्विरोध इति चेत्सत्यम्, अत एवोपपत्तिविरोधोऽपरो दो
For Private And Personal Use Only